१०१

एकाधिकशततमः सर्गः १०१

श्रीराम उवाच ।

किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः ।
क्रमेण कथयैतन्मे मनोवर्णनकारणम् ॥ १ ॥

सङ्कल्पादर्थशून्याया विकल्पशतसंसृतेः ।
दृष्टान्तो वर्ण्यतेऽत्रैव बालकाख्यायिकाक्रमः ॥ १ ॥

सङ्कल्पविकल्पात्मकस्य मनसः सङ्कल्पो मूलं तन्निरोधे
मूलोच्छेदाद्विकल्पानुत्थाने निर्विकल्पपदप्रतिष्ठासिद्धिरिति सूचनाय
प्रागवतारितां बालकाख्यायिकां श्रोतुकामो रामः पृच्छति - किमुच्यत
इति । पदसंस्कारपक्षमाश्रित्य किमेतदित्यनयोः सामान्ये नपुंसकत्वम् ।
बालकाख्यायिकालक्षणः क्रमो दृष्टान्तः किम्प्रकारो लोके उच्यते एतत्क्रमेण
कथयेत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव ।
काञ्चिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति ॥ २ ॥

मुग्धमतिर्युक्तायुक्तविवेकशून्यः ॥ २ ॥

सा बालस्य विनोदाय धात्री तस्य महामते ।
आख्यायिकां कथयति प्रसन्नमधुराक्षसम् ॥ ३ ॥

क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः ।
धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने ॥ ४ ॥

अत्यन्तासति पत्तने इति प्रधानराजधान्युक्तिः ॥ ४ ॥

विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः ।
द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः ॥ ५ ॥

शून्यानि नगराणि शाखानगराणि यस्मिन्निति तद्विशेषणम् ।
जलमय्यस्तारकाश्चन्द्रांशत्वात् ॥ ५ ॥

प्। ३६८) २१९

अथात्युत्तमलाभार्थं कदाचित्समवायतः ।
विबन्धवः खिन्नमुखाः शोकोपहतचेतसः ॥ ६ ॥

ते कदाचिद्विबन्धवो दैवान्मृतबान्धवा दुर्भिक्षादिना खिन्नमुखाश्च
सन्तः समवायतः स्वनागरसमाजात् परस्परैकमत्यतो वा उत्तमस्य
नगरान्तरस्य लाभार्थं निर्जग्मुरिति शेषः ॥ ६ ॥

ते तस्माच्छून्यनगरान्निर्गता वितताननाः ।
गगनादिव संश्लिष्टा बुधशुक्रशनैश्चराः ॥ ७ ॥

संश्लिष्टा मिलिताः ॥ ७ ॥

शिरीषसुकुमाराङ्गाः पृष्ठतोऽर्केण तापिताः ।
मार्गेऽहनि गता ग्रीष्मतापार्ताः पल्लवा इव ॥ ८ ॥

गताः म्लानतामिति शेषः ॥ ८ ॥

सन्तप्तमार्गसिकतादग्धपादसरोरुहाः ।
हा तात चेति शोचन्तो मृगा यूथच्युता इव ॥ ९ ॥

दर्भाग्रभिन्नचरणास्तापखिन्नाङ्गसन्धयः ।
उल्लङ्घ्य दूरमध्वानं धूलिधूसरमूर्तयः ॥ १० ॥

मञ्जरीजालजटिलं फलपल्लवमालितम् ।
मृगपक्षिगणाधारं प्रापुर्मार्गे तरुत्रयम् ॥ ११ ॥

यस्मिन्वृक्षत्रये वृक्षौ द्वौ न जातौ मनागपि ।
बीजमेव तृतीयस्य स्वारोहस्य न विद्यते ॥ १२ ॥

वृक्षत्रय इति निर्धारणे सप्तमी । स्वारोहस्य सुखेनारोढुं शक्यस्य ॥ १२ ॥

विश्रान्तास्ते परिश्रान्तास्तत्रैकस्य तरोरधः ।
पारिजाततले स्वर्गे शक्रानिलयमा इव ॥ १३ ॥

फलान्यमृतकल्पानि भुक्त्वा पीत्वा च तद्रसम् ।
कृत्वा गुलुच्छकैर्मालां चिरं विश्रम्य ते ययुः ॥ १४ ॥

गुलुच्छकैस्तल्लताविशेषमञ्जरीभिः ॥ १४ ॥

पुनर्दूरतरं गत्वा मध्याह्ने समुपस्थिते ।
सरित्त्रितयमासेदुस्तरङ्गतरलारवम् ॥ १५ ॥

तत्रैका परिशुष्कैव मनागप्यम्बु न द्वयोः ।
विद्यते सरितोर्दृष्टिरन्धलोचनयोरिव ॥ १६ ॥

सरितोरिति कर्मणि षष्ठी । दृष्टिर्दर्शनम् ।
अन्धलोचनयोरन्धलोचनाभ्यामिवात्यन्तासतीत्यर्थः । करणताशक्तेरेव
सम्बन्धसामान्यात्मना विवक्षणात्षष्ठी अन्धस्य
लोचनयोर्गोलकयोर्दृष्टिरिन्द्रियमिव सरितोरम्बु न विद्यत इति वा ॥ १६ ॥

परिशुष्का भृशं यासौ तस्यां ते सस्नुरादृताः ।
घर्मार्ता इव गङ्गायां ब्रह्मविष्णुहरा इव ॥ १७ ॥

घर्मार्ता जना इव ब्रह्मविष्णुहरा गङ्गायामिव चेति पृथक्कृत्य योज्यम् ॥
१७ ॥

चिरं कृत्वा जलक्रीडां पीत्वा क्षीरोपमं पयः ।
जग्मुस्ते राजतनयाः प्रहृष्टमनसः स्वयम् ॥ १८ ॥

अभिलषितनगरप्राप्तौ प्रहृष्टमनसः ॥ १८ ॥

अथासेदुर्दिनस्यान्ते लम्बमाने दिवाकरे ।
भविष्यन्नवनिर्माणं नगरं नगसन्निभम् ॥ १९ ॥

नगसन्निभं पर्वतप्रांशु ॥ १९ ॥

पताकापद्मिनीव्याप्तं नीलाकाशजलाशयम् ।
दूरश्रुतसमुल्लापगायन्नागरमण्डलम् ॥ २० ॥

ऊर्ध्वं पताकाभिरधः पद्मिनीभिश्च व्याप्तम् । नीलाकाशा इव सुन्दराः
शून्या वा जलाशया यत्र । समुल्लापाः स्वरमूर्च्छनाः ॥ २० ॥

ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते ।
मणिकाञ्चनगेहानि शृङ्गाणीव महागिरेः ॥ २१ ॥

अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै ।
अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः ॥ २२ ॥

तत्र तेषु त्रिषु मध्ये अभित्तिमन्दिरं ते प्रविष्टाः ॥ २२ ॥

सम्प्रविश्योपविश्याशु विहरन्तो वराननाः ।
प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम् ॥ २३ ॥

तत्र कर्परतां याते द्वे एका चूर्णतां गता ।
जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः ॥ २४ ॥

कर्परतां कपालताम् ॥ २४ ॥

द्रोणैर्नवनवत्या तैस्तस्यां द्रोणेन चान्धसः ।
तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः ॥ २५ ॥

तत्र तस्यां स्थाल्याम् । अन्धसः ओदनप्रकृतेस्तण्डुलस्य नवनवत्या
द्रोणैरेकेन च द्रोणेन हीनं न्यूनं द्रोणशतं रन्धितं पक्वम् । भावे
क्तः ॥ २५ ॥

निमन्त्रितास्त्रयस्तैस्तु ब्राह्मणा राजसूनुभिः ।
द्वौ निर्देहावथैकस्य मुखमेव न विद्यते ॥ २६ ॥

निर्मुखेनान्धसस्तत्र भुक्तं द्रोणशतं सुत ।
विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः ॥ २७ ॥

त्रिभिस्ते राजपुत्राश्च परां निर्वृतिमागताः ।
भविष्यन्नगरे तस्मिन् राजपुत्रास्त्रयो हि ते ।
सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः ॥ २८ ॥

निर्वृतिं तृप्तिम् । मृगयाभिर्व्यवहारिणः क्रीडमानाः ॥ २८ ॥

आख्यायिकैषा कथिता मया रम्या तवानघ ।
एतां हृदि कुरु प्राज्ञ विदग्धस्त्वं भविष्यसि ॥ २९ ॥

विदग्धः पण्डितः ॥ २९ ॥

धात्र्येति कथिता राम बालकाख्यायिका शुभा ।
तुष्टिं जगाम बालश्च शुभाख्यायिकयानया ॥ ३० ॥

एषा हि कथिता राम चित्ताख्यानकथां प्रति ।
बालकाख्यायिका तुभ्यं मया कमललोचन ॥ ३१ ॥

चित्ताख्यानानन्तरं प्रवृत्ता या जगत्प्रत्ययस्य विकल्पमात्रत्वकथा तां
प्रति तदुदाहरणत्वेनेत्यर्थः ॥ ३१ ॥

इयं संसाररचना स्थितिमेवमुपागता ।
बालकाख्यायिकेवोग्रैः सङ्कल्पैर्दृढकल्पितैः ॥ ३२ ॥

स्थितिं दार्ढ्यम् । एवं विकल्पमात्ररूपा । बालकाख्यायिकाशब्देन
तज्जन्यबालप्रतीतिर्लक्षणया गृह्यते ॥ ३२ ॥

विकल्पजालकैवेयं प्रतिभासात्मिकानघ ।
बन्धमोक्षादिकलनारूपेण परिजृम्भते ॥ ३३ ॥

तदेव स्पष्टमाह - विकल्पेति । विकल्पा एव जालकानि यस्यामिति विग्रहे
समासादुत्पन्नस्य टापः सुपः परत्वात् प्रत्ययस्थात्कात्पूर्वस्य
इत्यस्याप्रवृत्तिः ॥ ३३ ॥

प्। ३६९) २१९

सङ्कल्पमात्रादितरद्विद्यते नेह किञ्चन ।
सङ्कल्पवशतः किञ्चिन्न किञ्चित्किञ्चिदेव वा ॥ ३४ ॥

विकल्पानां च सङ्कल्पकार्यत्वात्तद्व्यतिरेकेणासत्त्वमित्याशयेनाह -
सङ्कल्पमात्रादिति । यतो यत्किञ्चिद्विकल्परूपं भाति तत्सर्वं सङ्कल्पवशतो
भाति । विकल्पभातं च किञ्चिन्नैव किञ्चिद्वा भवति । शब्दज्ञानानुपाती
वस्तुशून्यो विकल्पः इति पतञ्जलिना तथा तल्लक्षणोक्तेरिति भावः ॥ ३४ ॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
सङ्कल्पकचितं सर्वमेवं स्वप्नवदात्मनः ॥ ३५ ॥

युक्तमेव विशिष्य प्रपञ्चयति - द्यौरिति । क्षमा पृथ्वी ॥ ३५ ॥

राजपुत्रास्त्रयो नद्यो भविष्यन्नगरे यथा ।
यथा सङ्कल्परचना तथेयं हि जगत्स्थितिः ॥ ३६ ॥

सङ्कल्पमात्रमभितः परिस्फुरति चञ्चलः ।
पयोमात्रात्मकोऽभोधिरम्भसीवात्मनात्मनि ॥ ३७ ॥

चञ्चलः अम्भोधिः ॥ ३७ ॥

सङ्कल्पमात्रं प्रथममुत्थितं परमात्मनः ।
तदिदं स्फारतां यातं व्यापारैर्दिवसं यथा ॥ ३८ ॥

व्यापारैः सूर्यव्यापारैर्जनव्यापारैश्च ॥ ३८ ॥

सङ्कल्पजालकलनैव जगत्समग्रं
सङ्कल्पमेव ननु विद्धि विलासचेत्यम् ।
सङ्कल्पमात्रमलमुत्सृज निर्विकल्प-
माश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ॥ ३९ ॥

तथाच सङ्कल्पत्यागमात्रेण निर्विकल्पस्वरूपावस्थितिरिति दर्शयन्नुपसंहरति

  • सङ्कल्पेति । मनोविलासा रागादिवृत्तयस्तच्चेत्यानि च तेषां समाहारम् ।
    सङ्कल्पत्यागे च निर्विकल्पात्मनिश्चय एव हेतुरित्याह - आश्रित्येति ॥ ३९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे
बालकाख्यायिकानामैकोत्तरशततमः सर्गः ॥ १०१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
बालकाख्यायिकानामैकोत्तरशततमः सर्गः ॥ १०१ ॥