०९६

षण्णवतितमः सर्गः ९६

श्रीवसिष्ठ उवाच ।

मनो हि भावनामात्रं भावना स्पन्दधर्मिणी ।
क्रिया तद्भावितारूपं फलं सर्वोऽनुधावति ॥ १ ॥

मनसः कर्मवैचित्यादिह नानाविधाकृतेः ।
व्याख्यायन्तेऽभिधामेदास्तत्त्वं चास्य विशुद्धये ॥ १ ॥

उक्तार्थप्रपञ्चनार्थस्य सर्गस्यार्थं सङ्क्षिप्यादौ दर्शयति - मन इति ।
अनुभूतानामर्थानां भावना विभावनाख्यं विकल्पं तन्मात्रम् । सा
भावना स्पन्दधर्मिणी सती विहितनिषिद्धक्रिया भवति तस्याः क्रियाया एव
सौक्ष्म्याददृष्टभावापन्नाया जन्मान्तराद्यात्मकं यद्भावितारूपं
तदेव फलं सर्वो जन्तुरनुधावति अनुसरति । मन एव
क्रमेणोभयभावमापद्यत इत्यर्थः ॥ १ ॥

श्रीराम उवाच ।

विस्तरेण मम ब्रह्मन् जडस्याप्यजडाकृतेः ।
रूपमारूढसङ्कल्पं मनसो वक्तुमर्हसि ॥ २ ॥

प्रश्नः स्पष्टः ॥ २ ॥

श्रीवसिष्ठ उवाच ।

अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर्महात्मनः ।
सङ्कल्पशक्ति रचितं यद्रूपं तन्मनो विदुः ॥ ३ ॥

सर्वशक्तेः सर्वशक्तिमन्मायाशबलस्य रचितं प्रथमनिष्पादितं
सङ्कल्पशक्ति यद्रूपं तन्मन इत्यर्थः ॥ ३ ॥

भावः सदसतोर्मध्ये नृणां चलति यश्चलः ।
कलनोन्मुखतां यातस्तद्रूपं मनसो विदुः ॥ ४ ॥

साम्प्रतिकेऽपि नृणां व्यवहारे तत्प्रसिद्धमित्याह - भाव इति । स्थाणुर्वा
पुरुषो वेति विकल्पे सदसतोः कोट्योर्यो भावश्चलो दोलायमानश्चलति
सञ्चरतीत्यर्थः । कलनोन्मुखतां कोटिद्वयस्य स्मृतिपूर्वकताम् ॥ ४ ॥

नाहं वेदावभासात्मा कुर्वाणोऽस्मीति निश्चयः ।
तस्मादेकान्तकलनस्तद्रूपं मनसो विदुः ॥ ५ ॥

सदा चिद्रूपत्वाद्भासमानेऽप्यात्मनि नाहं वेदेति प्रत्ययः अकर्तर्यपि
कर्तृताप्रत्ययश्च येन भवति तन्मन इत्याह - नाहमिति । एकान्तकलनो
नियतं जायमानः ॥ ५ ॥

कल्पनात्मिकया कर्मशक्त्या विरहितं मनः ।
न सम्भवति लोकेऽस्मिन्गुणहीनो गुणी यथा ॥ ६ ॥

निःस्पन्दे मनस्येतस्य लक्षणस्याव्याप्तिमाशङ्क्याह -
कल्पनात्मिकयेत्यादिना ॥ ६ ॥

यथा वह्न्यौष्ण्ययोः सत्ता न सम्भवति भिन्नयोः ।
तथैव कर्ममनसोस्तथात्ममनसोरपि ॥ ७ ॥

आत्ममनसोर्जीवमनसोः ॥ ७ ॥

स्वेनैव चित्तरूपेण कर्मणा फलधर्मिणा ।
सङ्कल्पैकशरीरेण नानाविस्तरशालिना ॥ ८ ॥

फलेन धर्मिणा साध्यवता ॥ ८ ॥

इदं ततमनेकात्म मायामयमकारणम् ।
विश्वं विगतविन्यासं वासनाकल्पनाकुलम् ॥ ९ ॥

या येन वासना यत्र सतेवारोपिता यथा ।
सा तेन फलसूस्तत्र तदेव प्राप्यते तथा ॥ १० ॥

वासनाकल्पनाकलनाकुलामित्येतत्स्फुटयति - या येनेति । यत्र सतेव
यथैन्दवैरिहस्थैरेव सत्यलोकस्था वयमिति कल्पितेनेत्यर्थः । लतेवेति पाठे
स्पष्टम् ॥ १० ॥

कर्म बीजं मनःस्पन्दः कथ्यतेऽथानुभूयते ।
क्रियास्तु विविधास्तस्य शाखाश्चित्रफलास्तरोः ॥ ११ ॥

तस्य वासनातरोः कर्म बीजं मनःस्पन्दः शरीरं क्रियाः शाखा इति शास्त्रे
कथ्यते फलतश्चानुभूयत इत्यर्थः ॥ ११ ॥

मनो यदनुसन्धत्ते तत्कर्मेन्द्रियवृत्तयः ।
सर्वाः सम्पादयन्त्येतास्तस्मात्कर्म मनः स्मृतम् ॥ १२ ॥

ननु कर्मेन्द्रियवृत्तिः कर्म कथं तन्मनसः स्यात्तत्राह - मन इति ॥ १२ ॥

मनो बुद्धिरहङ्कारश्चित्तं कर्माथ कल्पना ।
संसृतिर्वासना विद्या प्रयत्नः स्मृतिरेव च ॥ १३ ॥

मन एव सर्वेन्द्रियभावं धत्त इति नायं दोष इति दर्शयंस्तन्नामान्याह ##-

इन्द्रियं प्रकृतिर्माया क्रिया चेतीतरा अपि ।
चित्राः शब्दोक्तयो ब्रह्मन्संसारभ्रमहेतवः ॥ १४ ॥

नैतावत्यः किन्त्वितरा अपि सन्ति । ब्रह्मन् ब्रह्मणि । छान्दसः सप्तम्या लुक् । न
ङिसम्बुद्ध्योः इति नलोपनिषेधः । संसारभ्रमः संसारकल्पितो
वक्ष्यमाणप्रवृत्तिनिमित्तभेदः स एव हेतुर्यासाम् ॥ १४ ॥

काकतालीययोगेन त्यक्तस्फारदृगाकृतेः ।
चितेश्चेत्यानुपातिन्याः कृताः पर्यायवृत्तयः ॥ १५ ॥

काकतालीयमाकस्मिकं स्वरूपविस्मरणं तद्योगेन त्यक्तेव नानुभूयमाना
स्फाराऽपरिच्छिन्ना दृगाकृतिश्चिदेकरसाकारो यया
तथाभूतायाश्चितेश्चितेश्चेत्यानुपातिन्या बाह्यकल्पनोन्मुखायाः ॥ १५ ॥

प्। ३५७) २१३

श्रीराम उवाच ।

परायाः संविदो ब्रह्मन्नेताः पर्यायवृत्तयः ।
कल्प्यमानविचित्रार्थाः कथं रूढिमुपागताः ॥ १६ ॥

उक्तानां मनोबुद्ध्यादिनाम्नां चेत्योन्मुखचितिप्रवृत्तिनिमित्तभेदेन
योगरूढ्या पर्यायवृत्तितां प्रत्येकं निर्वचनेन विशिष्य जिज्ञासमानो
रामः पृच्छति - पराया इति । कल्प्यमानो विचित्रो योगार्थो यासां
तथाविधाः सत्यः ॥ १६ ॥

श्रीवसिष्ठ उवाच ।

गतेव सकलङ्कत्वं कदाचित्कल्पनात्मकम् ।
उन्मेषरूपिणी नाना तदैव हि मनःस्थिता ॥ १७ ॥

एवं पृष्टो वसिष्ठः क्रमेण पञ्चदशापि नामानि व्याचिकीर्षुः प्रथमं
मन इति नाम व्याचष्टे - गतेवेति । परा संविदविद्यया सकलङ्कत्वं
गतेव सती कदाचिदुन्मेषरूपिणी भूत्वा यदेदमित्थमनित्थं वेति विकल्पात्मना
नाना भवति तदैव सा मनोरूपेण स्थितेति तन्नागिका भवतीत्यर्थः ॥ १७ ॥

भावनामनुसन्धानं यदा निश्चित्य संस्थिता ।
तदैषा प्रोच्यते बुद्धिरियत्ताग्रहणक्षमा ॥ १८ ॥

यदा तु प्रथमं विकल्पोत्तरं वा विशेषभावनां प्राप्य
एकतरकोट्यनुसन्धानं निश्चित्य सुस्थिरा स्थिता तदैषा संविद्बुद्धिरिति
प्रोच्यते । इयत्ता ईदृशमेवेदं वस्त्विति परिच्छित्तिस्तद्ग्रहणसमर्थेत्यर्थः ॥
१८ ॥

यदा मिथ्याभिमानेन सत्तां कल्पयति स्वयम् ।
अहङ्काराभिमानेन प्रोच्यते भवबन्धनी ॥ १९ ॥

यदा तु मिथ्याभूतदेहाद्यात्मताभिमानेन स्वयं सत्तां कल्पयति मन्यते
तदाहङ्काराभिमानेन निमित्तेन सा अहङ्कार इति प्रोच्यते सैव
सर्वानर्थबीजत्वाद्भवबन्धनीत्यर्थः ॥ १९ ॥

इदं त्यक्त्वेदमायाति बालवत्पेलवा यदा ।
विचारं सम्परित्यज्य तदा सा चित्तमुच्यते ॥ २० ॥

यदा त्वेकं विषयं त्यक्त्वा अपरं विषयं स्मरति विचारं
पूर्वापरप्रतिसन्धानं परित्यज्य तदा सा संविच्चित्तमित्युच्यत इत्यर्थः ॥ २० ॥

यदा स्पन्दैकधर्मत्वात्कर्तुर्या शून्यशंसिनी ।
आधावति स्पन्दफलं तदा कर्मेत्युदाहृता ॥ २१ ॥

सैव संवित् कर्तुः स्पन्दैकधर्मत्वाद्वस्तुतः शून्यमसदेव स्पन्दं शंसति
गोचरयति तच्छीला सती स्पन्दफलं शरीरादवयवादेर्देशान्तरसंयोगं
सम्पादयितुमाधावतीव तदा कर्मेत्युच्यत इत्यर्थः ॥ २१ ॥

काकतालीययोगेन त्यक्त्वैकघननिश्चयम् ।
यदेहितं कल्पयति भावं तेनेह कल्पना ॥ २२ ॥

एकमेव घनं वस्त्वन्तरावकाशशून्यं यत्स्वरूपं तन्निश्चयं त्यक्त्वा
स्वपूर्णभावं विस्मृत्य यदा ईहितं वाञ्छितं परिच्छिन्नभावं
कल्पयतीत्यर्थः ॥ २२ ॥

पूर्वदृष्टमदृष्टं वा प्राग्दृष्टमिति निश्चयैः ।
यदैवेहां विधत्तेऽन्तस्तदा स्मृतिरुदाहृता ॥ २३ ॥

स्मृतिः संस्मृतिः ॥ २३ ॥

यदा पदार्थशक्तीनां सम्भुक्तानामिवाम्बरे ।
वसत्यस्तमितान्येहा वासनेति तदोच्यते ॥ २४ ॥

यदा सम्भुक्तानां ग्रस्तानामिव तिरोभूतानां पदतदर्थतच्छक्तीनां
स्वरूपेण अम्बरे शून्यप्रायेऽतिसूक्ष्मभावे वसति अस्तमितान्यचेष्टा च भवति
तदा वासनेत्युच्यत इत्यर्थः ॥ २४ ॥

अस्त्यात्मतत्त्वं विमलं द्वितीया दृष्टिरङ्किता ।
जाता ह्यविद्यमानैव तदा विद्येति कथ्यते ॥ २५ ॥

अङ्किताजातेत्येकं पदम् । अङ्कोऽविद्याकलङ्कस्तद्वैशिष्ट्यमङ्किता
तद्वशाज्जाता द्वितीया दृष्टिः प्रपञ्चप्रतिभा कालत्रयेऽप्यविद्यमानैवेति
यदा प्रबुध्यते तदा विद्येति कथ्यते इत्यर्थः ॥ २५ ॥

स्फुरत्यात्मविनाशाय विस्मारयति तत्पदम् ।
मिथ्याविकल्पजालेन तन्मलं परिकल्प्यते ॥ २६ ॥

विस्मृतिर्मलमेव च इति पाठे ते द्वे नामनी सहैव व्याचष्टे - स्फुरतीति ।
आत्मनो विनाशोऽत्यन्तादर्शनम् । यतो विस्मारयति तस्माद्विस्मृतिरित्युच्यत
इत्यर्थः । अथवा मिथ्याविकल्पजालेन विविधं स्मारयति विक्षिपतीत्यर्थः ।
तथाचावरणशक्तिप्राधान्येन मलं विक्षेपप्राधान्येन विस्मृतिरिति भावः ।
प्रयत्नः स्मृतिरेव च इति पाठे तु आत्मनो विनाशायादर्शनाय स्फुरति
सञ्चलति यतत इवेति प्रयत्न इति विविधं स्मारयतीति स्मृतिरिति च मलं मलिनं
तत्संविद्रूपमेव नाम्ना परिकल्प्यते इति क्लेशेन व्याख्येयम् ॥ २६ ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च ।
इन्द्रमानन्दयत्येषा [इन्द्रमामोदयत्येषा इति पाठः]
तेनेन्द्रियमिति स्मृतम् ॥ २७ ॥

एषा मनोभूता संविद्यदा श्रवणादिक्रियया इन्द्रं कार्यकरणस्वामिनं
[परमेश्वरमामोदयति इति पाठः] जीवभावापन्नं
परमेश्वरमानन्दयति भोगैः प्रीणयति तदेन्द्रियमित्युच्यत इत्यर्थः ।
इन्द्रजुष्टमिन्द्रियमिति हि पाणिन्यनुशासनम् ॥ २७ ॥

सर्वस्य दृश्यजालस्य परमात्मन्यलक्षिते ।
प्रकृतत्वेन भावानां लोके प्रकृतिरुच्यते ॥ २८ ॥

प्रकृतत्वेनोपादानाभिन्नकर्त्रात्मना निर्मितत्वेन ॥ २८ ॥

सदसत्तां नयत्याशु सत्तां वा सत्त्वमञ्जसा ।
सत्तासत्ताविकल्पोऽयं तेन मायेति कथ्यते ॥ २९ ॥

स्पष्टम् ॥ २९ ॥

दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः ।
क्रियेति कथ्यते लोके कार्यकारणतां गता ॥ ३० ॥

कार्यकारणतां संसृतितद्बीजात्मकताम् ॥ ३० ॥

चितेश्चेत्यानुपातिन्या गतायाः सकलङ्कताम् ।
प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः ॥ ३१ ॥

नामव्याख्यामुपसंहरति - चितेरिति ॥ ३१ ॥

चित्ततामुपयाताया गतायाः प्रकृतं पदम् ।
स्वैरेव सङ्कल्पशतैर्भृशं रूढिमुपागताः ॥ ३२ ॥

प्रकृतं प्रस्तुतं संसारपदम् । स्वैः स्वीयैरेव सङ्कल्पादिकल्पनाशतैः ।
एताः पर्यायवृत्तयः । रूढिं योगरूढिम् ॥ ३२ ॥

चेतनीयकलङ्काङ्काज्जाड्यजालानुपातिनी ।
सङ्ख्याविभागकलना स्ववैकल्याकुलेव चित् ॥ ३३ ॥

एकस्याश्चितः कुतो मनोबुद्ध्यादिसङ्ख्याविभागकलना तत्राह - चेतनीयेति ।
चित् चेतनीयः अहमज्ञ इति स्वयमनुभवनार्हो योऽज्ञानकलङ्कश्चेतनीयेभ्यो
विषयेभ्यः प्राप्तो वा यो
द्वैतवासनाकलङ्कस्तदङ्कात्तत्सन्निधानात्पूर्णस्वरूपवैकल्पेनाकुलेव
भूत्वा देहादिजाड्यजालानुपातिनो यतः अत इत्यर्थः ॥ ३३ ॥

प्। ३५८) २१४

जीव इत्युच्यते लोके मन इत्यपि कथ्यते ।
चित्तमित्युच्यते सैव बुद्धिरित्युच्यते तथा ॥ ३४ ॥

उक्तामेव विभागकलनां पुनर्विविच्याह - जीव इत्यादिद्वाभ्याम् ॥ ३४ ॥

नानासङ्कल्पकलिलं पर्यायनिचयं बुधाः ।
वदन्त्यस्याः कलङ्किन्याश्च्युतायाः परमात्मनः ॥ ३५ ॥

श्रीराम उवाच ।

मनः किं स्याज्जडं ब्रह्मंस्तथा वापि च चेतनम् ।
इत्येको मम तत्त्वज्ञ निश्चयोऽन्तर्न जायते ॥ ३६ ॥

जीव इत्युच्यते इत्युक्त्या चेतनत्वप्राप्तेर्दर्शनान्तरे लोके च जाड्यप्रसिद्धेः
सन्दिहानो रामः पृच्छति - मन इति ॥ ३६ ॥

श्रीवसिष्ठ उवाच ।

मनो हि न जऽं राम नापि चेतनतां गतम् ।
म्लानाऽजडा तदा दृष्टिर्मन इत्येव कथ्यते ॥ ३७ ॥

चिदचिदुभयसंवलनरूपत्वान्नैकतररूपं मनः परमार्थतस्तु मन्वानो
मन इति तान्येतानि कर्मनामान्येव इति श्रुतावात्मन एव
कर्मप्रयुक्तनामधेयेषु मनःशब्दपरिगणनादजडा दृष्टिश्चिदेव तदा
संसारदशायां म्लाना उपाधिमालिन्यानुभाविनी मन इति कथ्यते इत्यर्थः ॥ ३७

मध्ये सदसतो रूपं प्रतिभूतं यदाविलम् ।
जगतः कारणं नाम तदेतच्चित्तमुच्यते ॥ ३८ ॥

चिदचिद्वैलक्षण्यवत्सदसद्वैलक्षण्यमपि तस्यास्तीत्याह - मध्ये इति ।
प्रतिभूतं प्रतिप्राणिभेदम् । प्रतिभातम् इति पाठे स्पष्टम् ॥ ३८ ॥

शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः ।
येन सा चित्तमित्युक्ता तस्माज्जातमिदं जगत् ॥ ३९ ॥

अथवा आत्मनोऽज्ञातसत्तैव मन इत्याह - शाश्वतेनेति । येन हेतुना ॥ ३९ ॥

जडाजडदृशोर्मध्ये दोलारूपं स्वकल्पनम् ।
यच्चितो म्लानरूपिण्यास्तदेतन्मन उच्यते ॥ ४० ॥

पूर्वोक्तमेव स्फुटयंस्तस्य चलस्वभावतामाह - जडेति । यच्चितो रूपमिति
शेषः ॥ ४० ॥

चिन्निःस्पन्दो हि मलिनः कलङ्कविकलान्तरम् ।
मन इत्युच्यते राम न जडं न च चिन्मयम् ॥ ४१ ॥

चितो निःस्पन्द औपाधिकचलभावो बहिर्मलिनस्तस्या अन्तः साक्षिचित
आवरणविरहात्कलङ्कविकलान्तरं यद्रूपं तन्मन इत्युच्यत इत्यर्थः ॥ ४१ ॥

तस्येमानि विचित्राणि नामानि कलितान्यलम् ।
अहङ्कारमनोबुद्धिजीवाद्यानीतराण्यपि ॥ ४२ ॥

यथा गच्छति शैलूषो रूपाण्यलं तथैव हि ।
मनो नामान्यनेकानि धत्ते कर्मान्तरं व्रजत् ॥ ४३ ॥

शैलूषो नटजातिविशेषः । रूपाणि नानावेषानलमत्यर्थ गच्छति क्रमेण
धारयति । कर्मान्तरं क्रियाभेदम् ॥ ४३ ॥

चित्राधिकारवशतो विचित्रा विकृताभिधाः ।
यथा याति नरः कर्मवशाद्याति तथा मनः ॥ ४४ ॥

यथा नरः पाकाधिकारात्पाचक इति पाठाधिकारात् पाठक इति
प्रामाधिपत्याद्वामणीरिति विचित्राधिकारवशतो विचित्रा
विकृतास्तत्तत्क्रियाप्रकाशिका अभिधा नामानि याति तथा मनोऽपि कर्मवशात्ताः
यातीत्यर्थः ॥ ४४ ॥

या एताः कथिताः सञ्ज्ञा मया राघव चेतसः ।
एता एवान्यथा प्रोक्ता वादिभिः कल्पनाशतैः ॥ ४५ ॥

अन्यथा कल्पनाशतैः स्वकप्लोन्नीतयुक्तिशतैः ॥ ४५ ॥

स्वभावाभिमतां बुद्धिमारोप्य मनसा कृताः ।
मनोबुद्धिन्द्रियादीनां विचित्रा नामरीतयः ॥ ४६ ॥

स्वेषां भावा विभावनास्तर्कास्तदभिमतां द्रव्यत्वाणुत्वादिबुद्धिं
मनस्यारोप्य मनसा स्वेच्छया मनोबुद्ध्यादीनां विचित्रा नामरीतयः
सञ्ज्ञाभेदास्तैः कृता इत्यर्थः ॥ ४६ ॥

मनो हि जडमन्यस्य भिन्नमन्यस्य जीवतः ।
तथाहङ्कृतिरन्यस्य बुद्धिरन्यस्य वादिनः ॥ ४७ ॥

तेषां कल्पनाप्रकारान्विभज्य दर्शयति - मनो हीत्यादिना ॥ ४७ ॥

अहङ्कारमनोबुद्धिदृष्टयः सृष्टिकल्पनाः ।
एकरूपतया प्रोक्ता या मया रघुनन्दन ॥ ४८ ॥

अन्तःकरणस्यैकरूपतया तस्य सृष्टिकल्पनाः
सङ्कल्पादिवृत्तिभेदसृष्टिनिमित्ता
अहङ्कारमनोबुद्धिनामभेददृष्टयस्ते मया या प्रोक्तः ॥ ४८ ॥

नैयायिकैरितरथा तादृशैः परिकल्पिताः ।
अन्यथा कल्पिताः साङ्ख्यैश्चार्वाकैरपि चान्यथा ॥ ४९ ॥

गौतमीयतन्त्रानुसारिभिस्तास्तादृशैरेव स्वबुद्धिविकल्पैरितरथा कल्पिताः ।
यथाहङ्कारो द्रव्यविशेषो विभुर्जीवात्मेति मनस्त्वणु तत्साक्षात्कारे कारणमिति
बुद्धिस्तु तदीयो गुणस्त्रिक्षणावस्थायिनीति नतु वस्तुतस्तथेत्यर्थः ।
साङ्ख्यैस्ततोऽप्यन्यथा कल्पिताः । यथा बुद्धिः
साक्षात्त्रिगुणात्मकप्रकृतिकार्यं महत्तत्त्वं अहङ्कारस्तु तत्कार्यं
तत्त्वान्तरं मनस्त्वेकादशेन्द्रियगणान्तर्गतं षोडशविकारान्तःपातीति ।
चार्वाकैस्तु चैतन्यगुणः कार्यस्यैव बुद्धिः काय एवाहङ्कार आत्मा तस्य
पूर्वापरप्रतिसन्धानं मन इति ॥ ४९ ॥

जमिनीयैश्चार्हतैश्च बौधाइर्वैशेषिकैस्तथा ।
अन्यैरपि विचित्रैस्तैः पाञ्चरात्रादिभिस्तथा ॥ ५० ॥

जैमिनीयैस्तु कश्चिन्मनो विभु द्रव्यम् । कैश्चिदन्नयम् । बुद्धिस्तु
जडबोधात्मकाहङ्काररूपस्यात्मनश्चिदम्श इति । आर्हतैस्तु
मध्यमपरिमाणश्चिद्रूपो जीवास्तिकाय एवाहङ्कारः तस्य विषयाभिलाषो
मनः अर्थप्रथा च बुद्धिरिति । बौद्धैः क्षणिकी आलयविज्ञाख्या बुद्धिधारा
सैवात्माऽहङ्काराश्च प्रवृत्तिविज्ञानात्मकः बुद्धिस्तु
बाह्यार्थाकारस्तत्परिणामः अतीतः समनन्तरप्रत्ययो मन इति । वैशेषिकैस्तु
नैयायिकवदेवाहङ्कारमनसी बुद्धिस्तु
स्मृतिप्रत्यक्षानुमानतर्कविपर्ययविकल्पभेदभिन्ना पञ्चधेति । अन्यैः
पाञ्चरात्रैर्वासुदेवाख्यात्परमात्मनः सङ्कर्षणाख्यो जीवः स
एवाहङ्कारस्ततः प्रद्युम्नाख्यं मनस्ततोऽनिरुद्धाख्या बुद्धिरिति ।
आदिपदाद्योगिमाहेश्वरनाकुलादीनामन्यथान्यथा कल्पना गृह्यन्ते ॥ ५० ॥

प्। ३५९) २१४

सर्वैरेव च गन्तव्यं तैः पदं पारमार्थिकम् ।
विचित्रं देशकालोत्थैः पुरमेकमिवाध्वगैः ॥ ५१ ॥

सर्वेषामपि स्वस्वबुद्ध्यनुसारेण परमात्मतत्त्वनिर्णय एव क्रमेण
फलिष्यतीत्याह - सर्वैरिति । विचित्रमित्यनेन तत्तद्बुद्ध्यनुसारिफलात्मना
स्थातुं शक्तं तत्पदमिति सूचितम् ॥ ५१ ॥

अज्ञानात्परमार्थस्य विपरीतावबोधतः ।
केवलं विवदन्त्येते विकल्पैरारुरुक्षवः ॥ ५२ ॥

यदि एकमेव प्राप्यते तर्हि किमर्थं विवदन्ते तत्राह - अज्ञानादिति ॥ ५२ ॥

स्वमार्गममिशंसन्ति वादिनश्चित्रया दृशा ।
विचित्रदेशकालोत्था मार्गं स्वं पथिका इव ॥ ५३ ॥

विचित्रदेशकालोत्थाः
राजसतामसमलिनार्धमलिनसत्त्वप्रधानजनोचितदेशकालोत्पन्नाः । तथाच
कालाद्यनुसारिणां तेषां स्वस्वपक्षाभिरुचिरिति तत्तत्प्रशंसा युक्तेति भावः ॥
५३ ॥

तैर्मिथ्या राघव प्रोक्ताः कर्ममानसचेतसाम् ।
स्वविकल्पार्पितैरर्थैः स्वाः स्वा वैचित्र्ययुक्तयः ॥ ५४ ॥

तर्हि किं मुमुक्षुभिरपि तदुक्तयुक्तय उपादेया नेत्याह - तैरिति । तैः
कर्ममानसचेतसां फलेच्छया तत्साधनकर्मणि मानसं वाञ्छा यस्य
तथाविधं चेतो येषां तेषामर्थे स्वाः स्वाः स्वकपोलनिर्मिता वैचित्र्ययुक्तयो
मिथ्यैव प्रोक्ता न प्रमाणमूर्धन्योपनिषत्सम्मता इत्यर्थः ॥ ५४ ॥

यथैव पुरुषः स्नानदानादानादिकाः क्रियाः ।
कुर्वंस्तत्कर्तृवैचित्र्यमेति तद्वदिदं मनः ॥ ५५ ॥

विचित्रकार्यवशतो नामभेदेन कर्तृता ।
मनः सम्प्रोच्यते जीववासनाकर्मनामभिः ॥ ५६ ॥

परिशेषात्स्वोक्तयुक्तय एव प्रामाणिक्य इत्याशयेन ताः पुनराह -
विचित्रेत्यादिना ॥ ५६ ॥

चित्तमेवेदमखिलं सर्वेणैवानुभूयते ।
अचित्तो हि नरो लोकं पश्यन्नपि न पश्यति ॥ ५७ ॥

स्वोक्तयुक्तिषु लोकानुभवं संवादयति - चित्तमेवेत्यादिना ॥ ५७ ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
अन्तर्हर्षं विषादं च समनस्को हि विन्दति ॥ ५८ ॥

आलोक इव रूपाणामर्थानां कारणं मनः ।
बध्यते बद्धचित्तो हि मुक्तचित्तो हि मुच्यते ॥ ५९ ॥

रूपाणां रूपप्रकाशानाम् । पञ्चीकृते पृथिव्यादौ प्रतीयमानानि
रूपाण्यालोकभागस्यैवेत्याशयो वा । मुक्तचितो निर्वासनचित्तो मुक्तोऽहमिति
निश्चयवान्वा ॥ ५९ ॥

तज्जडानां परं विद्धि जडं येनोच्यते मनः ।
न चावगच्छति जडं मनो यस्य हि चेतनम् ॥ ६० ॥

अत एव हि मनसोऽपि वादिनां स्वस्ववासनानुसारी
जाड्यानुभवश्चैतन्यानुभवश्चोपपन्न इत्याहा - तदिति ॥ ६० ॥

न चेतनं न च जडं यदिदं प्रोत्थितं मनः ।
विचित्रसुखदुःखेहं जगदभ्युदितं तदा ॥ ६१ ॥

एकरूपे हि मनसि संसारः प्रविलीयते ।
उपाविलं कारणं तैर्भ्रान्त्या जगदुपस्थितम् ॥ ६२ ॥

एकरूपे अद्वितीयब्रह्माकारे सति आविलं कलुषोदकं तस्य समीपे उपाविलं
तत्सदृशं मलिनचिद्रूपं तु कारणं संसारस्य तैस्तथाविधैर्मनोभिः
समष्टिभूतैर्हेतुभिरित्यर्थः ॥ ६२ ॥

अजडं हि मनो राम संसारस्य न कारणम् ।
जडं चोपलधर्मापि संसारस्य न कारणम् ॥ ६३ ॥

उपाविलमित्युक्तेस्तात्पर्यरहस्यमुद्घाटयति - अजडमिति द्वाभ्याम् ॥ ६३ ॥

न चेतनं न च जडं तस्माज्जगति राघव ।
मनः कारणमर्थानां रूपाणामिव भासनम् ॥ ६४ ॥

यथा नीलपीतादिरूपभेदानां न केवलं भासनशब्दितं तेजः कारणं न
पृथिव्यादि किन्तु त्रिवृत्करणेन मलिनं तेजस्तद्वदित्यर्थः ॥ ६४ ॥

चित्तादृतेऽन्यद्यद्यस्ति तदचित्तस्य किं जगत् ।
सर्वस्य भूतजातस्य समग्रं प्रविलीयते ॥ ६५ ॥

मनसोऽसत्त्वे जगत्सत्ताया निरूपणादर्शनादपि जगतो मनोमात्रत्वमित्याह ##-
सर्वस्य प्राणिनिकायस्य समग्रं जगत् प्रविलीयते तस्माच्चित्तमात्रं तदित्यर्थः
॥ ६५ ॥

नानाकर्मवशावेशान्मनो नानाभिधेयताम् ।
एकं विचित्रतामेति कालो नाना यथर्तुभिः ॥ ६६ ॥

यदि नामामनस्कारमहङ्कारेन्द्रियक्रियाः ।
क्षोभयन्ति शरीरं तत्सन्तु जीवादयः परे ॥ ६७ ॥

अमनस्कारं चित्ताभोगं विना । तत् तर्हि । परे मनोऽतिरिक्ताः ॥ ६७ ॥

दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः ।
क्वचित्क्वचिद्वादकरैरपवादकरैः किल ॥ ६८ ॥

तर्हि कथं प्रागुक्तवादिभिरन्ये सन्तीत्युक्तं तत्राह - दर्शनेष्विति ।
वादकरैर्वादिभिः । क्वचित्क्वचित्केषुचिद्दर्शनेषु स्वशास्त्रेषु ये भेदा उक्तास्ते
अपवादाः कुतर्कास्तूत्करैरुक्ता न प्रामाणिकैर्व्यासादिभिरित्यर्थः ॥ ६८ ॥

ते हि राम न बुध्यन्ते विशिष्यन्ते न च क्वचित् ।
सर्वा हि शक्तयो देवे विद्यन्ते सर्वगा यतः ॥ ६९ ॥

तेषां कुतर्कोद्भवे कारणान्याह - ते हीति । क्वचित्कदाचिदपि
तत्त्वज्ञैर्व्यासादिभिर्न विशिष्यन्ते नानुशास्यन्ते । तथाचाज्ञानं
साम्प्रदायिकशिक्षाशून्यत्वं मनो देवस्य स्वाभाविककुतर्कशक्तयश्च तत्र
कारणानीत्यर्थः ॥ ६९ ॥

यदैव खलु शुद्धाया [श्रद्धाया इति पाठः] मनागपि हि
संविदः ।
जडेव शक्तिरुदिता तदा वैचित्र्यमागतम् ॥ ७० ॥

तर्हि तर्काप्रतिष्ठानात्तेषां सदा संशय एव स्यात्कथं
व्यवस्थितैकैकपक्षनिर्णयवैचित्र्यं तत्राह - यदैवेति । स्वस्वोत्प्रेक्षिततर्के
श्रद्धाजाड्याद्वैचित्र्यमित्यर्थः ॥ ७० ॥

ऊर्णनाभाद्यथा तन्तुर्जायते चेतनाज्जडः ।
नित्यप्रबुद्धात्पुरुषाद्ब्रह्मणः प्रकृतिस्तथा ॥ ७१ ॥

त्वत्प्रक्षेऽपि तर्हि तव श्रद्धाजाड्यमेव कुतो न हेतुरित्याशङ्क्य नायं मम
स्वबुद्ध्योत्प्रेक्षितः किन्तु यथोर्णनाभिः सृजते गृह्णते च यथा
पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि
तथाऽक्षरात्सम्भवतीह विश्वम् इत्यादिश्रुतिसिद्धोऽयं पक्ष इत्याशयेनाह ##-

प्। ३६०) २१५

अविद्यावशतश्चित्तभावनाः स्थितिमागताः ।
चिति पर्यायशब्दा हि भिन्नास्ते नेह वादिनाम् ॥ ७२ ॥

वादिनां तु न श्रुत्यादर इत्यविद्यावशात्स्वस्वभावेनैव स्थिरीभूता तत एव
तैर्मनस एव नामरूपभेदा भ्रान्त्या कल्पिता इत्याह - अविद्येति । चिति
चित्तभावापन्ने चैतन्ये ॥ ७२ ॥

जीवो मनश्च ननु बुद्धिरहङ्कृतिश्चे-
त्येवं प्रथामुपगतेयमनिर्मला चित् ।
सैषोच्यते जगति चेतनचित्तजीव-
सञ्ज्ञागणेन किल नास्ति विवाद एषः ॥ ७३ ॥

उक्तमेव स्फुटयन्नुपसंहरति - जीव इति ॥ ७३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
मनःसञ्ज्ञाविचारो नाम षण्णवतितमः सर्गः ॥ ९६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मनःसञ्ज्ञाविचारो नाम षण्णवतितमः सर्गः ॥ ९६ ॥