१०३

त्र्युतरशततमः सर्गः १०३

श्रीवसिष्ठ उवाच ।

परस्मादुत्थितं चेतस्तत्कल्लोल इवार्णवात् ।
स्फारतामेत्य भुवनं तनोतीदमितस्ततः ॥ १ ॥

अविवेकस्य मनसो या यात्रानर्थकारिता ।
मुमुक्षूणां विवेकाय सा सर्वात्र प्रपञ्च्यते ॥ १ ॥

अनर्थार्थमेव परस्मान्मनस उत्पत्तिरिति दर्शयति - परस्मादिति ॥ १ ॥

ह्रस्वं दीर्घं करोत्याशु दीर्घं नयति खर्वताम् ।
स्वतां नयत्यन्यदलं स्वं तथैवान्यतामपि ॥ २ ॥

मनसो वस्तुस्वभावविरुद्धकल्पनसामर्थ्यं दर्शयति - ह्रस्वमित्यादिना
। ह्रस्वं नेत्रसन्निहिताङ्गुल्यादि
अतिविस्तृतसूर्यमण्डलाद्याच्छादकत्वकल्पनेन दीर्घं आशु करोति । दीर्घं
सूर्यमण्डलादि खर्वतां ह्रस्वताम् । एवमात्मानात्मनोः
स्वरूपविनिमयकल्पनमपि मन एव करोतीत्याह - स्वतामिति ॥ २ ॥

प्रादेशमात्रमपि यद्वस्तुभावनयैव तत् ।
स्वयं सम्पन्नयेवाशु करोत्यद्रीन्द्रभासुरम् ॥ ३ ॥

स्वयमात्मभावेन सम्पन्नयेव । भावनया कल्पनया ॥ ३ ॥

लब्धप्रतिष्ठं परमात्पदादुल्लसितं मनः ।
निमेषेणैव संसारान्करोति न करोति च ॥ ४ ॥

कुतोऽस्येदृशं सामर्थ्यं तत्राह - लब्धप्रतिष्ठमिति । ब्रह्मसत्तया
विचित्रशक्त्युपबृंहितत्वेन लब्धसत्ताकमित्यर्थः ॥ ४ ॥

यदिदं दृश्यते किञ्चिज्जगत्स्थास्नु चरिष्णु च ।
सर्वं सर्वप्रकाराढ्यं चित्तादेतदुपागतम् ॥ ५ ॥

देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम् ।
भावाद्भावान्तरं याति लोलत्वान्नटवन्मनः ॥ ६ ॥

भावाद्भावान्तरं एकवस्त्वाकारादपरवस्त्वाकारं नाट्यशास्त्रप्रसिद्धं
सञ्चारिभावभेदं च ॥ ६ ॥

सदसत्तां नयत्याशु सत्तां वा सन्नयत्यलम् ।
तादृशान्येव चादत्ते सुखदुःखानि भावितम् ॥ ७ ॥

प्। ३७२) २२१

यदाप्तं स्वयमादत्ते यथैव चञ्चलं मनः ।
हस्तपादादिसङ्घातस्तदा प्रयतते तथा ॥ ८ ॥

चञ्चलं मनः आप्तं कर्मोपस्थापितं भोग्यं यदा यथा येनैव
कल्पनाप्रकारेणानुकूलतया प्रतिकूलतया वा आदत्ते तदा
हस्तपादादिसङ्घातस्तथा तदनुसारेणैव उपादाने हाने वा प्रवर्तत इति मनस
एव सर्वव्यवहारस्वातन्त्र्यमित्यर्थः ॥ ८ ॥

ततः सैव क्रिया चित्तसमाहितफलाफलम् ।
क्षणात्प्रयच्छति लता कालसिक्तेव तादृशम् ॥ ९ ॥

सा भोग्यार्थोपस्थापिका क्रिया चित्तेन समाहितं कल्पितं फलाफलं
सुखदुःखम् ॥ ९ ॥

चित्रां क्रीडनकश्रेणीं यथा पङ्काद्गृहे शिशुः ।
करोत्येवं मनो राम विकल्पं कुरुते जगत् ॥ १० ॥

पङ्कादार्द्रमृत्पिण्डात् ॥ १० ॥

मनःसर्वजनक्रीडानृजम्बाललवेष्वतः ।
किमेतद्धि पदार्थेषु रूढं जगति कल्प्यते ॥ ११ ॥

मनःकल्पनामात्रे जगति न किञ्चिदपि रूपं वास्तवं सम्भवतीत्याह -
मन इति । अतो हेतोर्मनसो याः सर्वजनात्मना क्रीडास्तत्रत्यनृदेहादिलक्षणेषु
पङ्कलेशेषु सर्वपदार्थेषु यद्रूपं रूढं सत्यं कल्प्यते एतत्किं हि
स्यान्न किञ्चिदित्यर्थः ॥ ११ ॥

करोत्यृतुकरः कालो यथा रूपान्यथा तरोः ।
चित्तमेवं पदार्थानामेषामेवान्यतामिव ॥ १२ ॥

ऋतुकरो वसन्तादिविभागकारी । रूपाणामन्यथा अन्यताम् । पूरणगुण इति
निषेधेऽपि च्छान्दसत्वात्पूर्वोत्तरसाहचर्येण कृदन्ययस्यैव तत्र
ग्रहणाद्वा षष्ठीसमासः ॥ १२ ॥

मनोरथे तथा स्वप्ने सङ्कल्पकलनासु च ।
गोष्पदं योजनव्यूहः स्वासु लीलासु चेतसः ॥ १३ ॥

मनसश्चाघटितघटनाशक्तिः प्रसिद्धैवेति दर्शयति - मनोरथे
इत्यादिना । योजनानां व्यूहः समूहोऽपि गोष्पदमिवाल्पमित्यर्थः ॥ १३ ॥

कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
मनस्तदायत्तमतो देशकालक्रमं विदुः ॥ १४ ॥

अतो देशकालक्रमं सर्वं तदायत्तं मनोधीनं विदुः सर्वेऽपीत्यर्थः ॥ १४ ॥

तीव्रमन्दत्वसंवेगाद्बहुत्वाल्पत्वभेदतः ।
विलम्बनेन च चिरं नतु शक्तिमशक्तितः ॥ १५ ॥

ननु यदि मनः सर्वनिर्माणसमर्थ तर्हि कथमिदानीमस्माकं
सर्वसर्गाशक्तिस्तत्राह - तीव्रेति । रजोगुणोत्कर्षे तीव्रता तमस उत्कर्षे तु
मन्दतेति संवेगभेदात् आहारोपचयादुपचये बहुत्वमपचयेऽल्पत्वमिति
भेदस्तत्तद्वस्तुसर्गानुकूलोपसासनादिविलम्बनेन च प्राप्तसर्गाशक्तितो न
मनसो वास्तवीं सर्वसर्गशक्तिमपहातुं शक्नुम इत्यध्याहृत्य योज्यम् ॥ १५

व्यामोहसम्भ्रमानर्थदेशकालगमागमाः ।
चेतसः प्रभवन्त्येते पादपादिव पल्लवाः ॥ १६ ॥

अत एव व्यामोहादिसम्भवोऽपीत्याह - व्यामोहेति ॥ १६ ॥

जलमेव यथाम्भोधिरौष्ण्यमेव यथानलः ।
तथा विविधसंरम्भः संसारश्चित्तमेव वा ॥ १७ ॥

कार्यस्य कारणानन्यत्वाच्चित्तमात्रमेव सर्वमित्याह - जलमेवेति ।
वाशब्दः पादपूरणार्थः ॥ १७ ॥

सकर्तृकर्मकरणं यदिदं चेत्यमागतम् ।
द्रष्टृदर्शनदृश्याढ्यं तत्सर्वं चित्तमेव च ॥ १८ ॥

चेत्यं भोक्तृभोग्यभोगरूपानर्थात्मकम् [भोक्तृ इति पदं क्वचिन्न
पठ्यते] । तथाच नवविधोऽपि संसारश्चित्तमेवेत्यर्थः ॥ १८ ॥

चित्तं जगन्ति भुवनानि वनान्तराणि
संलक्ष्यते स्वयमुपागतमात्मभेदैः ।
केयूरमौलिकटकैश्च लसत्स्वरूपं
त्यक्त्वैव काञ्चनधियेव जनेन हेम ॥ १९ ॥

सर्वं चित्तमेवेति येनोपायेन संलक्ष्यते तं दर्शयन्नुपसंहरति -
चित्तमिति । यथा काञ्चनतत्त्वपरीक्षकजनेन
केयूरमौलिभूषणकटकैश्चादन्यैश्च
रुचकाद्याकारैर्लसत्कल्पितनानास्वरूपं त्यक्त्वैव
शुद्धकाञ्चनमात्रप्रणिहितधिया परीक्ष्यमाणं तत्त्वतो हेम लक्षयितुं
शक्यते न केयूरादिरचनावैचित्र्यव्यामूढधिया तथा विवेकिनापि जगति
तदन्तर्गतभुवनानि तदन्तर्गतवनान्तरादिसर्ववस्तूनि च आत्मभेदैः
स्ववैचित्र्यिश्चित्तमेव स्वयमुपागतं चित्तमात्रमेव न चित्ताद्वस्त्वन्तरमिति
तत्त्वं संलक्ष्यत इत्यर्थः ॥ १९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे
चित्तमाहात्म्यं नाम त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तमाहात्म्यं
नाम त्र्युत्तरशततमः सर्गः ॥ १०३ ॥