०९८

अष्टनवतितमः सर्गः ९८

श्रीवसिष्ठ उवाच ।

यतःकुतश्चिदुत्पन्नं चित्तं यत्किञ्चिदेव हि ।
नित्यमात्मविमोक्षाय योजयेद्यत्नतोऽनघ ॥ १ ॥

उक्तार्थप्रतिबोधार्थं चित्ताख्यानमिहोच्यते ।
चित्ततत्त्वविमर्शाच्च नाशश्चित्तस्य विस्तरात् ॥ १ ॥

नित्यमुक्तस्याप्यात्मनोऽज्ञानान्मनोभ्रान्तिकृतो बन्धप्रत्यय इत्येवं
निर्णयाय मनसोऽज्ञातादात्मन उत्पत्तिर्विस्तरेणोक्ता रोगतत्त्वनिर्णयायेव
रोगनिदानापथ्याशनोक्तिरित्यम् । निर्णीते तु मनस्तत्त्वे साम्प्रतं
तच्चिकित्साप्रयत्न एवावश्यं कार्यो न पुनः पुनर्निदानचिन्तायाः
प्रयोजनमस्तीत्याशयेनाह - यतःकुतश्चिदिति । योजयेत् आत्मनि समादध्यात् ॥
१ ॥

संयोजितं परे चित्तं शुद्धं निर्वासनं भवेत् ।
ततस्तु कल्पनाशून्यमात्मतां याति राघव ॥ २ ॥

समाधेः फलमाह - संयोजितमिति ॥ २ ॥

चित्तायत्तमिदं सर्वं जगत्स्थिरचरात्मकम् ।
चित्ताधीनवतो राम बन्धमोक्षावपि स्फुटम् ॥ ३ ॥

ननु चित्तनिरोधमात्रेण कथं बाह्याभ्यन्तरसर्वद्वैतबन्धनिवृत्तिः
स्यात्तत्राह - चित्तयत्तमिति ॥ ३ ॥

अत्रार्थे कथ्यमानं मे चित्ताख्यानमनुत्तमम् ।
ब्रह्मणा यत्पुरा प्रोक्तं शृणु रामातियत्नतः ॥ ४ ॥

उक्तेऽर्थे उपपादकमाख्यानमवतारयति - अत्रेति ॥ ४ ॥

अस्ति रामाटवी स्फारा शून्याशान्तातिभीषणा ।
योजनानां शतं यस्यां लक्ष्यते कणमात्रकम् ॥ ५ ॥

अटव्यादिशब्दानां तात्पर्यार्थमुत्तरसर्गे स्वयमेव वक्ष्यति । शून्या
मृगपक्ष्यादिरहिता मिथ्याभूता च । अशान्ता विक्षेपबहुला । शून्या आशान्ता
दिगन्ता यस्यामिति वा । कणमात्रकं अणुमात्रमिव ॥ ५ ॥

तस्यामेको हि पुरुषः सहस्रकरलोचनः ।
पर्याकुलमतिर्भीमः संस्थितो वितताकृतिः ॥ ६ ॥

प्। ३६२) २१६

स सहस्रेण बाहूनामादाय परिघान्बहून् ।
प्रहरस्यात्मनः पृष्ठे स्वात्मनैव पलायते ॥ ७ ॥

आत्मनः स्वस्य । स्वात्मना स्वेनैव ॥ ७ ॥

दृढप्रहारैः प्रहरन्स्वयमेवात्मनात्मनि ।
प्रविद्रवति भीतात्मा स योजनशतान्यपि ॥ ८ ॥

क्रन्दन्पलायमानोऽसौ गत्वा दूरमितस्ततः ।
श्रमवान्विवशाकारो विशीर्णचरणाङ्गकः ॥ ९ ॥

पतितोऽवश एवाशु महत्यन्धोऽन्धकूपके ।
कृष्णरात्रितमोभीमे नभोगम्भीरकोटरे ॥ १० ॥

अन्धो विवेकदृष्टिशून्यः । कृष्णरातिरिव तमसा भीमे ॥ १० ॥

ततः कालेन बहुना सोऽन्धकूपात्समुत्थितः ।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः ॥ ११ ॥

आत्मनः स्वस्मादेव निमित्तात् ॥ ११ ॥

पुनर्दूरतरं गत्वा करञ्जवनगुल्मकम् ।
प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा ॥ १२ ॥

करञ्जकण्टकलतानिबिडं वनगुल्मकमल्पच्छायं दुःखबहुलमिति यावत् ।
अन्यश्च कण्टकैर्व्याप्तम् ॥ १२ ॥

तस्मात्करञ्जगहनाद्विनिःसृत्य क्षणादिव ।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः ॥ १३ ॥

पुनर्दूरतरं गत्वा शशाङ्ककरशीतलम् ।
कदलीकाननं कान्तं सम्प्रविष्टो हसन्निव ॥ १४ ॥

हसन् आनन्दित इव ॥ १४ ॥

कदलीखण्डकात्तस्माद्विनिःसृत्य क्षणात्पुनः ।
स्वयं प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनि [आत्मन इति
पाठः] ॥ १५ ॥

पुनर्दूरतरं गत्वा तमेवान्धोऽन्धकूपकम् ।
स सम्प्रविष्टस्त्वरया विशीर्णावयवाकृतिः ॥ १६ ॥

अन्धकूपात्समुत्थाय प्रविष्टः कदलीवनम् ।
कदलीकाननाच्छ्वभ्रं करञ्जवनगुल्मकम् ॥ १७ ॥

श्वभ्रं गर्तमिव गम्भीरम् ॥ १७ ॥

करञ्जकाननात्कूपं कूपाद्रम्भावनान्तरम् ।
प्रविशन्प्रहरंश्चैव स्वयमात्मनि संस्थितः ॥ १८ ॥

कूपं प्रागुक्तान्धकूपम् । रम्भावनान्तरं कदलीवनमध्यम् ॥ १८ ॥

एवंरूपनिजाचारः सोऽवलोक्य चिरं मया ।
अवष्टभ्य बलादेव मुहूर्तं रोधितः पथि ॥ १९ ॥

अवलोक्य विवेकदृशा दृष्ट्वा । अवष्टभ्य योगबलेन धृत्वा ॥ १९ ॥

पृष्टः स कस्त्वं किमिदं केनार्थेन करोषि वा ।
किं नामाभिमतं तेऽत्र किं मुधा परिमुह्यसि ॥ २० ॥

इदं आत्मप्रहरणकूपपतनादि किं किमर्थम् । अभिमतमभिलषितम् ॥ २० ॥

इति पृष्टेन कथितं तेन मे रघुनन्दन ।
नाहं कश्चिन्न चैवेदं मुने किञ्चित्करोम्यहम् ॥ २१ ॥

त्वयाहमवभग्नोऽस्मि त्वं मे शत्रुरहो बत ।
त्वया दृष्टोऽस्मि नष्टोऽस्मि दुःखाय च सुखाय च ॥ २२ ॥

इत्युक्त्वा विक्लवान्यङ्गान्यालोक्य स्वान्यतुष्टिमान् ।
रुरोदातिरवं दीनो मेघो वर्षन्निवाटवीम् ॥ २३ ॥

अतुष्टिमान् भोगेभ्योऽसन्तृप्तः ॥ २३ ॥

क्षणमात्रेण तत्रासावुपसंहृत्य रोदनम् ।
स्वान्यङ्गानि समालोक्य जहास च ननाद च ॥ २४ ॥

अथाट्टहासपर्यन्ते स पुमान्पुरतो मम ।
क्रमेण तानि तत्याज स्वान्यङ्गानि समन्ततः ॥ २५ ॥

प्रथमं पतितं तस्य शिरः परमदारुणम् ।
ततस्ते बाहवः पश्चाद्वक्षस्तदनु चोदरम् ॥ २६ ॥

सङ्कल्पात्मकं शिरः तदेव सर्वानर्थमूलत्वात्परमदारुणम् बाहवो
विकल्पाशयाः विषयाभिनिवेशो वक्षः तृष्णा उदरमिति योग्यतया कल्प्यम् ॥ २६

अथ क्षणेन स पुमांस्तान्यङ्गानि यथाक्रमम् ।
सन्त्यज्य नियतेः शक्त्या क्वापि गन्तुमुपस्थितः ॥ २७ ॥

ज्ञानेनाज्ञानतत्कार्यबाधनियतेः शक्त्या । क्वापि गन्तुमित्यनेन
गन्तव्यस्थलान्तरापरिशेषाद्बाधितस्य निःस्वरूपापत्तिरुक्ता ॥ २७ ॥

दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् ।
सोऽपि प्रहारान्परितः प्रयच्छन्स्वयमात्मनि ॥ २८ ॥

स्वमनस इवान्यमनसामप्येषैव रीतिरिति प्रदर्शनायाह -
दृष्टवानित्यादिना ॥ २८ ॥

बाहुभिः पीवराकारैः स्वयमेव पलायते ।
कूपे पतति कूपात्तु समुत्थायाभिधावति ॥ २९ ॥

पुनः पतति कुण्डेऽन्तः पुनरार्तः पलायते ।
पुनः प्रविशति श्वभ्रं क्षणं शिशिरकाननम् ॥ ३० ॥

कुण्डेऽन्धकूपे । श्वभ्रं करञ्जवनगर्तम् । शिशिरकाननं कदलीवनम् ॥ ३०

कष्टं पुनःपुनस्तुष्टः पुनः प्रहरति स्वयम् ।
एवम्प्रायनिजाचारश्चिरमालोक्य सस्मयम् ॥ ३१ ॥

स मया समवष्टभ्य परिपृष्टस्तथैव हि ।
तेनैवसौ क्रमेणाद्य रुदित्वा सम्प्रहस्य च ॥ ३२ ॥

अङ्गैर्विशीर्णतामेत्य ययावलमलक्ष्यताम् ।
विचार्य नियतेः शक्तिं ततो गन्तुमुपस्थितः ॥ ३३ ॥

अलक्ष्यतां अदृश्यताम् ॥ ३३ ॥

दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् ।
प्रहरंस्तद्वदेवासौ स्वयमेव पलायते ॥ ३४ ॥

पलायामनः पतितो महत्यन्धेऽन्धकूपके ।
तत्राहं सुचिरं कालमवसं तत्प्रतीक्षकः ॥ ३५ ॥

अन्धयतीत्यन्धे अन्धकूपके तमोवृते कूपे ॥ ३५ ॥

यावत्स सुचिरेणापि कूपान्नाभ्युदितः शठः ।
अथाहमुत्थितो गन्तुं दृष्टवान्पुरुषं पुनः ॥ ३६ ॥

तादृशं तादृशाकारं प्रपतन्तं तथैव च ।
अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर्मया ॥ ३७ ॥

प्। ३६३) २१६

तथैवोत्पलपत्राक्ष नासौ तदवबुद्धवान् ।
केवलं मामसौ मूढो नैव जानासि किञ्चन ॥ ३८ ॥

उत्पलपत्राक्षेति रामसम्बोधनम् । केवलं
स्वव्यापारपरोऽभवदित्युत्तरेणान्वयः ॥ ३८ ॥

आः पाप दुर्द्विजेत्युक्त्वा स्वव्यापारपरो ययौ ।
अथ तस्मिन्महारण्ये तथा विहरता मया ॥ ३९ ॥

न केवलं स्वयं विवेकानभिज्ञः किन्तु विवेकिजनतिरस्कारपरोऽपीति सूचनाय
आः पापेत्याद्युक्तिः ॥ ३९ ॥

बहवस्तादृशा दृष्टाः पुरुषा दोषकारिणः ।
मत्पृष्टाः केचिदायान्ति स्वप्नसम्भ्रमवच्छमम् ॥ ४० ॥

मत्पृष्टा मया बोधिताः सन्तः शमं
प्रागुक्तस्वरूपनाशलक्षणमुपरमम् ॥ ४४ ॥

मदुक्तं नाभिनन्दन्ति केचिच्छवतनुं यथा ।
विनिपत्यान्धकूपेभ्यः केचित्तत्प्रोत्थिताः पुनः ॥ ४१ ॥

नाभिनन्दन्त्युपेक्षन्ते जुगुप्सन्ति च ॥ ४१ ॥

कदलीखण्डकात्केचिच्चिरेणापि न निर्गताः ।
केचिदन्तर्हिताः स्फारे करञ्जवनगुल्मके ॥ ४२ ॥

न निर्गताः । तत्रैव ज्ञानं प्राप्य मुक्ता इति यावत् ॥ ४२ ॥

न क्वचित्स्थितिमायान्ति केचिद्धर्मपरायणाः ।
एवंविधा सा वितता रघूद्वह महाटवी ॥ ४३ ॥

धर्मपरायणाः काम्यधर्मपराः ॥ ४३ ॥

अद्यापि विद्यते यस्यामित्थं ते पुरुषाः स्थिताः ।
सा च दृष्टा त्वया राम त्वयेह व्यवहारिणी ।
बाल्यात्तु बुद्धितत्त्वस्य न तां स्मरसि राघव ॥ ४४ ॥

त्वया हेतुना व्यवहारिणी सर्वव्यवहारवती सा महाटवी त्वया दृष्टा ।
बुद्धितत्त्वस्य बुद्धिसारस्य विवेकस्य । बाल्यादप्रागल्भ्यात् ॥ ४४ ॥

सा भीषणा विविधकण्टकसङ्कटाङ्गी
घोराटवी घनतभोगहनापि लोके ।
आगत्य निर्वृतिमलब्धपरावबोधै-
रासेव्यते कुसुमगुल्मकवाटिकेव [कुसुमप्रधाना गुल्मका
यस्मिंस्तत्कुसुमगुल्मकं काननं तद्रूपा वाटिकेत्यर्थः ।
एतत्फलितार्थकैव कुसुमकाननेत्यादिष्टीका] ॥ ४५ ॥

उपसंहरति - सेति । लोके लोक्यते विवेकदृशा
धर्मब्रह्मतत्त्वमस्तिंस्तथाविधे अधिकारिजन्मनि निर्वृतिं
साधनसम्पत्तिसुखमागत्य प्राप्यापि
अभाग्यवशादलब्धपरमात्मबोधैरासेव्यते विषयासक्त्या सेव्यते ।
कुसुमकाननवाटिकेवेत्यापातरम्यत्वे दृष्टान्तः ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
चित्तोपाख्यानं नामाष्टनवतितमः सर्गः ॥ ९८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तोपाख्यानं
नामाष्टनवतितमः सर्गः ॥ ९८ ॥