०९०

नवतितमः सर्गः ९०

भानुरुवाच ।

अथेन्द्रेणैवमुक्तोऽसौ राजा राजीवलोचनः ।
मुनिं भरतनामानं पार्श्वसंस्थमुवाच ह ॥ १ ॥

भरतस्य मुनेः शापान्नष्टयोरपि देहयोः ।
न मानसी तन्मयता तयोर्नष्टेति कीर्त्यते ॥ १ ॥

राजीवं पद्ममिव लोचने यस्य ॥ १ ॥

राजोवाच ।

भगवन्सर्वधर्मज्ञ पश्यामि सुदुरात्मनः ।
भृशमस्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः ॥ २ ॥

अस्येन्द्रस्य मुखे । स्फारं प्रचुरम् ॥ २ ॥

पापानुरूपमस्याशु शापं देहि महामुने ।
यदवध्यवधात्पापं वध्यत्यागात्तदेव हि ॥ ३ ॥

वध्यस्य वधार्हस्य त्यागादवधादपि तदेव पापं भवतीति हि धर्मशास्त्रे
प्रसिद्धमित्यर्थः ॥ ३ ॥

इत्युक्तो राजस्ॐहेन भरतो मुनिसत्तमः ।
यथावत्प्रविचार्याशु पापं तस्य दुरात्मनः ॥ ४ ॥

सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया ।
विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान् ॥ ५ ॥

अनया अहल्यया सह । विनाशं मृत्युम् ॥ ५ ॥

ततस्तौ राजभरतौ प्रत्यूचतुरिदं वचः ।
सुदुर्मती युवां याभ्यां क्षपितं दुश्चरं तपः ॥ ६ ॥

राजभरतौ प्रति इदं वच ऊचतुः ॥ ६ ॥

अनेन शापदानेन किञ्चिद्भवति नावयोः ।
देहे नष्टे न नौ किञ्चिन्नश्यति स्वान्तरूपयोः ॥ ७ ॥

नौ आवयोः किञ्चिदपि न नश्यति । तत्र हेतुः - स्वान्तरूपयोरिति ॥ ७ ॥

स्वान्तं हि नहि केनापि शक्यते नाशितुं क्वचित् ।
सूक्ष्मत्वाच्चिन्मयत्वाच्च दुर्लक्ष्यत्वाच्च विद्धि नौ ॥ ८ ॥

नाशितुं नाशयितुम् । सेटि णिलोपश्छान्दसः परैर्दुर्लक्ष्यत्वाच्च ॥ ८ ॥

श्रीभानुरुवाच ।

सुघनस्नेहसम्बद्धमनस्कावेव शापतः ।
पतितौ भूतले वृक्षविच्युताविव पल्लवौ ॥ ९ ॥

पतितौ मृताविति यावत् ॥ ९ ॥

अथ व्यसनसंसक्तौ मृगयोनिमुपागतौ ।
ततो द्वावपि संसक्तौ भूयो जातौ विहङ्गमौ ॥ १० ॥

व्यसनेन दृढविषयरागेण संसक्तौ बद्धौ ॥ १० ॥

अथास्माकं विभो सर्गे मिथःसम्बन्धभावनौ ।
तपःपरौ महापुण्यौ जातौ ब्राह्मणदम्पती ॥ ११ ॥

अथ बहुजन्मपरम्परानन्तरम् । अस्माकं सर्गे अस्मदीये ब्रह्माण्डे ॥ ११ ॥

भारतोऽपि तयोः शापः स समर्थो बभूव ह ।
शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो ॥ १२ ॥

भारतो भरतेन दत्तः शापस्तयोः शरीरमात्रस्याक्रमणे नाशे समर्थो
बभूव नतु मनोनिग्रहे इत्यर्थः ॥ १२ ॥

प्। ३४५) २०७

तावद्यापि हि तेनैव मोहसंस्कारहेतुना ।
यत्र यत्र प्रजायेते भवतस्तत्र दम्पती ॥ १३ ॥

अकृत्रिमप्रेमरसानुविद्धं
स्नेहं तयोस्तं प्रतिवीक्ष्य कान्तम् ।
वृक्षा अपि प्रेमरसानुविद्धाः
शृङ्गारचेष्टाकुलिता भवन्ति ॥ १४ ॥

वृक्षा अपि शृङ्गारचेष्टाकुलिता भवन्ति किं पुनरन्ये इत्यतिशयोक्तिः ॥ १४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
कृत्रिमेन्द्राहल्यानुरागो नाम नवतितमः सर्गः ॥ ९० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
कृत्रिमेन्द्राहल्यानुरागो नाम नवतितमः सर्गः ॥ ९० ॥