शततमः सर्गः १००
श्रीवसिष्ठ उवाच ।
चित्तमेतदुपायातं ब्रह्मणः परमात्पदात् ।
अतन्मयं तन्मयं च तरङ्गः सागरादिव ॥ १ ॥
वर्ण्यतेऽत्र मनःशक्त्या ब्रह्मणः सर्वशक्तिता ।
अज्ञानमात्रादद्वैते बन्धमोक्षादिकल्पना ॥ १ ॥
मनोधीनैव बन्धमोक्षकल्पनेति यदुक्तं तत्रोपपत्तिमाह - चित्तमित्यादिना
। अतन्मयमब्रह्मभूताज्ञानविकारः । तन्मयं शुद्धब्रह्मविवर्तश्च ।
यथा तरङ्गो जलविकारस्तत्सत्ताविवर्तश्च तद्वदित्यर्थः ॥ १ ॥
प्रबुद्धानां मनो राम ब्रह्मैवेह हि नेतरत् ।
जलसामान्यबुद्धीनामब्धेर्नान्यस्तरङ्गकः ॥ २ ॥
जलसामान्यं जलसत्ता ॥ २ ॥
मनो रामाप्रबुद्धानां संसारभ्रमकारणम् ।
अपश्यतोऽम्बुसामान्यमन्यताम्बुतरङ्गयोः ॥ ३ ॥
अप्रबुद्धदृशां पक्षे तत्प्रबोधाय केवलम् ।
वाच्यवाचकसम्बन्धकृतो भेदः प्रकल्प्यते ॥ ४ ॥
अत एव हि उपदेश्योपदेशकशब्दार्थादिशास्त्रीयव्यवहारकल्पनापि
अज्ञपक्षमवलम्ब्यैव न तत्त्वदृशेति प्रागुक्तमित्याह - अप्रबुद्धेति ॥ ४
॥
सर्वशक्ति परं ब्रह्म नित्यमापूर्णमव्ययम् ।
न तदस्ति न तस्मिन्यद्विद्यते विततात्मनि ॥ ५ ॥
सर्वजगत्कारणत्वमप्यज्ञातस्यैव ब्रह्मणो न ज्ञातस्येत्याशयेन तस्यैव
सर्वशक्तिशालितामुपपादयति - सर्वशक्तीत्यादिना ॥ ५ ॥
सर्वशक्तिर्हि भगवान्यैव तस्मै हि रोचते ।
शक्तिं तामेव विततां प्रकाशयति सर्वगः ॥ ६ ॥
प्रकाशयति कार्यात्मना प्रकटयति ॥ ६ ॥
चिच्छक्तिर्ब्रह्मणो राम शरीरेष्वभिदृश्यते ।
स्पन्दशक्तिश्च वातेषु जडशक्तिस्तथोपले ॥ ७ ॥
शरीरेषु चतुर्विधभूतग्रामेषु ॥ ७ ॥
द्रवशक्तिस्तथाम्भःसु तेजःशक्तिस्तथाऽनले ।
शून्यशक्तिस्तथाकाशे भावशक्तिर्भवस्थितौ ॥ ८ ॥
शून्यशक्तिरनावरकत्वात्सर्वावपनशक्तिः । भावशक्तिरस्तीति
व्यवहारयोग्यता ॥ ८ ॥
ब्रह्मणः सर्वशक्तिर्हि दृश्यते दशदिग्गता ।
नाशशक्तिर्विनाशेषु शोकशक्तिश्च शोकिषु ॥ ९ ॥
नाशशक्तिः कारणे तिरोभावशक्तिः ।
शोकशक्तिराशोकजदेहजननशक्तिर्विषादशक्तिर्वा ॥ ९ ॥
आनन्दशक्तिर्मुदिते वीर्यशक्तिस्तथा भटे ।
सर्गेषु सर्गशक्तिश्च कल्पान्ते सर्वशक्तिता ॥ १० ॥
कल्पान्ते प्राकृतप्रलये प्रकृतौ सर्वशक्तिता तस्याः सर्वकार्यबीजत्वात् ।
शर्वशक्तिता इति पाठे संहारशक्तिता ॥ १० ॥
प्। ३६६) २१८
फलपुष्पलतापत्रशाखाविटपमूलवान् ।
वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ॥ ११ ॥
तदेवाह - फलेति ॥ ११ ॥
प्रतिभासवशादेव मध्यस्थं चित्तजाड्ययोः ।
जीवेतराभिधं चित्तमन्तर्ब्रह्मणि दृश्यते ॥ १२ ॥
प्रथमकार्यस्य चित्तस्य चिज्जाड्योभयरूपतादर्शनादप्यज्ञातमेव ब्रह्म
जगद्बीजमित्याशयेनाह - प्रतिभासेति । प्रतिभासोऽत्राज्ञानसाक्षी
तद्वशादेव न शुद्धवशात् ॥ १२ ॥
नानातरुलतागुल्मजालपल्लवशालयः ।
निर्विकल्पकचिन्मात्रं नानाऽनिर्ज्ञातकल्पना ॥ १३ ॥
यतोऽयं तरुगुल्मादिदृश्यप्रपञ्चोऽज्ञातचिद्विवर्तोऽतश्चिन्मात्रमेव
तत्त्वमित्याह - नानेति । अनिर्ज्ञातकल्पना अज्ञाते तत्त्वे यत इयं
कल्पनेत्यर्थः ॥ १३ ॥
ब्रह्मैवेदमहन्तत्त्वं जगत्पश्याद्य राघव ।
स आत्मा सर्वगो नाम नित्योदितमहावपुः ॥ १४ ॥
जगत् अहन्तत्त्वं अहमिति भासमानजीवतत्त्वं प्रत्यक्चिद्रूपं ब्रह्मैवेति
पश्येत्यर्थः ॥ १४ ॥
यन्मनाड्यननीं शक्तिं धत्ते तन्मन उच्यते ।
पिच्छभ्रान्तिर्यथा व्योम्नि पयस्यावर्तधीर्यथा ॥ १५ ॥
ब्रह्मैव तत्तच्छक्तिपुरस्कारेण भ्रान्त्या मन आदिशब्दैरुच्यते नान्यदित्याह
- यदित्यादिना ॥ १५ ॥
प्रतिभासकलामात्रं मनो जीवस्तथात्मनि ।
यदेतन्मनसो रूपमुदितं मननात्मकम् ॥ १६ ॥
ब्राह्मी शक्तिरसौ तस्माद्ब्रह्मैव तदरिन्दम ।
इदं तदहमित्येव विभागः प्रतिभासजः ॥ १७ ॥
शक्तितत्कार्ययोरभेदादिदमिति पुरोवर्तितया तदिति परोक्षतया अहमिति
प्रत्यक्तादात्म्येन च भासमानस्त्रिविधो दृश्यविभागः प्रतिभासजः
प्रातिभासिक एव न वास्तव इत्यर्थः ॥ १७ ॥
मनसो ब्रह्मणोऽन्यच्च मोहे परमकारणम् ।
यद्यच्चैतन्मनस्येव किञ्चित्सदसदात्मकम् ॥ १८ ॥
ननु कामकर्मवासनादिकमपि द्वैतप्रपञ्चहेतुः श्रूयते तत्कथं
ब्रह्मशक्तिरेव तद्धेतुरुच्यते तत्राह - मनस इति । मनसो जीवस्य
ब्रह्मणश्च मोहे भेदादिभ्रमे अन्यच्च कामादि यद्यत्किञ्चित्परमकारणं
व्याशब्दितं लोके तत्सर्वं मनस्येवाविर्भावतिरोभावाभ्यां सदसदात्मकं
सर्वशक्तेर्ब्रह्मणस्तां प्रागुक्तां ब्रह्मतां बृंहणशक्तिमेव विदुर्न
तदन्यदिति परेणान्वयः ॥ १८ ॥
व्याशब्दितं सर्वशक्तेस्तां शक्तिं ब्रह्मतां विदुः ।
मनः सत्तात्मकं नाम यथैतन्मनसि स्थितम् ॥ १९ ॥
ननु मनोधर्माः कामादिशक्तयः कथं ब्रह्मणि स्थिता येन तच्छक्तयः
स्युस्तत्राह - मन इति । यथा मनः सत्तात्मकं नाम ब्रह्मरूपं मनसि
संसर्गाध्यासास्थितं यथा वा ऋतोर्वसन्तादेः शक्तयो वृक्षादिषु
स्थितास्तद्वज्जीवेहा मनोधर्मा अपि ब्रह्मणि स्थिता इत्यर्थः ॥ १९ ॥
यथर्तोः शक्तयस्तद्वज्जीवेहा ब्रह्मणि स्थिताः ।
व्याप्तसर्वर्तुकुसुमा क्ष्मादेशविधिभेदतः ॥ २० ॥
यदि सर्वा जीवेहा ब्रह्मशक्तयस्तर्हि कुतो न सर्वाः सर्वजीवेषु सङ्कीर्यन्ते
तत्राह - व्याप्तेति । यथा व्याप्तसर्वर्तुकुसुमशक्तिरपि क्ष्मा
भूमिस्तत्तत्प्रदेशेषु बीजसंस्कारादिविधिभेदतो व्यवस्थयैव पुष्पादि दधाति
न सङ्करेण तथा लोककृद्ब्रह्मापि चित्तशक्तीर्व्य्वस्थया दधातीत्यर्थः ॥ २० ॥
यथा दधाति पुष्पाणि तथा चित्तानि लोककृत् ।
क्वचित्क्वचित्कदाचिद्धि तस्मादायान्ति शक्तयः ॥ २१ ॥
आयान्ति व्यवस्थितफलात्मना आविर्भवन्ति । क्ष्मातलाच्छालिशक्तय इवेत्यर्थः ॥
२१ ॥
देशकालादिवैचित्र्यात्क्ष्मातलादिव [दिह शालयः इति पाठः]
शालयः ।
न जातं प्रतिभासेन तेनैवान्येन पश्यति ॥ २२ ॥
अभ्युपेत्य चेदं प्रतियोगिव्यवच्छेदसङ्ख्यारूपादिभेदरूपं
जगद्वैचित्र्यमसङ्करो दर्शितः परमार्थतस्तत्प्रतिभासमात्रस्य
कारकत्वायोगात्प्रतिभासपृथक्कृतकारकान्तरासिद्धेश्च प्रातिभासिकं न
किञ्चिज्जातं न वा किञ्चित्केनचित्पश्यतीति मनःशब्दकल्पितब्रह्मजास्ते
ब्रह्मैवेति बुध्यस्वेत्याह - न जातमिति सार्धेन ॥ २२ ॥
प्रतियोगिव्यवच्छेदसङ्ख्यारूपादयश्च ये ।
मनःशब्दैः प्रकल्प्यन्ते ब्रह्मजान्ब्रह्म विद्धि तान् ॥ २३ ॥
यथा यथास्य मनसः प्रतिभासः प्रवर्तते ।
तथा तथैव भवति दृष्टान्तोऽत्र किलैन्दवाः ॥ २४ ॥
स्वयमक्षुब्धविमले यथा स्पन्दो महाम्भसि ।
संसारकारणं जीवस्तथायं परमात्मनि ॥ २५ ॥
जगत्कल्पको जीव एव ब्रह्मान्यो नास्ति दूरे तत्कल्पितं जगदित्याशयेनाह -
स्वयमिति ॥ २५ ॥
ज्ञस्य सर्वं चितं राम ब्रह्मैवावर्तते सदा ।
कल्लोलोर्मितरङ्गौघैरब्धेर्जलमिवात्मनि ॥ २६ ॥
चितं उपचितं पूर्णमित्यर्थः । आसमन्ताद्वर्तते ॥ २६ ॥
द्वितीया नास्ति सत्तैका नामरूपक्रियात्मिका ।
परे नानातरङ्गेऽब्धौ कल्पनेव जलेतरा ॥ २७ ॥
परे ब्रह्मणि द्वितीया सत्ता नास्ति किन्त्वेकैव ॥ २७ ॥
जायते नश्यति तथा यदिदं याति तिष्ठति ।
तदिदं ब्रह्मणि ब्रह्म ब्रह्मणा च विवर्तते ॥ २८ ॥
विवर्तते अतात्त्विकरूपेण प्रतिभासते ॥ २८ ॥
स्वात्मन्येवातपस्तीव्रो मृगतृष्णिकया यथा ।
विचित्रेण विचित्रोऽपि प्रस्फुरत्यात्मना तथा ॥ २९ ॥
मृगतृष्णिकया मृगतृष्णानद्यात्मना । विचित्रो विगतनामरूपोऽपि ॥ २९ ॥
करणं कर्म कर्ता च जननं मरणं स्थितिः ।
सर्वं ब्रह्मैव नह्यस्ति तद्विना कल्पनेतरा ॥ ३० ॥
न लोभोऽस्ति न मोहोऽस्ति न तृष्णास्ति न रञ्जना ।
क आत्मन्यात्मनो लोभस्तृष्णा मोहोऽथवा कुतः ॥ ३१ ॥
द्वितीयाभावे लोभमोहादीनां प्रसक्तिरेव नास्तीत्याह - नेति । रञ्जना
अत्यासक्तिः ॥ ३१ ॥
आत्मैवेदं जगत्सर्वमात्मैव कलनाक्रमः ।
हेमाङ्गदतयेवायमात्मोदेति मनस्तया ॥ ३२ ॥
मनस्तया मनोभावेन ॥ ३२ ॥
प्। ३६७) २१८
अबुद्धं यत्परं धाम तच्चित्तं जीव उच्यते ।
अपरिज्ञात एवाशु बन्धुरायात्यबन्धुताम् ॥ ३३ ॥
अबुद्धमज्ञानावृतम् ॥ ३३ ॥
चिन्मयेनात्मनाऽज्ञेन स्वसङ्कल्पनया स्वयम् ।
शून्यता गगनेनेव जीवता प्रकटीकृता ॥ ३४ ॥
अज्ञेनाज्ञानविषयीकृतेन यथा अशून्येनापि गगनेन शून्यता प्रकटीकृता
तद्वत् ॥ ३४ ॥
आत्मैवानात्मवदिह जीवो जगति राजते ।
द्वीन्दुत्वमिव दुर्दृष्टेः सच्चासच्च समुत्थितम् ॥ ३५ ॥
अनात्मवत् अनात्मभूताहङ्कारादितादात्म्येनाहम्प्रत्ययविषयवत् ।
विषयरूपेण द्वितीयरूपेण चासत्परमार्थैकरूपेण सच्च ॥ ३५ ॥
मोहार्थशब्दार्थदृशोरेतयोरत्यसम्भवात् ।
सत्यत्वादात्मनश्चैव क्वात्मा बद्धः क्व मुच्यते ॥ ३६ ॥
मोहार्थयोर्व्यामोहनिमित्तयोः ।
एतयोर्बन्धमोक्षशब्दार्थदृशोरत्यन्तमसम्भवात् ॥ ३६ ॥
नित्यासम्भवबन्धस्य बद्धोऽस्मीति कुकल्पना ।
यस्य काल्पनिकस्तस्य मोक्षो मिथ्या न तत्त्वतः ॥ ३७ ॥
नित्यं न सम्भवतीत्यसम्भवो बन्धो यस्य । तथाच परमार्थदृष्ट्या
काल्पनिकावपि बन्धमोक्षौ तुच्छौ । न निरोधो न चोत्पत्तिर्न बद्धो न च
साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता इति श्रुतेरिति भावः ॥ ३७ ॥
श्रीराम उवाच ।
मनो यं निश्चयं याति तत्तद्भवति नान्यथा ।
तेन काल्पनिको नास्ति बन्धः कथमिह प्रभो ॥ ३८ ॥
यौक्तिकदृशा काल्पनिकानिर्वचनीयबन्धस्य
प्राग्विस्तरेणोपपादितत्वात्काल्पनिकोऽपि बन्धो नास्तीति तुच्छतोक्तिमसहमानो
रामः पृच्छति - मन इति ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
मिथ्या काल्पनिकीवेयं मूर्खाणां बन्धकल्पना ।
मिथ्यैवाभ्युदिता तेषामितरा मोक्षकल्पना ॥ ३९ ॥
यौक्तिकदृष्टिरियं लौकिकदृष्टिदार्ढ्यविघटनाय
परमार्थदृष्टिद्वारत्वेन कल्पितेति न तत्रैव विश्रान्तिः किन्तु
श्रौततुच्छतादृष्टावेवेत्याशयेन वसिष्ठः प्रत्याह - मिथ्येत्यादिना ।
यथा काल्पनिकी स्वाप्नी कल्पना जाग्रद्दृशा मिथ्या तुच्छा तद्वत् ।
अनिर्वचनीयता न वस्तुतत्त्वं किन्तु युक्तिभिर्निर्वचनाशक्तिः । सा च
मूर्खपुरुषधर्मो न वस्तुस्वभाव इति सूचनाय मूर्खाणामित्युक्तम् ॥ ३९ ॥
एवमज्ञानकादेव बन्धमोक्षदृशोऽस्मृतेः ।
वस्तुतस्तु न बन्धोऽस्ति न मोक्षोऽस्ति महामते ॥ ४० ॥
एवं प्रागुक्तरीत्या तुच्छमज्ञानमज्ञानकं तस्मादेव
बन्धमोक्षदृशः । नाऽसतो विद्यते भावो नाऽभावो विद्यते सतः । उभयोरपि
दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ इति स्मृतिविरोधेन
सदसदान्तरालिकानिर्वचनीयताविश्रान्त्ययोगादित्यर्थः ॥ ४० ॥
कल्पनाया अवस्तुत्वं सम्प्रबुद्धमतिं प्रति ।
रज्ज्वहेरिव हे प्राज्ञ तत्त्वबुद्धमतिं प्रति ॥ ४१ ॥
अवस्तुत्वं तुच्छत्वम् । तत्प्रागुक्तमनिर्वचनीयत्वं तु अबुद्धमतिमज्ञं
परीक्षकं प्रति न प्राज्ञं प्रतीत्यर्थः ॥ ४१ ॥
बन्धमोक्षादिसम्मोहो न प्राज्ञस्यास्ति कश्चन ।
सम्मोहबन्धमोक्षादि ह्यज्ञस्यैवास्ति राघव ॥ ४२ ॥
तदेव स्पष्टतरमाह - बन्धेति ॥ ४२ ॥
आदौ मनस्तदनु बन्धविमोक्षदृष्टी
पश्चात्प्रपञ्चरचना भुवनाभिधाना ।
इत्यादिका स्थितिरियं हि गता प्रतिष्ठा-
माख्यायिका सुभग बालजनोदितेव ॥ ४३ ॥
उक्तेऽर्थे बालकाख्यायिकामवतारयन्नुपसंहरति - आदाविति । हे सुभग
इत्यादिका इयं बन्धस्थितिः प्रतिष्ठां दृढमूलताम् । बालजनाय धात्र्या
उदिता उक्ता वक्ष्यमाणा आख्यायिकेव ॥ ४३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
चित्तचिकित्सापूर्वकं चित्तोत्पत्तिवर्णनं नाम शततमः सर्गः ॥ १०० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
चित्तोत्पत्तिवर्णनं नाम शततमः सर्गः ॥ १०० ॥