०८६

षडशीतितमः सर्गः ८६

श्रीभानुरुवाच ।

कल्पनाम्नि महादेव ह्यस्तने दिवसे तव ।
तले कैलासशैलस्य जम्बूद्वीपैककोणके ॥ १ ॥

इहेन्दोः सहभार्थस्य तपसैन्दवसम्भवः ।
तेषां ज्येष्ठोपदेशेन धात्रहं भावनेर्यते ॥ १ ॥

जम्बूद्वीपैककोणके विद्यमानस्य कैलासशैलस्यावयवभूते तले
समभूप्रदेशे ॥ १ ॥

प्। ३३८) २०४

सुवर्णजटनाम्ना यस्त्वत्पुत्रैर्जनितप्रजैः ।
मण्डलं कल्पितं श्रीमदनल्पसुखसुन्दरम् ॥ २ ॥

यः प्रदेशः सुवर्णजटनाम्ना प्रसिद्ध इति शेषः । यत्र प्रदेशे जनिता प्रजा
सन्ततिर्यैस्तथाविधैस्तत्पुत्रैर्मरीच्यादिभिः प्रजानां निवासार्थं मण्डलं
कल्पितमित्यर्थः ॥ २ ॥

तत्राभूदतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
इन्दुनामातिशान्तात्मा कश्यपस्य कुलोद्भवः ॥ ३ ॥

तत्र मण्डले । ब्रह्मवित्तमो वेदविच्छ्रेष्ठः ॥ ३ ॥

तस्मिंस्तदा निवसतो नित्यं स्वजनमण्डले ।
तस्य प्राणसमा भार्या काचित्तस्यां महात्मनः ॥ ४ ॥

न बभूवात्मजस्तस्य मरुभूमौ तृणं यथा ।
न व्यराजत सा भार्या तस्य निष्फलपुष्पिता ॥ ५ ॥

ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा ।
तौ ततो दम्पती खिन्नौ पुत्रार्थं तपसे गिरेः ॥ ६ ॥

शून्या फलशून्या । शरलता काशस्तम्बः ॥ ६ ॥

कैलासस्यांशमारूढौ रूढाविव नवद्रुमौ ।
भूतैरनावृते शून्ये तस्मिन्कैलासकुञ्जके ॥ ७ ॥

अंशमूर्ध्वभागं । भूतैः प्राणिभिः ॥ ७ ॥

तेपतुस्तौ तपो घोरं जलाहारौ तरुस्थिती ।
एकं पानीयचुलकं पीत्वा दिवसपर्यये ॥ ८ ॥

तरोः स्थितिरिव स्थितिः स्थैर्यं ययोस्तौ । तरुस्थितिमेवोपपादयति - एकमिति ।
दिवसपर्यये दिनचरमभागे ॥ ८ ॥

निस्पन्दमुत्थितौ वार्क्षीं वृत्तिमाश्रित्य संस्थितौ ।
तस्थतुस्तौ तदा तत्र तावत्कालं तरुव्रतौ ॥ ९ ॥

वाक्षीं वृक्षसम्बन्धिनीम् । तत्सदृशीमिति यावत् ॥ ९ ॥

यावत्त्रेता द्वापरं च युगे द्वे एव ते गते ।
ततस्तुष्टोऽभवद्देवस्तयोः शशिकलाधरः ॥ १० ॥

द्वे युगे गते एवेति योजना । चिरं तपस्तु विशिष्टपुत्रलाभार्थम् ॥ १० ॥

दिनातपातापितयोरिन्दुः कुमुदयोरिव ।
आजगाम तमुद्देशं यत्र तौ विप्रदम्पती ॥ ११ ॥

उद्देशं प्रदेशम् ॥ ११ ॥

सलतापादपं देशं पुष्पाकर इवेश्वरः ।
दम्पती तौ वृषारूढं सोमं सोमार्धशेखरम् ॥ १२ ॥

पुष्पाकरो वसन्त इव । उमया सहितं सोमम् ॥ १२ ॥

फुल्लाननौ ददृशतुः कुमुदे शशिनं यथा ।
तौ तं प्रणेमतुर्देवं तुषारामलमीश्वरम् ॥ १३ ॥

कुमुदे कैरवे । विकास एव दृष्टान्ते दर्शनम् ॥ १३ ॥

द्यावापृथिव्यावुदितं परिपूर्णमिवोडुपम् ।
तर्जयन्पवनाधूतनववृक्षाननस्वरम् ॥ १४ ॥

द्यावापृथिव्यावित्यनेन तत्स्था जना लक्ष्यन्ते । उडुपं चन्द्रम् । पवनेन
मलयानिलेन आधूतानां ईषत्कम्पितपल्लवानां रसालादिवृक्षाणां
आननमिव कुजतां भ्रमरकोकिलादीनां स्वरं स्ववचोमाधुर्यातिशयेन
तर्जयन्निर्भर्त्सयन्निव ॥ १४ ॥

मृदूद्दामस्थितस्पन्दि प्रोवाचाथ वचः शिवः ।

ईश्वर उवाच ।

वरं विप्र गृहाणाशु तुष्टोऽस्मि तव वाञ्छितम् ॥ १५ ॥

मृदुना उद्दामेन सौन्दर्योत्कृष्टेन स्मितेन स्पन्दि ईषच्चलिताधरं यथा
स्यात्तथा । तव वाञ्छितमिष्टं वरं गृहाण ॥ १५ ॥

मधुमासरसाक्रान्तवृक्षवन्मुदितो भव ।

विप्र उवाच ।

भगवन्देवदेवेश दश पुत्रा महाधियः ॥ १६ ॥

भव्या भवन्तु मे भूयः शोको येन न भाधते ।

भानुरुवाच ।

अथैवमस्त्विति प्रोच्य जगामान्तर्धिमीश्वरः ॥ १७ ॥

भव्याः कल्याणगुणाचारशालिनः । येन पुत्रलाभेन ॥ १७ ॥

व्योम्नि वारिनिधिर्ह्रादं कृत्वेवोर्मिमहावपुः ।
ततस्तौ दम्पती तुष्टौ शिवलब्धवरौ गृहम् ॥ १८ ॥

व्योम्नीति पूर्वान्वयि । अथवा वारि निधीयते अस्मिन्निति वारिनिधिर्मेघः ।
ऊर्मिभिरिव विभक्तैरवयवैर्महद्वपुर्यस्य ॥ १८ ॥

गतौ गीर्वाणसदृशौ स्वमिवोमामहेश्वरौ ।
तत्रासौ ब्राह्मणी गेहे बभूवोदारगर्भिणी ॥ १९ ॥

गीर्वाणा देवास्तत्सदृशौ तौ दम्पती । अथवा
मायिकदिव्यशरीरकल्पनाद्गीर्वाणसदृशावुमामहेश्वरौ खं वास्तवं
ब्रह्माकाशमिव ॥ १९ ॥

बभौ पूर्णोदरा श्यामा मेघलेखेव वारिणा ।
कालेऽथ सुषुवे पुत्रान्प्रतिपच्चन्द्रकोमलान् ॥ २० ॥

दशबालांस्ततो मुग्धान्वसुधेव नवाङ्कुरान् ।
कृतब्राह्मणसंस्कारा वृद्धिमीयुर्महौजसः ॥ २१ ॥

मुग्धान् सुन्दरान् । कृता
जातकर्मनामकरणान्नप्राशनचौलोपनयनवेदव्रताध्ययनादयो
ब्राह्मणसंस्कारा येषाम् ॥ २१ ॥

स्वल्पेनैव हि कालेन प्रावृषेव नवाम्बुदाः ।
ते सप्तवर्षवयसो बभूवुर्ज्ञातवाङ्मयाः ॥ २२ ॥

प्रावृषा वर्षर्तुना ॥ २२ ॥

विरेजुस्तेजसा तत्र नभसीवामला ग्रहाः ।
अथ कालेन महता तेषां तौ पितरौ तदा ॥ २३ ॥

सञ्जग्मतुस्तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ ।
मातापितृभ्यां रहिता दश ते ब्राह्मणास्ततः ॥ २४ ॥

स्वां गतिं विदेहकैवल्यम् । यतो मुख्यतमगतिभूतब्रह्मकोविदौ ॥ २४ ॥

ययुः कैलासशिखरं गृहं सन्त्यज्य खेदिनः ।
तत्र सञ्चिन्तयामासुरुद्विग्नास्ते विबन्धवाः(?) ॥ २५ ॥

खेदिनो दुःखिताः । तेषां
भाग्यवशाद्भाविहैरण्यगर्भैश्वर्यप्राप्त्यनुसारि विचार उत्पन्न इत्याह ##-

किं स्यादिह परं श्रेय ऊचुश्चेदं परस्परम् ।
किमिह स्यात्समुचितं भ्रातरः किमदुःखदम् ॥ २६ ॥

परं विभवोत्कृष्टं श्रेयः सुखम् । इति सञ्चिन्त्य इदं वक्ष्यमाणं चोचुः
। ऐहिकामुष्मिकसुखोपायतया स्वीकर्तुं समुचितम् । हे भ्रातरः
ऐहिकसुखाहेतुत्वेऽपि परिणामे अदुःखदं किम् ॥ २६ ॥

प्। ३३९) २०४

किं महत्त्वं किमैश्वर्यं किं महाविभवं शुभम् ।
किं तदेतज्जनैश्वर्यं सामन्तो हि महेश्वर ॥ २७ ॥

एवं सामान्यतो विमृश्य विशेषतोऽपि विमृशन्ति - किमिति ।
तदेतज्जनानामैश्वर्यं किमुत्कृष्टं गृहग्रामाधिपतिभ्यः । हि
यस्मात्सामन्तो मण्डलाधिपतिर्महानीश्वरः ऐश्वर्यवान् ॥ २७ ॥

सामन्तसम्पत्किन्नाम राजानो हि महेश्वराः ।
का नाम सम्पद्भूपानां सम्राडिह महेश्वरः ॥ २८ ॥

किं नाम कियन्नाम । राजानो देशाधिपतयः ॥ २८ ॥

किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः ।
विनश्यति न यत्कल्पे किं स्यात्तदिह शोभनम् ॥ २९ ॥

महेन्द्रस्तर्हि महेश्वरः स्यात्तत्राह - किं नामेति ॥ २९ ॥

भाषमाणेष्वथैतेषु ज्येष्ठो भ्राता महामतिः ।
गम्भीरवागुवाचेदं मृगयूथान्मृगो यथा ॥ ३० ॥

एवं भाषमाणेषु भ्रातृषु जन्मान्तरे
कृतहिरण्यगर्भोपास्तिरन्तरायैरन्तरा विपन्नत्वात्प्राप्तोत्तमजन्मा
भ्रातृसंवादादेवोद्बुद्धप्राक्तनोपास्तिसंस्कारो महामतिर्नाम ज्येष्ठो
भ्राता प्राक्स्वानुष्ठितोपास्तिक्रमं तदधिकृतेभ्यो भ्रातृभ्य
उपदेष्टुकाम उवाचेत्याह - भाषमाणेष्विति । मृगो यूथपः ॥ ३० ॥

ऐश्वर्याणां हि सर्वेषामाकल्पं न विनाशि यत् ।
रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत् ॥ ३१ ॥

आकल्पं आप्राकृतप्रलयम् । हे भ्रातरः ब्रह्मत्वं हिरण्यगर्भता ॥ ३१ ॥

एतदुक्तं तदखिला द्विजपुत्रास्त उत्तमाः ।
वचोभिरैन्दवास्तत्र साधु साध्वित्यपूजयन् ॥ ३२ ॥

भाग्यवशादितरेषामपि तत्राभिरुचिरुत्पन्नेत्याह - एतदिति । तदुत्तमाः इति
पाठे स महामतिरेवोत्तमो ज्येष्ठः श्रेष्ठश्च येषाम् ॥ ३२ ॥

ऊचुश्चेदं कथं तात सर्वदुःखोपमार्जनम् ।
पद्मासनं जगत्पूज्यं विरञ्चित्वमवाप्नुमः ॥ ३३ ॥

अत एव तदुपायमपृच्छन्नित्याह - ऊचुरिति । सर्वाणि
जरामरणसातिशयत्वादिप्रयुक्तदुःखान्युपमृज्यन्ते यस्मिन्नित्यधिकरणे
ल्युट् । अवाप्नुमः शीघ्रं प्राप्स्यामः । वर्तमानसामीप्यविवक्षया लट् ॥ ३३ ॥

भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः ।
मदुक्तं सर्व एवेमे भवन्तः पालयन्तु वै ॥ ३४ ॥

तेभ्य उपागतेभ्यो हिरण्यगर्भाहङ्ग्रहोपास्तिं
सपरिकरामुपदेक्ष्यंस्तदङ्गमामृतेर्धारणादार्ढ्यं विधत्ते -
मदुक्तमिति । वै इति तत्र दृढनिश्चयापेक्षाद्योतनार्थम् ॥ ३४ ॥

पद्मासनगतो भास्वान्ब्रह्माहमिति तेजसा ।
सृजामि संहरामीति ध्यानमस्तु चिराय वः ॥ ३५ ॥

सृजामि संहरामीति लिङ्गात्संवर्गविद्येयमुपदिष्टेति गम्यते ।
इतिशब्दाद्वक्ष्यमाणप्रकारक्रमः सर्वोऽप्युपदिष्टो बोध्यः । चिरायेति
भ्रमरकीटन्यायेन आतद्भावोदयमित्यर्थः ॥ ३५ ॥

अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः ।
ध्यानाधीनधियस्तस्थुः सहैव ज्यायसा रसात् ॥ ३६ ॥

बाढं कृत्वा दृढमङ्गीकृत्य । ज्यायसा ज्येष्ठभ्रात्रा सहैव ।
रसात्फलरागातिशयात् ॥ ३६ ॥

लिपिकर्मार्पिताकारा ध्यानासक्तधियश्च ते ।
अन्तस्थेनैव मनसा चिन्तयामासुरादृताः ॥ ३७ ॥

लिपिकर्म चित्रलेखस्तदर्पिताकाराः ॥ ३७ ॥

अथ उत्फुल्लकमलकोशवक्रोन्नतासनः ।
ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः ॥ ३८ ॥

तत्कथं चिन्तनप्रकारं वक्तुमुपक्रमते - अथेत्यादिना ॥ ३८ ॥

यज्ञक्रियाक्रमवतः साङ्गोपाङ्गा महर्षयः ।
सरस्वत्याथ गायत्र्या युक्ता वेदा नरा इमे ॥ ३९ ॥

यज्ञक्रियाक्रमवतो यज्ञमूर्तेर्मम याजका महर्षयः साङ्गोपाङ्गा
अङ्गैः शिक्षादिभिरुपाङ्गैः पुराणादिभिश्च सहिताः सरस्वत्या गायत्र्या च
युक्ता वेदा नरा मूर्तिमन्त इमे मदन्तस्था इत्यर्थः ॥ ३९ ॥

लोकपालपराक्रान्तः सञ्चरत्सिद्धमण्डलः ।
अयमुद्दामसौभाग्यः स्वर्गः स्वरविभूषितः ॥ ४० ॥

पर्वतद्वीपजलधिकाननैः समलङ्कृतम् ।
इदं भूमण्डलं चैव त्रिलोकीकर्णकुण्डलम् ॥ ४१ ॥

त्रिलोकीलक्षणायाः स्त्रियः कर्णकुण्डलम् ॥ ४१ ॥

एतत्पातालकुहरं दैत्यदानवभोजितम् ।
अमृतस्त्रीगणाकीर्णं गृहं गगनकोटरम् ॥ ४२ ॥

दैत्यैर्दानवैश्च भोजितं पूरितोदरम् । अमृतानाममर्त्यानां
स्त्रीगणैरप्सरोभिराकीर्णं व्याप्तं गृहमिव गृहमित्यर्थः ॥ ४२ ॥

अयमिन्द्रो महाबाहुः प्रजालङ्कृतदोत्तमः ।
त्रैलोक्यनगरीमेकः पाति पावनयज्ञभुक् ॥ ४३ ॥

अयं मदन्तस्थः प्रजानां अलङ्कृतमलङ्कारं शोभमानतां ददतीति
प्रजालङ्कृतदा राजानः । राजभिर्हि प्रजाः शोभन्ते तेषूत्तम ॥ ४३ ॥

दीप्रजालवरत्राभिरवष्टभ्याथ दिग्गणम् ।
क्रमेण प्रतपन्त्येते भानवो भूरिभानवः ॥ ४४ ॥

दीप्राभिः कान्तिजाललक्षणवरत्राभिः पाशैर्दिग्गणमवष्टभ्य यथा न
पलायन्ते तथा बद्ध्वा रसादानाय प्रतपन्ति । भानवो द्वादशादित्याः
भूरिभानवः प्रचुरकिरणाः । क्रमेण चैत्रादिमासक्रमेण ॥ ४४ ॥

लोकपाला इमे लोकं रक्षन्ति [रक्षन्त्यक्षुब्धवृत्तयः इति
पाठः] शुद्धवृत्तयः ।
मर्यादाभिरतुच्छाभिर्गोपाला गोगणं यथा ॥ ४५ ॥

अतुच्छाभिर्न्याय्यत्वान्महतीभिः [अतुच्छामिस्तुच्छान्यत्वान्महतीभिरित्यपि
पाठः] ॥ ४५ ॥

उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च ।
तरङ्गा इव तोयानामिमाः प्रतिदिनं प्रजाः ॥ ४६ ॥

उन्मज्जन्त्याविर्भवन्ति निमज्जन्ति तिरोभवन्ति प्रस्फुरन्ति विविधविभवादिना
विराजन्ते । दारिद्र्यदोषादिना पतन्ति च ॥ ४६ ॥

प्। ३४०) २०५

सृजामीममहं सर्गं संहरामि तथादृतः ।
अयमात्मनि तिष्ठामि शाम्यामि भुवनेश्वरः ॥ ४७ ॥

आत्मनि पारमार्थिके स्वरूपे तिष्ठामि । अत एव शाम्याम्युपरमे ॥ ४७ ॥

अयं संवत्सरो यात इदं परिणतं युगम् ।
सृष्टेरयमसौ कालः स्वयं संहरणस्य च ॥ ४८ ॥

उक्तमेव स्पष्टं वदन्नुपसंहरति - अयमित्यादिद्वाभ्याम् ॥ ४८ ॥

अयमेव गतः कल्पो ब्राह्मी रात्रिरियं तता ।
अयमात्मनि तिष्ठामि पूर्णात्मा परमेश्वरः ॥ ४९ ॥

इति भावितया उद्ध्या ते द्विजा अथ ऐन्दवाः ।
दशाद्रिवृत्तयस्तस्थुः समुत्कीर्णा इवोपलात् ॥ ५० ॥

अथ ऐन्दवा इत्यसन्धिः संहिताऽनित्यत्वात् । अद्रिवृत्तयो दृढबद्धासनाः ॥
५० ॥

अधिगतकमलासनक्रमास्ते
परिगलितेतरतुच्छवृत्तिजालाः ।
सततमतितरां कुशासनस्था-
श्चिरमिति पङ्कजकल्पने विरेजुः ॥ ५१ ॥

कुशासनस्थास्ते पङ्कजासनकल्पने सति परिगलितेतरतुच्छवृत्तिजालाः सन्तः
अधिगतकमलासनक्रमाश्च सन्तो विरेजुः ॥ ५१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० ए०
ऐन्दवसमाधानं नाम षडशीतितमः सर्गः ॥ ८६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
ऐन्दवसमाधानं नाम षडशीतितमः सर्गः ॥ ८६ ॥