अष्टाशीतितमः सर्गः ८८
श्रीब्रह्मोवाच ।
ब्रह्माणो ब्राह्मणा भानुरित्युक्त्वा ब्रह्मणो मम ।
ब्रह्मन्ब्रह्मविदां श्रेष्ठ तूष्णीमेव बभूव सः ॥ १ ॥
इह धातुरनासक्त्या सर्गसिद्धिरुदीर्यते ।
मनसा दृढसिद्धस्य तथान्यैरनिवर्तनम् ॥ १ ॥
उक्तां कथामुपसंहरति - ब्रह्माण इति । ब्रह्मन्ब्रह्मविदां श्रेष्ठेति
भानुकृतं ब्रह्मसम्बोधनं ब्रह्मकृतं वसिष्ठसम्बोधनं च । ते
दश ब्रह्माणः प्रागुक्ता ब्राह्मणा एव नान्ये इति स भानुर्ब्रह्मणो मम पुर
उक्त्वा तूष्णीमेव बभूवेत्यर्थः ॥ १ ॥
तत उक्तं मया तस्य चिरं सञ्चिन्त्य चेतसा ।
भानो भानो वदाशु त्वं किमन्यत्संसृजाम्यहम् ॥ २ ॥
भानो भानो इत्यादराद्विरुक्तिः ॥ २ ॥
एतानि दश विद्यन्ते किल यत्र जगन्ति वै ।
तत्रान्यो मम सर्गेण कोऽर्थः कथय भास्कर ॥ ३ ॥
कोऽर्थः किं प्रयोजनम् ॥ ३ ॥
इत्युक्तोऽथ मया भानुः सञ्चिन्त्य सुचिरं धिया ।
इदमत्र वचो युक्तमुवाच स महामुने ॥ ४ ॥
युक्तं मत्प्रश्नोचितम् ॥ ४ ॥
भानुरुवाच ।
निरीहस्य निरिच्छस्य कोऽर्थः सर्गेण ते प्रभो ।
विनोदमात्रमेवेदं सृष्टिस्तव जगत्पते ॥ ५ ॥
निष्कामादेव भवतः सर्गः सम्पद्यते प्रभो ।
अर्कादिव जलादित्यप्रतिबिम्बमिवाधियः ॥ ६ ॥
अर्काज्जलादित्यात्मकं प्रतिबिम्बमिव । अधियो निर्मनस्कात् ॥ ६ ॥
शरीरसन्निवेशस्य त्यागे रागे च ते यदा ।
निष्कामो भगवन्भावो नाभिवाञ्छति नोज्झति ॥ ७ ॥
सर्गे निष्कामतां कैमुतिकन्यायेन द्रढयति - शरीरेति ।
शरीरात्मकस्यावयवसन्निवेशस्य त्यागे रागे अहमभिमानेन स्वीकृत्य
रञ्जने च ते भावो निष्कामः ॥ ७ ॥
सृजसीदं तथा देव विनोदायैव भूतप ।
पुनः संहृत्य संहृत्य दिनं दिनपतिर्यथा ॥ ८ ॥
दिनं दिनपतिर्यथा सृजति तथा सृजसि ॥ ८ ॥
तव नित्यमसंसक्तं विनोदायैव केवलम् ।
इदं कर्तव्यमेवेति जगन्न तूद्यमेच्छया ॥ ९ ॥
कर्तव्यं सर्गार्हम् । उद्यमः स्वार्थाभिलाषेणोद्योगस्तदिच्छया तु न ॥ ९ ॥
सृष्टिं चेन्न करोषि त्वं महेश [महेच्छ इति पाठः तत्र हे
महेच्छ महाशयेत्यर्थः] परमात्मनः ।
नित्यकर्मपरित्यागात्किमपूर्वमवाप्स्यसि ॥ १० ॥
आत्मनः स्वस्य नित्यकर्मपरित्यागात्परमन्यदपूर्वमदृष्टं किमवाप्स्यसि ।
न किञ्चिदित्यर्थः ॥ १० ॥
यथाप्राप्तं हि कर्तव्यमसक्तेन सदा सता ।
मुकुरेणाकलङ्केन प्रतिबिम्बक्रिया यथा ॥ ११ ॥
तर्हि किमुपरमो युक्तो नेत्याह - यथाप्राप्तमिति ॥ ११ ॥
यथैव कर्मकरणे कामना नास्ति धीमताम् ।
तथैव कर्मसन्त्यागे कामना नास्ति धीमताम् ॥ १२ ॥
अप्राप्तकरण इव प्राप्तत्यागेऽपि हेत्वभावादित्यर्थः ॥ १२ ॥
अतः सुषुप्तोपमया धिया निष्कामया तया ।
सुषुप्तबुद्धसमया कुरु कार्यं यथागतम् ॥ १३ ॥
परमार्थतोऽकरणात्सुषुप्तोपमया । प्रतीतितः करणात्तु सुषुप्तेर्बुद्धः
स्वप्नस्तत्समया ॥ १३ ॥
सर्गैरथेन्दुपुत्राणां तोषमेषि जगत्प्रभो ।
तदेते तोषयिष्यन्ति तं त्वां सर्गात्सुरेश्वर ॥ १४ ॥
किञ्चैतैरैन्दवसर्गैस्त्वं स्वपुत्रपौत्रादीनां सम्पद्वृद्धिदर्शनादिव
यदि तोषमेषि तत्तर्हि एते ऐन्दवा अग्रेऽपि सर्गात्तं तोषशीलं त्वां
तोषयिष्यन्तीत्यर्थः ॥ १४ ॥
चित्तनेत्रैर्भवानेतान्सर्गानन्यस्य नो दृशा ।
अवश्यं चक्षुषा सर्गं सृष्टमित्येव वेत्ति कः ॥ १५ ॥
अस्तु तोषः तथापि मत्सर्गस्तेन कुतो न गतार्थस्तत्राह - चित्तनेत्रेणेति ।
भवानन्यस्य सर्ग चित्तरूपेण नेत्रेण पश्यति दृशा चक्षुषा तु नो पश्यति ।
कस्तत्स्रष्टा तु स्वकृतं सर्गं मयेदं सृष्टमिति चक्षुषैवावश्यं वेत्ति
अतस्ते स्वचक्षुर्दर्शनार्हः सर्गो नान्येन गतार्थ इत्यर्थः ॥ १५ ॥
येनैव मनसा सर्गो निर्मितः परमेश्वर ।
स एव मांसनेत्रेण तं पश्यति हि नेतरः ॥ १६ ॥
तर्ह्यैन्दवकृतसर्ग एव मया चक्षुषा द्रष्टव्यस्तत्राह - येनैवेति ॥ १६ ॥
न चैतान्दश संसारान्दश नीरजसम्भवान् ।
कश्चिन्नाशयितुं शक्तश्चित्तदार्ढ्याच्चिरस्थितान् ॥ १७ ॥
यद्येवं तर्हि वृथा मन्मनसा दृश्योऽयमैन्दवसर्गो मत्प्रतिकूल एवेति
मया नाशनीयस्तत्राह - न चैतानिति । दशैतान्संसारांस्तद्धेतून्दश
नीरजसम्भवान्पद्मजान्वा कश्चिन्नाशयितुं शक्तः ॥ १७ ॥
कर्मेन्द्रियैर्यत्क्रियते तद्रोद्धुं किल युज्यते ।
न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः ॥ १८ ॥
रोद्धुं रोधयितुमित्यनयोर्नाशयितुमित्यर्थः ॥ १८ ॥
यो बद्धपदतां यातो जन्तोर्मनसि निश्चयः ।
स तेनैव विना ब्रह्मन्नान्येन विनिवार्यते ॥ १९ ॥
बद्धपदतां रूढमूलताम् ॥ १९ ॥
बहुकालं यदभ्यस्तं मनसा दृढनिश्चयम् ।
शापेनापि न तस्यास्ति क्षयो नष्टेऽपि देहके ॥ २० ॥
शापेन तर्हि स मया निरसनीयस्तत्राह - बहुकालमिति ॥ २० ॥
प्। ३४२) २०६
यद्वद्धपीठमभितो मनसि प्ररूढं
तद्रूपमेव पुरुषो भवतीह नान्यत् ।
तद्बोधनादितरमत्र किलाभ्युपायं
शैलौघसेकमिव निष्फलमेव मन्ये ॥ २१ ॥
बद्धपीठं स्थिरीभूतम् । अत एव हि मूढानां संसारनिवारणे
तद्बोधनमेवोपायो न वरशापादिरन्य इत्याह - तद्बोधनादिति ।
शैलौघानां शिलाशकलसमूहानामङ्कुरोदयेच्छया सेकमिव
निष्फलमेवाहं मन्ये ॥ २१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे ऐ०
ऐन्दवनिश्चयकथनं नामाष्टाशीतितमः सर्गः ॥ ८८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
ऐन्दवनिश्चयकथनं नामाष्टाशीतितमः सर्गः ॥ ८८ ॥