०९४

चतुर्नवतितमः सर्गः ९४

श्रीवसिष्ठ उवाच ।

उत्तमाधममध्यानां पदार्थानामितस्ततः ।
उत्पत्तीनां विभागोऽयं शृणु वक्ष्यामि राघव ॥ १ ॥

इह द्वादशधा भिन्ना वर्ण्यन्ते जीवजातयः ।
उपाधिगुणवैचित्र्याच्चिराचिरविमुक्तिगाः ॥ १ ॥

पूर्वोक्ते जीवानां चिराचिरमुक्तिविभागे रामस्य विशेषजिज्ञासां
लिङ्गैरुपलक्ष्य तद्विस्तरेण वक्तुं वसिष्ठ उवाच - उत्तमेत्यादिना ।
सात्त्विकतामसराजसभेदेनोत्तमाधममध्यमानां पदार्थानां
जीवोपाधीनामितस्ततो भुवनभेदेषु या उत्पत्तयः प्राक्कथितास्तासामयं
वक्ष्यमाणो विभागोऽस्ति तं वक्ष्यामि शृण्वित्यर्थः ॥ १ ॥

इदम्प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि ।
इदम्प्रथमतानाम्नी शुभाभ्याससमुद्भवा ॥ २ ॥

इदम्प्रथमता १ गुणपीवरी २ ससत्त्वा ३ अधमसत्त्वा ४ अत्यन्ततामसी ५ राजसी ६
राजससात्त्विकी ७ राजसराजसी ८ राजसतामसी ९ राजसात्यन्ततामसी १० तामसी ११
तामससत्त्वा १२ तमोराजसी १३ अत्यन्ततामसी १४ इति वक्ष्यमाणभेदेषु
अन्त्ययोर्भेदयोः पञ्चमनवमयोरन्तर्भावाद्द्वादश भेदाः परिशिष्यन्ते
तेष्वाद्यां दर्शयति - इदम्प्रथमतोत्पन्न इति । यो जीवः पूर्वकल्पे
चरमजीवजन्मनि शमदमादिसर्वसाधनगुणसम्पत्तावपि
श्रवणाद्यलाभाद्बलवत्प्रतिबन्धाद्वा अनुत्पन्नज्ञानोऽस्मिन् कल्पे
इदम्प्रथमतया जन्मन्येव शमादिसर्वगुणसम्पन्नो ज्ञानयोग्य
उत्पन्नस्तस्य सा जीवजातिरिदम्प्रथमतानाम्नीत्यर्थः ।
प्राक्कल्पीयशुभाभ्याससमुद्भवा हि सा । तस्मिन्नेव जन्मनि
मुक्तिभागित्यर्थः ॥ २ ॥

शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी ।
सा चेद्विचित्रसंसारवासनाव्यवहारिणी ॥ ३ ॥

सैव चेत्प्राक्तनवैराग्यमान्द्यच्छुभलोकेच्छाकृतोपासनकर्मादिसंवलिता
अत एव विचित्रसंसारवासनया भोगव्यवहारिणी भोगैर्वासनाक्षये
कतिपयैर्दशपञ्चभिरेव भवैर्जन्मभिर्मोक्षं प्रापयतीति शेषः । इति हेतोः
सा शान्तिरागाद्युभयगुणोपचितत्वाद्गुणपीवरीत्युक्तेत्यर्थः ॥ ३ ॥

भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी ।
तादृक्फलप्रदानैककार्याकार्यानुमानदा ॥ ४ ॥

तृतीयामाह - तादृगिति । तादृक्शब्दो वीप्सितव्यः । तादृशानि
तादृशानि यानि सुखदुःखफलानि तत्प्रदानलक्षणैरेकैर्मुख्यैर्लिङ्गैः
प्राक्कल्पीययोः कार्याकार्ययोः पुण्यपापयोरनुमानदा अनुमापयित्री सापि
क्रमात्सत्त्वोपचये शतावधिजन्मभिर्मोक्षभागित्यर्थाद्गम्यते ॥ ४ ॥

तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः ।
अथ चेच्चित्रसंसारवासनाव्यवहारिणी ॥ ५ ॥

चतुर्थीमाह - अथेति ॥ ५ ॥

अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी ।
तादृक्फलप्रदानैकधर्माधर्मानुमानदा ॥ ६ ॥

अत्यन्तकलुषा प्राक्तनकल्पसञ्चितबहुदुष्कर्मदुर्वासनामालिन्यवती ।
तादृगित्यादि प्राग्वत् ॥ ६ ॥

असावधमसत्त्वेति तेन साधुभिरुच्यते ।
सैव सङ्ख्यातिगानन्तजन्मवृन्दादनन्तरम् ॥ ७ ॥

पञ्चमीमाह - सैवेति । सैव तादृग्लक्षणैव सती
अध्यात्मशास्त्रवैमुख्याहस्मिन्कल्पे सन्दिग्धमोक्षा
कथञ्चित्सम्भावितमोक्षा ॥ ७ ॥

प्। ३५२) २११

सन्दिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी ।
अनद्यतनजन्मा तु जातिस्तादृशकारिणी ॥ ८ ॥

षष्ठीं लक्षयति - अनद्यतनेति । या तु
जातिरनद्यतनजन्मापूर्वकल्पीयवासनानुसारिणी अत एव तादृशचरित्रकारिणी
द्वित्रिभवान्तरा एतत्कल्पीयद्वित्रिजन्ममध्ये मध्यमा मनुष्यादिरूपा या
उत्पत्तिस्तादृक्कार्या तदनुरूपस्वर्गनरकादिप्रापिका सन्दिग्धमोहा सा
राजसीत्यर्थः ॥ ८ ॥

योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा ।
तादृक्कार्या तु सा लोके राजसी राजसत्तम ॥ ९ ॥

अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः ।
सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः ॥ १० ॥

सप्तमीं लक्षयति - अविप्रकृष्टेति । सा यदा
राजसदुःखानुभवप्रयुक्तवैराग्यादिसम्पत्त्या अविप्रकृष्टज्ञानजन्मापि
भवति तदा तत्रत्यमृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः प्रोच्यते । सैव
मया तादृक्कार्यलिङ्गकानुमानेन राजससात्त्विकी प्रोक्तेत्यर्थः ॥ १० ॥

तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी ।
सैव चेदितरैरल्पैर्जन्मभिर्मोक्षभागिनी ॥ ११ ॥

अष्टमीं लक्षयति - सैव चेदिति ।
इतरैरक्तमानुषातिरिक्तैरत्यर्यक्षगन्धर्वादिजन्मभिः क्रमाज्ज्ञान *

तत्तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी ।
सैव जन्मशतैर्मोक्षभागिनी चेच्चिरैषिणी ॥ १२ ॥

नवमीं लक्षयति - सैव जन्मशतैरिति ॥ १२ ॥

त्वदुक्ता तादृगारम्भा सद्भी राजसतामसी ।
सैव सन्दिग्धमोक्षा चेत्सहस्रैरपि जन्मनाम् ॥ १३ ॥

तादृगारम्भा राजसतामसक्र * *?
पभोजककर्मोपासनद्यारम्भवती । दशमी लक्षयति - सैवेति ॥ १३ ॥

तदुक्ता तादृशारम्भा राजसात्यन्ततामसी ।
भुक्तजन्मसहस्रा तु योत्पत्तिर्ब्रह्मणो नृणाम् ॥ १४ ॥

एकादशीमाह - मुक्तेति । ब्रह्मणो हिरण्यगर्भाद्या उत्पत्तिः
कल्पादावाविर्भावः ॥ १४ ॥

चिरमोक्षा हि कथिता तामसी सा महर्षिभिः ।
तज्जन्मनैव मोक्षस्य भागिनी चेत्तदुच्यते ॥ १५ ॥

चिरमोक्षा कल्पान्तरमोक्षा । द्वादधीमाह - तज्जन्मनैवेति । तज्जन्मना
तामसप्रथमजन्मना । तामसे दानवरक्षःपिशाचादिजन्मनि
सत्त्वोत्कर्षात्प्रह्लादकर्कट्यादीनां ज्ञानं प्रसिद्धमिति भावः ॥ १५ ॥

तज्ज्ञैस्तामससत्त्वेति तादृशारम्भशालिनी ।
भवैः कतिपयैर्मोक्षभागिनी चेत्तदुच्यते ॥ १६ ॥

राजसतामसी प्राक्प्रोक्ता तस्या एव कार्यपौर्वापर्येण त्रयोदशीमाह -
भवैरिति ॥ १६ ॥

तमोराजसरूपेति तादृशैर्गुणबृंहितैः ।
पूर्वजन्मसहस्राढ्या पुरोजन्मशतैरपि ॥ १७ ॥

गुणबृंहितै रजस्तमोबहुलफलैरुपलक्षिते इत्यर्थः ॥ १७ ॥

मोक्षायोग्या ततः प्रोक्ता तज्ज्ञैस्तामसतामसी ।
पूर्वं तु जन्मलक्षाढ्या जन्मलक्षैः पुरोऽपि चेत् ॥ १८ ॥

चतुर्दशी विधामाह - पूर्वमिति ॥ १८ ॥

सन्दिग्धमोक्षा तदसौ प्रोच्यतेऽत्यन्ततामसी ।
सर्वा एताः समायान्ति ब्रह्मणो भूतजातयः ॥ १९ ॥

सर्वासामुपाधिद्वारा ब्रह्मप्रभवत्वं ब्रह्माभेदसम्भावनाय
दृष्टान्तभेदैर्द्रढवन्नाह - सर्वा एता इति ॥ १९ ॥

किञ्चित्प्रचलिता भोगात्पयोराशेरिवोर्मयः ।
सर्वा एव विनिष्क्रान्ता ब्रह्मणो जीवराशयः ॥ २० ॥

स्वतेजःस्पन्दिताभोगाद्दीपादिव मरीचयः ।
सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः ॥ २१ ॥

स्वमरीचिवलोद्भूता ज्वलिताग्नेः कणा इव ।
सर्वा एवोत्थितास्तस्माद्ब्रह्मणो जीवराशाः [दृश्यदृश्य इति
पाठः] ॥ २२ ॥

कणाः स्फुलिङ्गाः ॥ २२ ॥

मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः ।
सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः ॥ २३ ॥

यथा विटपिनश्चित्रास्तद्रूपा विटपधियः ।
सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः ॥ २४ ॥

विटपश्रियः शाखाशोभाः ॥ २४ ॥

कटकाङ्गदकेयूरयुक्तयः कनकादिव ।
सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः ॥ २५ ॥

निर्झरादमलोह्योतात्पयसामिव बिन्दवः ।
अजस्यैवाखिला राम भूतसन्ततिकल्पनाः ॥ २६ ॥

एवमंशांशिभावकल्पनया अभेदयोग्यतां प्रदर्श्य
उपाधिमिथ्यात्वप्रदर्शनेनाभेदं दर्शयति - अजस्यैवेति ॥ २६ ॥

आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा ।
सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् ॥ २७ ॥

उपाधिमिथ्यात्वं तदनन्यत्वन्यायोपपादनेन दृष्टान्ते दर्शयितुं जगतो
ब्रह्मकार्यत्वमाह - सर्वा एवेत्यादिना ॥ २७ ॥

सीकरावर्तलहरीबिन्दवः पयसो यथा ।
सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः ॥ २८ ॥

मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः ।
सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः ॥ २९ ॥

शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः ।
एवमेता हि भूतानां जातयो विविधाश्च याः ॥ ३० ॥

स्वस्य आलोकः प्रभेव । उपसंहरति - एवमित्यादिना ॥ ३० ॥

यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च ।
काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः ।
काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः ॥ ३१ ॥

समायान्त्याविर्भवन्ति । विशन्ति उपाधिविलयेनैक्यमापद्यन्ते । काश्चिदित्यादिः
प्रागुक्तस्यानुवादः ॥ ३१ ॥

प्। ३५३) २११

इत्थं जगत्सु विविधेषु विचित्ररूपा-
स्तस्येच्छया भगवतो व्यवहारवत्यः ।
आयान्ति यान्ति निपतन्ति तथोत्पतन्ति
रूपधियः कणपटा इव पादकोत्थाः ॥ ३२ ॥

तस्येश्वरात्मनो भगवतो ब्रह्मणो व्यवहारवत्यो रूपश्रिय उपाधिरूपाण्येव
श्रीर्यासां तथाविधाः प्रागुक्तजीवजातयो निपतन्ति भवाद्भवान्तरे भ्रमन्ति ।
पावकोत्थाः कणघटाः स्फुलिङ्गसमूहा इव ॥ ३२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे
ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः ॥ ९४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ब्रह्मणः
सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः ॥ ९४ ॥