द्व्यशीतितमः सर्गः ८२
श्रीवसिष्ठ उवाच ।
इति राजमुखाच्छ्रुत्वा कर्कटी वनमर्कटी ।
अवबुद्धपदान्तं स्वं जहौ मत्सरचापलम् ॥ १ ॥
ग्रसन्नया मन्त्रदानं वर्ण्यतेऽत्रानया तयोः ।
वध्यभोज्यार्पणं चास्यै व्युत्थितायै समाधितः ॥ १ ॥
अवबुद्धं ब्रह्मपदमेवान्तो मूलोच्छेदेन नाशो यस्य तथाविधं स्वं
स्वजात्युचितं मत्सरचापलं जहौ ॥ १ ॥
अन्तःशीतलतामेत्य विश्रान्तिमपतापताम् ।
प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती ॥ २ ॥
अपतापतां अपगतबाह्यदृष्टिसन्तापताम् ॥ २ ॥
तथा राजगिरा तस्या आनन्द उदभूद्भृशम् ।
गर्भेऽन्तः खे बलाकाया रवेणेव पयोमुचः ॥ ३ ॥
खे पयोमुचो रवेण बलाकाया अन्तर्गर्भे सतीव ॥ ३ ॥
राक्षस्युवाच ।
अहो बत पवित्रेयं भवतोर्भाति शेमुषी ।
अनस्तमितसारेण प्रबोधार्केण भासिता ॥ ४ ॥
शेमुषी बुद्धिः ॥ ४ ॥
शीता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात् ।
विवेककणिकां श्रुत्वा भवतो हृदयादियम् ॥ ५ ॥
शशिमण्डलात्प्रवृत्ता ज्योत्स्नेव भातीति सर्वत्रान्वयः । भवतो
हृदयाद्बुद्धेः सकाशाद्वाग्द्वारा प्रसृतां विवेकामृतस्य कणिकां
श्रुत्वा इयमहं भवादृशा विवेकिनो जगत्पूज्याः सेवनयोग्याश्च
मुमुक्षुभिरिति मन्ये इत्युत्तरेणान्वयः ॥ ५ ॥
विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः ।
सत्सङ्गात्सविकासास्मि चन्द्रेणेव कुमुद्वती ॥ ६ ॥
सौरभं कुसुमासङ्गादेव सत्सङ्गमाच्छुभम् ।
वर्तते ह्यर्कसम्पर्काद्विकासोऽम्बुरुहामिव ॥ ७ ॥
कुसुमासङ्गादेव यथेति शेषः ॥ ७ ॥
महतामेव सम्पर्कात्पुनर्दुःखं न बाधते ।
को हि दीपशिखाहस्तस्तमसा परिभूयते ॥ ८ ॥
सकृद्विवेकबाधितं दुःखं पुनर्न बाधते ॥ ८ ॥
मयेमौ जङ्गलप्राप्तौ भवन्तौ भूमिभास्करौ ।
पूजनीयावतः शीघ्रमीहितं कथ्यतां शुभम् ॥ ९ ॥
पूजनीयौ इष्टार्थदानेन प्रीणनीयौ । ईहितं वाञ्छितम् ॥ ९ ॥
राजोवाच ।
अस्मिन् जनपदे रक्षःकुलकाननमञ्जरि [रक्षःकुलकाननमञ्जरि इति
राक्षस्याः सम्बोधनम्] ।
जनस्य बाधतेऽत्यन्तं सदा हृदयशूलनम् ॥ १० ॥
यतः सर्वैव जनता तप्ता दृढविषूचिका ।
मण्डले ननु तेनाहं निर्गतो रात्रिचर्यया ॥ ११ ॥
जनता जनसमूहो दृढविषूचिका सती यतस्तप्ता सन्तप्ता ॥ ११ ॥
शूलादि हृदये नॄणां न शाम्यति यदौषधैः ।
ततोऽहं त्वद्विधप्रोक्तमन्त्रार्थेन विनिर्गतः ॥ १२ ॥
त्वद्विधैः प्रोक्तस्य मन्त्रस्य अर्थनमर्थोऽभिलाषस्तेन हेतुना ॥ १२ ॥
त्वादृशस्य च लोकस्य मुग्धलोकाभिघातिनः ।
निग्रहार्थं प्रवृत्तिर्मे सा च सम्पत्तिमेत्यलम् ॥ १३ ॥
सम्पत्तिमेति तत्त्वज्ञमनोरथस्य मोघत्वासम्भवाद्यं यं लोकमिति
प्राक्प्रदर्शितश्रुतेरिति भावः ॥ १३ ॥
एतावदेव च शुभे त्वयाङ्गीक्रियतां वचः ।
भूयो भवत्या प्राणा हि हिंसनीया न कस्यचित् ॥ १४ ॥
ततो मन्त्रप्राप्तिमसम्भावयन्नन्यद्वृणीते - एतावदेवेति ॥ १४ ॥
राक्षस्युवाच ।
बाढमेवं करोम्यद्यप्रभृत्यवितथं प्रभो ।
सत्यमेव न किञ्चिद्धि हिंसनीयं मयाधुना ॥ १५ ॥
राजोवाच ।
यद्येवं फुल्लपद्माक्षि परदेहैकभोजने ।
किं स्याच्छरीरवृत्त्यै [भृत्यै इति पाठः] ते स्थिताया
मत्समीहिते ॥ १६ ॥
मत्समीहिते अहिंसने व्रते स्थितायाः ॥ १६ ॥
प्। ३३१) २००
षड्भिर्मासैर्गिरौ राजन्प्रबुद्धायाः समाधितः ।
जाता भोजनसङ्कल्पाद्भोजनेच्छेयमद्य मे ॥ १७ ॥
इदानीं शिखरं गत्वा तदेव ध्याननिश्चला ।
यावदिच्छं सुखेनासे सजीवा शालभञ्जिका ॥ १८ ॥
शालभञ्जिका दार्वादिपुत्रिकेव ॥ १८ ॥
आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् ।
यथेच्छमथ कालेन त्यक्ष्यामीति मतिर्मम ॥ १९ ॥
आमृतीं अमृतात्मभावनारूपाम् ॥ १९ ॥
आशरीरपरित्यागमिदानीं न मया नृप ।
हिंसनीयाः परप्राणास्तेनेदं मद्वचः शृणु ॥ २० ॥
हिमवान्नाम शैलोऽस्ति शरच्चन्द्रांशुनिर्मलः ।
य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः ॥ २१ ॥
उत्तराशाया उत्तरदिशो हृदये मध्यमे । स्पृष्टौ अवगाढौ
पूर्वापरार्णवौ येन ॥ २१ ॥
तत्राहं निवसाम्यग्रे हेमशृङ्गदरीगृहे ।
आयसी मेघलेखेव कर्कटीनाम राक्षसी ॥ २२ ॥
तपसोपार्जितो ब्रह्मा जनतामारणेच्छया ।
विषूचिका प्राणहरा स्यां सूच्यात्मेति भो मया ॥ २३ ॥
उपार्जितः स्ववशीकृतः इत्यन्त इच्छाभिलापः [इच्छाभिलाष इति क्वाचित्कः
पाठः] ॥ २३ ॥
तस्मात्सम्प्राप्तवरया बहून्वर्षगणान्मया ।
भुक्ता विषूचिकात्वेन जनता जीवबाधनैः ॥ २४ ॥
त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा ततः ।
नियमार्थं महामन्त्रस्तदायत्तास्मि संस्थिता ॥ २५ ॥
नियमार्थं मर्यादार्थं दत्त इति शेषः । अतस्तदायत्ता मन्त्राधीना ॥ २५ ॥
सोऽयं प्रगृह्यतां तेन सर्वं हृदयशूलनम् ।
शममेष्यति लोकेऽस्मात्का कथा मत्कृते भ्रमे ॥ २६ ॥
सर्वं मत्कृतादन्यदपि सर्वम् ॥ २६ ॥
विततैवास्मि हिंसायां यत्पुरा हिंसितं मया ।
जनस्य हृदयं तेन नाड्यो वैधुर्यमागताः ॥ २७ ॥
वितता विस्तृता चिरं प्रवृत्तेति यावत् । हृदयं हिंसितं रक्तचोषणेन
शोषितं तेन हेतुना जनस्य जाड्यो वैधुर्यं रक्तविधुरताम् ॥ २७ ॥
हिंसित्वा रक्तमांसानि सन्त्यक्ता ये महाजनाः ।
तेभ्यो विधुरनाडीभ्यो ये जातास्तेऽपि तादृशाः ॥ २८ ॥
कथञ्चित्तेषां जीवनेऽपि तद्वंश्यानामपि नीरक्ततैव सम्पन्नेत्याह -
हिंसित्वेति । तस्माद्धिंसा महाननर्थं इत्यर्थः ॥ २८ ॥
राजन्विषूचिकामन्त्रः सोऽयं सम्पन्न एव ते ।
नहि सत्त्ववतामस्ति दुःसाध्यमिह किञ्चन ॥ २९ ॥
सम्पन्नः प्राप्तो भविष्यतीति सिद्धवत्कारेण सूचयति ॥ २९ ॥
अतो दुर्नाडिकोशेषु शूलानां परिशान्तये ।
मन्त्रो यो ब्रह्मणा प्रोक्तो राजञ्शीघ्रं गृहाण तम् ॥ ३० ॥
आगच्छ निकटं नद्या गच्छामस्तत्र भूमिप ।
स्वाचान्ताभ्यां संयताभ्यां भवद्भ्यां सुमता ददे ॥ ३१ ॥
सुमता सुप्रीताऽहं ददे ॥ ३१ ॥
श्रीवसिष्ठ उवाच ।
इति तस्यां तदा रात्र्यां राक्षसीमन्त्रिभूभृतः ।
जग्मुस्ते सरितस्तीरं मिथः सञ्जातसौहृदाः ॥ ३२ ॥
अन्वयव्यतिरेकेण राक्षस्याः सौहृदं तदा ।
ज्ञात्वा स्थितौ तौ स्वाचान्तावुभावन्तेनिवासिनौ ॥ ३३ ॥
अन्वयव्यतिरेकेण भावपरीक्षणलिङ्गेन । अन्तेनिवासिनौ शिष्यौ भूत्वेति शेषः
॥ ३३ ॥
तया ब्रह्मोपदिष्टोऽसु ततस्ताभ्यां यथाक्रमम् ।
स्नेहाद्विषूचिकामन्त्रः प्रदत्तो जपसिद्धिदः ॥ ३४ ॥
ब्रह्मणा प्रागुपदिष्टोऽसौ मन्त्रः ॥ ३४ ॥
ततः सञ्जातसौहार्दौ तौ विसृज्य निशाचरी ।
यदा गन्तुं प्रवृत्तासौ तदा राजाब्रवीद्वचः ॥ ३५ ॥
सौहार्दं सुहृद्भावः ॥ ३५ ॥
राजोवाच ।
गुरुस्त्वं नौ महादेहे वयस्या च सुनिर्वृता ।
निमन्त्रयावहे यत्नाद्ग्रासाय तव सुन्दरि ॥ ३६ ॥
हे महादेहे इति राक्षसीसम्बोधनम् । गुरुर्वयस्या सखी च । हृदयसौन्दर्यात्
सुन्दरीति सम्बोधनम् ॥ ३६ ॥
नचास्मत्प्रणयं प्रीता वितथीकर्तुमर्हसि ।
सौहार्दं सुजनानां हि दर्शनादेव वर्धते ॥ ३७ ॥
लघुसौभाग्यसंयुक्तं कृत्वाकारं मनोरमम् ।
आगच्छास्मद्गृहं भद्रे तत्र तिष्ठ यथासुखम् ॥ ३८ ॥
लघु अल्पप्रमाणं सौभाग्येन सौन्दर्यालङ्कारादिना युक्तं च । आकारं
देहम् ॥ ३८ ॥
राक्षस्युवाच ।
मुग्धस्त्रीरूपधारिण्यै दातुं शक्तोऽसि भोजनम् ।
सन्तर्पयसि मां केन राक्षसाकारघारिणीम् ॥ ३९ ॥
भोजनमन्नपानादि मनुष्ययोग्यम् ॥ ३९ ॥
रक्षोन्नमेव सन्तुष्ट्यै न सामान्यजनाशनम् ।
पूर्वसिद्धस्वभावोऽयमादेहं न निवर्तते ॥ ४० ॥
राजोवाच ।
हेमस्रग्दामवलिता दिनानि कतिचिद्गृहे ।
मम स्त्रीरूपिणी तिष्ठ यावदिच्छमनिन्दिते ॥ ४१ ॥
मम गृहे । यावदिच्छं ददे इति परेणान्वयः ॥ ४१ ॥
ततो दुष्कृतिनश्चौरान्वध्याञ्छतसहस्रशः ।
मण्डलेभ्यः समानीय ददे तुभ्यं सुभोजनम् ॥ ४२ ॥
वध्यान् वधार्हान् ॥ ४२ ॥
कान्तारूपं परित्यज्य गृहीत्वा राक्षसं वपुः ।
आदाय वध्याञ्छतशः पुरुषांस्तान्सुसञ्चितान् ॥ ४३ ॥
नयस्व हिमवच्छृङ्गं तत्र भुङ्क्ष्व यथासुखम् ।
महाशनानामेकान्ते भोजनं हि सुखायते ॥ ४४ ॥
तृप्ता निद्रां मनाक्कृत्वा भव भूयः समाधिभाक् ।
समाधिविरता भूयोऽप्यागत्य पुनरन्यदा ॥ ४५ ॥
प्। ३३२) २०१
नेष्यस्यन्यान्वध्यजनान् हिंसा नैषां च धर्मतः ।
स्वधर्मेण च हिंसैव महाकरुणया समा ॥ ४६ ॥
त्वं समेष्यसि चावश्यं मां समाधिविरागिणी ।
असतामपि संरूढं सौहार्दं न निवर्तते ॥ ४७ ॥
अपगतेच्छा व्युत्थितेति यावत् । संरूढं प्ररूढम् ॥ ४७ ॥
राक्षस्युवाच ।
युक्तमुक्तं त्वया राजन्करोम्येवमहं सखे ।
सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति ॥ ४८ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा राक्षसी तत्र सम्पन्ना सुविलासिनी ।
हारकेयूरकटकपट्टस्रग्दामधारिणी ॥ ४९ ॥
सुविलासिनी सुन्दरस्त्री । पट्टं कौशेयं काञ्चीपट्टं वा ॥ ४९ ॥
राजन्नागच्छ गच्छाम इत्युक्त्वा भूपमन्त्रिणौ ।
अग्रे गन्तुं प्रवृत्तौ तौ रात्रावनुससार सा ॥ ५० ॥
अनु पश्चात्ससार जगाम् ॥ ५० ॥
अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः ।
कथयैकगृहे रम्ये क्षपयामासुरादृताः ॥ ५१ ॥
एकगृहे एकस्यां शालायाम् । रजनीं क्षपयामासुः ॥ ५१ ॥
प्रभातेऽन्तःपुरे तस्थौ पुरन्ध्रीजनलीलया ।
राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः ॥ ५२ ॥
स्वस्वोचितो व्यापारो जनपालनवध्यसम्पादनव्यापारो ययोस्तौ ॥ ५२ ॥
ततो दिवसषट्केन सञ्चितानि महीभृता ।
नृप्तः परपुरेभ्योऽपि स्वमण्डलगणात्तथा ॥ ५३ ॥
नृपो ददाविति परेणान्वयः ॥ ५३ ॥
त्रीणि वध्यसहस्राणि तानि तस्यै तदा ददौ ।
सा बभूव निशा काले सैवोग्रा कृष्णराक्षसी ॥ ५४ ॥
तानि वध्यसहस्राणि जग्राह भुजमण्डले ।
धारानिकरजालानि मेघमालेव कोटरे ॥ ५५ ॥
कोटरे लम्बमानानीति शेषः ॥ ५५ ॥
ययौ राजानमापृच्छ्य तदेव हिमवच्छिरः ।
दरिद्रा लब्धहेमेव ग्रहेषूग्रशरीरिणी ॥ ५६ ॥
ग्रहेषु पूतनारक्षःपिशाचादिषु मध्ये उग्रशरीरिणी बृहच्छरीरत्वेन
श्रेष्ठेति यावत् ॥ ५६ ॥
तत्र तृप्ता भृशं भुक्त्वा सुखं सुप्त्वा दिनत्रयम् ।
आसीत्प्रबोधसुस्वस्था सा समाधिमतिः पुनः ॥ ५७ ॥
समाधौ परिणता मतिर्यस्याः सा ॥ ५७ ॥
पञ्चभिर्वा चतुर्भिर्वा वर्षैः सा सम्प्रबुध्यते ।
तत्ततो मण्डलं याति तेन राजसभाजने ॥ ५८ ॥
ततः प्रबोधानन्तरम् । तेन प्राक्तनराजवचनेन हेतुना । राज्ञः सभाजने
प्रीतिसङ्गमे चिकीर्षिते सति तत्किरातमण्डलं याति ॥ ५८ ॥
तत्र विश्रम्भगर्भाभिः कथाभिः कञ्चिदेव सा ।
स्थित्वा कालं गृहीत्वा तान्वध्यान्स्वास्पदमेत्यथ ॥ ५९ ॥
विस्रम्भगर्भाभिर्विश्वासयुक्ताभिः । स्वास्पदं स्वस्थानं हिमवच्छिखरम्
॥ ५९ ॥
जीवन्मुक्ततयैवमेव विपिने साद्यापि रक्षोङ्गना
तस्मिन्नेव गिरौ स्थिता विचलितध्यानैकतानाशया ।
तस्मिन्राजनि शान्तिमागतवति त्यक्तैषणेनात्मना
तद्राष्ट्राधिपसौहृदैः स्वकवलानास्वादयन्ती चिरं ॥ ६० ॥
सा रक्षोङ्गना कर्कटी अद्यापि पूर्वोक्तरीत्यैव जीवन्मुक्ततया तस्मिन्नेव गिरौ
विपिने विचलितः कदाचिद्व्युत्थाने व्यवहारभाक् कदाचित्समाधौ
ज्ञानैकतानश्च आशयश्चित्तं यस्यास्तथा भूत्वा स्थिता । तस्मिन्किरातानां
राजनि कालेन त्यक्तसर्वैषणेनात्मना मनसा विदेहकैवल्यलक्षणां परमां
शान्तिमागतवति सति तत्सन्ततिजानां तद्राष्ट्राधिपानां सौहृदैः
पूर्ववदेव स्वकवलान्वध्यांश्चिरमास्वादयन्ती चिरं स्थितेत्यर्थः ॥ ६० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे कर्क०
राक्षसीसौहार्दं नाम द्व्यशीतितमः सर्गः ॥ ८२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
राक्षसीसौहार्दं नाम द्व्यशीतितमः सर्गः ॥ ८२ ॥