त्रिनवतितमः सर्गः ९३
श्रीवसिष्ठ उवाच ।
इति मे भगवता पूर्वमुक्तं तदेतदद्य तुभ्यं कथितम् ॥ १ ॥
मनोऽत्र ब्रह्मणो जज्ञे ततोऽभूत्तैजसो विधिः ।
ततो मोहादहङ्कारस्ततो विश्वमितीर्यते ॥ १ ॥
मन उपक्रममेव सर्गक्रमं प्रागुक्तं
प्रपञ्चयैषुर्विधिसंवादमुपसंहरति - इतीति । भगवता परमेष्ठीना ॥
१ ॥
तस्मादनाख्यानाद्ब्रह्मणः सर्वतः सर्वमनाख्यानमुत्पद्यते
स्वयमेव तद्घनतां प्राप्य मनः सम्पद्यते ॥ २ ॥
अनाख्यानादव्याकृतनामरूपात् । अनाख्यानं
सूक्ष्मत्वान्नामसम्बन्धानर्हं सर्वं प्रपञ्चरूअप्ं चलनात्मकं
निर्विकल्पकज्ञानप्रकाशितमुत्पद्यते । तत्कालेन स्वयमेव
सङ्कल्पविकल्पनात्मकमननसामर्थ्योद्भवेन घनतां प्राप्य ॥ २ ॥
प्। ३५०) २१०
तन्मनस्तन्मात्रकल्पनपूर्वकसन्निवेशं भवति ततस्तैजसः पुरुषः
सम्पद्यते सोऽयं ब्रह्मेत्यात्मनि नाम कृतवान् ॥ ३ ॥
तन्मात्राणि सूक्ष्मभूतानि तत्कल्पनापूर्वकं सन्निवेशं स्वाप्नशरीरमिव
वासनामयपुरुषाकारम् । ततः सन्निवेशोपाधेस्तदुपहितः पुरुष आत्मा
तैजसः तेजःप्रधानलिङ्गसमष्ट्युपाधित्वात् । सोऽयं ब्रह्मा परमेष्ठी ॥ ३ ॥
तेन राम योऽयं परमेष्ठी तन्मनस्तत्त्वं विद्धि ॥ ४ ॥
तस्य जगत्सर्गसङ्कल्पकता मनोरूपत्वादेवेत्याह - तेनेति ॥ ४ ॥
समनस्तत्त्वाकारो भगवान्ब्रह्मा सङ्कल्पमयत्वाद्यदेव सङ्कल्पयति
तदेव पश्यति ॥ ५ ॥
ततस्तेनेयमविद्या परिकल्पिता अनात्मन्यात्माभिमानमयीति तेन ब्रह्मणा
गिरितृणजलधिमयमिदं क्रमेण जगत्परिकल्पितम् ॥ ६ ॥
ननु तत्सङ्कल्पाज्जगदुत्पद्यतां जीवानां तदभिमानस्तु कुतस्तत्राह -
ततस्तेनेति । अत्राविद्या अन्यथाग्रहणलक्षणाध्यासरूपा कार्याविद्या । इति अनया
रीत्या ॥ ६ ॥
इत्थं क्रमेण ब्रह्मतत्वादियमागता सृष्टिरन्यत एवागतेयमिति
लक्ष्यते ॥ ७ ॥
ब्रह्मतत्त्वाच्चिदेकरसादागतापि अन्यतो जडात्प्रधानपरमाण्वादेः
सकाशादागतेति तार्किकैर्लक्ष्यते ॥ ७ ॥
तस्मात्सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम् ।
उत्पत्तिर्ब्रह्मणो राम तरङ्गाणामिवार्णवात् ॥ ८ ॥
एकैकस्यानेकोपादानकल्पनागौरवान्न परमाणुकारणतावादो युक्तः । विना
कर्तारं जडस्य जगद्वैचित्र्यरचनानुपपत्तेरसङ्गोदासीनस्य
कर्तृत्वानुपपत्तेश्च न प्रधानकारणतावादो युक्तः । चितो
जडाकारपरिणामायोगान्न विज्ञानविपरिणामवादो युक्तः । शून्यस्य च क्वापि
कारणत्वादर्शनान्न तत्कारणतावादोऽपि युक्तः । सर्वेष्वपि कल्पेषु
प्रमाणाभावाच्च नान्यत इयमागता सृष्टिरिति निश्चिते
श्रुतिप्रामाण्याल्लाघवाच्चानिर्वचनीयमायाशक्तिकब्रह्मविवर्तवाद एव
परिशिष्ट इत्याशयेनोपसंहरति - तस्मादिति ॥ ८ ॥
य एवमनुत्पन्ने जगति या ब्रह्मणश्चिन्मनोरूपिणी साहङ्कारे परिकल्प्य
ब्रह्म ब्रह्मतामेति ॥ ९ ॥
य उत्पत्तिप्रकार एवमनया रीत्या । तामेवाह - अनुत्पन्ने इत्यादिना ।
विवर्तत्वादेव परमार्थतोऽनुपन्ने जगति अहङ्कारसमष्ट्युपाधौ ब्रह्म
प्रविष्टमिव परिकल्प्य ब्रह्मतां परमेष्ठितामेति ॥ ९ ॥
यास्त्वन्याश्चिच्छक्तयः सर्वशक्तेरभिन्ना एव कल्प्यन्ते ॥ १० ॥
अन्या व्यष्ट्यहङ्कारोपहिताश्चिच्छक्तयश्चिदाभासाः ॥ १० ॥
जगति स्फारतां नीते पितामहरूपेण मनसा समुल्लसन्ति ॥ ११ ॥
ताः पितामहरूपेण मनसा समष्टिमनोभावेन प्रथमं समुल्लसन्तीत्यर्थः
॥ ११ ॥
एते सहस्रशोऽपि परिवर्तमानजीवा उच्यन्ते ॥ १२ ॥
तेऽभ्युत्थिता एव चिन्नभसो नभसि तन्मात्रैरावलिता
गगनपवनान्तर्वर्तिनश्चतुर्दशविधा ये भूतजातमध्यतयाभ्यासे
तिष्ठन्ति तस्या एव प्राणशक्तिद्वारेण प्रविश्य शरीरं स्थावरं
जङ्गमं वापि बीजतां गच्छन्ति ॥ १३ ॥
ते हि चिन्नभस एव समुत्थिता नभसि मायाकाशे
तन्मात्रैर्भूतमात्रोपाधिभिरावलिताः सन्तो
गगनस्थपवनस्यावहोद्वहादिभेदभिन्नस्य वातस्कन्धभेदस्य चान्तर्वर्तिनो
ये चतुर्दशविधा लोकास्तेषु यादृशभूतजातमध्यवर्तितया
यादृशवासनाकर्माभ्यासे ये जीवास्तिष्ठन्ति तस्या एव भूतजातेः
प्राणशक्तिद्वारेण शरीरं स्थावरं जङ्गमं वा प्रविश्य रेतोरक्तादिरूपां
बीजतां गच्छन्ति ॥ १३ ॥
तदनु योनितो जगति जायन्ते तदनु
काकतालीययोगेनोत्पन्नवासनाप्रवाहानुरूपकर्मफलभागिनो भवन्ति ॥
१४ ॥
ततः कर्मरज्जुभिर्वासनावलिताभिर्बद्धशरीरा भ्रमन्तः प्रोत्पतन्ति
च ॥ १५ ॥
ततः साध्वसाधुवासनासंवलिताभिः पुण्यापुण्यकर्मरज्जुभिर्बद्धं
शरीरं लिङ्गशरीरं येषां तथाविधाः सन्तः प्रोत्पतन्त्युत्तमलोकान्निपतन्ति
निरयेषु वा ॥ १५ ॥
इच्छैवैता भूतजातयः ॥ १६ ॥
कर्मतद्वासनयोश्च कामराग एव बीजमिति तन्मया एव जीवा इत्याह -
इच्छैवैता इति । तथाच श्रुतिः काममय एवायं पुरुषः ॥ १६ ॥
काश्चिज्जनसहस्रान्ताः पतन्ति वनपर्णवत् ।
कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु ॥ १७ ॥
कामानुसारिजन्मपरम्परामेव मोक्षावसानां चतुर्धा पद्यैः प्रपञ्चयति
- काश्चिदित्यादिना । काश्चिद्भूतजातयस्तज्जीवाजननं जनः । जना जन्मानि
तत्सहस्राण्यन्तोऽवधिस्तत्त्वबोधस्य यासां तथाविधाः सन्तः संसारे पतन्ति
ततो मुच्यन्ते इत्यर्थः । वनपर्णवदित्यादिपूर्वोत्तरान्वयि ॥ १७ ॥
अप्रमेयभवाः काश्चिच्चित्सत्ताज्ञानमोहिताः ।
चिरजाता भवन्तीह बहुकल्पशतान्यपि ॥ १८ ॥
काश्चित्तु चित्सत्ताया अज्ञानेन मोहिता अत एवाप्रमेया गणनाद्यपरिच्छेद्या
भवा जन्मानि यासां तथाविधाश्चिरजाताः सत्य इह संसारे
बहुकल्पशतान्यपि भवन्ति ॥ १८ ॥
काश्चित्कतिपयातीता मनोरमभवान्तराः ।
विहरन्ति जगत्यस्मिञ्शुभकर्मपरायणाः ॥ १९ ॥
कतिपयान्यतीतान्यमनोरमाणि भवान्तराणि जन्मानि यासां तथाविधाः सत्यः
साम्प्रतं शुभकर्मपरायणा विहरन्ति ता अल्पैरेव जन्मभिर्भोक्ष्यन्त इति
शेषः ॥ १९ ॥
प्। ३५१) २१०
काश्चिद्विज्ञातविज्ञानाः परमेव पदं गताः ।
वातोद्भूताः पयोमध्यं सामुद्रा इव बिन्दवः ॥ २० ॥
काश्चित्त्वितः पूर्वमेव मुक्ता इत्याह - काश्चिदिति । वातोद्भूताः सामुद्रा
बिन्दवः पयोमध्यं समुद्रमिव प्रविशन्ति ॥ २० ॥
उत्पत्तिः सर्वजीवानामितीह ब्रह्मणः पदात् ।
आविर्भावतिरोभावभङ्गुरा भवभाविनी ॥ २१ ॥
उक्तमुपसंहरति - उत्पत्तिरित्यादिना ॥ २१ ॥
वासनाविषवैषम्यवैधुर्यज्वरधारिणी ।
अनन्तसङ्कटानर्थकार्यसत्कारकारिणी ॥ २२ ॥
नानादिग्देशकालान्तशैलकन्दरचारिणी [अन्तशब्देन मरणोत्तरं
गन्तव्या लोका उपलक्ष्यन्ते तेषु च] ।
रचितोत्तमवैचित्र्यविहिताऽसम्भ्रमाऽसती ॥ २३ ॥
नानादिक्षु नानादेशेषु नानाकालेषु नानाशैलकन्दरेषु च चारिणी
कर्मफलभोगसञ्चारवती । रचितैरुत्तमैर्वैचित्र्यैर्विहिता आसम्भ्रमाः
सर्वतोभ्रमा यया । परमार्थतस्त्वसती ॥ २३ ॥
एषा जगज्जाङ्गलजीर्णवल्ली
सम्यक्समालोककुठारकृत्ता ।
वल्लीव विक्षुब्धमनःशरीरा
भूयो न संरोहति रामभद्र ॥ २४ ॥
इत्थं संसारवल्लीं प्रपञ्च्य तदुच्छेदोपायमाह - एषेती । विक्षुब्धं
विक्षेपबहुलं मन एव शरीरं स्वरूपं यस्यास्तथाविधा एषा जगल्लक्षणा
मोहजाङ्गलस्य जीर्णवल्ली रजल्लता
सम्यक्समालोकस्तत्त्वसाक्षात्कारस्तल्लक्षणेन कुठारेण कृत्ता छिन्ना सती ।
वल्लीवेति व्यतिरेकदृष्टान्तः । भूयो न संरोहति मूलाज्ञानोच्छेदादिदिति
भावः ॥ २४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
उत्पत्तिदर्शनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे उत्पत्तिदर्शनं
नाम त्रिनवतितमः सर्गः ॥ ९३ ॥