द्विनवतितमः सर्गः ९२
श्रीवसिष्ठ उवाच ।
इत्युक्तवान्स भगवान्मया कमलसम्भवः ।
रघूद्वह पुनः पृष्टो वाक्यमाक्षिप्य भूतपः ॥ १ ॥
इहाक्षिप्य मनःशक्तिरमोघा स्थाप्यते दृढा ।
दार्ढ्ये पुरुषयत्नस्य यथेष्टारोपणक्षमा ॥ १ ॥
प्राक्तनं वाक्यमनुपपत्त्युद्भावनेनाक्षिप्य पुनर्मया पृष्टः ॥ १ ॥
त्वयैव भगवन्प्रोक्ताः शापमन्त्रादिशक्तयः ।
अमोघा इति ता एव कथं मोघाः कृताः पुनः ॥ २ ॥
आक्षेपप्रकारमेव दर्शयति - त्वयैवेति । अतस्त्वदुक्तिस्त्वदुक्तिविरुद्धेत्यर्थः
॥ २ ॥
शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्यपि ।
सर्वाण्येव विमूढानि दृष्टानि किल जन्तुषु ॥ ३ ॥
एवं लोकदृष्टविरोधोऽपीत्याह - शापेनेति । तथाच नहुषस्य
शापादजगरत्वं प्राप्तस्य मनोमोहात्स्ववंशजस्य भीमस्य ग्रसने
प्रवृत्तिः । तथैव धार्मिकस्यापि सौदासस्य शापाद्राक्षसतां गतस्य
बुद्धिमोहाद्ब्रह्मवधादौ प्रवृत्तिः । गन्धर्वराजस्य च
शापाद्धृतराष्ट्रजन्मनि चक्षुरिन्द्रियनाशः । एवमन्यत्रापि दृष्ट
इत्यर्थः ॥ ३ ॥
यथैतौ पवनस्पन्दौ यथा स्नेहतिलौ यथा ।
अभिन्नौ तद्वदेवैतौ मनोदेहौ स एव तत् ॥ ४ ॥
एवं कार्यविरोधोऽप्यस्तीत्याशयेनाह - यथेत्यादिना । तृतीययथाशब्दो
वह्न्यौष्ण्यादिदृष्टान्तान्तरसङ्ग्रहार्थः । कार्यकारणयोर्भेदानिरूपणात् ।
तथाच मनसो वरशापाद्यनाक्रमणे तदभिन्ने देहेऽपि तदनाक्रमणं
स्यादित्याद्याशयः ॥ ४ ॥
अथ नास्तीह वा देहः केवलं चेतसैव सः ।
मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत् ॥ ५ ॥
ननु देहस्य मनोन्यूनसत्ताकत्वादेव शापाद्याक्रमणेऽपि न
मनसस्तत्प्रसक्तिरिति विवर्तवादेन परिहारमाशङ्कते - अथेति ॥ ५ ॥
एकनाशे द्वयोरेव नाशोऽत्राभ्युपपद्यते ।
अवश्यं भवितुं मनोनाशे देहपरिक्षयः ॥ ६ ॥
तत्रापि दोषान्तरमाह - एकनाशे इति । एकनाशे द्वयोर्नाशो
भवितुमवश्यमुपपद्यते । यथा मनोनाशे देहपरिक्षयो दृष्टः एवं
देहानाशे मनःपरिक्षयोऽपि सम्भावित इति न देहस्य मनोन्यूनसत्ताकता किन्तु
समसत्ताकता । प्रत्युत चक्षुराद्यगम्यत्वे
सत्यपरोक्षविषयत्वात्स्वप्नादिवन्मनस एव देहन्यूनसत्ताकतेति रज्जुनाशे
सर्पस्येव देहनाशेन मनोवस्थानसम्भव इति भावः ॥ ६ ॥
मनः शापादिभिर्दोषैः कथं नाक्रम्यते प्रभो ।
कथमाक्रम्यते वापि ब्रूहि मे परमेश्वर ॥ ७ ॥
ब्रह्मोवाच ।
न तदस्तिजगत्कोशे शुभकर्मानुपातिना ।
यत्पौरुषेण शुद्धेन न सप्तासाद्यते जनैः ॥ ८ ॥
तत्र प्रथमं विरोधं परिहर्तुं वरशापप्राबल्योक्तेरौत्सर्गिकत्वं
बहुतरदृष्टानुसारादवश्यमभ्युपेयमित्युपपादयितुं
वरशापयोरप्युपजीव्यं कर्मोपोद्बलितपौरुषप्राबल्यं तावत्स्मारयति -
न तदिति ॥ ८ ॥
आब्रह्म स्थावरान्तं च सर्वदा सर्वजातयः ।
सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः ॥ ९ ॥
स्थूलस्यैवोपघातो दृष्टो न सूक्ष्मस्येति लोकदृष्टानुसारं स्वोक्तेर्वक्तुं
भिन्नस्वभावौ द्वौ देहौ दर्शयति - आब्रह्मेत्यादिना ॥ ९ ॥
एकं मनःशरीरं तु क्षिप्रकारि सदा चलम् ।
अकिञ्चित्करमन्यत्तु शरीरं मांसनिर्मितम् ॥ १० ॥
तत्र मांसमयः कायः सर्वस्यैव च सङ्गतः ।
सर्वैराक्रम्यते शापैस्तथा विद्यादिसञ्चयैः ॥ ११ ॥
विद्या अभिचारकृत्यादयः । आदिपदाच्छस्त्रविषादयो गृह्यन्ते तेषां
सञ्चयैः समूहैः ॥ ११ ॥
मूकप्रायो ह्यशक्तोऽसौ दीनः क्षणविनश्वरः ।
पद्मपत्राम्बुचपलो दैवादिविवशस्थितिः ॥ १२ ॥
दैवादीत्यादिपदाद्राजपित्रादिसङ्ग्रहः ॥ १२ ॥
मनोनाम द्वितीयोऽयं कायः कायवतामिह ।
स आयत्तोऽपि नायत्तो भूतानां भुवनत्रये ॥ १३ ॥
आयत्तः स्वाधीनः । नायत्तोऽस्वाधीनः ॥ १३ ॥
पौरुषं स्वमवष्टभ्य धैर्यमालम्ब्य शाश्वतम् ।
यदि तिष्ठत्यगम्योऽसौ दुःखानां तदनिन्दितः ॥ १४ ॥
तत्र स्वाधीनतां हेतूक्त्योपपादयति - पौरुषमिति । अगम्योऽनाक्रमणीयः ।
तैर्दुःखहेतुभिरनिन्दितः अदूषितः ॥ १४ ॥
यथा यथासौ यतते मनोदेहो हि देहिनाम् ।
तथा तथासौ भवति स्वनिश्चयफलैकभाक् ॥ १५ ॥
दुःखानुपघात इव सुखोपचयोऽप्यस्य वर्धत इत्याह - यथेति ॥ १५ ॥
सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः ।
मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम् ॥ १६ ॥
स्थूलदेहस्य तु नायं क्रम इत्याह - सफल इति ॥ १६ ॥
पवित्रमनुसन्धानं चेतः स्मरति सर्वदा ।
निष्फलास्तत्र शापाद्याः शिलायामिव सायकाः ॥ १७ ॥
विषयदोषैर्हि मनो दुष्येन्नान्यदोषेणेत्याशयेनाह - पवित्रमिति । तथाच न
लोकदृष्टविरोधशङ्कावसर इति भावः ॥ १७ ॥
पतत्वम्भसि वह्नौ वा कर्दमे वा शरीरकम् ।
मनो यदनुसन्धत्ते तदेवाप्नोति तत्क्षणात् ॥ १८ ॥
कार्यविरोधमपि परिहरति - पतत्विति ॥ १८ ॥
पुरुषातिशयः सर्वः सर्वभावोपमर्दने ।
ददात्यविघ्नेन फलं मनो हि मनसो मुने ॥ १९ ॥
सर्वेषां देहादिभावानामुपमर्दनेऽपि पुरुषातिशयः प्रयत्नः सर्वः
समृद्धः सन्नविघ्नेन फलं ददाति । तद्यद्ददाति तन्मन एव मनसः
फलं ददाति । पौरुषस्याऽपि मनोभेदत्वादित्यर्थः ॥ १९ ॥
पौरुषेण बलेनान्तश्चित्तं कृत्वा प्रियामयम् ।
कृत्रिमेन्द्रेण दुःखार्तिर्न दृष्टा सा मनागपि ॥ २० ॥
यत्र विषयदोषेऽपि मनोदार्ढ्ये दुःखादर्शनं तत्र पवित्रे विषये किं
वाच्यमित्याशयेनेन्द्रोपाख्यानादि स्मारयति - पौरुषेणेति ॥ २० ॥
प्। ३४९) २०९
पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् ।
माण्डव्येन जिताः क्लेशाःशूलप्रान्तेऽपि तिष्ठता ॥ २१ ॥
माण्डव्यस्य कथा महाभारतादौ प्रसिद्धा ॥ २१ ॥
अन्धकूपस्थितेनापि मानसैर्यज्ञसञ्चयैः ।
ऋषिणा दीर्घतपसा सम्प्राप्तं वैबुधं पदम् ॥ २२ ॥
दीर्घतपा अपि यष्टुकामो यागोपकरणोपार्जनाय निर्गतो दैवादन्धकूपे
निपतितस्तत्र यागकालातिक्रमे प्रसक्ते मनसैवेजे । तेनेन्द्रः प्रसन्नस्तं
कूपादुद्धृत्य स्वपदं निनायेति भारतादौ प्रसिद्धम् ॥ २२ ॥
इन्दुपुत्रैर्नरैरेव पुरुषाध्यवसायतः ।
ध्यानेन ब्रह्मता प्राप्ता सा मयापि न खण्ड्यते ॥ २३ ॥
अन्येऽपि सावधाना ये धीराः सुरमहर्षयः ।
चित्तात्स्वमनुसन्धानं न त्यजन्ति मनागपि ॥ २४ ॥
अनुसन्धानमुपासनं ज्ञानं वा ॥ २४ ॥
आधयो व्याधयश्चैव शापाः पापदृशस्तथा ।
न खण्डयन्ति तच्चित्तं पद्मघाताः शिलामिव ॥ २५ ॥
पापदृशो रक्षःपिशाचादयः । तच्चित्तं ध्येयार्थैकाग्रचित्तं न
खण्डयन्ति न परिभवन्ति । पद्मेन घातास्ताडनानि ॥ २५ ॥
ये चापि खण्डिताः केचिच्छापाद्यैराधिसायकैः ।
स्वविवेकाक्षमं तेषां मनो मन्ये विपौरुषम् ॥ २६ ॥
ये सौदासनाहुषविश्वामित्रादयः । आदिपदात्कामक्रोद्धाभिमानादिसङ्ग्रहः
। तेषां मनो विपौरुषमदृढपौरुषमित्युपासनायां स्वविवेकाक्षममिति
ज्ञाने चासमर्थमिति तर्कयामीत्यर्थः ॥ २६ ॥
न कदाचन संसारे सावधानमना मनाक् ।
स्वप्नेऽपि कश्चिद्दृश्ये वा दोषजालैः खिलीकृतः ॥ २७ ॥
विवेकपौरुषदृढे तु मनसि नाभिलषितक्षतिरित्याह - न कदाचिदिति ।
दृश्ये जाग्रति वा ॥ २७ ॥
मनसैव मनस्तस्मात्पौरुषेण पुमानिह ।
स्वकमेव स्वकेनैव योजयेत्पावने पथि ॥ २८ ॥
प्रतिभातं यदेवास्य यथाभूतं भवत्यलम् ।
क्षणादेव मनः पीनं बालवेतालवन्मुने ॥ २९ ॥
ईषत्प्रतिभातमपि मनसि चिरनिरूढं पीनं सद्यथाभूतं
सत्यमिवोपभोगक्षमं भवतीत्यर्थः ॥ २९ ॥
प्रतिभासस्यानुपदं प्राक्तनीं स्थितिमुज्झति ।
कुलालकर्मानुपदं घटो मृत्पिण्डतामिव ॥ ३० ॥
ननु पूर्वतनमनुष्यादिभावप्रतिभादार्ढ्यादैन्दवादेस्तत्स्थितिरपि कुतो
नाभूत्तत्राह - प्रतिभासस्येति । उत्तरदृढवासनया
पूर्ववासनोपमृद्यत इति भावः ॥ ३० ॥
प्रतिभासार्थतामेति क्षणादेव मनो मुने ।
स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम् ॥ ३१ ॥
पूर्ववासनोपमर्दनोपक्षीणस्योपासनस्य कथं कार्यान्तरक्षमता तत्राह
- प्रतिभासेति । विरोधिभञ्जनपर्यन्तमेव स्वकार्ये विलम्बः तदुत्तरं तु
क्षणादेव निष्प्रत्यूहत्वादौपासनिकप्रतिभासगोचरोपास्यार्थतामेति
प्राप्नोत्येवेति नोपक्षय इति भावः ॥ ३१ ॥
अनुसन्धानमात्रेण सूर्यबिम्बेऽपि यामिनीम् ।
मनः पश्यत्यशुद्धाक्षश्चन्द्रबिम्बे द्वितामिव ॥ ३२ ॥
ननु तथापि प्रलयकाले कथं तद्विरुद्धसर्गकल्पनं तेषां तत्राह -
अनुसन्धानमात्रेणेति । न तदीयसर्गे त्वदीयसर्गस्थं किञ्चिदनुकूलं
प्रतिकूलं वा तत्र तदीयानुसन्धानमात्रस्यापेक्षणादिति न प्रलयकालेऽपि
तद्विरोध इति भावः । अशुद्धाक्षोऽङ्गुल्यवष्टब्धदृष्टिः ॥ ३२ ॥
यत्पश्यति तदेवाशु फलीभूतमिदं मनः ।
सह हर्षविषादाभ्यां भुङ्क्ते तस्मात्तदेव तत् ॥ ३३ ॥
स्रष्टृत्ववत्तद्भोक्तृत्वमपि मनस एवेत्याह - यदिति । तदेव तत् यत्कर्तृ
तदेव भोक्तृ इत्यर्थः ॥ ३३ ॥
प्रतिभानुपदं चेतश्चन्द्रेऽप्यग्निशिखाशतम् ।
दृष्ट्वा दाहमवाप्नोति दग्धं च परितप्यते ॥ ३४ ॥
उक्तमर्थमुदाहरणेन दर्शयति - प्रतिभेति । प्रतिभा अनुसन्धानं
भोजकादृष्टोद्बोधितसंस्कारस्तदनुपदं तदनुसारि । तथाच विरहिणां
प्रसिद्धमित्यर्थः ॥ ३४ ॥
प्रतिभानुपदं चेतः क्षारेऽपि हि रसायनम् ।
दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति नृत्यति ॥ ३५ ॥
क्षारे ऊषादौ । क्षीर इति पाठे जले । रसायनं मधुरादिरसभेदान् । तथा
चोष्ट्रच्छागादयोऽर्कनिम्बादिपर्णान्यपि मधुरीकृत्य भक्षयन्तीति दृश्यत
इति भावः ॥ ३५ ॥
प्रतिभानुपदं चेतो व्योमन्यपि महावनम् ।
दृष्ट्वा लुनाति च पुनरारोपयत्यलम् ॥ ३६ ॥
इत्थं यदेव परिकल्पयतीन्द्रजालं
क्षिप्रं तदेव परिपश्यति तात चेतः ।
नासज्जगन्न च सदित्यवगम्य नूनं
लूनां दृशं विविधमेदवतीं जहीहि ॥ ३७ ॥
उक्तमुपसंहरति - इत्थमिति । लूनां परिच्छिन्नां दृशं दृष्टिं जहीहि
त्यज ॥ ३७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः ॥ ९२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः ॥ ९२ ॥