०८९

एकोननवतितमः सर्गः ८९

भानुरुवाच ।

मनो हि जगतां कर्तृ मनो हि पुरुषः परः ।
मनःकृतं कृतं लोके न शरीरकृतं कृतम् ॥ १ ॥

मनसो बद्धपीठस्य परयवैरचाल्यता ।
इन्द्राहल्यामनोवृत्त्कथयात्र प्रकाश्यते ॥ १ ॥

समष्टिभावापन्नं मन एव परः पुरुषो हिरण्यगर्भः ॥ १ ॥

सामान्यब्राह्मणा भूत्वा मनोभावनया किल ।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥ २ ॥

मनसा भाव्यमानो हि देहतां याति देहकः ।
देहभावनयाऽयुक्तो देहधर्मैर्न बाध्यते ॥ ३ ॥

देहभावनया अयुक्त इति च्छेदः । मुक्त इति पाठः स्पष्टः ।
देहधर्मैर्जन्ममरणादिभिः ॥ ३ ॥

बाह्यदृष्टिर्हि नियतं सुखदुःखादि विन्दति ।
नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये ॥ ४ ॥

बाह्ये दृष्टिर्देहादावात्मात्मीयदृष्टिर्यस्य सः ॥ ४ ॥

मनःकारणकं तस्माज्जगद्विविधविभ्रमम् ।
इन्द्रस्याहल्यया सार्धं वृत्तान्तोऽत्र निदर्शनम् ॥ ५ ॥

वक्ष्यमाणकथां वक्तुमुक्तमुपसंहरति - मनःकारणकमिति ॥ ५ ॥

श्रीब्रह्मोवाच ।

काहल्या भगवन्भानो को वात्रेन्द्रस्तमोनुद ।
ययोरुदन्तश्रवणे पावनी दृष्टिरेति हि ॥ ६ ॥

उदन्तो वृत्तान्तस्तस्य श्रवणे सति ॥ ६ ॥

भानुरुवाच ।

श्रूयते हि पुरा देव मागधेषु महीपतिः ।
इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः ॥ ७ ॥

अपरः पुराणान्तरप्रसिद्ध इन्द्रद्युम्न इव ॥ ७ ॥

तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना ।
अहल्या नाम तत्रासीच्छशाङ्कस्येव रोहिणी ॥ ८ ॥

तस्मिन्नेव पुरे षिड्गः षिड्गप्रकरशेखरः ।
इन्द्रनामा परः कद्धिश्चीमान्विप्रकुमारकः ॥ ९ ॥

षिड्गो विटः । षिड्ग इति पाठेऽपि स एवार्थः । धीमान्विटविद्याकुशलः ॥ ९ ॥

अहल्या पूर्वमिन्द्रस्य बभूवेष्टेत्यहल्यया ।
श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित् ॥ १० ॥

अहल्या गौतमपत्नी ॥ १० ॥

आकर्ण्यैवमहल्या सा बभूवेन्द्रानुरागिणी ।
अहल्यां मां स नो कस्मात्सक्तोऽभ्येतीत्यथोत्सुका ॥ ११ ॥

स इन्द्रः सक्त आसक्तः सन् कुतो नो एति नागच्छतीत्युत्सुका उत्कण्ठिता ॥ ११ ॥

मृणालभारकदलीपल्लवास्तरणेषु सा ।
अतप्यत भृशं बाला लता लूना वनेष्विव ॥ १२ ॥

खेदमाप समग्रासु तासु भूपविभूतिषु ।
मत्सी निदाघतप्तासु परिलोला स्थलीष्विव ॥ १३ ॥

निदाघेन ग्रीष्मेण तप्तासु स्थलीषु परिलोला मत्सीव । सूर्यतिष्यागस्त्यमत्स्यानां
य उपधायाः इति यलोपः ॥ १३ ॥

अयमिन्द्रोऽयमिन्द्रश्चेत्येवं जातप्रलापया ।
लज्जापि हि तया त्यक्ता वैवश्यमनुयातया ॥ १४ ॥

तथा लज्जापि त्यक्ता । अनुयातया अनुसृतया ॥ १४ ॥

इत्यार्तया घनस्नेहमथ तस्या वयस्यया ।
उक्तं तया प्रियेऽविघ्नमिन्द्रमभ्यानयाम्यहम् ॥ १५ ॥

अथानन्तरं तस्या वयस्यया एवंविधां दृष्ट्वा आर्तया तया इति उक्तम् । हे
प्रिये सखि अहमिन्द्रमभिमुखमविघ्नं यथा स्यात्तथा आनयामि ॥ १५ ॥

इष्टं तवानयामीति श्रुत्वा विकसितेक्षणा ।
पपात पादयोः सख्या नलिन्या नलिनी यथा ॥ १६ ॥

नलिनी पद्मिनी ग्लाना अन्यस्य नलिन्या मूले यथा पतति तद्वत् ॥ १६ ॥

ततः प्रयाते दिवसे समायाते निशागमे ।
सा वयस्या तमिन्द्राख्यं ययौ द्विजकुमारकम् ॥ १७ ॥

बोधयित्वा यथायुक्तं सा तमिन्द्रमथाङ्गना ।
अहल्यानिकटं रात्र्यामानयामास सत्वरम् ॥ १८ ॥

ततः सा तेन षिड्गेन सहेन्द्रेण रतिं ययौ ।
कस्मिंश्चित्सदने गुप्ते बहुमाल्यविलेपना ॥ १९ ॥

हाराङ्गदमनोज्ञेन तरुणी तेन सा तदा ।
रतेनावर्जिता वल्ली रसेन [रतेन इति पाठः] मधुना यथा ॥ २० ॥

रतेन सुरतोचितक्रीडनेन आवर्जिता वशीकृता । मधुना वसन्तेन ॥ २० ॥

ततस्तदनुरक्ता सा पश्यन्ती तन्मयं जगत् ।
न समस्तगुणाकीर्णं भर्तारं बह्वमन्यत ॥ २१ ॥

केनचित्त्वथ कालेन तस्या इन्द्रानुरागिता ।
सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका ॥ २२ ॥

तन्मुखव्योम्नश्चन्द्रिकेवप्रकाशहेतुः ॥ २२ ॥

प्। ३४३) २०६

इन्द्रं ध्यायति सा यावत्तावत्तस्या विराजते ।
मुखं पूर्णेन चन्द्रेण प्रबुद्धमिव कैरवम् ॥ २३ ॥

तदेव स्पष्टमाह - इन्द्रमिति ॥ २३ ॥

इन्द्रोऽपि च तदासक्तसमस्तकरणाकुलः ।
न तिष्ठति क्षणमहो तया विरहितः क्वचित् ॥ २४ ॥

अथातिसुघनस्नेहनिरावरणचेष्टयोः ।
तयोरनयवृत्तान्तो राज्ञाकर्णि कटुव्यथः ॥ २५ ॥

अतिशयितेन सुघनेन निरन्तरेण च स्नेहेन निरावरणा अप्रच्छन्नाश्चेष्टा
ययोस्तयोः । कट्वी दुःसहा व्यथा यस्मात्सः ॥ २५ ॥

एवमन्योन्यमासक्तं भावमालक्ष्य भूपतिः ।
चकार बहुभिर्दण्डैः स द्वयोरथ शासनम् ॥ २६ ॥

शासनं पीडनम् ॥ २६ ॥

तावुभावपि सन्त्यक्तौ हेमन्ते सलिलाशये ।
तुष्टौ जहसतुस्तत्र न खेदं समुपागतौ ॥ २७ ॥

तदेव विशिष्य दर्शयति - तावित्यादिना । तत्र लौकिकेऽसत्ये कुत्सितेऽपि विषये
चित्तस्थैर्ये यदा न दुःखं सुखसम्पत्तिश्च तदा परमात्मनि तत्स्थैर्ये
तत्प्रसक्तिसम्भावनापि दूरं निरस्ता निरतिशयानन्दावाप्तिश्च स्वतःसिद्धेति
तात्पर्यरहस्यं सूचयंस्तयोश्चित्तस्थैर्यफलद्वयं प्रपञ्चयति -
तुष्टावित्यादिना ॥ २७ ॥

अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती ।
तावूचतुर्महीपालं जलाशयसमुद्धृतौ ॥ २८ ॥

संस्मृत्यावामिहान्योन्यमुखकान्तिमनिन्दिताम् ।
आत्मानं न विजानीवो रूढभावं परस्परम् ॥ २९ ॥

आत्मानं स्वदेहम् । रूढभावमिति क्रियाविशेषणम् ॥ २९ ॥

शासनेषु च यत्सङ्गो निःशङ्कस्तेन हर्षितौ ।
मुह्यावो न महीपाल स्वाङ्गैरपि विकर्तितैः ॥ ३० ॥

यद्यस्मादावयोः सङ्गो मनःसम्बन्धो निःशङ्को
भेदशङ्काशून्यस्तेन हेतुना शासनेषु त्वत्कृतेषु पीडनेषु हर्षितौ स्वो न
मुह्यावश्च ॥ ३० ॥

ततो भ्राष्ट्रे परिक्ष्प्तावखिन्नावेवमेव तौ ।
ऊचतुर्मुदितात्मानावन्योन्यस्मृतिहर्षितौ ॥ ३१ ॥

एवं पूर्वोक्तरीत्यैवोचतुः ॥ ३१ ॥

ग्रथितौ गजपादेषु न खिन्नावेव संस्थितौ ।
एवमेवोचतुर्भूपमन्योन्यस्मृतिहर्षितौ ॥ ३२ ॥

कशाहतावखिन्नौ तावेवमेव किलोचतुः ।
अन्यस्माच्छासनाद्राज्ञा कल्पिताच्च पुनः पुनः ॥ ३३ ॥

उद्धृतावूचतुः पृष्टौ तमेवार्थं पुनः पुनः ।
उवाचेन्द्रो महीपालं जगन्मे दयितामयम् ॥ ३४ ॥

न शातनानि दुःखानि बाधन्ते किञ्चिदेव मे ।
अस्याश्चैव जगद्राजन्सर्वं मन्मयमेव च ॥ ३५ ॥

दुःखानि दुःखहेतून्यपि शरीरशातनानि किञ्चिन्न बाधन्त एवेति योजना ॥ ३५ ॥

तेनान्यशासनाद्दुःखं किञ्चिदेव न विद्यते ।
मनोमात्रमहं राजन् मनो हि पुरुषः स्मृतः ॥ ३६ ॥

अन्यशासनादन्यस्मात्पीडनादपि । न विद्यते आवयोरिति शेषः ॥ ३६ ॥

प्रपञ्चमात्रमेवायं देहो दृश्यत एव हि ।
समकालप्रयुक्तेन सहसा दण्डराशिना ॥ ३७ ॥

प्रपञ्चः कल्पितो विस्तारो मनस एवेत्यर्थः । मन एव तर्हि दण्डैर्भेत्स्यामि
तत्राह - समकालेति । समशब्द एकपरः ॥ ३७ ॥

वीरं मनो भेदयितुं मनागपि न शक्यते ।
का नाम ता महाराज कीदृश्यः कस्य शक्तयः ॥ ३८ ॥

वीरं इष्टार्थस्थैर्यशूरम् ॥ ३८ ॥

याभिर्मनांसि भिद्यन्ते दृष्टनिश्चयवन्त्यपि ।
वृद्धिमायातु वा देहो यातु वा विशरारुताम् ॥ ३९ ॥

दृष्टोऽनुभूयमानस्तद्भावापत्तिपर्यन्तो निश्चयो दृष्टनिश्चयस्तद्वन्त्यपि
मनांसि विशरारुतां विशीर्णताम् ॥ ३९ ॥

भावितार्थाभिपतितं मनस्तिष्ठति पूर्ववत् ।
इष्टेऽर्थे चिरमाविष्टं दधानं तत्स्थितं [तद्गतं मनः इति
पाठः] मनः ॥ ४० ॥

आविष्टमभिनिवेशं दधानम् ॥ ४० ॥

भावाभावाः शरीरस्था नृप शक्ता न बाधितुम् ।
भावितं तीव्रवेगेन मनसा यन्महीपते ॥ ४१ ॥

तदेव पश्यत्यचलं न शरीरविचेष्टितम् ।
न काश्चन क्रिया राजन्वरशापादिका अपि ॥ ४२ ॥

अचलं स्थिरम् ॥ ४२ ॥

तीव्रवेगेन सम्पन्नं शक्ताश्चालयितुं मनः ।
तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात् ॥ ४३ ॥

तीव्रवेगेन दृढाभिनिवेशेन । अभिवाञ्छितादिष्टार्थाच्चालयितुम् ॥ ४३ ॥

मनश्चालयितुं शक्ता न महाद्रिं मृगा इव ।
ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता ॥ ४४ ॥

देवागारे महोत्सेधे देवी भगवती यथा ।
न दुःखमनुगच्छामि प्रियया जीवरक्षया ॥ ४५ ॥

गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया ।
यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा ॥ ४६ ॥

तत्रेष्टसङ्गमादन्यत्किञ्चिन्नानुभवाम्यहम् ।
अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः ॥ ४७ ॥

इष्टसङ्गमादभिलषितार्थलाभादन्यत्किञ्चिदणुमात्रमपि नानुभवामि ।
तथाच मन एव वेषद्वयेन दृढसङ्गतं स्वभावात्स्वभावान्तरं
यत्नशतैरपि गमयितुमशक्यमित्याशयेनाह - अहल्येति ॥ ४७ ॥

संसक्तमिदमायाति न स्वभावादृते परम् ।
एककार्यनिविष्टं हि मनो धीरस्य भूपते ॥ ४८ ॥

एककार्यनिविष्टमेकाग्रम् । परं विषयान्तरम् ॥ ४८ ॥

न चाल्यते मेरुरिव वरशापबलैरपि ।
देहो हि वरशापाभ्यामन्यत्वमिव गच्छति ।
ननु धीरं मनो राजन्विजिगीषुतया स्थितम् ॥ ४९ ॥

सर्वविक्षेपविजिगीषुतया स्थितम् ॥ ४९ ॥

प्। ३४४) २०७

एतानि चात्र मनसां न च कारणानि
राजञ्शरीरशकलानि वृथोत्थितानि ।
चेतो हि कारणममीषु शरीरकेषु
वारीव सर्ववनखण्डलतारसेषु ॥ ५० ॥

ननु देह एव मनसः कारणं देहपीडने कुतो न पीड्यते तत्राह - एतानीति ।
एतानि परिदृश्यमानानि प्राणिनां शरीरलक्षणानि शकलानि कल्पनैकदेशा
मनसां न कारणानि किन्तु चेतो मन एवामीषु शरीरकेषु कारणमित्यर्थः ॥ ५०

आद्यं शरीरमिह विद्धि मनो महात्म-
न्सङ्कल्पितो जगति तेन शरीरसङ्घः ।
आद्यं शरीरमधितिष्ठति यत्र यत्र
तत्तद्भृशं फलति नेतरदस्य पुंसः ॥ ५१ ॥

आद्यं आत्मनः प्रथमभोगायतनम् । अधितिष्ठति अहमित्यभिमानेनाविर्भवति
। तेनाधिष्ठानेन तत्तच्छरीराद्याकारं फलतीत्यर्थः ॥ ५१ ॥

मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो
देहास्ततः प्रविसृतास्तरुपल्लवाभाः ।
नष्टेऽङ्कुरे पुनरुदेति न पल्लवश्री-
र्नैवाङ्कुरः क्षयमुपैति दलक्षयेषु ॥ ५२ ॥

उक्तमेवार्थ दृष्टान्तेनोपपादयन्नाह - मुख्याङ्कुरमिति ॥ ५२ ॥

देहे क्षते विविधदेहगणं करोति
स्वप्नावनाविव नवं नवमाशु चेतः ।
चित्ते क्षते तु न करोति हि किञ्चिदेव
देहस्ततः समनुपालय चित्तरत्नम् ॥ ५३ ॥

अत एव देहनाशेऽपि पुनःपुनर्देहोद्भवः चित्तनाशे तु कैवल्यमेव न
पुनर्भव इति प्रसिद्धमित्याह - देह इति । ततश्चित्तलक्षणं रत्नं
सर्वार्थहेतुभूतं चिन्तामणिं समनुपालय परमपुरुषार्थसमाधानेन
रक्ष न तुच्छक्रोधादिवशतया विनाशयेत्यर्थः ॥ ५३ ॥

दिशि दिशि हरिणाक्षीमेव पश्यामि राजन्
प्रिययुवतिमनस्त्वान्नित्यमानन्दितोऽस्मि ।
तव पुरप्रकृतीनां यत्फलं दुःखदायि
क्षणमथ सुचिरं तत्तन्न पश्यामि किञ्चित् ॥ ५४ ॥

उक्तार्थं पिण्डीकृत्यानूद्योपसंहरन्दण्डनप्रयत्नवैफल्यमाह -
दिशि दिशीति । तव पुरस्य तदन्तर्गतप्रकृतीनां सेवकादिप्रजानां वा मध्ये
यन्मम दुःखदायिकशाशस्त्रघातादि यच्च तत्फलं दुःखं
तत्तत्किञ्चित्क्षणकालमथवा सुचिरं न पश्यामीत्यर्थः ॥ ५४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे
कृत्रिमेन्द्राहल्यानुरागो नामैकोननवतितमः सर्गः ॥ ८९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
कृत्रिमेन्द्राहल्यानुरागो नामैकोननवतितमः सर्गः ॥ ८९ ॥