०९९

एकोनशततमः सर्गः ९९

श्रीराम उवाच ।

कासौ महाटवी ब्रह्मन्कदा दृष्टा कथं मया ।
के च ते पुरुषास्तत्र किं तत्कर्तुं कृतोद्यमाः ॥ १ ॥

उक्तस्य चित्ताख्यानस्य क्रमेण व्युत्क्रमेण च ।
रामप्रश्नमुखेनात्र तात्पर्यार्थोऽनुवर्ण्यते ॥ १ ॥

किं किमर्थं वा तत्परिघैः स्वदेहप्रहारं कूप्रकरञ्जवनादिप्रवेशं च
कर्तुं कृतोद्यमास्ते जाताः । किन्तत्कर्तृकृतोद्यमाः इति पाठे स्वतः
स्वानिष्टे प्रवृत्तेरयोगात्परतः सा वाच्येति केन तत्कर्त्रा तादृशानिष्टे
बलान्नियोजकेन हेतुना स्वप्रहारादौ कृतोद्यमास्ते सम्पन्ना इत्यर्थः ।
कश्चासौ तत्कर्तां च किन्तत्कर्ता तेन कृतोद्यमा इति विग्रहः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

रघुनाथ महाबाहो शृणु वक्ष्यामि तेऽखिलम् ।
न सा महाटवी राम दूरे नैव च ते नराः ॥ २ ॥

वस्तुतो ब्रह्मैव मिथ्याभूतस्वर्गनरकादिवैचित्र्यकल्पनया संसाराटवी
तत्कल्पकानि मनांस्येव ते नरा इति न ते दूरस्था मयोक्ता इत्याह -
रघुनाथेत्यादिना ॥ २ ॥

येयं संसारपदवी गम्भीराऽपारकोटरा ।
तां तां शून्यां विकाराढ्यां विद्धि राम महाटवीम् ॥ ३ ॥

या इयं प्रसिद्धा संसारपदवी तां परमार्थदृशा असत्त्वाच्छून्यां
भ्रान्तिदृशा तु सत्त्वाद्विकाराढ्यां तां प्रागुक्तां महाटवीं
विद्धीत्यर्थः ॥ ३ ॥

विचारालोकलभ्येयं यदैकेनैव वस्तुना ।
पूर्णा नान्येन संयुक्ता केवलेव तदैव सा ॥ ४ ॥

कदा सा शून्या केन वा उपायेन लभ्यते तत्राह - विचारालोकेति । यदा
एकेनाद्वितीयेनैव वस्तुना पूर्णा अन्येन न संयुक्ता भवति तदा केवला शुन्येव
भवति । इवशब्दः केवलशून्यादिशब्दानामपि तत्रौपचारिकी प्रवृत्तिः
प्रतियोग्यनिरूपणे शून्यत्वादेर्निरूपणासम्भवादिति द्योतनाय । तादृशी
चेयं तत्त्वं पदार्थशोधनलक्षणेन विवेकालोकेन लभ्येत्यर्थः ॥ ४ ॥

तत्र ये ते महाकाराः पुरुषाः प्रभ्रमन्ति हि ।
मनांसि तानि विद्धि त्वं दुःखे निपतितान्यलम् ॥ ५ ॥

द्रष्टा योऽयमहं तेषां सविवेको महामते ।
विवेकेन मया तानि दृष्टान्यन्येव नानघ ॥ ६ ॥

विवेकोऽत्र विचारः ॥ ६ ॥

मया तान्येव बोध्यन्ते विवेकेन मनांसि हि ।
सततं सुप्रकाशेन कमलानीव भानुना ॥ ७ ॥

मत्प्रबोधं समासाद्य मत्प्रसादान्महामते ।
मनांसि कानि चित्तानि गतान्युपशमात्परम् ॥ ८ ॥

मत्प्रबोधं तत्त्वज्ञानम् । मत्प्रसादाद्विवेकप्रसादात् ।
उपशमान्मनोभावनाशात् । परं मोक्षं गतानि ॥ ८ ॥

प्। ३६४) २१७

कानिचिन्नाभिनन्दन्ति मां विवेकं वोमोहतः ।
मत्तिरस्कारवशतः कूपेष्वेव पतन्त्यधः ॥ ९ ॥

मत्तिरस्कारो विचारोपेक्षा ॥ ९ ॥

ये तेऽन्धकूपा गहना नरकास्ते रघूद्वह ।
कदलीकाननं यानि सम्प्रविष्टानि तानि तु ॥ १० ॥

स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुमर्हसि ।
प्रविष्टान्यन्धकूपान्तर्निर्गतानि न यानि तु ॥ ११ ॥

महापातकयुक्तानि तानि चित्तानि राघव ।
कदलीकाननस्थानि निर्गतानि न यानि तु ॥ १२ ॥

पुण्यसम्भारयुक्तानि तानि चित्तानि राघव ।
करञ्जवनयातानि निर्गतानि न यानि तु ॥ १३ ॥

तानि मानुष्यजातानि चित्तानि रघुनन्दन ।
कानिचित्सम्प्रबुद्धानि तत्र मुक्तानि बन्धनात् ॥ १४ ॥

मानुष्ये मनुष्यभावे जातानि परिणतानि । सम्प्रबुद्धानीति मनुष्यदेहे
वैराग्यादिविशेषसम्भवान्मुख्यो ज्ञानाधिकार इति द्योतनाय ॥ १४ ॥

कानिचिद्बहुरूपाणि योनेर्योनिं विशन्ति हि ।
मनांसि तानि तिष्ठन्ति निपतन्त्युत्पतन्ति च ॥ १५ ॥

निपतन्ति नरकेषु । उत्पतन्ति स्वर्गे ॥ १५ ॥

यत्तत्करञ्जगहनं तत्कलत्ररसं विदुः ।
दुःखकण्टकसम्बाधं मानुष्यं विविधैषणम् ॥ १६ ॥

कलत्ररसं कुटुम्बस्नेहवत् । अत एव दुःखकण्टकसम्बाधं विविधैषणं
च मानुष्यम् ॥ १६ ॥

करञ्जगहनं यानि प्रविष्टानि मनांसि तु ।
मानुष्ये तानि जातानि तत्रैव रसिकानि च ॥ १७ ॥

रसिकानि अभिनिविष्टानि विषयरसास्वादपराणि वा ॥ १७ ॥

कदलीकाननं यत्तच्छशाङ्ककरशीतलम् ।
तन्मनोह्लादनकरं स्वर्गं विद्धि रघुद्वह ॥ १८ ॥

कानिचित्पुण्यभूतेन तपसा धारणात्मना ।
धारयन्ति शरीराणि संस्थितान्युदितान्यपि ॥ १९ ॥

पुण्यभूतेन शास्त्रविहितेन । अशास्त्रविहितस्य वारणार्थं विशेषणम् ।
धारणात्मना ध्येयदेशे मनोनिबन्धरूपधारणाप्रधानेन उपासनेन
हेतुना यानि ग्रहसप्तर्षिध्रुवादिशरीराणि धारयन्ति तानि इतरापेक्षया
तेजोभोगाद्यतिशयेन तत्त्वावबोधेन च उदितानि अभ्युदयवन्त्यपि भूत्वा
संस्थितानि चिरं स्थितानीत्यर्थः ॥ १९ ॥

यैरहं पुम्भिरबुधैर्बुद्धिचित्ततिरस्कृतः ।
तैर्मनोभिरनात्मज्ञैः स्वविवेकस्तिरस्कृतः ॥ २० ॥

बुद्धिभिश्चित्तैर्वा तिरस्कृत उपेक्षितः । नाध्यवसितो न स्मृतश्चेत्यर्थः ॥ २०

त्वया दृष्टो विनष्टोऽस्मि त्वं मे शत्रुरिति द्रुतम् ।
यदुक्तं तद्धि चित्तेन गलता परिदेवितम् ॥ २१ ॥

गलता तत्त्वावबोधाद्विशीर्यता । परिदेवितं विलपितम् ॥ २१ ॥

रुदितं यन्महाक्रन्दं पुंसा बह्वाशु राघव ।
तद्भोगजालं त्यजता मनसा रोदनं कृतम् ॥ २२ ॥

अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।
चेतसस्त्यजतो भोगान्परितापो भृशं भवेत् ॥ २३ ॥

रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना ।
कष्टमेतानि सन्त्यज्य किं प्रयामीति चेतसा ॥ २४ ॥

स्वान्यङ्गानि समालोक्य जहास च ननाद च इत्युक्तेस्तात्पर्यमाह - रुदतेति ।
अवबोधिना ईषद्विवेकवता । कारुण्येन स्त्रीपुत्रादिस्नेहेन ॥ २४ ॥

अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।
चेतसस्त्यजतोऽङ्गानि परितापो हि वर्धते ॥ २५ ॥

अङ्गानि स्नेहलोभादीनि ॥ २५ ॥

हसितं तु यदानन्दि पुंसा मदवबोधतः ।
परिप्राप्तविवेकेन तत्तुष्टं राम चेतसा ॥ २६ ॥

तत्तुष्टं आनन्दितम् । तुषेर्नपुंसके भावे क्तः ॥ २६ ॥

परिप्राप्तविवेकस्य त्यक्तसंसारसंस्थितेः ।
चेतसस्त्यजतो रूपमानन्दो हि विवर्धते ॥ २७ ॥

तदेव स्पष्टयति - परिप्राप्तेति ॥ २७ ॥

हसताङ्गानि दृष्टानि पुंसा यान्युपहासतः ।
तानि दृष्टानि मनसा विप्रलम्भपदानि ह ॥ २८ ॥

विप्रलम्भपदानि स्ववञ्चननिमित्तानि ॥ २८ ॥

मिथ्याविकल्परचितैर्विप्रलब्धमहो चिरम् ।
इत्यङ्गान्युपहासेन दृष्टानि स्वानि चेतसा ॥ २९ ॥

मिथ्याविकल्पेन रचितैः कल्पितैर्विषयैर्विप्रलब्धं वञ्चितमित्युपहासेन ॥ २९ ॥

मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे ।
प्राक्तनादीनताधारं हसन्पश्यति दूरतः ॥ ३० ॥

प्राक्तन्या आदिनताया आधारमालम्बनं विषयजातम् । दूरतः
असङ्गात्मासंस्पर्शितयेति यावत् ॥ ३० ॥

यदसौ समवष्टभ्य मया पृष्टः प्रयत्नतः ।
तद्विवेको बलाच्चित्तमादत्त इति दर्शितम् ॥ ३१ ॥

असौ प्रागुक्तः पुरुषः । आदत्ते विष्टभ्राति ॥ ३१ ॥

यदङ्गानि विशीर्णानि गतान्यन्तर्धिमग्रतः ।
तच्चित्तेन विनार्थाशा शाम्यतीति प्रदर्शितम् ॥ ३२ ॥

अर्थसहिता आशा अर्थाशा । मनोभादे सह विषयैर्विषयतृष्णापि बाध्यत इति
दर्शितमित्यर्थः ॥ ३२ ॥

सहस्रनेत्रहस्तत्वं यत्पुंसः परिवर्णितम् ।
तदनन्ताकृतित्वं हि चेतसः परिदर्शितम् ॥ ३३ ॥

यदात्मनि प्रहारौघैः पुमान्प्रहरति स्वयम् ।
तत्तत्कुकल्पनाघातैः प्रहरत्यात्मनो मनः ॥ ३४ ॥

पलायते यत्पुरुषः स्वात्मनः प्रहरन्स्वयम् ।
स्ववासनाप्रहारेभ्यस्तन्मनः प्रपलायते ॥ ३५ ॥

स्वयं प्रहरति स्वान्तं स्वयमेव स्वयेच्छया ।
पलायते स्वयं चैव पश्याज्ञानविजृम्भितम् ॥ ३६ ॥

स्वान्तं मनः ॥ ३६ ॥

स्ववासनोपतप्तानि सर्वाण्येव मनांसि हि ।
स्वयमेव पलायन्ते गन्तुं युक्तानि तत्पदम् ॥ ३७ ॥

उपतप्तानि विक्षोभितानि । तद्ब्रह्मपदं गन्तुमवगन्तुं युक्तानि
स्वरूपयोग्यानि । अथवा युक्तानि योगेन निरुद्धान्यपि ॥ ३७ ॥

प्। ३६५) २१७

यदिदं दुःखं तत्तनोति स्वयं मनः ।
स्वयमेवातिखिन्नन्तु पुनस्तस्मात्पलायते ॥ ३८ ॥

उपतप्तमित्येतद्व्याचष्टे - यदिदमिति ॥ ३८ ॥

सङ्कल्पवासनाजालैः स्वयमायाति बन्धनम् ।
मनो लालामयैर्जालैः कोशकारकृमिर्यथा ॥ ३९ ॥

लाला स्वमुखद्रवस्तन्मयैस्तद्विकारैः । कोशकारकृमिः
कौशेयोत्पत्तिभूमौ प्रसिद्धः ॥ ३९ ॥

यथानर्थमवाप्नोति तथा क्रीडति चञ्चलम् ।
भाविदुःखमपश्यन्स्वं दुर्लीलाभिरिवार्भकः ॥ ४० ॥

अपश्यन्काष्ठरन्ध्रस्थवृषणाक्रमणं यथा ।
कीलोत्पाटी कपिर्दुःखमेतीदं हि तथा मनः ॥ ४१ ॥

उक्तेऽर्थे लौकिकीं गाथामुदाहरति - अपश्यन्निति । यथा किलारण्ये तक्षसु
महाकाष्ठमर्धं विदार्य मध्ये कीलं दत्त्वा दैवादपगतेषु
कश्चित्कपिस्तत्काष्ठोपविष्टः काष्ठरन्ध्रस्थस्ववृषणाक्रमं
भाविनमपश्यन्स्वचापलाद्विष्टम्भकीलोत्पाटी वृषणसन्दंशेन
मरणादिदुःखमेति तद्वदित्यर्थः ॥ ४१ ॥

चिरपालनया चैव चिरभावनया तथा ।
अभ्यासात्तुच्छतामेत्य न भूयः परिशोचति ॥ ४२ ॥

यदि निरुद्धमपि विक्षेपैः पलायते तर्हि कथमिष्टसिद्धिस्तत्राह - चिरेति । न
सकृन्निरोधादिष्टसिद्धिः किन्तु तस्य चिरपालनया चिरमसङ्गात्मभावनया
चेत्यर्थः । तुच्छतां ज्ञानबाध्यताम् ॥ ४२ ॥

मनःप्रमादाद्वर्धन्ते दुःखानि गिरिकूटवत् ।
तद्वशादेव नश्यन्ति सूर्यस्याग्रे हिमं यथा ॥ ४३ ॥

तथाच मन एव प्रमादविवेकाभ्यां बन्धमोक्षयोर्हेतुरिति फलितमित्याह ##-

यावज्जीवमनिन्द्यया च रमते शास्त्रार्थसञ्जातया
तुल्यं वासनया मनो हि मुनिवन्मौनेन रागादिषु ।
पश्चात्पावनपावनं पदमजं तत्प्राप्य तच्छीतलं
तत्संस्थेन न शोच्यते पुनरलं पुंसा महापत्स्वपि ॥ ४४ ॥

यद्यर्थे चशब्दः । यदि मनः शास्त्रार्थसञ्जातया अनिन्द्यया वासनया
तुल्यं समरसं सत् रागादिषु विषयेषु मौनेन निरोधेन यावज्जीवं
मुनिवद्रमते तत् तर्हि पश्चात्तत्त्वबोधेन पावनपावनं परमपवित्रमजं
जन्मादिविक्रियारहितमत एव शीतलं तापत्रयास्पृष्टमलं पूर्णं
तद्ब्रह्मपदं प्राप्य तत्संस्थेन जीवन्मुक्तेन पुंसा महापत्सु
प्रलयादिष्वपि पुनर्न शोच्यते । तरति शोकमात्मवित् इत्यादिश्रुतेरित्यर्थः ॥ ४४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे
चित्तोपाख्यानं नामैकोनशततमः सर्गः ॥ ९९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तोपाख्यानं
नामैकोनशततमः सर्गः ॥ ९९ ॥