त्र्यशीतितमः सर्गः ८३
श्रीवसिष्ठ उवाच ।
किरातमण्डले तस्मिन्ये भवन्ति महीभृतः ।
तैस्तैः सह परा मैत्री तस्याः समभिजायते ॥ १ ॥
अव्युत्थिता समाधेः सा चिरात्कैरातमण्डले ।
प्रतिष्ठिताऽभवद्देवी कन्दरेत्यत्र वर्ण्यते ॥ १ ॥
तद्राष्ट्राधिपसौहृदैः स्वकवलानास्वादयन्तीति यदुक्तं तत्प्रपञ्चयति ##-
सर्वांस्तत्र महोत्पातान्पिशाचादिभयान्यपि ।
रोगांश्च योगसंसिद्धा निवारयति राक्षसी ॥ २ ॥
उत्पातादिशमनसामर्थ्योपपादनाय विशिनष्टि - योगसंसिद्धेति ॥ २ ॥
बहुवर्षगणेनैषा ध्यानाद्विरतिमागता ।
तत्रागत्य समस्तांस्तान्वध्याञ्जन्तून्सुसञ्चितान् ॥ ३ ॥
वध्यान्भुङ्क्ते इति शेषः ॥ ३ ॥
अद्यापि तत्र ये वध्यास्ते तदर्थं महीभुजा ।
नीयन्ते मित्रसन्माने के हि नाध्यवसायिनः ॥ ४ ॥
नाध्यवसायिनो योद्युक्ताः ॥ ४ ॥
तस्यां ध्याननिषण्णायां किरातजनमण्डले ।
अनायान्त्यां चिरं कालं जनैर्दोषप्रशान्तये ॥ ५ ॥
दोषाणां प्रागुक्तोत्पातादीनां प्रशान्तये जनैः साकं शिरो दारयति
वध्यानामिति मङ्गलेतरन्नामास्या अस्तीति मङ्गलेतरनामिका । अथवा
मङ्गला इति इतरन्नाम यस्याः सा । गगनकोटरे गगनस्पर्शिप्रासादोदरे ॥ ५ ॥
सा देवी कन्दरानाम्नी मङ्गलेतरनामिका ।
सम्प्रतिष्ठापिता मूर्त्या पुरे गगनकोटरे ॥ ६ ॥
प्। ३३३) २०१
ततःप्रभृति तत्रत्यो [तत्रान्य इति पाठः] यो यो भवति भूमिपः
।
स कन्दरां भगवतीं प्रतिष्ठापयति स्वयम् ॥ ७ ॥
प्रतिष्ठापयति कालेन पूर्वप्रतिमायां गतायामन्यां प्रतिमां कारयित्वेति
भावः ॥ ७ ॥
यः कन्दराप्रतिष्ठां [कन्दरां प्रतिष्ठां च इति पाठः] च न
करोति नृपाधमः ।
तस्योपतापनिचयाः प्रजा निघ्नन्ति यत्नतः ॥ ८ ॥
किमर्थ प्रतिष्ठापयतीत्यत्र हेतुं व्यतिरेकमुखेनाह - य इति ॥ ८ ॥
तत्पूजनादवाप्नोति जनस्तन्निखिलं फलम् ।
स्ववासनावशोच्छूनमनर्थं यात्यपूजनात् ॥ ९ ॥
अन्वयमुखेनाप्याह - तदिति । तत् उत्पातरोगशान्त्यादिफलम् । कुतो
नियमेनोत्पादादिप्रसक्तिस्तत्राह - स्ववासनेति । स्वस्ववासनावशेन
उच्छूनमाविर्भूतम् ॥ ९ ॥
वध्यलोकोपहारेण सा देवी परिपूज्यते ।
प्रतिमा सा स्थिताद्यापि चित्रस्था फलदायिनी ॥ १० ॥
सा प्रतिमा अद्यापि स्थिता । अन्यत्रापि चित्रस्था चित्रलिखिता फलदायिनीति वा ॥ १० ॥
सकलकोमलमङ्गलकारिणी
कवलिताखिलवध्यमहाजना ।
जयति सात्र किरातजनास्पदे
परमबोधवती चिरदेवता ॥ ११ ॥
सकलजनानां कोमलस्य बालवत्ससस्यादिविभवस्य मङ्गलानां सम्पदां च
कारिणी । चिरकालानुवृत्ता देवता ॥ ११ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क०
कन्दरापूजनं नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे कन्दरापूजनं
नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥