पञ्चनवतितमः सर्गः ९५
श्रीवसिष्ठ उवाच ।
अभिन्नौ कर्मकर्तारौ सममेव परात्पदात् ।
स्वयं प्रकटतां यातौ पुष्पामोदौ तरोरिव ॥ १ ॥
अप्रबुद्धजनौघस्य प्रबोधाय न वस्तुतः ।
कर्मकर्त्रोः सहोद्भूतिराक्षिप्येह समर्थ्यते ॥ १ ॥
ब्रह्मण एव कल्पादौ सर्वा जीवजातय आविर्भवन्तीत्युक्तिब्याजेन
ब्रह्मैवोपाधिषु जीवभावेन प्रविष्टमिति दर्शितम् । एवञ्च आगन्तुके जीवभावे
न प्राक्तनं कर्म निमित्तं वक्तुं शक्यम् । तस्य प्राक्तनकर्तृसापेक्षत्वात् ।
तदर्थ जीवस्यानादित्वाभ्युपगमे तु न ब्रह्मणः प्रागुक्त औपाधिको
जीवभावः समर्थयितुं शक्य इत्युभयथापि दोषं प्रसक्तं
दृष्टिभेदाश्रयेण परिहरिष्यन् गूढाभिसन्धिः परिशेषाद्यौक्तिकदशा
सहोत्पत्ति * *? दर्शयति - अभिस्राविति ।
अन्योन्यतादात्म्यकल्पनादभिन्नो अतः समं युगपदेव परात्परदाद्ब्रह्मणः
सकाशात्स्वयं स्वस्वभाववशादेव सर्गादौ प्रकटतां यातौ । तथाच
भगवतो वाक्यम् - न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न
कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ इति ॥ १ ॥
सर्वसङ्कल्पनामुक्ते जीवा ब्रह्मणि निर्मले ।
स्फुरन्ति वितते व्योम्नि नीलिमेवाज्ञचक्षुषः ॥ २ ॥
तदाविर्भावे तादाग्र्याध्याये च जीवानां स्वभावशब्दितं * *?
नमेव हेतुरिति सदृशान्तमाह - सर्वेति ॥ २ ॥
अप्रबुद्धजनाचारो यत्र राघव दृश्यते ।
तत्र ब्रह्मण उत्पन्ना जीवा इत्युक्तयः स्थिताः ॥ ३ ॥
अत एव सृष्टिवादोऽयभङ्गसम्मतव्यवहारभूमावेव(?) न
परमार्थपदे इत्याह - अप्रबुद्धेति ॥ ३ ॥
सम्प्रबुद्धजनाचारे वक्तुमेतन्न शोभनम् ।
यद्ब्रह्मण इदं जातं न जातं चेति राघव ॥ ४ ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तिरित्येवा
परमार्थता । तदेतद्ब्रह्मापूर्वमनापरमनान्तरम * * * *
न जगतो जीवानां कर्मणां वा उत्पत्त्यादिकं तन्निषेधो वा वक्तुं शक्य
इत्याह - सम्प्रबुद्धेति ॥ ४ ॥
काचिद्वा कलना यावन्न नीता राघव प्रथाम् ।
उपदेश्योपदेशश्रीस्तावल्लोके न शोभते ॥ ५ ॥
तर्हि परमार्थोपदेशके शास्त्रे किम *? र * * * *
५ ॥
अतो भेददृशा दीनामङ्गीकृत्योपदिश्यते ।
ब्रह्मेदमेते जीवा वै वेति वाचामयं क्रमः ॥ ६ ॥
यावद्व्यवहारकालमङ्गीकृत्येत्यर्थः । वै इति निश्चये । वा इति संशये ।
इतिशब्दः प्रकारे । यावत्प्रमाण * *? शोधं निश्चयेन
यावत्प्रमेयनिर्णयं संशयेन प्रकारेणाङ्गीकृत्येत्यर्थः ॥ ६ ॥
इति दृष्टो निरासङ्गाद्ब्रह्मणो जायते जगत् ।
तजं तदेव तद्धेतुगतं दुरवबोधतः ॥ ७ ॥
लोकेऽप्यन्युप * * *? वादो बहुशः प्रसिद्धः इत्याह - इति
दृष्ट इति । यद्यभ्यु * *? द्वैतं तर्हि कथमपोद्यते तत्राह -
निरासङ्गादिति । निरासङ्गाद * * *? द्वितीयाद्ब्रह्मणो *
। * * *? दुत्पत्तेः प्राक् हेतु * * * * *
मेरुमन्दरसङ्काशा वहवो जीवराशयः ।
उत्पत्त्योत्पत्त्य संलीनास्तस्मिन्नेव परे पदे ॥ ८ ॥
तदुपादा * * *? तु कालत्रयेऽपि तत्रैवोत्पद्म लीयमानात्वा
दृशन्ते(?) ॥ ८ ॥
अथानन्ताः स्फुरन्त्येते जायमानाः सहस्रशः ।
नानाककुघ्निकुब्जेषु पादपेष्विव प *? वाः ॥ ९ ॥
जीवौघाश्चोद्भविष्यन्ति मधाविव नवाङ्कुराः ।
तत्रैव लयमेष्यन्ति ग्रीष्मे मधुरसा इव ॥ १० ॥
तिष्ठन्त्यजस्रं कालेषु त एवान्ये च भूरिशः ।
जायन्ते च प्रलीयन्ते परस्मिञ्जीवराशयः ॥ ११ ॥
पुष्पामोदादिपाभिन्नौ पुमान्कर्म च राघव ।
परमेशात्समायाते तत्रैव विशतः शनैः ॥ १२ ॥
मूढाभिसन्धिमुपसंहरति(?) - पुष्पामोदाविति । अभिन्नाविति
। पुष्पामोदाविति दृष्टान्तविशेष * * * * *(##?
दृष्टमेते जगत्यस्मिन्दैत्योरगनरामराः ।
उद्भवन्त्यभवा भावैः प्रस्फुरन्ति पुनः पुनः ॥ १३ ॥
सहोत्पत्तिकलनायां दृष्टानुसारोऽप्यस्तीत्याह - दृष्टमिति । वस्तुवृत्या
अभावा अपि भावैर्वासनाभूतमात्रोपाधिभिरुद्भवन्ति तत्कालं प्रस्फुरन्ति
सञ्चलन्ति चेति सहोत्पत्तितादात्म्ययोः प्रत्यक्षं दर्शनादित्यर्थः ॥ १३ ॥
प्। ३५४) २१२
हेतुर्विहरणे तेषामात्मविस्मरणादृते ।
न कश्चिल्लक्ष्यते साधो जन्मान्तरफलप्रदः ॥ १४ ॥
तथाच तदुत्पत्तौ न कर्माणि न वा अन्यन्निमित्तं कर्तृपूर्वकत्वात्तेषामतः
परिशेषात्प्रागुक्ताज्ञानमेकमेवेत्याह - हेतुरिति । अयमभिसन्धिः । न
तावत्कर्तुरनादिता वक्तुं शक्या कर्तृत्वस्य स्वाभाविकत्वे
अनादिस्वभावस्याग्न्यौष्ण्यस्येवोपायसहस्रैरप्यपरिहार्यतयाऽनिर्मोक्षप्रसण्
^गात् । औपाधिकत्वे स उपाधिरविद्यैव वा स्यादन्यो वा । आद्ये फलतः
सैद्धान्तिकपरिशेषपक्षान्तर्गतिः । किञ्च अविद्याया आत्मनि
कर्तृतापादकत्वं स्वत एव वा अन्यसापेक्षतया वा । न स्वतः
सुषुप्तिमूर्च्छाप्रलयेष्वप्यात्मनः [प्यनात्मन इति पाठः]
कर्तृत्वापादनापत्तेः । अन्यसापेक्षतया चेद्यत्सापेक्षा सत्यविद्या
कर्तृतामापादयति स एवोपाधिः स्यान्नाविद्या । नह्युपाधेरुपाधिर्भवतीति ।
द्वितीयेऽपि स उपाधिरविद्याकार्यं स्वतन्त्रो वा । स्वातन्त्र्ये यद्यनादिस्तर्हि
सुषुप्तिप्रलययोरपि कर्तृतामापादयेत् । यदि सादिस्तर्हि तदुपहितकर्तृरूपमपि
साद्येवेति नानादिकर्तृसिद्धिः । अविद्याकार्योपाधिपक्षेऽप्ययमेव दोष इति
नित्यस्याप्यात्मनः कर्त्रुपाधिसम्बन्धस्य प्रतिकल्पं प्रतिदिनं च
भेदात्तदधीनस्योपहितकर्तृरूपस्य कर्मसहोत्पत्तिः
कर्मशक्तिमदुपाधितादात्म्यरूपता च तत्र चात्मविस्मरणमेव बीजमिति पक्ष
एव यौक्तिकदृशा परिशिष्यते । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु
विनश्यति इति श्रुतिरप्यत्रानुकूलेति ॥ १४ ॥
श्रीराम उवाच ।
अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः ।
वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते ॥ १५ ॥
अस्मिन्पक्षे अनुपपत्तिमुपपादयिष्यन् रामस्तदुपयोगिनीं भूमिकां रचयितुं
शास्त्रलक्षणमाह - अविसंवादिनेति । अलौकिके धर्मे ब्रह्मणि च प्रमाणं
श्रुतिस्तत्प्रभवा दृष्टिर्येषां तैः प्रामाणिकदृष्टिभिर्वीतरागैश्च
मन्वादिभिर्धर्माधर्मरूपे अर्थे स्वमूलश्रुत्यविसंवादिना
जैमिनीयादितन्त्रसिद्धन्यायकलापेन यद्यद्विनिर्णीतं निर्णीय निबद्धं
स्मृतिपुराणकल्पसूत्रेतिहासादि तच्छास्त्रमिति कथ्यते । तथाच
श्रुतयस्तन्मूलस्मृत्यादयश्चालौकिकार्थे मानमित्याशयः ॥ १५ ॥
महासत्त्वगुणोपेता ये धीराः समदृष्टयः ।
अनिर्देश्यकलोपेताः साधवस्त उदाहृताः ॥ १६ ॥
एवं सदाचारोऽपि मानमिति वक्तुं सतां लक्षणमाह - महासत्त्वेति ।
महता अत्यन्तविशुद्धेन सत्त्वगुणेनोपेताः । धीरा
विषयैर्दुःखस्थानैश्चाप्रकम्प्याः समदृष्टयः अरागद्वेषाः ।
अनिर्देश्या शब्देनाभिलपितुमशक्या या निरतिशयानन्दब्रह्मसाक्षात्कारकला
तदुपेताः । ते साधवः सन्त इत्यर्थः ॥ १६ ॥
द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम् ।
साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते ॥ १७ ॥
साधुवृत्तमुक्तलक्षणानां सतामाचारः शास्त्रं श्रुतिस्मृती चेति द्वयं
बालानामज्ञाततत्त्वानां शिष्टानां दृष्टिर्नेत्रद्वयं
धर्मब्रह्मतत्त्वदर्शनायेत्यर्थः ॥ १७ ॥
साधुसंव्यवहारार्थं शास्त्रंयो नानुवर्तते ।
बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति ॥ १८ ॥
साधुः स्वर्गमोक्षोपयोगी यः संव्यवहारस्तदर्थं तत्प्रयोजनं शास्त्रं
सर्वे शिष्टा इति शेषः ॥ १८ ॥
इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो ।
यथा कर्म च कर्ता च पर्यायेणेह सङ्गतौ ॥ १९ ॥
इह अस्मिन् लोके प्रामाणिकजने वेदे च इत्थं श्रूयत इति श्रुतिर्नि रूढप्रवादः ।
अस्तीति शेषः । प्रवादमेवाभिलप्य दर्शयन् विवक्षितमर्थमाह -
यथेत्यादिना । पर्यायेण अयौगपद्येन । हेतुफलभावेनेति यावत् ॥ १९ ॥
कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते ।
बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः ॥ २० ॥
तदेव स्पष्टमाह - कर्मणेति । प्रणीयते निष्पाद्यते ॥ २० ॥
कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः ।
जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात् ॥ २१ ॥
यया वासनया जन्तुर्नीयते भवपञ्जरे ।
तद्वासनानुरूपेण फलं समनुभूयते ॥ २२ ॥
कर्मेव वासनापि प्राक्तनी कर्तृहेतुरित्याह - ययेति । समनुभूयते तेन
जन्तुनेति शेषः ॥ २२ ॥
एवं स्थिते कथं नाम जन्मबीजेन कर्मणा ।
विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् ॥ २३ ॥
एवं भूमिकां कृत्वा कर्तृकर्मणोः सहोत्पत्तिपक्षमाक्षिपति - एवं
स्थिते इति । सहोत्पत्तिपक्षे हि प्राक्तनं कर्म विनैवोत्पत्तिरिति फलितं तच्चायुक्तम् ।
साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यो वै पुण्येन कर्मणा
भवति पापः पापेन कर्मणा जायते जन्तुः
इत्यादिश्रुतिस्मृतिशिष्टप्रवादविरोधादित्यर्थः ॥ २३ ॥
पक्षेणानेन भगवन्भवता जन्मकर्मणोः ।
तिरस्कृता जगज्जाता साऽविनाभावितैतयोः ॥ २४ ॥
अनेन सहोत्पत्तिपक्षेणैतयोर्जीवकर्मणोर्जगति जाता प्रमाणनिरूढा
अविनाभाविता अन्वयव्यतिरेकशालिनी परस्परहेतुफलता तिरस्कृता
भवतेत्यर्थः ॥ २४ ॥
ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च ।
कर्मणां फलमस्तीति द्वयं लोके प्रमार्जितम् ॥ २५ ॥
कर्मणां अकारणे अद्वयत्वात्स्वातिरिक्तकारणशून्ये मायाशबले ब्रह्मणि
वियदादिस्थूलदेहान्तभोगायतनसर्गरूपं फलमस्ति तत्फलेषु ब्रह्मादिषु
हिरण्यगर्भादिस्थूलसूक्ष्मोपाधिषु भोगतात्सामग्रीसर्गरूपं फलमस्तीति
लोके प्रसिद्धं प्रवादद्वयं त्वया प्रमार्जितमित्यर्थः ॥ २५ ॥
सञ्जाते सङ्करे लोके कर्मस्वफलदायिषु ।
मात्स्यन्याये विलसति नाश एवावशिष्यते ॥ २६ ॥
दोषान्तरमप्याह - सञ्जात इति । कर्मस्वफलदायिषु निष्फलेषु सत्सु
नरकादिभयाभावान्मत्स्यैरिव बलवद्भिर्हिंसनभक्षणैर्मात्स्यन्याये
विलसति सति ॥ २६ ॥
प्। ३५५) २१२
किं तत्कृतं भवत्येव भगवन्ब्रूहि तत्त्वतः ।
एनं मे संशयं स्फारं छिन्धि वेद्यविदांवर ॥ २७ ॥
तत्तस्मात् हे ब्रह्मन् तत्त्वतो यथार्थतो ब्रूहि । कृतं कर्म फलात्मना
भवत्येव किंवा नेति एनं संशयं छिन्धि ॥ २७ ॥
श्रीवसिष्ठ उवाच ।
साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम् ।
शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ॥ २८ ॥
इत्थमाक्षिप्तो वसिष्ठः प्रामाणिकमाक्षेपं प्रशंसंस्तत्समाधिं
प्रतिजानीते - साध्विति ॥ २८ ॥
मानसोऽयं समुन्मेषः कलाकलनरूपतः ।
एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते ॥ २९ ॥
सहोत्पत्तिपक्षेऽपि यथा न कश्चिद्दोषस्तथोपपादयितुं भूमिकां रचयति -
मानस इति । यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति
श्रुतेर्मनःसम्बन्धी यः कलाकलनरूपतः क्रियाकौशलप्रतिसन्धानरूपेण
समुन्मेषो विकासः एतत्तत्प्रसिद्धं कर्मणां बीजम् । कथं ज्ञायते । यतः
अस्यैवोत्तरत्र क्रियानिष्पत्तिरूपं फलं विद्यते
नामनःपूर्वकदेहचेष्टामात्रस्येत्यर्थः ॥ २९ ॥
यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात् ।
तदैव कर्म जन्तूनां जीवो देहतया स्थितः ॥ ३० ॥
फलमस्यैव विद्यते इति यदुक्तं तदुदाहृत्य दर्शयति - यदैवेति ।
आदिसर्गे परब्रह्मणः पदाद्यदैव मनोलक्षणं तत्त्वं वस्तूत्थितं तदैव
जन्तूनां तदुपाध्याविर्भूतसमष्टिव्यष्टिजीवानां कर्माप्युत्थितम् । जीवश्च
प्राक्तनवासनानुसारिदेहतया देहाहम्भावेन स्थितः । तथाच श्रुतिः -
तन्मनोऽकुरुत आत्मन्वी स्यामिति सोऽर्चन्नचरत् इति च ।
मनोजन्माधीनमेवात्मन्विताशब्दितदेहित्वं सञ्चरणलक्षणं कर्म च
दर्शयति । यद्यद्भवन्ति तदा भवन्ति इति च श्रुत्यन्तरम् । तथाच मन एव
कर्तृ नात्मेति दर्शयितुं मया सहोत्पत्तिपक्षो दर्शित इति भावः ॥ ३० ॥
कुसुमाशययोर्भेदो न यथा भिन्नयोरिह ।
तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः ॥ ३१ ॥
एवं कर्तृकर्माबेदोक्तेरपि कर्मणो मनोधर्मतैव नात्मधर्मता
कौटस्थ्यस्वभावविरोधादिति प्रदर्शने तात्पर्यमिति सदृष्टान्तमाह -
कुसुमेति । आशयोऽत्रान्तस्थ आमोदः ॥ ३१ ॥
क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः ।
पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि ॥ ३२ ॥
ननु कर्मशब्देन यज्ञादिस्तज्जन्यमदृष्टं वोच्यते । तत्राद्यो देहधर्मः
द्वितीयस्तु भोक्तृसमवायी तत्कथं मनोधर्मतानयोस्तत्राह - क्रियेति ।
क्रियैव हि कर्मसंस्कारात्मना मनसि स्थिता अदृष्टफलात्मना आविर्भूता
देहस्वर्गनरकादिरूपा भवति । एवञ्च तस्य कर्मण आश्रयो देहमपि पूर्व
मन एव । सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति इति श्रुत्य मनसो
भाविदेहाकाराभिमानं प्राप्तस्यैव पूर्वदेहादुत्क्रमणश्रुतेः ।
आतिवाहिकदेहस्यैव वासनाबलेन स्थूलदेहताकल्पनमिति प्राग्व्युत्पादनाच्च ।
अतश्चित्तं मनएव कर्मधर्मकत्वात्कर्मेत्यर्थः ॥ ३२ ॥
न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम् ।
अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् ॥ ३३ ॥
एवञ्च त्वदुक्तः कर्मनैष्फल्यदोषोऽपि परिहृतो मनःकार्यस्य सर्वस्यापि
प्रपञ्चस्य कर्मफलत्वोपपत्तेरित्याशयेनाह - न स इति । फलशब्दो
भावप्रधानः । फलत्वमित्यर्थः ॥ ३३ ॥
ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत् ।
पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः ॥ ३४ ॥
रचितं सावधानमनुष्ठितं साङ्गतया च स्फुरद्विराजमानं यत्कर्म असौ
पौरुषः प्रयत्न एव सच कदाचन कदाचिदपि निष्फलो नेत्यर्थः ।
अयमभिप्रायः - अविद्योत्थं मन एव
क्रियाशक्तिमत्त्वाच्चिदात्मौपाधित्वाच्च कर्तृभोक्तृ च । तच्च अन्नमयं हि
सोम्य मनस्तन्मनोऽकुरुत त्रीण्यात्मनेऽकुरुत मनो वाचं प्राणम् इत्यादिश्रुतेः
प्रागुक्तयुक्तेश्च । यद्यपि प्रतिकल्पं प्रतिदिनं चोत्पद्य प्रलीयते तथापि
प्रत्यहमाविर्भूय निशि तमसि तिरोभवन्ती कुड्यच्छायेव
प्रतिदर्पणसन्निधानमाविर्भूय दर्पणापसरणे
रितोभवन्मुखप्रतिबिम्बमिव च
तदेवेदमित्यबाधितप्रत्यभिज्ञाप्रामाण्यादुपहितात्मैक्याच्च न भिद्यते
इत्यनाद्यपि भवति । नहि नाशो नाम शून्यतापत्तिरुत्पत्तिर्वा असतः सत्त्वं येन
प्रत्यहं सुषुप्तौ नाशाद्भेदः स्यात् ।
सत्कार्यवादाश्रयणाच्चाविद्याबीजात्मना सतोरेव
प्राक्तनकर्तृकर्मणोस्तत्फलवियदादिप्रपञ्चस्य च सहोत्पत्त्यभ्युपगमेऽपि
न कृतहानाकृताभ्यागमप्रसङ्ग इति न शास्त्रप्रामाण्यबाधो न वा
मात्स्यन्यायप्रसक्तिर्न वा जन्मकर्मणोरविनाभावनियमप्रमार्जनं मन
एव तिरोभूतावस्थमाविर्भूतावस्थं
चाविद्येत्यभ्युपगमाच्चात्मविस्मरणैकहेतुपरिशेषोक्तिरप्यविरुद्धेति तत्त्वमिति
॥ ३४ ॥
कृष्णतासङ्क्षये यद्वत्क्षीयते कज्जलं स्वयम् ।
स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः ॥ ३५ ॥
सहोत्पत्त्यैक्यपक्षाभ्युपगमस्य किं फलं तदाह - कृष्णतेति । तथाच
कर्ममनसोरन्यतरनाशार्थिना स्पन्दात्मकस्य प्राणस्य मनसो वा
निरोधलक्षणो हठयोगो राजयोगो वाभ्यसनीय इति तत्फलमिति भावः ॥ ३५ ॥
कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता ।
मुक्तस्यैष भवत्येव नामुक्तस्य कदाचन ॥ ३६ ॥
योगजन्यसाक्षात्कारेणाविद्यानाशे चात्यन्तिक उभयनाशो भवति
नान्यथेत्याशयेन मुक्तस्येत्युक्तिः ॥ ३६ ॥
वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः ।
द्वयोरेकतराभावे द्वयमेव विलीयते ॥ ३७ ॥
श्लिष्टयोस्तादात्म्येन सङ्गतयोः ॥ ३७ ॥
प्। ३५६) २१३
चित्तं सदा स्पन्दविलासमेत्य
स्पन्दैकरूपं ननु कर्मविद्धि ।
कर्माथ चित्तं किल धर्मकर्म-
पदं गते राम परस्परेण ॥ ३८ ॥
एकनाशे अपरनाश इत्यत्रोपपत्तिं दर्शयन्नुपसंहरति - चित्तमिति ।
यतश्चित्तं स्पन्दविलासमेत्य विहितनिषिद्धनिष्पादनेन
पुण्यपापात्मकधर्माधर्माकारपरिणामि भवति । अथ कर्म च
तत्फलभोगानुरूपस्पन्दात्मकविलासमेत्य चित्तं भवति । अतस्ते परस्परेण
निमित्तेन धर्मपदं कर्मपदं च गते वाचकत्वेन प्राप्ते
धर्मकर्मशब्दाभ्यां लोके व्यवह्रियेते इत्यर्थः ॥ ३८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ०
कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः ॥ ९५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः ॥ ९५ ॥