एकनवतितमः सर्गः ९१
भानुरुवाच ।
तेनैतद्वच्मि भवगन्यथाकालं मनो मुने ।
अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः ॥ १ ॥
इह भानुं मनुं कृत्वा धातुः सर्गो निरूप्यते ।
मनोमात्रविलासत्वं विश्वस्यैन्दवसर्गवत् ॥ १ ॥
तेन भारतः शापो न मनोनिग्रहे समर्थो बभूवेत्युक्तेन हेतुना ॥ १ ॥
ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम् ।
युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः ॥ २ ॥
अतो हेतोरैन्दवानां सृष्टिक्रमाणां प्रविनाशनं त्वया कर्तुं न युज्यते न
पार्यते महात्मनस्तव तद्युक्तमुचितं च न भवतीत्यर्थः ॥ २ ॥
किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च ।
तवापि नाथ नाथस्य यद्दैन्याय महात्मनः ॥ ३ ॥
तर्हि वृथा मम सर्गः स्यादिति दैन्यमालक्ष्याह - किं तदिति ॥ ३ ॥
मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः ।
यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः ॥ ४ ॥
हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव ।
तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसम्भ्रमैः ॥ ५ ॥
एते ऐन्दवाः ॥ ५ ॥
त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः ।
चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः ॥ ६ ॥
क्व तर्हि मत्सर्गस्यावकाशस्तत्राह - त्वमिति । इह स्वचित्ताकाशे अनन्तं वै
मनः इति श्रुतेरिति भावः । प्रथमश्चिदाकाशश्चिदाभासाकाशः ॥ ६ ॥
अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः ।
एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते ॥ ७ ॥
साक्षिकूटस्थचिदाकाश प्रकाशिताः ।
चित्ताकाशेऽनन्तकोटिब्रह्माण्डानामप्यवकाशोऽस्ति किं पुनरेकस्येत्याशयेनाह
- एकमिति ॥ ७ ॥
स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः ।
ब्रह्मोवाच ।
अथैन्दवजगज्जाले भानुनैवमुदाहृते ॥ ८ ॥
मया सञ्चिन्त्य सुचिरमिदमुक्तं महामुने ।
युक्तमुक्तं त्वया भानो विततं हि किलाम्बरम् ॥ ९ ॥
अम्बरं प्रागुक्तमाकाशचतुष्टयमपि ॥ ९ ॥
मनश्च विततं वापि चिदाकाशश्च विस्तृतः ।
तद्यथाभिमतं सर्गं नित्यकर्म करोम्यहम् ॥ १० ॥
तत्र द्वयोरेव सर्गाधारता मुख्येत्याशयेनाह - मनश्चेति । चिदाकाशो
मनोवच्छिन्नः । भूताकाशस्य सृज्यान्तःपाताद्ब्रह्माकाशस्यासङ्गतया
सर्गानाधारत्वादिति ॥ १० ॥
कल्पयामि बहून्याशु भूतजालानि भास्कर ।
तत्त्वमेवाशु भगवन्प्रथमो मे मनुर्भव ॥ ११ ॥
तत्तस्मिन्सर्गे प्रथमो मनुः स्वायम्भुवः ॥ ११ ॥
कुरु सर्गं यथाकामं मया समभिचोदितः ।
अथैतत्स महातेजा मम वाक्यं प्रभाकरः ॥ १२ ॥
समभिचोदित आज्ञप्तः सन् ॥ १२ ॥
अङ्गीकृत्य द्विधात्मानं चकार तपतांवर ।
एकेन प्राक्तनेनास्मिन्वपुषा सूर्यतां गतः ॥ १३ ॥
तपतांवरेति वसिष्ठसम्बोधनम् । अस्मिन् ऐन्दवसर्गे ॥ १३ ॥
व्योमाध्वगतया सर्गे ततान् दिवसावलिम् ।
मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् ॥ १४ ॥
ससर्ज सकलां सृष्टिं तां तामभिमतां मम ॥ १५ ॥
एतत्ते कथितं सर्वं वसिष्ठमनसो मुने ।
स्वरूपं सर्वकृत्त्वं च शक्तत्वं च महात्मनः ॥ १६ ॥
उपसंहरति - एतदिति । महात्मनो मनसः ॥ १६ ॥
प्रतिभासमुपायाति यद्यदस्य हि चेतसः ।
तत्तत्प्रकटतामेति स्थैर्यं सफलतामपि ॥ १७ ॥
सफलतां भोगव्यवहारप्रयोजकतामपि ॥ १७ ॥
सामान्यब्राह्मणा भूत्वा प्रतिभासवशात्किल ।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥ १८ ॥
यथा चैन्दवजीवास्ते चित्रत्वाद्ब्रह्मतां गताः ।
वयं तथैव चिद्भावाच्चित्तत्वाद्ब्रह्मतां गताः ॥ १९ ॥
स्वस्यापि हिरण्यगर्भता ऐन्दववन्मानस्येवेत्याह - यथेति ।
चिद्भावाच्चित्तत्वं प्राप्य चित्तत्वाद्ब्रह्मतां हिरण्यगर्भताम् ॥ १९ ॥
चित्तं हि प्रतिभासात्म यच्च तत्प्रतिभासनम् ।
तदिदं भाति देहादि स्वान्तं नान्यास्ति देहदृक् ॥ २० ॥
तदेव स्वान्तं मन एवास्ति । देहदृक् देहप्रतीतिश्चित्तादन्या नास्ति ॥ २० ॥
चित्तमात्मचमत्कारं तच्च तत्कुरुते स्वतः ।
यथावत्सम्भवं स्वात्मन्येवान्तर्मरिचादिवत् ॥ २१ ॥
आत्मनि स्वस्मिंश्चमत्काराः कल्पना यस्य तथाविधं भवति ।
आत्मचमत्कारत्वं विवृणोति - तच्च तत्कुरुते इति । तर्हि सर्वेषां मनस्तुल्यं
कुतो न कल्पयति तत्राह - यथावत्सम्भवमिति ।
यथावत्कामकर्मवासनानुसाराद्यावद्यदा सम्भवति तदा तावदेवेत्यर्थः ।
यथा मरिचं कटुतयैवान्तःपरिणमते निम्बस्तु तिक्ततया द्राक्षा मधुरतयेति
स्वस्वसंस्काराद्व्यवस्थितं तद्वदित्यर्थः ॥ २१ ॥
प्। ३४६) २०८
तदेतच्चित्तवद्भातमातिवाहिकनामकम् ।
तदेवोदाहरन्त्येवं देहनाम्ना घनभ्रमम् ॥ २२ ॥
अत एव देवोऽहं मनुष्योऽहमित्यादिदेहनाम्ना प्रतिनियतं जना उदाहरन्ति
नैकरूपमित्याह - तदेतदिति । चित्तवद्भातमातिवाहिकनामकं
सूक्ष्मदेहमेव घनभ्रमं स्थौल्यभ्रान्तियुक्तं तत्तद्देहनाम्ना
उदाहरन्ति ॥ २२ ॥
कथ्यते जीवनाम्नैतच्चित्तं प्रतनुवासनम् ।
शान्तदेहचमत्कारं जीवं विद्धि क्रमात्परम् ॥ २३ ॥
यदि चित्तं देहस्तर्हि इदमेव जीव इति कथं प्रागुक्तं तत्राह - कथ्यते इति ।
प्रतनुवासनं जीवो घनभ्रमं तु देह इत्युच्यत इति भेदक्रमात्
शान्तदेहत्रयचमत्कारं तु परं ब्रह्म विद्धित्यर्थः ॥ २३ ॥
नाहं न चान्यदस्तीह चित्रं चित्तमिदं स्थितम् ।
वसिस्ठैन्दवसंविद्वदसत्सत्तामिवागतम् ॥ २४ ।
एवञ्च तन्तुभ्यः पट इव न कस्यापि देहो नाम पृथगस्तीत्याह - नाहमिति
॥ २४ ॥
यथैन्दव मनो ब्रह्मा तथैवायमहं स्थितः ।
तत्कृतं चाहमेवेदं सङ्कल्पात्मैव भासते ॥ २५ ॥
तत्कृतं सर्गान्तरमित्यपि मच्चित्तकल्पनैवेत्यहमेव तदपीत्याह -
तत्कृतमिति ॥ २५ ॥
कश्चिच्चित्तविलास्ऽयं ब्रह्माहमिह संस्थितः ।
स्वभाव एव देहादि विद्धि शून्यतरात्मखात् ॥ २६ ॥
स्वभावः परमात्मैव सर्वप्रपञ्चशून्यतरादात्मखात्पृथगिव
देहादिभावेन भातीत्यर्थः ॥ २६ ॥
शुद्धचित्परमार्थैकरूपिणीत्येव भावनात् ।
जीवो भूयो मनो भूत्वा वेत्तीत्थं देहतां मुधा ॥ २७ ॥
मुधेति निपातो नञर्थे ॥ २७ ॥
सर्वमैन्दवसंसारवदिदं भाति चिद्वपुः ।
सम्पन्नसम्प्रबोधात्मा स्वप्नो दीर्घः स्वशक्तिजः ॥ २८ ॥
चिद्वपुः परमात्मैव ऐन्दवसंसारवत्सर्वात्मा भाति । यथा
स्वाज्ञानशक्तिजः स्वप्नो दीर्घः सन्सम्पन्नजाग्रदात्मा भाति तद्वदित्यर्थः ॥
२८ ॥
द्विचन्द्रविभ्रमाकारं तन्मात्राभासपूर्वकम् ।
ऐन्दवाम्बरवद्रूढं चित्तादेवाखिलं भवेत् ॥ २९ ॥
यतः सूक्ष्मतरवासनामयशब्दतन्मात्राध्यासपूर्वकं भवति जगत्तत
ऐन्दवचित्ताकाशवदेव रूढमिति सम्भाव्यत इत्यर्थः ॥ २९ ॥
न सन्नासदहंरूपं सत्तासत्ते तदेव च ।
उपलम्भेन सद्रूपमसत्यं तद्विरोधतः ॥ ३० ॥
यद्युदासीनचित्तादेव सर्वं रूधं तर्हि कथं
देहादिष्वहन्तयाभिमानादनुदासीनरूपं भातीति तत्राह - न सदिति ।
यदहंरूपमभिनिवेशरूपमनुदासीनस्वभावमनुभूयते तन्न सत् । सर्वत्र
चित्तकार्ये अदर्शनात् । नाप्यसत् । असत उपलम्भादर्शनात् । यतः सत्तासत्ते तदेव ।
सत्ता सदेकरूपत्वात्सदेव । असत्ता चासदेकरूपत्वादसदेव । अहंरूपं तु
नैकस्वभावनियतम् । यतः क्वचिदुपलम्भेन हेतुना सद्रूपमिव क्वचित्तु
तद्विरोधतोऽनुपलम्भादसत्यमसद्रूपमिति विरुद्धस्वभावं भासत इति
मायिकनित्यर्थः ॥ ३० ॥
जडाजडं मनो विद्धि सङ्कल्पात्म बृहद्वपुः ।
अजडं ब्रह्मरूपत्वाज्जडं दृश्यात्मतावशात् ॥ ३१ ॥
एवं मनसो जडाजडविरुद्धस्वभावत्वादपि मायिकत्वमित्याह -
जडाजडमिति ॥ ३१ ॥
दृश्यानुभवसत्यात्म न सद्भावे विलासि तत् ।
कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम् ॥ ३२ ॥
तस्य कदा दृश्यात्मता कदा वा ब्रह्मरूपत्वं तत्राह - दृश्येति ।
तन्मनो दृश्यानुभवकाले दृश्यमिव सत्यात्म सद्भावे ब्रह्मानुभवे न
विलासि न पृथग्विलसनशीलमिति ब्रह्मैव यथा हेम्नि कटकत्वं
करालङ्कृतिकार्यदृशा हेम्नः पृथक्सदिव कनकदृशा तु तदेव
तद्वत्संस्थितमित्यर्थः ॥ ३२ ॥
सर्वत्वाद्ब्रह्मणः सर्वं जडं चिन्मयमेव च ।
अस्मदादिशिलान्तात्म न जडं न च चेतनम् ॥ ३३ ॥
एवं जगतोऽपि जडाजडविरुद्धस्वभावत्वान्मायिकत्वमेवेत्याशयेनाह -
सर्वत्वादिति । अस्मदादिशिलान्तात्म ब्रह्मादिस्थावरान्तं यौक्तिकदृशा
विरुद्धस्वभावमपि परमार्थदृशा न जाड्यचैतन्यधर्मकमित्यर्थः ॥ ३३
॥
दार्वादीनामचित्त्वेन नोपलम्भस्य सम्भवः ।
उपलम्भो हि सदृशसम्बन्धादेव जायते ॥ ३४ ॥
जडं चेतनमिति वा व्यवस्था अनुलम्भे उपलम्भोत्तरं वा स्यात् । आद्ये
उपलम्भस्यैवासम्भवात्सत्तैव न सिद्ध्यति दूरे जडाजडत्वचिन्तेत्याशयेनाह
- दार्वादीनामिति । सदृशयोः
प्रमातृप्रमेयचिद्धात्वोर्वृत्तिद्वारकादैक्यसम्बन्धाद्ध्युपलम्भः
प्रसिद्धः । जडैकरूपत्ववादे तु न प्रमेयचैतन्यमस्तीति नोपलम्भसम्भव
इत्यर्थः ॥ ३४ ॥
उपलब्धेऽजडे विद्धि तेनेदं सर्वमेव हि ।
उपलम्भो हि सदृशसम्बन्धात्स्यात्समात्मनोः ॥ ३५ ॥
द्वितीयेऽप्याह - उपलब्धे इति । अजडं विद्धीति च्छेदः । उपलब्धे
प्रमेयस्योपलम्भेऽन्तर्भावात्तद्विषयस्याजडैकस्वभावता परिशिष्यते यतः
प्रागुक्तचितोरैक्यलक्षणसम्बन्धादेवोपलम्भो जायते । तथा चानुपलब्धे
उपलब्धे च जडचेतनद्वैविध्यं दुर्घटमित्यर्थः ॥ ३५ ॥
जडचेतनभावादिशब्दार्थश्रीर्न विद्यते ।
अनिर्देश्यपदे पत्रलतादीव महामरौ ॥ ३६ ॥
उभयदुर्घटत्वे यत्फलितं तदाह - जडेति ॥ ३६ ॥
चितो यच्चेत्यकलनं तन्मनस्त्वमुदाहृतम् ।
चिद्भागोऽत्राजडो भागो जाड्यमत्र हि चेत्यता ॥ ३७ ॥
तस्याश्चितश्चेत्याकारकलनैव मनस्ता तत्रैव जडाजडविकल्पस्तद्विवेक एव
निर्मनस्कतेत्याशयेनाह - चित इत्यादिना ॥ ३७ ॥
चिद्भागोऽत्रावबोधांशो जडं चेत्यं हि दृश्यते ।
इति जीवो जगद्भ्रान्तिं पश्यन्गच्छति लोलताम् ॥ ३८ ॥
तत्र चिदात्मभागविस्मरणेन जडात्मजीवजगद्भ्रमः सम्पन्न इत्याह - इति
जीव इति ॥ ३८ ॥
प्। ३४७) २०८
चित्तस्थ एव भावोऽसौ शुद्ध एव द्विधा कृतः ।
अतः सर्वं जगत्सैव द्वैतलब्धं च सैव तत् ॥ ३९ ॥
शुद्धो भावश्चित्स्वभाव एव चित्तं जगदिति द्विधा कृतः ।
अतश्चिदेकबुद्ध्योपलब्धं सर्व जगत्सा चिदेव द्वैतबुद्ध्या लब्धमपि
तत्सैवेत्यर्थः ॥ ३९ ॥
स्वमेवान्यतया दृष्ट्वा चितिर्दृश्यतया वपुः ।
निर्भागाप्येकभागाभं भ्रमतीव भ्रमातुरा ॥ ४० ॥
निर्भागा निर्विभागा । एकभागाभं स्वगतविभागतुल्यम् ॥ ४० ॥
न भ्रान्तिरस्ति भ्रमभाङ्गा नैवेतीह निश्चयः ।
परिपूर्णार्णवप्रख्यावेतीत्थं संस्थिता चितिः ॥ ४१ ॥
भ्रमभाक् ना पुरुषो नैव ॥ ४१ ॥
सर्वं स्याज्जाड्यमप्यस्याश्चितिश्चित्त्वं च वेत्सि तत् ।
चिद्भाग्ॐशोऽवबोधस्य त्वहन्ताजडतोदयः ॥ ४२ ॥
अस्याश्चितेः सर्वरूपं जाडमपि चितिरेव स्यात् । यतस्तस्मिञ्जाड्ये चित्त्वं च वेत्सि ।
अचिदेकस्वभावत्वे स्फुरणायोगादस्फुरणे जाड्यस्याप्यसिद्धेरित्यर्थः । यथा
जडेऽवबोधोऽष्ति एवं चेतने जडभागोऽप्यस्तीति दर्शयति - अहन्तेति ॥ ४२ ॥
अहन्तादिपरे तत्त्वे मनागपि न विद्यते ।
ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः ॥ ४३ ॥
कथमहन्ताया जडत्वमिति चेद्ब्रह्मव्यावृत्तत्वादित्याह - अहन्तादीति ।
संवित्सारं चिदेकरसम् ॥ ४३ ॥
अहम्प्रत्ययसन्दृश्यं चेत्यं विद्धि समुत्थितम् ।
मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो ॥ ४४ ॥
अत एव तस्यासत्त्वमपीत्याह - अहम्प्रत्ययेति ॥ ४४ ॥
अहन्तापदमन्तात्मपदं विद्धि निरामयम् ।
विदं विदुरहन्तादि शैत्यमेव यथा हिमम् ॥ ४५ ॥
अन्तात्मपदं सर्वद्वैतबाधावध्यात्मवस्तु । अहन्ताया अपदमनाश्रयं
विद्धि । विदं चित्स्वभावमेव वासनया घनीभूताहन्तादिरूपं जना विदुः
पश्यन्ति । यथा शैत्यमेव घनीभावाद्धिमं पश्यन्ति तद्वदित्यर्थः ॥ ४५ ॥
चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् ।
सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम् ॥ ४६ ॥
सर्वशक्तीः कुर्वती आविष्कुर्वाणा चिद्विना ज्ञानदार्ढ्यं साम्यतां नैति ॥ ४६ ॥
मनः पदार्थादितया सर्वरूपं विजृम्भते ।
नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः ॥ ४७ ॥
नानात्मकश्चित्तलक्षणो देह आतिवाहिकः ॥ ४७ ॥
देहादिदेहप्रतिभारूपात्म्यं त्यजता सता ।
विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम् ॥ ४८ ॥
कथमिदं बोद्धुं शक्यं तत्रोपायमाह - देहादीति ।
स्थूलदेहादिदेहत्रयप्रतिभारूपात्मतां च त्यजता सता अधिकारिणा चित्तेनैव
चित्तं प्रतिभासात्म प्रातिभासिकं विचार्यमित्यर्थः ॥ ४८ ॥
चित्तताम्रे शोधिते हि परमार्थसुवर्णताम् ।
गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः ॥ ४९ ॥
किं तद्विचारलक्षणे शोधे कृते चित्तं भवति तदाह - चित्तेति । अकृत्रिमो
नित्यनिरतिशय आनन्दः प्राप्यत इति शेषः । तर्हि देहादयोऽपि शोध्यन्तां ततोऽपि
पुरुषार्थः किं न लभ्यते तत्राह - किमिति । वृथा तच्छोध इत्यर्थः ॥ ४९ ॥
यद्विद्यते शोध्यते तद्बोधः के च स्वपादपाः ।
देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः ॥ ५० ॥
किञ्चासत्त्वादपि देहादेर्न शोधनार्हतेत्याह - यदिति । तद्बोधः फलवानिति
शेषः । खे कल्पिताः पादपाः के शोध्यमाना दृष्टा इत्यर्थः । एतामविद्यां
प्रति ग्रहः शोधनाग्रहो युक्त उचितः स्यादित्यर्थः ॥ ५० ॥
असत्यविनिविष्टानां देहवाचितया त्विह ।
ये नामोपदिशन्त्यज्ञाः किञ्चित्ते पुरुषैडकाः ॥ ५१ ॥
अत एव ह्यात्मादिशब्दा देहे प्रयुक्ता अपि श्रुतौ न देहवाचिनः
श्रुतेरसत्यार्थनिष्ठत्वायोगात् । ये त्वसत्यविनिविष्टा
देहात्मदृढनिश्चयाश्चार्वाकपामरादयो देहवाचिन एवात्मादिशब्दा इति
मन्यन्ते तेषां ये किञ्चिदपि प्रामणिकं वस्तूपदिशन्ति तेऽज्ञाः पुरुषैडकाः
पुंस्पशव एव । आत्मादिसत्यास्तुनिष्ठशब्दानां देहाद्यसत्यवाचितया
विपरीतव्युत्पन्नान्प्रति सत्यार्थबोधनाशक्तेरित्यर्थः ॥ ५१ ॥
यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात् ।
दृष्टान्तोऽत्रैन्दवाहल्याकृत्रिमेन्द्रादिनिश्चयाः ॥ ५२ ॥
कथं तर्ह्यमूर्तस्य चित्तस्य मूर्तदेहभावः सम्पन्न इति
चेद्भावनयैवेत्याशयेनाह - यथैतदिति ॥ ५२ ॥
यद्यद्यथा स्फुरति सुप्रतिभात्मचित्तं
तत्तत्तथा भवति देहतयोदितात्म ।
देहोऽयमस्ति न न चाहमिति स्वरूपं
विज्ञानमेकमवगम्य निरिच्छमास्स्व ॥ ५३ ॥
उक्तमेवार्थं स्फुटं वदन्नुपसंहरति - यद्यदिति । अयं देहो नास्ति ।
अहमिति प्रसिद्धोऽहङ्कारश्च नास्ति । अत एकरसं विज्ञानं
स्वस्वरूपमवगम्य निरिच्छं यथा स्यात्तथा आस्स्व तिष्ठेत्यर्थः ॥ ५३ ॥
देहोऽयमेष च किलायमिति स्वभावा-
द्देहोऽयमेतदखिलं तत एति नाशम् ।
यक्षादिकल्पनवशाद्भयमेति बालो
निर्यक्षदेहगत एव कयापि युक्त्या ॥ ५४ ॥
देहो मानुषादिरयं प्रत्यक्ष एष देहभोग्यः प्रपञ्चोऽयमिति
स्वभावात्स्वकल्पनावशादयमात्मा देह एव भवति एतदखिलं भोग्यं च
भवति ततस्तद्भावाद्देहनाशमनु नाशमेति । यथाऽयं बालः कयापि युक्त्या
निर्यक्षदेहगत एव सन्नपि
यक्षतद्भीषणत्वग्रसितृत्वादिकल्पनवशाद्यक्षेण ग्रस्तो यक्षदेहगतः
स्वप्नादौ भवति तद्वदित्यर्थः ॥ ५४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
जीवावतरणक्रमोपदेशो नामैकनवतितमः सर्गः ॥ ९१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जीवावतरणक्रमोपदेशो नामैकनवतितमः सर्गः ॥ ९१ ॥
प्। ३४८) २०९