०९७

सप्तनवतितमः सर्गः ९७

श्रीराम उवाच ।

ब्रह्मन्मनस एवेदमन्तश्चाडम्बरं सृतम् ।
यतस्तदेव कर्मेति वाक्यार्थादुपलभ्यते ॥ १ ॥

सर्वाकारेण संस्थानं मनसोऽत्र निरूप्यते ।
चित्ताकाशचिदाकाशभूताकाशाश्च विस्तरात् ॥ १ ॥

एवं कर्तृकर्ममनःस्वरूपं तन्नामभेदं च बहुभिः प्रकारैः
प्रतिबोधितो रामः स्वबुद्धं तद्गुरुबुद्धिसंवादायाभिलप्य दर्शयति -
ब्रह्मन्निति । हे ब्रह्मन् प्राग्दर्शितत्वद्वाक्यार्थादिदमाडम्बरं
ब्रह्माण्डपटहं मनस एव सकाशात्सृतमाविर्भूतं यतोऽतस्तज्जगदेव
मनसः कर्मेति तात्पर्यमुपलभ्यते बुध्यते मयेत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

दृढभावोपरक्तेन मनसैवोररीकृतम् ।
मरुचण्डातपेनेव भास्वरावरणं [वरणं वपुः इति पाठः]
पुनः ॥ २ ॥

रामेण बुद्धं तात्पर्यं तथैवेत्यनुमोदनाय स्वयं वसिष्ठः पुनः
सङ्क्षेपविस्तराभ्यामाह - दृढेत्यादिना । भास्वरस्य
तेजस्त्वस्यावरणमप्रथाहेतुर्मृगतृष्णोदकमिव
भास्वरस्यात्मनोऽप्रथाहेत्वज्ञानजाड्यमुररीकृतम् । अङ्गीकृतमित्यर्थः ॥
२ ॥

ब्रह्मात्मनि जगत्यस्मिन्मन एकाकृतिं गतम् ।
क्वचिन्नरतया रूढं क्वचित्सुरतयोत्थितम् ॥ ३ ॥

एकां मुख्यामाकृतिं जगत्संस्थानं गतं प्राप्तम् । तदेव प्रपञ्चयति

  • क्वचिदित्यादिना ॥ ३ ॥

क्वचिद्दैत्यतयोल्लासि क्वचिद्यक्षतयोदितम् ।
क्वचिद्गन्धर्वतां प्राप्तं क्वचित्किन्नररूपि च ॥ ४ ॥

नानाचारनभोभागपुरपत्तनरूपया ।
मन्ये विततयाकृत्या मन एव विजृम्भते ॥ ५ ॥

विततया विस्तीर्णया आकृत्या संस्थानवैचित्र्येण ॥ ५ ॥

एवं स्थिते शरीरौघस्तृणकाष्ठलतोपमः ।
तद्विचारणया कोऽर्थो विचार्यं मन एव नः ॥ ६ ॥

यथा पृथिव्यादिभूततत्त्वजिज्ञासूनां तृणकाष्ठादिकं प्रत्येकं न
विचारणार्हं तद्वदित्यर्थः ॥ ६ ॥

तेनेदं सर्वमाभोगि जगदित्याकुलं ततम् ।
मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते ॥ ७ ॥

एवं कर्तृकर्मस्वरूपे बुद्धे तद्विशोधेन तदधिष्ठानात्मानं
दर्शयितुमाह - मन्ये इति ॥ ७ ॥

आत्मा सर्वपदातीतः सर्वगः सर्वसंश्रयः ।
तत्प्रसादेन संसारे मनो धावति वल्गति ॥ ८ ॥

मन आदिस्पन्दास्तद्बलेनैव न स्वत इत्याह - तत्प्रसादेनेति ॥ ८ ॥

मनो मन्ये मनः कर्म तच्छरीरेषु कारणम् ।
जायते म्रियते तद्धि नात्मनीदृग्विधा गुणाः ॥ ९ ॥

शोधनप्रकारमाह - मन इति । ईदृग्विधा इत्यनेनान्तरालिका अपि
भावविकारा उपलक्ष्यन्ते ॥ ९ ॥

मन एव विचारेण मन्ये विलयमेष्यति ।
मनोविलयमात्रेण ततः श्रेयो भविष्यति ॥ १० ॥

श्रेयो मोक्षः ॥ १० ॥

मनोनाम्नि परिक्षीणे कर्मण्याहितसम्भ्रमे ।
मुक्त इत्युच्यते जन्तुः पुनर्नाम न जायते ॥ ११ ॥

श्रीराम उवाच ।

भगवन्भवता प्रोक्ता जातयस्त्रिविधा नृणाम् ।
प्रथमं कारणं तासां मनः सदसदात्मकम् ॥ १२ ॥

अस्त्वेवं मनसः सकाशाज्जगदुत्पत्तिः मनस्तु
कूटस्थचिन्मात्रस्वभावाद्ब्रह्मणो नोत्पत्तुमर्हति । बुद्धिपूर्विका हि
तत्सृष्टिः श्रूयते तन्मनोऽकुरुत आत्मन्वी स्याम् इति । नच मन उत्पत्तेः
प्राग्बुद्धिः सम्भवति । अमतेऽर्तेध्यवसायादर्शनादिति रामः शङ्कते -
भगवन्निति द्वाभ्याम् । त्रिविधा इति । यद्यपि द्वादशविधा उक्तास्तथापि तासां
सात्त्विकराजसतामसलक्षणत्रैविध्येन्तर्भावमभिप्रेत्य त्रिविधा इत्युक्तिः ।
नृणां जीवानाम् ॥ १२ ॥

तत्कथं शुद्धचिन्नाम्नस्तत्त्वाद्बुद्धिविवर्जितात् ।
उत्थितं स्फारतां यातं जगच्चित्रकरं मनः ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

आकाशा हि त्रयो राम विद्यन्ते विततान्तराः ।
चित्ताकाशश्चिदाकाशो भूताकाशस्तृतीयकः ॥ १४ ॥

इमामप्याशङ्कां वक्ष्यमाणदृष्टिभेदाभिप्रायेण
सत्कार्यवादमाश्रित्य समाधित्सुर्वसिष्ठस्तदुपयुक्तामाकाशत्रयकल्पनां
दर्शयति - आकाशा हीति । विततान्तरा विस्तीर्णजठराः ॥ १४ ॥

प्। ३६१) २१५

एते हि सर्वसामान्याः सर्वत्रैव व्यवस्थिताः ।
शुद्धचित्तत्वशक्त्या तु लब्धसत्तात्मतां गताः ॥ १५ ॥

सर्वस्वकार्यसाधारणाः सर्वस्वकार्ये व्यवस्थिता अनुगता इति तद्धेतुः ।
नचैवमद्वैतहानिः सत्ताभेदानभ्युपगमादित्याशयेनाह - शुद्धेति ॥
१५ ॥

सबाह्याभ्यन्तरस्थो यः सत्तासत्तावबोधकः ।
व्यापी समस्तभूतानां चिदाकाशः स उच्यते ॥ १६ ॥

त्रयाणामेकसत्ताकत्वे चिदाकाशे कोऽतिशय इत्याशङ्क्य तं
दर्शयंश्चिदाकाशं मायाशबलं लक्षयति - सबाह्येति ।
आभ्यन्तरबुद्ध्यादीनां बाह्यवस्तूनां च
सत्तासत्तयोरागमापाययोरवबोधकः साक्षी ॥ १६ ॥

सर्वभूतहितः श्रेष्ठो यः कालकलनात्मकः ।
येनेदमाततं सर्वं चित्ताकाशः स उच्यते ॥ १७ ॥

चित्ताकाशं लक्षयति - सर्वेति । सर्वेषां भूतानां
सर्वव्यवहारहेतुत्वाद्धितः । सर्वकार्यकारणनियन्तृत्वाच्छ्रेष्ठः । आततं
स्वकल्पनया विस्तारितम् ॥ १७ ॥

दशदिङ्मण्डलाभोगैरव्युच्छिन्नवपुर्हि यः ।
भूतात्मासौ य आकाशः पवनाब्दादिसंश्रयः ॥ १८ ॥

भूताकाशं लक्षयति - दशेति । अब्दा मेघाः संवत्सरात्मा सूर्यो वा ॥ १८

आकाशचित्ताकाशौ द्वौ चिदाकाशबलोद्भवौ ।
चित्कारणं हि सर्वस्य कार्यौघस्य दिनं यथा ॥ १९ ॥

तत्र चिदाकाशे चिदंशस्य सन्निधिमात्रेण निमित्ततेति प्रदर्शयति - दिनं
यथेति ॥ १९ ॥

जडोऽस्मि न जडोऽस्मीति निश्चयो मलिनश्चितः ।
यस्तदेव मनो विद्धि तेनाकाशादि भाव्यते ॥ २० ॥

जडांशस्य तु मन आद्याकारपरिणामित्वान्मनः प्रति मुख्योपादानत्वेऽपि
मनसि चिज्जाड्योभयानुभवात्संवलितस्यैव मनोभावापत्तिरित्याह -
जडोऽस्मीति ॥ २० ॥

अप्रबुद्धात्मविषयमाकाशत्रयकल्पनम् ।
कल्प्यते उपदेशार्थं प्रबुद्धविषयं न तु ॥ २१ ॥

इयं च मनःसृष्ट्यादिकल्पना अज्ञबोधनार्था न वास्तवीति
परमार्थदृशा न शुद्धचितः किञ्चिदुत्पन्नं विनष्टं वेति न
कश्चिदाक्षेपावकाश इत्याशयेनाह - अप्रबुद्धेत्यादिना ॥ २१ ॥

एकमेव परं ब्रह्म सर्वं सर्वावपूरकम् ।
प्रबुद्धविषयं नित्यं कलाकलनवर्जितम् ॥ २२ ॥

द्विअताद्वैतसमुद्भेदैर्वाक्यसन्दर्भगर्भितैः ।
उपदेश्यत एवाज्ञो न प्रबुद्धः कथञ्चन ॥ २३ ॥

यावद्रामाप्रबुद्धस्त्वमाकाशत्रयकल्पना ।
तावदेवावबोधार्थं मया त्वमुपदिश्यसे ॥ २४ ॥

आकाशचित्ताकाशाद्याश्चिदाकाशकलङ्कितात् ।
प्रसूता दावदहनाद्यथा मरुमरीचयः ॥ २५ ॥

दावदहनान्मरुभूमिप्रतापनाद्दावाग्नितुल्याद्वा आतपात् ॥ २५ ॥

चिनोति मलिनं रूपं चित्ततां समुपागतम् ।
त्रिजगन्तीन्द्रजालानि रचयत्याकुलात्मकम् ॥ २६ ॥

कार्येषु मालिन्यदर्शनादपि चित्तस्य न शुद्धचित्कार्यतेत्याशयेनाह -
चिनोतीति ॥ २६ ॥

चित्तत्वमस्य मलिनस्य चिदात्मकस्य
तत्त्वस्य दृश्यत इदं ननु बोधहीनैः ।
शुक्तौ यथा रजतता नतु बोधवद्भि-
र्मौर्ख्येण बन्ध इह बोधबलेन मोक्षः ॥ २७ ॥

अज्ञैकदृश्यत्वादपि चित्तस्याज्ञानकार्यत्वं अत एवातत्त्वज्ञदृशैव
बन्धस्तत्त्वज्ञदृशा त्वात्मनो नित्यमुक्ततैवेत्याह - चित्तत्वमिति ॥ २७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उत्पत्तिप्रकरणे
चिदाकाशमाहात्म्यं नाम सप्तनवतितमः सर्गः ॥ ९७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
चिदाकाशमाहात्म्यं नाम सप्तनवतितमः सर्गः ॥ ९७ ॥