०८७

सप्ताशीतितमः सर्गः ८७

भानुरुवाच ।

पितामहक्रमे तस्मिंस्ततस्ते बहुभावनात् ।
कर्मभिस्तैः समाक्रान्तमनस्कास्तस्थुरादृताः ॥ १ ॥

मनसा ब्रह्मभूतानां क्रव्यादैर्देहभक्षणे ।
प्रतिसर्गेऽथ सर्गे च तथावस्थितिरीर्यते ॥ १ ॥

हे पितामह ते ऐन्दवास्तस्मिन्नुपास्तिक्रमे
तैस्तैर्भुवनभूतग्रामादिसृष्टिपरिपालनसंहारादिकर्मभिस्त्वमिव
समाक्रान्तमनस्कास्तत्रैवादृता अत्यासक्ताः सन्तस्तावत्तस्थुर्यावत्तेषां
कृशा देहा देहकाः शोषमभ्येत्य गलिता इति परेणान्वयः ॥ १ ॥

यावत्ते देहकास्तेषां तापेन पवनैस्तथा ।
कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत् ॥ २ ॥

जक्षुस्तान्देहकांस्तत्र क्रव्यादा वनवासिनः ।
इतश्चेतश्च लुठितान्सुफलानीव मर्कटाः ॥ ३ ॥

जक्षुर्बभक्षुः । क्रव्यादा मांसाशिनो मृगपक्षिणः ॥ ३ ॥

अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः ।
तस्थुश्चतुर्युगस्यान्ते यावत्कल्पः क्षयं गतः ॥ ४ ॥

शरीरनाशे च तेषामात्यन्तिकी बाह्यार्थप्रत्ययनिवृत्तिः सम्पन्नेत्याह -
अथेति । चतुर्युगस्य शिष्टस्यान्ते ॥ ४ ॥

क्षीयमाणे ततः कल्पे तपत्यादित्यसञ्चये ।
पुष्करावर्तकेषूच्चैर्वर्षत्सु कठिनारवम् ॥ ५ ॥

वहत्सु कल्पवातेषु स्थित एकमहार्णवे ।
क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः ॥ ६ ॥

ते ऐन्दवास्तथैव स्वमनःकल्पितब्रह्माण्डे सर्गादिव्यापृततयैव
व्यवस्थिताः ॥ ६ ॥

ततो रात्रिक्रमपरे सर्वां संहृत्य तां स्थितिम् ।
स्थिते त्वय्यात्मनि विभो ते तथैव व्यवस्थिताः ॥ ७ ॥

रात्रेः क्रमणं क्रमोऽतिक्रमस्तत्परे तत्प्रतीक्षे त्वयि योगनिद्रया आत्मनि स्थिते
सति ॥ ७ ॥

अद्य प्रबुद्धे भवति स्रष्टुमिच्छति संसृतिम् ।
सुखेनैव क्रमेणोच्चैस्ते तथैव व्यवस्थिताः ॥ ८ ॥

तथैते भगवन्ब्रह्मन्ब्रह्मणो ब्राह्मणा दश ।
त एते दश संसारा मनोव्योमनि संस्थिताः ॥ ९ ॥

तेषामेकतमस्याहमयमाकाशमन्दिरे ।
भानुर्भुवि विभो कालकलाकर्मणि योजितः ॥ १० ॥

एतावता ग्रन्थेन कथमिदं जातमिति प्रश्नस्योत्तरमुक्त्वा
कस्त्वमित्यस्योत्तरमाह - तेषामित्यादिना । तेषामैन्दवसर्गाणां मध्ये
एकतमस्य ब्रह्माण्डस्य च्छिद्रभूताकाशलक्षणे मन्दिरे । भुवीति
त्रैलोक्योपलक्षणम् । भूलोक एव कर्माङ्गतया कालविभागज्ञानस्य
विशेषोपयोगात् ॥ १० ॥

एष ते कथितः सर्गो दिशानामब्जसम्भव ।
ब्रह्मणां सम्भवो व्योम्नि यथेच्छसि तथा कुरु ॥ ११ ॥

एषु सर्गेषु सत्स्वपि न तव सर्गे कोऽपि विरोध इत्याशयेनाह - यथेच्छसीति ॥
११ ॥

विविधकल्पनया वलिताम्बरं
यदिदमुत्तम जागतमुत्थितम् ।
करणजालकमाहितमोहनं
तदखिलं निजचेतसि विभ्रमः ॥ १२ ॥

कुतो न विरोध इति चेन्मनःकल्पनामात्रत्वेनासत्यत्वादित्याशयेनाह -
विविधेति । हे उत्तम करणानां बाह्याभ्यन्तराणां जालकमिव बन्धनभूतम्
। आहितेन आसङ्गेन मोहनं यदिदं जागतं दृश्यजातमुत्थितं तदखिलं
तेषां निजचेतसि स्वचित्ते विभ्रमो भ्रान्तिमात्रं न वस्तुसदित्यर्थः ॥ १२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० ऐन्दवो०
दशजगद्वर्णनं नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
दशजगद्वर्णनं नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥

प्। ३४१) २०५