द्व्युत्तरशततमः सर्गः १०२
श्रीवसिष्ठ उवाच ।
स्वसङ्कल्पवशान्मूढो मोहमेति न पण्डितः ।
अक्षये क्षयसङ्कल्पान्मुह्यते शिशुरेव हि ॥ १ ॥
इहाहङ्कारसङ्कल्पक्षयोपायो निरूप्यते ।
विवेको नात्मवर्गस्य नित्यता च परात्मनः ॥ १ ॥
मूढोऽज्ञः । अक्षये परमात्मनि क्षीयत इति क्षयो नश्वरात्मा तत्सङ्कल्पात् ।
शिशुर्बालः । मुह्यते बिभेति ॥ १ ॥
श्रीराम उवाच ।
कोऽसौ सङ्कल्पितः केन क्षयो ब्रह्म्वविदां वर ।
असतैव महामोहं येनादात्तत्सदैव हि ॥ २ ॥
क्षयसङ्कल्पादिति हेतूक्तौ सङ्कल्पकर्तृकर्मणी विशिष्य जिज्ञासमानो रामः
पृच्छति - कोऽसाविति । असौ सङ्कल्पितः क्षयः कः केन च सङ्कल्पितो
येनायमात्मा असतैव निमित्तेन महामोहं संसारभ्रमं आ अदात् उपात्तवान् ।
अयं भावः - किं नित्यात्मा नश्वरात्मानं सङ्कल्पयति उत
नश्वरात्मैव । नाद्यः तस्य स्वात्मस्वभावविरुद्धसङ्कल्पकत्वायोगात् । न
द्वितीयः । आत्माश्रयापत्तेः । तथा सङ्कल्पितो नश्वरात्मापि किं जड उत
चिद्रूपः नाद्यः । आत्मतादात्म्यानापातात् । न द्वितीयः । चितः
सङ्कल्पविषयत्वायोगादिति ॥ २ ॥
श्रीवसिष्ठ उवाच ।
असता भूतसन्धेन क्षयोऽहङ्कारनामधृक् ।
वेतालः शिशुनेवेह मिथ्यैव परिकल्पितः ॥ ३ ॥
यद्यद्भवन्ति तदा भवन्ति इति श्रुतेः
प्राक्तनसिंहव्याघ्रादिभूतसङ्घात्मभावसंस्कारसम्भृता##-
चिदचित्संवलनात्मकसिंहव्याघ्राद्यहङ्कारात्मकनश्वरात्म##-
अविद्योपहितेन परमात्मना तत्तदहङ्कारनामधृक् क्षयो नश्वरात्मा ॥ ३ ॥
एकस्मिन्नेव सर्वस्मिन्स्थिते परमवस्तुनि ।
कुतः कोऽयमहं नाम कथं नाम किलोदितः ॥ ४ ॥
नन्वहङ्कारस्यात्मस्वभावतैव किं न स्यात्कुतो मिथ्यात्वं तत्राह -
एकस्मिन्निति । सर्वस्मिन् पूर्णे ॥ ४ ॥
वस्तुतो नास्त्यहङ्कारः परमात्मन्यभेदिनि ।
असम्यग्दर्शनान्मार्गीसरित्तीव्रातपे यथा ॥ ५ ॥
मार्गीसरित् मृगतृष्णानदी ॥ ५ ॥
मनोमणिमहारम्भः संसार इति लक्ष्यते ।
आत्मनात्मानमाश्रित्य स्फुरत्यन्तर्यथाम्भसा ॥ ६ ॥
मनोलक्षणस्य मणेश्चिन्तामणेर्महान् आरम्भः कार्यजातसर्गः । तर्हि किं
मनस एव स्वातन्त्र्यं नेत्याह - आत्मानमाश्रित्येति । अम्भसा अम्भ इति
शेषः ॥ ६ ॥
असम्यग्दर्शनं तेन त्यज राम निराश्रयम् ।
साश्रयं सत्यमानन्दि सम्यग्दर्शनमाश्रय ॥ ७ ॥
असम्यग्दर्शनं भ्रान्तिम् । निराश्रयं असद्विषयम् । साश्रयं
सत्यार्थविषयम् ॥ ७ ॥
धिया विचारधर्मिण्या मोहसंरम्भहीनया ।
विचारयाधुना सत्यमसत्यं सम्परित्यज ॥ ८ ॥
तत्र क उपायस्तत्राह - धियेति ॥ ८ ॥
अबद्धो बद्ध इत्युक्त्वा किं शोचसि मुधैव हि ।
अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते ॥ ९ ॥
प्। ३७०) २२०
नानाऽनानात्वकलना त्वविभिन्नमहात्मनि ।
सर्वस्मिन्ब्रह्मतत्त्वेऽस्मिन्किं बद्धं किं विमुच्यते ॥ १० ॥
नानाऽनानात्वकलना भेदाभेदभ्रान्तिः । अस्मिन्सर्वस्मिन्बाधेन ब्रह्मतत्त्वे
तन्मात्रपरिशेषे सतीत्यर्थः ॥ १० ॥
अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किञ्च ताम्यति ।
भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते ॥ ११ ॥
अच्छेद्याभेद्यात्मदर्शने देहच्छेदभेदादिप्रयुक्तदुःखस्यापि नावसरः
किं पुनरन्यस्येत्याशयेनाह - अनार्त इति । आर्तिमति देहे तथा भाति ॥ ११ ॥
देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता ।
भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति ॥ १२ ॥
भस्त्रामापूरयतीति भस्त्रापूरो वायुः ॥ १२ ॥
देहः पततु वोदेतु का नः क्षतिरुपस्थिता ।
को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ॥ १३ ॥
प्रक्षते नष्टे । आमोदो गन्धः ॥ १३ ॥
आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः ।
आकाशोड्डयनालीनां का नः क्षतिरुपस्थिता ॥ १४ ॥
उड्डीयते अस्मिन्नित्युड्डयनम् । अधिकरणे ल्युट् । आकाश उड्डयनं येषां
तथाविधानामलीनां भ्रमराणां नः । उडुपनालीनाम् इति पाठे
आकाशस्थानां
उडुपाश्चन्द्रशुक्रबृहस्पत्यादयस्ताराश्रेष्ठास्तल्लक्षणानां नालीनां
पद्मानाम् रलयोरभेदादुडुपस्य चन्द्रस्य नारीणामश्विन्यादिसर्वताराणां
च ॥ १४ ॥
देहः पततु वोदेतु यातु वा गगनान्तरम् ।
तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः ॥ १५ ॥
यथा पयोदमरुतोर्यथा षट्पदपद्मयोः ।
तथा राघव सम्बन्धस्त्वच्छरीरत्वदात्मनोः ॥ १६ ॥
अभ्युपगतेऽपि सम्बन्धे अलेपके आत्मनि न
तत्प्रयुक्तदुःखप्रसक्तिरित्याशयेनाह - यथेति । पयोदमरुतोर्मेघवाय्वोः
॥ १६ ॥
मनो राम शरीरं हि जगतः सकलस्य च ।
आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन ॥ १७ ॥
शरीरादिसर्वजगतो मनोमात्रत्वादपि सति मनसि न शरीरादिनाशप्रयुक्तः
शोको युक्तः किं पुनरात्ममात्रत्वादित्याशयेनाह - मन इति ।
शरीरशब्दः स्वरूपवचनः । तत्र हेतुः - आद्या शक्तिरिति । यतो मनो जगत
आद्या कारणीभूता शक्तिः चिदात्मा तु मनसोऽपि अधि उपरि अतस्तन्नाशभ्रान्तिः
सर्वथा न युक्तेत्यर्थः ॥ १७ ॥
योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति ।
न नश्यति कदाचिच्च किं मुधा परितप्यसे ॥ १८ ॥
आत्मनाशादिभ्रान्तेरेव सर्वशोकादिमूलत्वात्तां पुनः पुनर्वारयन्नाह ##-
विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा ।
यात्यनन्तपदं व्योम तथात्मा देहसङ्क्षये ॥ १९ ॥
संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति ।
ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा ॥ २० ॥
यः कुण्डबदरन्यायो यो घटाकाशयोः क्रमः ।
स्थितिर्देहात्मनोः सैव सविनाशाविनाशयोः ॥ २१ ॥
आत्मनो देहान्तरवस्थितिर्वस्तुतो नास्त्येव । अभ्युपगमेऽपि न
देहनाशात्तन्नाशप्रसक्तिरित्याशयेनाह - य इति । क्रमो न्यायः । स्थितिरपि
न्यायः । सा तादृश्येव ॥ २१ ॥
बदरं हस्तमायाति यथा स्फुटति कुण्डके ।
आत्मा गगनमायाति तथा चलति देहके ॥ २२ ॥
आद्यं कुण्डबदरन्यायं प्रकृते उपपादयति - बदरमिति । आत्मा जीवः
गगनं वासनाकाशम् । चलति नश्यति सति । तथाच श्रुतिः - जीवापेतं वाव
किलेदं म्रियते न जीवो म्रियते इति ॥ २२ ॥
कुम्भे गच्छत्यकुम्भत्वं कुम्भाकाशो यथाम्बरे ।
तिष्ठत्येवमयं क्षीणे देहे देही निरामयः ॥ २३ ॥
द्वितीयमुपपादयति - कुम्भे इति । अकुम्भत्वं नाशम् ॥ २३ ॥
मनोदेहो हि जन्तूनां देशकालतिरोहितः ।
मुहुर्मृतिपटाच्छन्नः शठे किं परिदेवना ॥ २४ ॥
मरणं मृतिस्तल्लक्षणेन पटेन मुहुराच्छन्नो भवति । शठे वञ्चके
अस्मिन्मनसि किं का परिदेवना अयुक्तेत्यर्थः ॥ २४ ॥
देशकालतिरोधाने मूढोऽपि मरणे नरः ।
किं बिभेति महाबाहो नेह पश्यति कश्चन ॥ २५ ॥
किं तर्हि मरणं तदाह - देशेति । गृहादिदेशे चरमश्वासकाले परेषां
दृष्ट्वा आत्मनस्तिरोधानमात्रं मरणमित्यर्थः । नेह पश्यति
कश्चनात्मनाशमिति शेषः ॥ २५ ॥
अतस्त्वं वासनां राम मिथ्यैवाहमिति स्थिताम् ।
त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् ॥ २६ ॥
पक्षी सञ्जातपक्षः पक्षिशिशुः । स्वपरिच्छेदकमण्डकं शिथिलमण्डमिव
॥ २६ ॥
एषा हि मानसी शक्तिरिष्टानिष्टनिबन्धनी ।
अनयैव मुधा भ्रान्त्या स्वप्नवत्परिकल्पना ॥ २७ ॥
इष्टानिष्टयोः रागद्वेषाभ्यां निबन्धनी अभिनिवेशबन्धनकरी ॥ २७ ॥
अविद्यैषा दुरन्तैषा दुःखायैषा विवर्धते ।
अपरिज्ञानमानैषा तनोतीदमसन्मयम् ॥ २८ ॥
अविद्याविलासत्वादविद्या ॥ २८ ॥
एषा तुच्छवदाका"अं तुषारमलिनं यथा ।
परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः ॥ २९ ॥
तुषारैर्मलिनं धूसरितम् । तथा दर्शनं मनसः स्वभाव इत्याह -
स्वरूपस्येति ॥ २९ ॥
असदेवेदमारम्भमन्थरं सदिवोत्थितम् ।
कल्पितं जगदाभोगि दीर्घस्वप्न इवैतया ॥ ३० ॥
भावनामात्र एवास्याः स्वरूपं कर्तृतां गतम् ।
जगन्नामाविलं चक्षुर्व्योम्नि बिम्बरुचामिव ॥ ३१ ॥
ननु मनोव्यापाराणां सर्वेषां प्रत्यक्षत्वाज्जगन्निर्मातृता कुतः
सर्वैर्नानुभूयते तत्राह - भावनेति । अस्याः स्वरूपं
जगदाकारभावनामात्रे एव कर्तृतां गतं न तदतिरिक्तनिर्माणे ।
मिथ्यार्थानां दर्शनातिरिक्तनिर्माणाप्रसिद्धेः । तदेव जगन्नाम प्रसिद्धम् ।
यथा आविलं तिमिरादिदुष्टं चक्षुर्व्योम्नि पिच्छकेश्ॐड्रकाद्याकाराणां
सूर्यचन्द्रादिबिम्बरुचां विभावनामात्रेण कर्तृतद्वदित्यर्थः । विभावनं
तु प्रत्यक्षमेवेति भावः ॥ ३१ ॥
प्। ३७१) २२०
लयमस्याः स्वरूपं त्वं नय राम विचारणात् ।
यथा हिमशिलायास्तु तपनाद्दिवसाधिपः ॥ ३२ ॥
अत एव ह्यविचारद्वैतभावनामात्रसिद्धस्य
विचारजन्यज्ञानमात्राल्लयसिद्धिरिति विचारः कार्य इत्याह - लयमिति । यथा
दिवसाधिपः सूर्यस्तपनात्स्वातपाद्धिमशिलायाः स्वरूपं लयं नाशं
नयति तद्वत् ॥ ३२ ॥
हिमाभावार्थिनोऽर्कस्य स्वोदयेनेप्सितं यथा ।
सिद्ध्यत्येवं विचारेण मनोनाशार्थिनोऽर्थितम् ॥ ३३ ॥
अर्थितमभिलषितो मनोनाशः ॥ ३३ ॥
अविद्याऽसम्प्रबुद्धा हि विततानर्थदुर्गमा ।
नानेन्द्रजालकलनां शम्बरो हेम वर्षति ॥ ३४ ॥
एकस्मिन्मनसि नष्टेऽपि पुनरविद्यया मन आदिबन्धजन्मप्रसक्तिमाशङ्क्याह
- अविद्येति । हि यस्मादविद्याकादम्बिनी असम्प्रबुद्धा अविज्ञातात्मतत्त्वा
यदा तदैव शम्बरोऽसुरविशेष इव नानेन्द्रजालकलनारूपमसदेव हेम
वर्षति नतु सम्प्रबुद्धा तदा निःस्वरूपत्वादित्यर्थः ॥ ३४ ॥
स्वविनाशक्रियां चैतां मन एव करोत्यलम् ।
मनो ह्यात्मवधं नाम नाटकं परिनृत्यति ॥ ३५ ॥
एवञ्च मन एव चिरं जगद्रूपेण नृत्यदन्ते विद्यात्मकपरिणामेन
साविद्यस्वविनाशं करोतीति फलितमित्याह - स्वविनाशक्रियामिति ।
आत्मवधं स्वसंहारं नाम नाटकं स्वरचितग्रन्थं परिलक्षीकृत्य
नृत्यति ॥ ३५ ॥
आत्मानमीक्षते चेतः स्वविनाशाय केवलम् ।
नहि जानाति दुर्बुद्धिर्विनाशं प्रत्युपस्थितम् ॥ ३६ ॥
स्वयं सङ्कल्पमात्रेण स्वविनाशदृशामिदम् ।
मनः संसाधयत्याशु क्लेशो नात्रोपयुज्यते ॥ ३७ ॥
स्वविनाशदृशां मनोनाशोपायमन्विष्यतां विवेकिनामिदं मनोनाशनं
मनः स्वयमेव सङ्कल्पनमात्रेण आशु संसाधयति ॥ ३७ ॥
स्वसङ्कल्पविकल्पांशं विवेकोपहितं मनः ।
सन्त्यज्य रूपमाभोगि करोत्यात्मावबोधनम् ॥ ३८ ॥
विवेकेन उपहितं संस्कृतं मनः प्राक्तनं स्वसङ्कल्पविकल्पांशं
सन्त्यज्य आभोगि ब्रह्माकारविस्तारं आत्मावबोधनं
स्वात्मसाक्षात्कारवृत्त्यात्मकरूपं खं परिणामं करोति ॥ ३८ ॥
महोदयो मनोनाशो महोच्छेदस्य तूदयः ।
मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे ॥ ३९ ॥
महोदयः परमपुरुषार्थलाभः । महोच्छेदः सर्वदुःखोच्छेदः । जवे
बहिर्व्यापारे ॥ ३९ ॥
अविरलसुखदुःखवृक्षखण्डे
विषमकृतान्तमहोरगे वनेऽस्मिन् ।
प्रभुरिदमखिले विवेकहीनं
सुभग मनो महदापदेकहेतुः ॥ ४० ॥
उक्तार्थोपेक्षणे अनर्थापातं दर्शयन्नुपसंहरति - अविरलेति । अविरला
निबिडाः सुखदुःखात्मका वृक्षखण्डा यस्मिन् । विषमः कृतान्तो
मृत्युर्महोरगो यस्मिंस्तथाविधे । अखिले अनुच्छेद्ये अस्मिन् संसारलक्षणे
असिपत्रवने इदं विवेकहीनं मन एव प्रभुर्दुरन्तदुःखहेतुरित्यर्थः ॥ ४० ॥
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे दे० मो०
उपदेशकरणं नाम द्व्युत्तरशततमः सर्गः ॥ १०२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे उपदेशकरणं
नाम द्व्युत्तरशततमः सर्गः ॥ १०२ ॥