चतुरशीतितमः सर्गः ८४
श्रीवसिष्ठ उवाच ।
एतत्ते कथितं सर्वं मयाख्यानमनिन्दितम् ।
कर्कट्या हिमराक्षस्या यथावदनुपूर्वशः ॥ १ ॥
निमित्तं कर्कटीनाम्ना [कर्कटीनाम्न इति पाठः] उपदेशार्थकल्पनम्
।
दृष्टान्तोक्त्युपयोगश्च विस्तरादत्र वर्ण्यते ॥ १ ॥
हिमशब्देन हिमवानुच्यते नामैकदेशे नामग्रहणन्यायात् ॥ १ ॥
श्रीराम उवाच ।
हिमवद्गह्वरे प्रोत्था सा कथं कृष्णराक्षसी ।
बभूव कर्कटीनाम्ना यथावद्वद मे प्रभो ॥ २ ॥
तस्याः कृष्णवर्णत्वे कर्कटीनामप्राप्तौ च किं निमित्तमिति रामः पृच्छति
- हिमवदिति ॥ २ ॥
श्रीवसिष्ठ उवाच ।
कुलानि सन्त्यनेकानि राक्षसानां स्वभावतः ।
तानि शुक्लानि कृष्णानि हरितान्युज्ज्वलानि च ॥ ३ ॥
तत्राद्यस्य निमित्तमाह - कुलानीति ॥ ३ ॥
कर्कटप्राणिसादृश्यात्कर्कटो नाम राक्षसः ।
बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः ॥ ४ ॥
द्वितीयस्य निमित्तमाह - कर्कटेति । कर्कटः कुलीरः स एव प्राणी
तत्सादृश्यात् । बृहदुदरदीर्घहस्तपादादिमत्त्वात्कर्कटाकृतिः ॥ ४ ॥
कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव ।
अध्यात्मोक्तिप्रसङ्गेन विश्वरूपनिरूपणे ॥ ५ ॥
विश्वरूपस्य जगत्तत्त्वस्य निरूपणे प्रस्तुते अध्यात्मोक्तिप्रसङ्गेन
कर्कटीकृतानां प्रश्नानां संस्मृत्या एषा आख्यायिका कथिता ॥ ५ ॥
सम्पन्नमेव मे कस्मादसम्पन्नमिव स्फुटम् ।
इदं जगदनाद्यन्तात्पदात्परमकारणात् ॥ ६ ॥
उदाहृतामाख्यायिकां प्रकृते योजयति - सम्पन्नमिति ॥ ६ ॥
प्लाविन्यो वीचयो वारिण्यन्यानन्याः स्थिता यथा ।
वर्तमाना अपि परे सृष्टयः संस्थितास्तथा ॥ ७ ॥
प्लाविन्य उत्प्लवनवत्यः । अपिशब्दादतीतानागतसमुच्चयः ॥ ७ ॥
अज्वलन्नेव काष्ठेषु वह्निरर्थक्रियां यथा ।
करोति मर्कटादीनां शीतापहरणादिकम् ॥ ८ ॥
यदि वर्तमानानामप्यतीतानागतसाम्यं तर्हि कथमर्थक्रियाकारित्वं
विशेषस्तत्राह - अज्वलन्नित्यादिना । प्रज्वलन् इति पाठे मर्कटादीनां
बुद्ध्या प्रज्वलन्नतु वस्तुतः ॥ ८ ॥
समं सौम्यत्वमजहदेव नित्योदयस्थिति ।
तथा ब्रह्म करोतीदं नाना कर्तेव सज्जगत् ॥ ९ ॥
कर्तेव सत् नाना जगत्करोति ॥ ९ ॥
अप्यनागत एवायमेवं सर्ग उपागतः ।
भोः शालभञ्जिकासंविद्दारुण्येव मुधोदिता ॥ १० ॥
भो इति रामसम्बोधनम् । शालभञ्जिकासंवित्प्रतिभाबुद्धिः ॥ १० ॥
बीजे यथाऽनन्यदपि फलाद्यन्यदिवोदितम् ।
चितौ तथाऽनन्यदपि चेत्यमन्यदिवोदितम् ॥ ११ ॥
फलादि अङ्कुराति फलान्तं व्युत्क्रमेण फलादीत्युच्यते ॥ ११ ॥
अच्छेदादेकसत्ताया न भेदः फलबीजयोः ।
चिच्चेत्ययोश्च वार्यूर्म्योरिव वस्तुनि कश्चन ॥ १२ ॥
बीजादिफलान्ते अनुस्यूतैकद्रव्यसत्ताया अविच्छेदान्न भेदः ॥ १२ ॥
अविचारात्कुतो भेदो नैतयोरुपपद्यते ।
यतःकुतश्चिदुदितः स विचारेण नश्यति ॥ १३ ॥
भ्रान्तिरेषा यथाऽयाता तथा यातु रघूद्वह ।
ज्ञास्यसे तत्प्रबुद्धस्त्वमेनां केवलमुत्सृज ॥ १४ ॥
यथा निर्हेतुकतयैव आयाता तथा यातु गच्छतु । किं तर्हि मया कार्य तत्राह
- एनामिति । एनां भ्रान्तिम् । तद्ब्रह्म प्रबुद्धः सन् ज्ञास्यसे ॥ १४ ॥
प्। ३३४) २०२
भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात्ततः ।
ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्यलं स्वयम् ॥ १५ ॥
यदि भ्रममुत्सृजामि तर्हि कथं त्वदुक्तश्रवणे शब्दार्थबोधभेदं
प्रतिपत्स्ये तत्राह - भ्रान्तीति । यद्यपि न भेदं प्रतिपत्स्यसे तथापि
तत्तत्पर्यगोचरं वस्तु स्वयमेव ज्ञास्यसीत्यर्थः ॥ १५ ॥
चित्तादियमनर्थश्रीस्तच्च सा चेतरा च ते ।
मदुक्तिश्रवणादेव शान्तिमेष्यत्यसंशयम् ॥ १६ ॥
तथापि कथमनर्थनिवृत्तिसिद्धिस्तत्राह - चित्तादिति । तच्चित्तम् । सा चित्तजा
अनर्थश्रीः इतरा चित्तहेतुरविद्या च ॥ १६ ॥
ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्मैवमेति च ।
मद्गीर्भिः सम्प्रबुद्धः सन् ज्ञास्यस्यलमनिन्दितम् ॥ १७ ॥
जगत उत्पत्त्यादिनिरूपणस्यापि निष्प्रपञ्चवस्तुबोध एव
प्रयोजनमित्याशयेनाह - ब्रह्मण इति । सर्वं जगद्विलयेन ब्रह्म एति
प्राप्नोति च । अलं पूर्णम् ॥ १७ ॥
श्रीराम उवाच ।
तस्मादियमिति ब्रह्मन्व्यतिरेकार्थपञ्चमी ।
ननु किं विद्धि देवेशादभिन्नं सर्वमित्यपि ॥ १८ ॥
यदि भेदोऽसन्नेव तर्हि ब्रह्मणः सर्वमुत्पन्नमिति त्वदुक्तौ तस्माद्वा
एतस्मादात्मन आकाशः सम्भूतः इत्यादिश्रुतिषु च तस्मादितीयं
व्यतिरेकार्थभेदप्रतिपादिका पञ्चमी किं सर्वं देवेशादभिन्नं विद्धीत्यपि
किम् । लक्ष्यालक्ष्यभेदस्य तत्प्रतियोग्यादीनां चासत्त्वे शब्दाप्रसराल्लक्षणेन
लक्ष्यबोधनव्यवहारासिद्धेरुपदेशासिद्धिश्चेति शङ्काशयः ॥ १८ ॥
श्रीवसिष्ठ उवाच ।
उपदेशाय शास्त्रेषु जातः शब्दोऽथवार्थजः ।
प्रतियोगिव्यवच्छेदसङ्ख्यालक्षणपक्षवान् ॥ १९ ॥
तात्कालिकभेदकल्पनया व्यावहारिकदृष्टिसिद्धभेदाद्युपादानाद्वा
शब्दप्रसराद्बिम्बप्रतिबिम्बलक्षणव्यवहारवदुपदेशोपपत्तेर्न कोऽपि दोष
इत्याशयेन वसिष्ठः परिहरति - उपदेशायेत्यादिना । जातः कल्पितः । अथवा
लोकसिद्धार्थजो व्यावहारिकभेदोपजीवी शब्दः प्रसरिष्यतीति शेषः ॥ १९ ॥
भेदो दृश्यत एवायं व्यवहारान्न वास्तवः ।
वेतालो बालकस्येव कार्यार्थं परिकल्पितः ॥ २० ॥
कल्पितेन प्रयोजनवद्व्यवहाअसिद्धिर्लोकेऽपि प्रसिद्धेत्याह - भेद इति ॥ २० ॥
द्वैतैक्यमपि नो यस्यां तथा भूतार्थसंस्थितौ ।
अस्ति तस्यामीदृशः स्यात्कुतः सङ्कल्पविप्लवः ॥ २१ ॥
यत्र स्वप्नगन्धर्वनगरादिसंस्थितौ द्वैतमैक्यं च नास्ति तस्यामपीदृशो
लक्षणादिव्यवहारोऽस्ति सत्यसङ्कल्पानामुपदेशादिव्यवहारे सङ्कल्पविप्लवः
कुतः स्यादित्यर्थः ॥ २१ ॥
कार्यकारणभावो हि तथा स्वस्वामिलक्षणम् ।
हेतुश्च हेतुमांश्चैवावयवावयविक्रमः ॥ २२ ॥
त्वदुपदेशादिव्यवहारे च मयैव सङ्कल्पात्कार्यकारणादिभेदः कल्पित
इत्याह - कार्यकारणेत्यादिना ॥ २२ ॥
व्यतिरेकाव्यतिरेकौ परिणामादिविभ्रमः ।
तथा भावविलासादि विद्याविद्ये सुखासुखे ॥ २३ ॥
एवमादिमयी मिथ्यासङ्कल्पकलना मिता ।
अज्ञानामवबोधार्थं नतु भेदोऽस्ति वस्तुनि ॥ २४ ॥
मिता कल्पिता ॥ २४ ॥
अविबोधादयं वादो ज्ञाते द्वैतं न विद्यते ।
ज्ञाते संशान्तकलनं मौनमेवावशिष्यते ॥ २५ ॥
अयं च व्यवहार उपदेश्यस्याज्ञदशायामेव न प्रबोधदशायामिति
नाद्वैतहानिरित्याह - अविबोधादिति । मौनमशब्दः ॥ २५ ॥
सर्वमेकमनाद्यन्तमविभागमखण्डितम् ।
इति ज्ञास्यसि सिद्धान्तं काले बोधमुपागतः ॥ २६ ॥
विवदन्ते ह्यसम्बुद्धाः स्वविकल्पविजृम्भितैः ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ २७ ॥
असम्बुद्धा अज्ञाततत्त्वाः पुरुषाः स्वविकल्पविजृम्भितैस्तैर्कैः । अयं वादः
सर्वोऽपि वेदान्ततत्व्वोपदेशात्प्रागेव यतो ज्ञाते द्वैतं न विद्यते इत्यर्थः ॥ २७
॥
वाच्यवाचकसम्बोधो विना द्वैतं न सिद्ध्यति ।
नच द्वैतं सम्भवति मौनं वापादयत्यलम् ॥ २८ ॥
मास्तु द्वैतं तथापि कथं विवादासम्भवस्तत्राह - वाच्येति । तर्ह्यस्तु
द्वैतं तत्राह - नचेति । वेत्यवधारणे अतो मौनमेवापादयतीत्यर्थः ॥ २८ ॥
महावाक्यार्थनिष्ठान्तां बुद्धिं कृत्वा रघूद्वह ।
वचोभेदमनादृत्य यदिदं वच्मि ते शृणु ॥ २९ ॥
यतो वेत्यादिलक्षणवाक्ये तर्हि पञ्चम्याद्यर्थो न प्रतिपत्तव्यस्तत्राह -
महावाक्येति । पञ्चम्याद्युपात्तं वचोभेदमनादृत्य तां
लक्षणवाक्योत्थां बुद्धिमखण्डे महावाक्यार्थे एव
निष्ठापदवाच्यलक्ष्यार्थव्य्त्पत्तिद्वारा पर्यवसानं यस्यास्तथाविधां
कृत्वा यदिदं वक्ष्यमाणं वच्मि तच्छृण्वित्यर्थः ॥ २९ ॥
यतःकुतश्चिदुच्छ्रायं गन्धर्वपुरवन्मनः ।
भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम् ॥ ३० ॥
यतःकुतश्चिदनिर्वाच्याद्धेतोरुच्छ्राय आविर्भावो यस्य ॥ ३० ॥
यथा चेतस्तनोतीमां जगन्मायां तथानघ ।
शृणु त्वं कथयामीदं दृष्टान्तं दृष्टिवेदनम् ॥ ३१ ॥
उक्तार्थे वक्ष्यमाणाख्यायिकां दृष्टान्तत्वेनावतारयति - यथेति ।
स्वदृष्ट्यैव वेद्यते दार्ष्टान्तिकं येन तद्दृष्टिवेदनम् ॥ ३१ ॥
यं श्रुत्वा सर्वमेवेदं भ्रान्तिमात्रमिति स्वयम् ।
राम निश्चयवान्भूत्वा दूरे त्यक्ष्यसि वासनाम् ॥ ३२ ॥
मनोमनननिर्माणमात्रमेव जगत्त्रयम् ।
सर्वमुत्सृज्य शान्तात्मा स्वात्मन्येव निवत्स्यसि ॥ ३३ ॥
मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने ।
विवेकौषधलेशेन प्रयत्नं च करिष्यसि ॥ ३४ ॥
एवं स्थिते जगद्रूपं चित्तमेवेह जृम्भते ।
न विद्यते शरीरादि सिकतान्तरतैलवत् ॥ ३५ ॥
एवं वक्ष्यमाणाख्यायिकरीत्या स्थिते ॥ ३५ ॥
चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।
तदैव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ३६ ॥
भवस्य संसारस्यान्तो नाशः ॥ ३६ ॥
प्। ३३५) २०२
चित्तं साध्यं पालनीयं विचार्यं कार्यमार्यवत् ।
आहार्यं व्यवहार्यं च सञ्चार्यं धार्यमादरात् ॥ ३७ ॥
लौकिकशास्त्रीयसाध्यपालनीयादिसर्वपदार्थरूपेण चित्तमेव विजृम्भते
नान्यदित्याह - चित्तमिति । सिद्धेषु साधनेष्वसिद्धं साध्यम् । पूर्वसिद्धं
पालनीयम् । असिद्धेषु नानासाधनेषु प्रसक्तेषु प्रयत्नगुरुलाघवविमर्शेन
साधनानि सम्पाद्य पश्चात्साध्यं विचार्यम् तत्रापि
शिष्टैकसम्मतोपायसाध्यमार्यवत्कार्यम् । देशान्तरे सिद्धमेव स्वगृहे
आनेतुं योग्यमाहार्यम् । स्वगृहस्थमेव क्रयविक्रयाद्युपयुक्तं
व्यवहार्यम् । तेष्वप्यश्वरथादि सञ्चार्यम् । भूषणादि तु धार्यम् । आदरादिति
सर्वत्र सम्बध्यते । एतत्सर्वं चित्तमेव । नहि निश्चित्तस्य किञ्चित्साध्यादिकं
प्रसिद्धमित्याशयः ॥ ३७ ॥
सर्वमभ्यन्तरे चित्तं बिभर्ति त्रिजगन्नभः ।
अहमापूरमिव तद्यथाकालं विजृम्भते ॥ ३८ ॥
त्रिजगत्कल्पनाया नभ आकाशभूतं चित्तं सर्वं दृश्यमभ्यन्तरे बिभर्ति
। तदेव चित्तं यथाकालं देहप्राणेन्द्रियादिषु व्यापृतेषु अहमेव
व्यापृतोऽस्मीत्यहमापूरमहन्ताप्रवाह इव विजृम्भते इत्यर्थः ॥ ३८ ॥
योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजता ।
यश्चास्य जडभागश्च तज्जगत्सोऽङ्ग सम्भ्रमः ॥ ३९ ॥
तत्र चिदंशप्राधान्येन द्रष्टृतापरपर्याया सर्वकल्पनाबीजभूता
अहन्ताऽजडांशप्राधान्येन तु दृश्यभ्रान्तिरूपतेति विभागमाह -
योऽयमिति ॥ ३९ ॥
अविद्यमानमेवेदमादिसर्गे धरादिकम् ।
निराकृतिरजः स्वप्नं पश्यतीव न पश्यति ॥ ४० ॥
उक्तमर्थं प्रागुक्तसृष्टिक्रमस्मारणेनोपपादयति - अविद्यमानमेवेति ।
अजो ब्रह्मा ॥ ४० ॥
सर्गादिदीर्घसंवित्त्या शैलादिजडसंविदा ।
सूक्ष्मं सूक्ष्मविदा चेति देहं शून्यं न वास्तवम् ॥ ४१ ॥
कथं पश्यति तदाह - सर्गादीति । शैलादिस्थूलं विराड्देहं
दीर्घसंवित्त्या सृष्टिस्थितिप्रलयकोटिसाधारण्या साक्षिसंविदा सर्गादि
जडसंविदा जडाहम्भावनारूपया वैश्वानरसंविदा सूक्ष्मं
लिङ्गसमष्टिसूत्रात्मकहिरण्यगर्भदेहं सूक्ष्मविदा तदहम्भावसंविदा
चेति शून्यमेव देहत्रयं पश्यतीत्यर्थः ॥ ४१ ॥
सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर्मनः ।
आततं सौम्य विमलं वारीव रवितेजसा ॥ ४२ ॥
योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजतेत्येतदुपपादयति - सर्वगेनेति ।
तथाच चिद्व्याप्तिबलादेव बीजतेत्यर्थः ॥ ४२ ॥
चित्तबालो जगद्यक्षं मिथ्या पश्यत्यबोधतः ।
बोधितोऽसौ परं रूपं स्वं पश्यति निरामयम् ॥ ४३ ॥
चिद्व्याप्तिबलादेव चित्तस्य अविचारे जगद्दृष्टृता विचारे आत्मदर्शनं चेत्याह
- चित्तबाल इति ॥ ४३ ॥
यथात्मा दृश्यतामेति द्वित्वैक्यभ्रमदायिनीम् ।
शृणु तत्ते प्रवक्ष्यामि वक्ष्यामाणकथागमैः ॥ ४४ ॥
एवञ्च शुद्धात्मैव चित्तभावद्वारा दृश्यभावं प्राप्त इवेति फलितं
तत्सम्भावनार्थं वक्ष्यमाणकथामवतारयति - यथेति ॥ ४४ ॥
यत्कथ्यते हि हृदयङ्गमयोपमान-
युक्त्या गिरा मधुरयुक्तपदार्थया च ।
श्रोतुस्तदङ्ग हृदयं परितो विसारि
व्याप्नोति तैलमिव वारिणी वार्य शङ्काम् ॥ ४५ ॥
ऐन्दवोपाख्यानोपमानयुक्त्या कथं जगतो मनोमात्रत्वनिश्चयस्तत्राह -
यदिति । हृदयङ्गमया मनोनुरञ्जिन्या । शङ्कां वार्य निरस्य । ल्यप्
छान्दसः । श्रोतुर्हृदयं व्याप्नोति ॥ ४५ ॥
त्यक्तोपमानममनोज्ञपदं दुरापं
क्षुब्धं धराविधुरितं विनिगीर्णवर्णम् ।
श्रोतुर्न याति हृदयं प्रविनाशमेति
वाक्यं किलाज्यमिव भस्मनि हूयमानम् ॥ ४६ ॥
उक्तमर्थं व्यतिरेकमुखेनाप्युपपादयति - त्यक्तोपमानमिति । यद्वाक्यं
त्यक्तोपमानं दृष्टान्तोपन्यासरहितम् । अमनोज्ञानि शब्दशास्त्रासम्मतानि
कठोरवर्णादिघटितानि वा पदानि यस्मिंस्तथाविधम्
दुरापमनभिव्यक्तवर्णत्वात्स्फुटतया [वर्णास्फुटतया इति पाठः]
श्रोत्रेण प्राप्तुमशक्यम् क्रोधावेशादिवशात्क्षुब्धं सत् धराविधुरितं
स्वस्थानविच्युतवर्णम् । विनिगीर्णवर्णं ग्रस्ताक्षरम् । संवृतः कलो ध्मात
इत्यादिमहाभाष्योक्तस्वरवर्णदोषाणामुपलक्षणमेतत् । तथाचाहुः -
ग्रस्तं निरस्तं प्रविलम्बितं द्रुतमम्बूकृतं ध्मातमथो विकम्पितम् ।
विस्रस्तमेणीकृतमर्धकं हतं विकीर्णमेताः स्वरदोषभावनाः ॥ इति
एतादृशं तद्वाक्यं श्रोतुर्हृदयं न याति नानुरञ्जयति । महतापि
श्रमेणोपन्यस्तं प्रविनाशं नैष्फल्यं वाचाटत्वादिदोषप्रत्ययफलतां
वा एति । किलेति प्रसिद्धोऽस्य दृष्टान्त इति दर्शयति - आज्यमिवेति ॥ ४६ ॥
आख्यानकानि भुवि यानि कथाश्च या या
यद्यत्प्रमेयमुचितं परिपेलवं वा ।
दृष्टान्तदृष्टिकथनेन तदेति साधो
प्राकाश्यमाशु भुवनं सितरश्मिनेव ॥ ४७ ॥
व्यतिरेकमुखोपपादितमर्थं पुनरन्वयोक्त्या निगमयति - आख्यानकानीति ।
नानाकथाभिरुपेता महत्यो भारतादिकथा आख्यानकानि । अल्पास्तु कथाः ।
उचितं अभिज्ञानुरञ्जनोपयुक्तं यद्यत्काव्यनाटकाध्यात्मनिबन्धादिरूपम्
। परिपेलवं शब्दतोऽर्थतश्च कोमलं च यद्यच्छ्रोत्रप्रमेयं तत्सर्वं
दृष्टान्तानां लोकप्रसिद्धप्रमाणदृष्टीनां च कथनेन प्राकाश्यं
स्फुटहृद्यार्थतामेतीत्यर्थः ॥ ४७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
सूच्युपाख्याने मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः ॥
८४ ॥
इति श्रीवासिषिठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः ॥ ८४ ॥
प्। ३३६) २०३