पञ्चाशीतितमः सर्गः ८५
श्रीवसिष्ठ उवाच ।
पुरा मे ब्रह्मणा प्रोक्तं सर्वं तत्कथयानघ ।
यदिदं तत्प्रवक्ष्यामि त्वयि पृच्छति राघव ॥ १ ॥
सृष्टिं चिकीर्षतो धातुर्दंशब्रह्माण्डदर्शनम् ।
तत्रैकरविणा तेषां तत्त्वोक्तिश्चात्र वर्ण्यते ॥ १ ॥
प्रतिज्ञातमैन्दवोपाख्यानं वक्तुमुपक्रमते - पुरेत्यादिना । हे अनघ
ब्रह्मणा मे पुरा यदिदं प्रोक्तं जगतो मनोमात्रत्वं तत्सर्व तत्कथया तेन
ब्रह्मणोक्तयैन्दवोपाख्यानकथया प्रवक्ष्यामीति योजना ॥ १ ॥
पुरा मया हि भगवान्पृष्ठः कमलसम्भवः ।
इमे कथमुपायान्ति ब्रह्मन्सर्गगणा इति ॥ २ ॥
तदर्थ तदानीं स्वकृतं प्रश्नमाह - पुरेति ॥ २ ॥
तदुपाश्रुत्य भगवान्ब्रह्मा लोकपितामहः ।
ऐन्दवाख्यानसहितं मामुवाच बृहद्वचः ॥ ३ ॥
तत् मत्पृष्टं उप आश्रुत्य वक्ष्यामीति प्रतिज्ञाय । बृहत् महार्थम् ॥ ३ ॥
ब्रह्मोवाच ।
सर्वं हि मन एवेदमित्थं स्फुरति भूतिमत् ।
जलं जलाशयस्फारैर्विचित्रैश्चक्रकैरिव ॥ ४ ॥
भूतिमज्जगद्भावधारणशक्तिमत् । चक्रकैरावर्तैरिव ॥ ४ ॥
दिनादौ सम्प्रबुद्धस्य संसारं स्रष्टुमिच्छतः ।
पुराकल्पे हि कस्मिंश्चिच्छृणु किं वृत्तमङ्ग मे ॥ ५ ॥
हे अङ्ग मे मम पुराकल्पे दिनादौ कल्पादौ सम्प्रबुद्धस्य संसारं
जगत्स्रष्टुमिच्छतः किं वृत्तं यत्सम्पन्नं तच्छृण्वित्यर्थः ॥ ५ ॥
कदाचिदखिलं सर्गं संहृत्य दिवसक्षये ।
एक एवाहमेकाग्रः स्वस्थस्तामनयं निशाम् ॥ ६ ॥
निशान्ते सम्प्रबुद्धात्मा सन्ध्यां कृत्वा यथाविधि ।
प्रजाः स्रष्टुं दृशौ स्फारे व्योम्नि योजितवानहम् ॥ ७ ॥
सन्ध्यां सन्ध्योपास्तिम् । योजितवान् प्रसारितवानिति यावत् ॥ ७ ॥
यावत्पश्यामि गगनं न तमोभिर्न तेजसा ।
व्याप्तमत्यन्तविततं शुन्यमन्तविवर्जितम् ॥ ८ ॥
विद्यमानस्यापि तमसो दिव्यस्वदृष्टिप्रसाराविघातित्वान्न तमोभिरित्युक्तम् ॥ ८
॥
सर्गं सङ्कल्पयामीति मतिं निश्चित्य तन्मया ।
समवेक्षितुमारब्धं शुद्धं सूक्ष्मेण चेतसा ॥ ९ ॥
तत्स्रष्टव्यवस्तु समवेक्षितुं पर्यालोचयितुम् ॥ ९ ॥
अथाहं दृष्टवांस्तत्र मनसा विततेऽम्बरे ।
पृथक्स्थितान्महारम्भान्सर्गान्स्थितिनिरर्गलान् ॥ १० ॥
अम्बरे अव्यक्ताकाशे सर्गान्ब्रह्माण्डान् । स्थित्या
तत्रत्यविष्ण्वादिकृतपालनादिव्यवस्थया निरर्गलान्निष्प्रतिबन्धान् ॥ १० ॥
तेषु मत्प्रतिबिम्बाभाः पद्मकोशनिवासिनः ।
राजह्ंसान्समारूढाः संस्थिता दश पद्मजाः ॥ ११ ॥
पृथक्स्थितेषु सर्गेषु तेषूद्यद्भूतपङ्क्तिषु ।
जलजालेषु शुद्धेषु जगत्सु जलदायिषु ॥ १२ ॥
उद्यन्त्य उत्पद्यमाना भूतपङ्क्तयश्चतुर्विधप्राणिनिकाया येषु । जलजालेषु
जलदजालेषु । छान्दसो दलोपः । अथवा जलानां जालमिव बन्धनेषु मेघेषु
शुद्धेष्ववग्रहादिदोषनिर्मुक्तेषु ॥ १२ ॥
प्रवहन्ति महानद्यः प्रध्वनन्ति यथाब्धयः ।
प्रतपन्त्युष्णारुचयः प्रस्फुरन्त्यम्बरेऽनिलाः ॥ १३ ॥
प्रकर्षेण स्फुरन्ति सञ्चलन्ति ॥ १३ ॥
दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवः ।
दानवा भोगिनश्चैव पातालेषु च संस्थिताः ॥ १४ ॥
विबुधा देवाः ॥ १४ ॥
कालचक्रपरिप्रोता यद्भावाः सकलर्तवः ।
यथाकालं फलापूर्णा भूषयन्त्यभितो महीम् ॥ १५ ॥
यद्भावाः यादृशशीतातपवर्षादिस्वभावाः । सकला ऋतवो वसन्तादयः ॥
१५ ॥
प्रौढ्यं शुभाशुभाचारस्मृतयः ककुभं प्रति ।
नरकस्वर्गफलदाः सर्वत्र समुपागताः ॥ १६ ॥
शुभा विहिता अशुभा निषिद्धा आचरास्तद्विभाजकस्मृतिग्रन्थाश्च ककुभं
प्रति प्रतिदिशं सर्वत्र सर्ववर्णेषु प्रौढ्यं प्रौढतां समुपागताः ॥ १६ ॥
भोगमोक्षफलार्थिन्यः समस्ता भूतजातयः ।
स्वमीहितं यथाकालं प्रयतन्ते यथाक्रमम् ॥ १७ ॥
यथाक्रमं यादृशो यासां प्रवृत्तिक्रमः स्वसर्गे
कॢप्तस्तमनतिक्रम्येत्यर्थः ॥ १७ ॥
सप्तलोकास्तथा द्वीपाः समुद्रा गिरयस्तथा ।
अप्येष्यमाणाः कल्पान्तं स्फुरन्त्युरुतरारवम् ॥ १८ ॥
कल्पान्तं प्रलयम् ॥ कालेन एष्यमाणा अपि स्वकाले उरुतरारवं यथा स्यात्तथा
स्फुरति ॥ १८ ॥
क्वचिद्ध्रासित्वमायातं क्वचित्स्थिरतरं स्थितम् ।
स्थितं सर्वत्र कुञ्जेषु तमस्तेजोलवादृतम् ॥ १९ ॥
तमः क्वचिदनावृतदेशे ह्रासित्वमपक्षयम् । क्वचिद्गिरिगुहादौ । कुञ्जेषु तु
तेजोलवैरातपच्छिद्रैरादृतं । स्नेहान्मिलितमित्यर्थः ॥ १९ ॥
नभोनीलोत्पलस्यान्तर्भ्रमदभ्रमधुव्रतम् ।
प्रस्फुरत्तारकाजालकेसरापूर्णतां गतम् ॥ २० ॥
अर्थात्सरस्त्वेन जगद्वर्णयति - नभ इति ॥ २० ॥
कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः ।
शाल्मलेरमलं तूलमष्ठीलाकोटरेष्विव [अष्ठिला इति मुद्रितपुस्तके
पाठः] ॥ २१ ॥
मेरुरिवोच्छ्रयान्मेरुर्हिमवांस्तत्कुञ्जेषु । अष्ठीला [१] फलकर्परं
तत्कोटरेष्विव ॥ २१ ॥
लोकालोकाद्रिरसनारणदर्णवघुङ्घुमा ।
तमःखण्डेन्द्रनीलाभा निजरत्नविराजिता ॥ २२ ॥
लोकालोकाद्रिरेव रसना काञ्ची यस्याः । रणन्तोऽर्णवा एव घुङ्गुमा
भूषणध्वनयो यस्याः । तमःखण्डा एवेन्द्रनीलमणिप्रभा यस्याः । निजैः
स्वान्तर्गतै रत्नैश्च विराजिता ॥ २२ ॥
धानाधरसुधा भूतरवकाकलिघुङ्घुमा ।
संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना ॥ २३ ॥
धानाः शाल्यादिबीजान्येव प्राणिनामास्वादनीयत्वादधरसुधा यस्याः ।
भूतानां प्राणिनां रवा ध्वनय एव काकलिघुङ्घुमा
मधुरास्फुटवाग्विलासा यस्याः सा तथाविधा अर्थाद्भूः तस्मिन्भुवनाभोगे
स्वान्तःपुरे अङ्गनेव संस्थितेत्यर्थः ॥ २३ ॥
प्। ३३७) २०३
गौराङ्गपङ्क्तिर्मध्यस्था रजनीराजिरञ्जिता ।
पद्मोत्पलस्रज इव लक्ष्यते वत्सरश्रियः ॥ २४ ॥
वत्सरश्रियः संवत्सरलक्ष्म्या
कण्ठधृतायास्तमःप्रकाशलक्षणपद्मोत्पलनिर्मितायाः स्रजो मध्यस्था
अन्तर्निविष्टा अत एव तदीयपरागसदृशविद्युन्नक्षत्रादिव्याप्तत्वाद्रजनीराज्या
हरिद्रालेपनप्रायेण रात्रिसमूहाङ्गरागेण रञ्जिता गौराणां
कण्ठकुचोदरवलिनाभ्याद्यङ्गानां पङ्क्तिरिव अर्थात् द्यौर्लक्ष्यत इत्यर्थः
॥ २४ ॥
बहुगर्तविभागस्थभूता लोकाः पृथक्पृथक् ।
जातारुणा विलोक्यन्ते दाडिमानीव कान्तिकाः ॥ २५ ॥
बहूनि भुवनगर्तविभागेषु स्थितानि भूतानि बीजस्थानीयानि येषु तथाविधा
लोका ब्रह्माण्डा जातान्यरुणानि तेजांसि येषु तथाविधाः सन्तः कान्तिकाः
प्रकाशमाना दाडिमफलानीव विलोक्यन्त इत्यर्थः ॥ २५ ॥
त्रिप्रवाहा त्रिपथगा कृतोर्ध्वाधोगमागमा ।
जगद्यज्ञोपवीताभा स्फुरतीन्दुकलामला ॥ २६ ॥
इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च ।
दिग्लतासु तडित्पुष्पा वातार्ता मेघपल्लवाः ॥ २७ ॥
तडित एव पुष्पाणि येषां तथाविधा मेघपल्लवा दिग्लतासु वातार्ताः सन्त
इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्तीति योजना ॥ २७ ॥
गन्धर्वनगरोद्यानलतावितानमालिनी ।
समुद्रभूमिनभसां पदवी प्रविराजते ॥ २८ ॥
तच्च प्रतिभातं जगन्मिथ्यैवेति दर्शयति - गन्धर्वेति । सा
समुद्रभूमिनभसां पदवी वितानशालिनी गन्धर्वनगरोद्यानलतेव
प्रतिराजते न वास्तवीत्यर्थः ॥ २८ ॥
लोकान्तरेषु सङ्घेन देवासुरनरोरगाः ।
उदुम्बरेषु मशका इव घुङ्घुमिताः स्थिताः ॥ २९ ॥
लोकान्तरेषु भुवनगर्भेषु ॥ २९ ॥
युगक्ल्पक्षणलवकलाकाष्ठाकलङ्कितः ।
कालो वहत्यकलितसर्वनाशप्रतीक्षकः ॥ ३० ॥
तेषु लोकान्तरेषु युगादिलक्षणः कालोऽपि प्रवहतीत्यर्थः । अकलितस्य अतर्कितस्य
सर्वनाशस्य प्रतीक्षकः ॥ ३० ॥
एवमालोक्य शुद्धेन परेण स्वेन चेतसा ।
भृशं विस्मयमापन्नः किमेतत्कथमित्यलम् ॥ ३१ ॥
विस्मयमापन्नः । अहमिति शेषः ॥ ३१ ॥
कथं मांसमयेनाक्ष्णा यन्न पश्यामि किञ्चन ।
तन्मायाजालमतुलं पश्यामि मनसाम्बरे ॥ ३२ ॥
विस्मयमेव सहेतुकमभिलप्य दर्शयति - कथमिति । मांसमयेन
चक्षुर्गोलकनिविष्टेनाक्षणा यन्न पश्यामि तन्मनसा पश्यामि इदं कथं
सम्पन्नमिति विस्मय इत्यर्थः ॥ ३२ ॥
अथालोक्य चिरं कालं मनसैवाहमम्बरात् ।
अर्कं तस्माज्जगजालादेकमानीय पृष्ठवान् ॥ ३३ ॥
अम्बरात्तद्भुवनाकाशात् । आनीय सत्यसङ्कल्पेन पुरः सन्निधाप्य ॥ ३३ ॥
आगच्छ देवदेवेश भो भास्कर महाद्युते ।
स्वागतं तेऽस्त्विति प्रोक्तो मयासौ कथितोप्यथ ॥ ३४ ॥
स्वागतं तेऽस्त्विति प्रथमं प्रोक्तः अथ वक्ष्यमाणमर्थं कथितः
पृष्टश्च ॥ ३४ ॥
कस्त्वं कथमिदं जातं जगदेव जगन्ति च ।
यदि जानासि भगवंस्तदेतत्कथयानघ ॥ ३५ ॥
तमेवार्थं दर्शयति - क इति । इदं त्वदीयं जगत्कथं जातम् । एवमन्यानि
नव जगन्ति कथं जातानि कैः स्रष्टृभिः सृष्टानीत्यर्थः ॥ ३५ ॥
इत्युक्तो मां समालोक्य सम्परिज्ञातवानथ ।
नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा ॥ ३६ ॥
मां सम्परिज्ञातवान् । अस्य ब्रह्मण्डस्य ब्रह्मा अयमितीति शेषः ॥ ३६ ॥
श्रीभानुरुवाच ।
अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि ।
गतः कस्मान्न जानीषे किं मामीश्वर पृच्छसि ॥ ३७ ॥
नित्यं शश्वत् ॥ ३७ ॥
अथ मद्वाक्यसन्दर्भे लीला चेत्तव सर्वग ।
अचिन्तितां मदुत्पत्तिं तच्छृणुष्व वदाम्यहम् ॥ ३८ ॥
लीलाश्रवणे कौतूहलम् । अचिन्तितां त्वया असङ्कल्पिताम् ॥ ३८ ॥
सदसदिति कलाभिराततं यत्
सदसदबोधविमोहदायिनीभिः ।
अविरतरचनाभिरीश्वरात्मन्
प्रविलसतीह मनो महन्महात्मन् ॥ ३९ ॥
व्यवहारे सर्वशक्तिमत्त्वादीश्वरात्मन् । परमार्थदृशा तु महात्मन् ।
अविरता जगद्रचना याभ्यस्तथाविधाभिः । सदिति वा असदिति वा तत्त्वतोऽबोधेन
विमोहदानशीलाभिः कदाचित्सत्कदाचिदसत्क्वचित्सत्क्वचिदसदिति
कालदेशपरिच्छिन्नजगत्सत्ताप्रदर्शनकौशलरूपाभिर्यदिह आसमन्तात्ततं
विस्तृतं तन्मन एव तथा प्रविलसतीति विद्धीत्यर्थः ॥ ३९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उ० ऐन्दवोपाख्यानोपक्रमे
ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥