एकाशीतितमः सर्गः ८१
राक्षस्युवाच ।
अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः ।
राजा राजीवपत्राक्ष इदानीमेष भाषताम् ॥ १ ॥
इह राजाऽवशिष्टानां प्रश्नानामुत्तरं क्रमात् ।
वदन्वक्ति विशेषज्ञो युक्तिमुक्तेष्वपि क्वचित् ॥ १ ॥
मन्त्रिवचनचमत्कारदर्शनादेव राज्ञोऽपि तत्त्वज्ञत्वे परिज्ञातेऽपि राजोक्तौ
चमत्कारातिशयं सम्भाव्य श्रोतुकामा राक्षस्युवाच - अहो इति ॥ १ ॥
राजोवाच ।
जागतप्रत्ययाभावो यस्याहुः प्रत्ययं परम् ।
सर्वसङ्कल्पसन्न्यासश्चेतसा यत्परिग्रहः ॥ २ ॥
राजा च तदभिप्रायमालक्ष्य सर्वप्रश्नमुख्यतात्पर्यविषयं ब्रह्म
विरोधाभासोक्तिमुखचमत्कारातिशयेन दर्शयति - जागतेत्यादिचतुर्भिः ।
अवस्थात्रयदर्शनलक्षणस्य जागतप्रत्ययस्याभावो बोधलक्षणा
निवृत्तिरेव स्वतःस्फुरदधिष्ठानरूपतुरीयलक्षणा यस्य दर्शनमित्यर्थः ।
स च तदेकनिष्ठतारूपेण तत्परिग्रहेण भवतीति तत्परिग्रहं लक्षणेन
दर्शयति - सर्वेति ॥ २ ॥
यत्सङ्कोचविकासाभ्यां जगत्प्रलयसृष्टयः ।
निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ॥ ३ ॥
यस्य मायिकाभ्यां सङ्कोचविकासाभ्याम् । वाचामगोचरो य इति शेषः ॥ ३ ॥
कोटिद्वयान्तरालस्थं मध्ये कोटिद्वयीमयम् ।
यस्य चित्तमयी लीला जगदेतच्चराचरम् ॥ ४ ॥
सत्त्वासत्त्वभानाभानकोटिद्वयस्यान्तरालस्थमनिर्वचनीयमित्यर्थः । अत
एवाद्यन्तयोरसत्कोट्यैव ग्रस्तत्वेऽपि मध्ये दैशिकपरिच्छेदेन क्वचिदस्ति
क्वचिन्नास्तीति कोटिद्वयीमयम् । एवमाद्यन्तयोरभानग्रस्तत्वेऽपि मध्ये
तत्तदिन्द्रिययोग्यरूपेण भाति रूपान्तरेण तत्त्वतश्च न भातीति मध्ये
कोटिद्वयीमयम् । अत एव सदसत्सन्धिरूपस्य चिज्जडसन्धिरूपस्य च
हिरण्यगर्भात्मकस्य यदीयचित्तस्य विकारत्वाल्लीलाभूतमेतज्जगदित्यर्थः ॥ ४ ॥
यस्य विश्वात्मकत्वेऽपि खण्ड्यते नैकपिण्डता ।
सन्मात्रं तत्त्वया भद्रे कथ्यते ब्रह्म शाश्वतम् ॥ ५ ॥
एकपिण्डता अखण्डवस्तुता । कथ्यते पृच्छ्यते ॥ ५ ॥
एषोऽणुर्वेदनाद्वायुः स्वभ्रान्तिर्दृगदृश्यत
[भ्रान्तिदृगदृश्यत इति पाठः साधुः] ।
अतो न किञ्चिद्वाय्वादि केवलं शुद्धचेतनम् ॥ ६ ॥
मन्त्र्युक्तशिष्टेषु प्रथमं कश्च वायुरवायुश्च इति प्रश्नं समाधत्ते ##-
[स्वात्मन्येवेत्यादिफलितार्थकथनम्]
वायुत्ववेदनाद्भ्रान्तिरन्यथाग्रहो यस्य तथाविधः सन् वायुरदृश्यत ।
परमार्थतस्त्ववायुरेवेत्याह - अत इति ॥ ६ ॥
शब्दसंवेदनाच्छब्दः शब्दस्य भ्रान्तिदर्शनम् ।
ततोऽत्र शब्दशब्दार्थदृष्टेर्दूरतरं गतः ॥ ७ ॥
कः शब्दोऽशब्द एव चेत्यस्याप्येवमेवोत्तरं बोध्यमित्याह - शब्देति ॥ ७ ॥
सोऽणुः सर्वं न किञ्चिच्च सोऽहं नाहं स एव च ।
सर्वशक्यात्मनोऽस्यैव प्रतिभैकात्र कारणम् ॥ ८ ॥
कः सर्व नच किञ्चिच्च इत्यस्योत्तरमाह - सोऽणुरिति । कोऽहं नाहं च किं
भवेत् इत्येतत्समाधत्ते - सोऽहमिति । अहङ्कारनिष्कर्षे सोऽहं तद्रूपेण तु
नाहम् । अथवा अहङ्कारतत्ताभ्यामुपलक्षणे सोहम् । ताभ्यामनुपलक्षणे तु
नाहं स च नैवेत्यर्थः । एवं वास्तवावास्तववैचित्र्ये किं कारणं तदाह ##-
वास्तवप्रतिभाशक्तिर्वास्तवरूपव्यक्तौ च कारणमित्यर्थः ॥ ८ ॥
आत्मा यत्नशतप्राप्यो लब्धेऽस्मिन्न च किञ्चन ।
लब्धं भवति तच्चैतत्परमं वा न किञ्चन ॥ ९ ॥
किं प्रयत्नशतप्राप्यम् लब्धं न किञ्चिद्भवति इत्यनयोरुत्तरमाह -
आत्मेति । लब्धेऽस्मिन्नच किञ्चन इत्येतदुपपादयति - लब्धमिति ।
तदेतदात्मरूपत्वादेव प्रागेव लब्धं भवतीति यत्नस्तेन न सफलः । ततः
परममुत्कृष्टमन्यद्वा यत्नफलं न किञ्चनेत्याशयेन त्वया तथा
पृष्टमित्यर्थः ॥ ९ ॥
तावज्जन्म वसन्तेषु संसृतिव्रततिश्चिरम् ।
विकसत्युदितो यावन्न बोधो मूलकाषकृत् ॥ १० ॥
तर्हि किं ज्ञानप्रयत्नो व्यर्थ एवेति शङ्कां परिहरन् किन्तु सर्वं न लभ्यते
इत्यस्य तात्पर्यमाह - तावदिति । तथाच यावत्संसारमूलाज्ञाननाशो न
वृत्तस्तावल्लब्धमप्यात्मतत्त्वं सर्वं पूर्णरूपं न लब्धम् । बोधेन तु
पूर्णं लभ्यत इति न तद्यत्नवैयर्थ्यमित्यर्थः ॥ १० ॥
अणुनानेन रूपत्वं दृश्यतामिव गच्छता ।
तापेनाम्बुधियेवेदं स्वस्थेनैवापहारितम् ॥ ११ ॥
स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः इत्यस्योत्तरमाह - अणुनेति ।
रूपत्वं साकारभावं प्राप्येति शेषः । तापेन मरुभूम्यातपेन । इदं
वास्तवात्मरूपम् ॥ ११ ॥
अनेन संविदणुना मेरुस्त्रिभुवनं तृणम् ।
वमित्वा बहिरन्तस्थं मायात्मकमवेक्ष्यते ॥ १२ ॥
केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम् इत्यनयोरुत्तरमाह - अनेनेति
। मेरुरन्तः क्रियते त्रिभुवनं च तृणमिव क्रियत इत्यर्थः । यद्यन्तः क्रियते
तर्हि बहिः कथमवेक्ष्यते तत्राह - वमित्वेति । बहिर्वमित्वेव अन्तरेव
बाह्यमिव कल्पयित्वेति यावत् ॥ १२ ॥
चिदणोरन्तरे यद्यदस्ति तद्दृश्यते बहिः ।
सङ्कल्पेष्टालिङ्गनदिदृष्टान्तोऽत्र [सङ्कल्पेष्वालिङ्गनादि इति
पाठः] हि रागिणः ॥ १३ ॥
आन्तरीमपि साङ्कल्पिकाङ्गनां तदालिङ्गनं च
बाह्यसंस्कारबीजत्वाद्बहिरिव पश्यामीति रागिणामनुभवादित्यर्थः ॥ १३ ॥
प्। ३२५) १९६
आदिसर्गे सर्वशक्तिश्चिद्यथैवोदितात्मना ।
तथाशु पश्यत्यखिलं सङ्कल्पे पर्वतः स्वतः ॥ १४ ॥
ईदृशनियमे को हेतुस्तत्राह - आदिसर्ग इति । आदिसर्गे प्रवृत्ता नियतिरेव
हेतुरित्यर्थः । यथा इक्षोर्वेण्वादेर्वा प्रथमपर्वतो
यादृशशाखापत्राङ्कुराद्युद्गमस्तथैव द्वितीयादिपर्वभ्योऽपीति स्वतो
नियमस्तथा आदिसर्गसङ्कल्पे पर्वतोऽपि इदानीन्तनसङ्कल्पे स्वतो नियम इति
शेषः ॥ १४ ॥
अभिजातस्य यस्यान्तर्यद्यथा प्रतिभासते ।
तत्तथा पश्यतीवासौ दृष्टान्तोऽत्र शोशोर्मनः ॥ १५ ॥
अभिजातस्य आविर्भूतचित्तस्य च ॥ १६ ॥
परमाणुतयैवापि चिन्मातेणानुनामुना ।
परिसूक्ष्मतमेनैव विष्वग्विश्वं प्रपूरितम् ॥ १६ ॥
केनाप्यणुक्रमात्रेण पूरिता शतयोजनी इत्यस्योत्तरमाह - परमाणुतयेति ।
देशतः परमाणुतया वस्तुतश्चिन्मात्रेणाणुना कालतः परिसूक्ष्मतमेनेति
त्रिविधपरिच्छेदकल्पनस्याप्यवधिभूतेनापीत्यर्थः । विष्वक् सर्वतः ॥ १६ ॥
अणुरेव न मात्येष योजनानां शतेष्वपि ।
सर्वगत्वादनादित्वादरूपत्वादनाकृतिः ॥ १७ ॥
कोऽणुरेव भवन्माति न योजनशतेष्वपि इत्यस्योत्तरमाह - अणुरेवेति ॥ १७ ॥
यथा दूर्तेन ख्ड्गेन [खिङ्गेन इति पाठः] पुंसा बालः
प्रतार्यते ।
सुभ्रूविकारनयननिरीक्षणविचेष्टितैः ॥ १८ ॥
खिड्गेन वि।एतन बालो मुग्धः स्त्रीजन शोभनैर्भ्रूविकारैर्नयनाभ्यां
निरीक्षणैर्विचेष्टितैश्च प्रतार्यते वशीकृत्याकृश्यते ॥ १८ ॥
चिदालोकेन शुद्धेन सपर्वततृणं जगत् ।
नाट्यतेऽविरतं तद्वद्विवृत्त्याभिनयं सदा ॥ १९ ॥
यथायं दृष्टान्तस्तद्वच्चिदालोकेनापि अभिनयं व्यञ्जकचेष्टां विवृत्त्य
जगन्नाट्यते सदेत्यर्थः ॥ १९ ॥
तेनैवानन्तरूपत्वादणुना वाससा यथा ।
संविदा [संविदन्तर्भवद्बाह्ये इति पाठः साधुः]
तद्भवद्बाह्ये कृत्वा मेर्वादिवेष्टितम् ॥ २० ॥
कस्याणोरुदरे सन्ति किलावनिभृतां घटाः इत्येतत्प्रत्याह - तेनेति । यथा
वाससा स्वान्तर्भवन्मेर्वादिचित्रं बाह्य इव कृत्वा वेष्टितं तद्वदित्यर्थः ॥
२० ॥
दिक्कालाद्यनवच्छिन्नरूपत्वान्मेरुतो बृहत् ।
वालाग्रशतभागात्माप्येष सूक्ष्मः परोऽनुकः ॥ २१ ॥
अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः इत्यस्योत्तरमाह - दिक्कालेति ॥ २१ ॥
शुद्धसंवेदनाकाशरूपस्य परमाणुना ।
शोभते नहि साम्योक्तिर्मेरुसर्षपयोरिव ॥ २२ ॥
प्रतिप्रश्नमात्मन्यणुशब्दप्रयोगस्य मन्त्रिणा योऽभिप्राय उक्तः
अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः ।
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥ इति कर्कट्या च स
एवाभिप्रेतोऽभ्युपगतश्चेति निश्चित्य राजा स्वस्य विशेषज्ञतां दर्शयितुं तं
दूषयति - शुद्धेति । सौक्ष्म्यमात्रेण नापरिच्छिन्नः
परिच्छेदोत्कर्षावधिपरमाणुसादृश्यमालम्ब्य गौण्याऽनुरिति व्यपदेष्टुं
शक्य इति भावः ॥ २२ ॥
मायाकलापिनाणुत्वं निर्माय परमात्मनि ।
हेम्नीव कटकत्वेन नानात्र समता भवेत् ॥ २३ ॥
कथं तर्हि अणोरणीयान्महतो महीयान् एषोऽणुरात्मा चेतसा वेदितव्यः
इत्यादिशुतिषु तथा व्यपदेश इति चेत्सर्वशक्तिमत्त्वान्महत्त्वमिवाणुत्वमपि
आत्मनि मायया निर्माय स्थितत्वान्मुख्यवृत्तिरेवात्राणुशब्दो नात्र
समतानिमित्तमित्याह - मायेति । मायया कलापिना भूषितेन ।शबलेनेति यावत्
। हेम्नि स्वनिर्मितकटकादित्वेनेव अत्र समता न भवेत् ।
नानेत्यनेकविनार्थयोरित्यनुशासनान्नञो नाञः स्वार्थे विधानाच्च
नानाशब्दो निषेधार्थः । इत्थमेव हि वालाग्रशतभागस्य शतधा कल्पितस्य
च । भागो जीवः स विज्ञेयः इत्यादिश्रुतयो वालाग्रशतभागात्मा इति त्वदुक्तिश्च
समञ्जसेति भावः ॥ २३ ॥
प्रकटोऽनेन दीपेन प्रकाशोऽनुभवात्मना ।
स्वसत्तानाशपूर्वो हि विनानेन भवेत्ततः ॥ २४ ॥
कोऽणुः प्रकाशतमसां दीपः इत्यस्योत्तरमाह - प्रकट इति ।
यद्यनेनात्मदीपेन विनैव प्रकाशोऽन्यो वा भवेत् । ततो हि तर्हि स्वस्य सत्ताया
नाशोऽदर्शनं तत्पूर्वः असन्नेव भवेदित्यर्थः ॥ २४ ॥
यदि सूर्यादिकं सर्वं जगदेकं जडं भवेत् ।
ततः किमात्मकं रूपं प्रकाशः स्यात्क्व वाथ किम् ॥ २५ ॥
किञ्चैवं सति जगदान्ध्यमपि स्यादित्याह - यदिति ॥ २५ ॥
शुद्धसन्मात्रचित्त्वं यत्स्वतः स्वात्मनि संस्थितम् ।
तदेतदणुना तेजो दृष्टं बहिरवस्थितम् ॥ २६ ॥
चिदणुना स्वान्तरेव तेजस्तम-आदेः कल्पितत्वादपि तस्य तदधीनः प्रकाश
इत्याह - शुद्धेति । तदेतदणुना तेनैतेनाणुना ॥ २६ ॥
तेजांस्यर्केन्दुवह्नीनां न भिन्नानि तमोघनात् ।
एतावानेव भेदोऽस्ति यद्वर्णे शौक्ल्यकृष्णते ॥ २७ ॥
ननु अर्केन्द्वादिभिरेव प्रकाशसिद्धेः किं चिदणुना तत्राह - तेजांसीति ।
तमोघनात् स्वकारणाज्ञानात् । एतावानिति । जाढ्यांशे तु न भेद इत्याशयः ॥
२७ ॥
यादृक्कज्जलनीहारे मेघनीहारयोर्भवेत् ।
तादृक्प्रकाशतमसोर्भेदो नेति तयोः स्थितिः ॥ २८ ॥
कज्जलवर्णे नीहारे सति मेघ इति व्यपदेशान्मेघनीहारयोर्यादृग्भेदो भवेत्
प्रकाशतमसोरपि तादृगेवेति तयोर्न स्वतो भेदोऽस्तीति स्थितिरित्यर्थः ॥ २८ ॥
जडयोरुपलम्भाय चिदादित्यः किलैतयोः ।
यदा तपति तेनैते लब्धसत्तैकतां गते ॥ २९ ॥
चिदधीनप्रकाशसत्तावत्त्वेनापि तयोर्न भेद इत्याह - जडयोरिति ॥ २९ ॥
तपत्येकश्चिदादित्यो रात्रिन्दिवमतन्द्रितः ।
अन्तर्बहिः शिलाद्यन्तरप्यनस्तमयोदयः ॥ ३० ॥
चैतन्यस्य तु न क्वचिदप्यप्रकाशप्रसक्तिरित्याह - तपतीति ॥ ३० ॥
त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः ।
नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा ॥ ३१ ॥
नानाविधैरुपलम्भैर्भोगैर्भाण्डैस्तत्साधनैश्चाढ्या कुटीव
कठिनकोटरा ॥ ३१ ॥
प्। ३२६) १९७
तमस्त्वं तमसो देहमविनाशयतामुना ।
तप्यतेऽभासया भासा सर्वमाभास्यते तमः ॥ ३२ ॥
ननु यद्यात्मना तमः प्रकाश्यते तर्हि तस्य तमस्त्वमेव नश्येत्
नह्यप्रथास्वभावं तत्तदनाशे प्रथमानं कर्तुं शक्यमित्याशङ्क्याह
- तमस्त्वमिति । अमुना अभासया स्वतत्त्वप्रतिभासशून्यया भासा चैतन्येन
तमसो देहं स्वरूपभूतं तमस्त्वमविनाशयता तमस्तप्यते कार्यभावाय
क्षोभ्यते । ततः सर्वजगद्भूतं तम आभास्यत इत्यर्थः ॥ ३२ ॥
पद्मोत्पले यथार्केण तपता प्रकटीकृते ।
प्रकाशतमसो सत्ते चितैवं प्रकटीकृते ॥ ३३ ॥
तत्सत्ताप्रकटनहेतुत्वादप्यसौ न तन्निवर्तक इत्याशयेनाह - पद्मोत्पले इति
॥ ३३ ॥
अर्कः कुर्वन्नहोरात्रे दर्शयत्याकृतिं यथा ।
चितिः सदसती कृत्वा दर्शयत्याकृतिं तथा ॥ ३४ ॥
सदसती आविर्भावतिरोभावलक्षणे प्रकाशतमसी ॥ ३४ ॥
चिदणोरन्तरे सन्ति समग्रानुभवाणवः ।
यथा मधुरसस्यान्तः पुष्पपत्रफलश्रियः ॥ ३५ ॥
कस्याणोरुदरे सन्ति समग्रानुभवाणवः इत्यस्योत्तरमाह - चिदणोरिति ।
यथेति । मधुकरैः पत्रफलादिरसस्याप्याहरणेन
मधूत्पादनसम्भवादित्याशयः । अथवा मधुरसस्य
वसन्तशोभायास्तात्कालिकवृक्षादिरसस्य वा ॥ ३५ ॥
उद्यन्ति चिदणोरेते समग्रानुभवाणवः ।
मधुमासरसाच्चित्रा इव खण्डपरम्पराः ॥ ३६ ॥
तदेव स्पष्टमाह - उद्यन्तीति । खण्डपरम्परा
वनखण्डसौन्दर्यक्रमाः ॥ ३६ ॥
परमात्माणुरत्यन्तनिःस्वादुः सूक्ष्मतावशात् ।
समग्रस्वादुसत्तैकजनकः स्वदते स्वयम् ॥ ३७ ॥
कोऽणुरत्यन्तनिस्वादुरपि संस्वदतेऽनिशम् इत्यस्योत्तरमाह - परमात्मेति ॥ ३७
॥
यो यो नाम रसः कश्चित्समस्तोऽप्यप्स्ववस्थितः ।
प्रतिबिम्बमिवादर्शे तं विना नास्त्यसौ स्वतः ॥ ३८ ॥
सर्वजलान्तर्गतरसाविर्भावस्यात्मनिमित्तत्वादपि स स्वदत इति वक्तुं
शक्यमित्याह - यो य इति । असौ रसः ॥ ३८ ॥
त्यजता संस्थितं सर्वं चिन्मात्रपरमाणुना ।
त्यक्तं जगदसंवित्त्या संवित्त्या सर्वमाश्रितम् ॥ ३९ ॥
केन सन्त्यजता सर्वमणुना सर्वमाश्रितम् इत्यस्योत्तरमाह - त्यजतेति ।
असंवित्त्या अस्फुरणेन ॥ ३९ ॥
अशक्तया स्वात्मगुप्तौ सर्वमाच्छादितं जगत् ।
चित्ताणुतामेव [चिताणुतां इति पाठः] परां सम्प्रसार्य वितानवत्
॥ ४० ॥
केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् इत्येतस्योत्तरमाह -
अशक्तयेति । गुप्तौ परिच्छिद्य तिरोधाने ॥ ४० ॥
आत्मगुप्तौ न शक्नोति परमात्माम्बराकृतिः ।
मनागपि क्षणमपि गजो दूर्वावने यथा ॥ ४१ ॥
उक्तस्याशयं स्फुटमाह - आत्मगुप्ताविति ॥ ४१ ॥
तथाप्याक्रान्तवान्विश्वं ज्ञातो गोपायति क्षणात् ।
जगद्धानाकणं बाल इवाहो घनमायिता ॥ ४२ ॥
जगत् जगदन्तःपातिजीवजातं ज्ञातः सन् स्वात्मलाभेन गोपायति रक्षति यथा
बालो ज्ञातः प्रबुद्धः सन् धानाकणं गोपायति न सुप्तस्तद्वत् ।
नन्वीदृशस्वप्रकाशपूर्णात्मनः कथं बालवत् स्वात्मविस्मृतिस्तत्राह ##-
चिन्मात्रानुनयेनेदं जगत्सन्नपि जीवति ।
वसन्तरसबोधेन विचित्रेव वनावली ॥ ४३ ॥
जगल्लये न कस्याणोः सद्भूतमपि जीवति इत्यस्योत्तरमाह -
चिन्मात्रानुनयेनेति । सन्नपि सन्नमपि जगत् । छान्दसो मलोपः । प्रलयेन
लीनमपीत्यर्थः । चिन्मात्रस्यानुनयेनावलम्बेन जीवति । प्रलयेऽपि चित्सत्तयैव
जगत्संस्कारशेषं तिष्ठतीत्यर्थः । वसन्तकाले पल्लवादिहेतुरसोद्बोधेन
निमित्तेन ॥ ४३ ॥
चित्तसत्तैवमखिलं स्वतो जगदिवोदितम् ।
मधुमासरसोल्लासाच्चित्रो हि वनखण्डकः ॥ ४४ ॥
यदि प्रलये सर्गे च ब्रह्मसत्तयैव जगज्जीवति तर्हि सर्गे को विशेषो
येनाविर्भवतीत्याशङ्क्याह - चित्तसत्तेति । प्रलये च न चित्तसत्ता पृथगस्तीति
विशेष इति भावः ॥ ४४ ॥
सत्यं चिन्मयमेवेदं जगदित्येव विद्ध्यलम् ।
वसन्तरसमेव त्वं विद्धि पल्लवगुल्मकम् ॥ ४५ ॥
सर्वावयविसारत्वात्सहस्रकरलोचनः ।
परमाणुरसावेव नित्यानवयवोदयः ॥ ४६ ॥
एवञ्च न चिज्जगतोस्तत्त्वतो भेद इत्याह - सत्यमिति ॥ ४५ ॥ ४६ ॥
निमेषांशावबोधो हि चिदणोः प्रतिभासते ।
यतः कल्पसहस्रौघः स्वप्ने वार्धकबाल्यवत् ॥ ४७ ॥
अजातावयवः कोऽणुः सहस्रकरलोचनः इत्यस्योत्तरमाह - सर्वेति । सर्वे
येऽवयविनश्चतुर्विधा भूतग्रामास्तत्सारत्वात्तदात्मत्वादित्यर्थः । को निमेषो
महाकल्पः कल्पकोटिशतानि च इत्यस्योत्तरमाह - निमिषेति । इदं च
लीलोपाख्यानेन दर्शितमेव ॥ ४७ ॥
ततः सोऽपि निमेषोणुः कल्पकोटिशतान्यलम् ।
सर्वसत्ताविलासेन प्रतिभैका विजृम्भते ॥ ४८ ॥
अभुक्तवत्येव यथा भुक्तवानहमित्यलम् ।
जायते प्रत्ययस्तद्वन्निमेषे कल्पनिश्चयः ॥ ४९ ॥
अभुक्त्वा भुक्तवानस्मीत्येवं प्रत्ययशालिनः ।
दृश्यन्ते वासनाविष्टाः [वासनानिष्ठा इति पाठः] स्वप्ने
स्वमरणं यथा ॥ ५० ॥
जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि ।
प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः ॥ ५१ ॥
अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमे इत्यस्योत्तरमाह - जगन्तीति ॥ ५१ ॥
यदस्ति यत्र तत्तस्मात्समुदेति तदेव तत् ।
आकारिणि विकारादि दृष्टं न गगनेऽमले ॥ ५२ ॥
यद्यत्रास्ति तत्ततः समुदेति यथा स्तम्भात्पुत्रिका तदेव च तद्भवति ॥ ५२ ॥
प्। ३२७) १९७
चिति भूतानि भूतानि वर्तमानानि सम्प्रति ।
भविष्यन्ति च भूतानि सन्ति बीजे द्रुमा इव ॥ ५३ ॥
बीजानि निष्कलान्तानि इत्यादेस्तात्पर्यमाह - चितीति । भूतान्यतीतानि सम्प्रति
वर्तमानानि अग्रे भविष्यन्ति च भूतानि चिति सदा तिष्ठन्तीत्यर्थः ॥ ५३ ॥
निमेषकल्पावेतेन तुषेणान्नकणाविव ।
वलिता वेषचेत्याभ्यामणुः स्वात्माङ्गकं श्रितः ॥ ५४ ॥
कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः इत्यस्य तात्पर्यमाह - निमेषेति ।
अन्नकणौ तण्डुलतदवयवौ तुषेण व्रीहित्वचेव वलितौ परितो वेष्टितौ ।
एषोऽणुश्चेत्याभ्यां कल्पनिमेषाभ्यां स्वात्माङ्गकं स्वैकदेशं श्रित
आश्रितः । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति
भगवद्वचनादिति भावः ॥ ५४ ॥
उदासीनवदासीनो न संस्पृष्टो मनागपि ।
एष भोक्तृत्वकर्तृत्वैः स्वात्मा सर्वजगत्यपि ॥ ५५ ॥
कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः इत्यस्योत्तरमाह -
उदासीनवदित्यादिना ॥ ५५ ॥
जगत्सत्तोदिते यं हि शुद्धचित्परमाणुतः ।
परमाणोश्च भोक्तृत्वकर्तृत्वे केवलं स्थिते ॥ ५६ ॥
केवलं विनैव क्रियाभोगसम्बन्धं स्थिते ॥ ५६ ॥
जगन्न किञ्चित्क्रियते सर्वदैव न केनचित् ।
विलीयते च नो किञ्चिन्मानुष्याद्दृश्यखण्डनम् ॥ ५७ ॥
कुतो न क्रियाभोगसम्बन्धस्तत्राह - जगदिति ।
क्रियाविषयस्यान्त्यतासत्त्वादित्यर्थः । किमर्थं तर्ह्यसतो दृश्यस्य
खण्डनं वेदान्तेषु क्रियते तत्राह - मानुष्यादिति ।
मनुष्यभावाद्व्यावहारिकयौक्तिकदृग्वशान्न
परमार्थदृष्टिबलादित्यर्थः ॥ ५७ ॥
सर्वं समसमाभासमिदमाकाशकोशकम् ।
जगत्तयोपशब्दं च विद्ध्यनाद्यं निशाचरि ॥ ५८ ॥
कीदृशी तर्हि परमार्थदृष्टिस्तां दर्शयति - सर्वमिति । जगत्तया
उपशब्दं शब्दमात्रेण व्यवहृतम् । वाचारम्भणं विकारो नामधेयं
इति श्रुतेरिति भावः ॥ ५८ ॥
चिदणुर्दृश्यसिद्ध्यर्थमान्तरीं चिच्चमत्कृतिम् ।
बहीरूपतया धत्ते स्वात्मनि परिसंस्थिताम् ॥ ५९ ॥
दृश्यसम्पत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् । दृश्यं
पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवात् ॥ इति प्रश्नस्योत्तरमाह -
चिदणुरिति । चिच्चमत्कृतिं चिद्व्याप्तमायाशक्तिम् । बहीरूपतया
बाह्यप्रपञ्चतया ॥ ५९ ॥
एतद्बहिष्ठमन्तस्थमस्ति शब्दे न वस्तुनि ।
उपदेशाय सत्त्वानां चिद्रूपत्वाज्जगत्त्रये ॥ ६० ॥
ननु तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् इति श्रुत्या
अन्तर्बहिर्भेदशून्यत्वेनावगते ब्रह्मणि कथमुच्यते आन्तरीं चिच्चमत्कृतिं
बहीरूपतया धत्ते इति तत्राह - एतदिति । बहिष्ठमन्तस्थमित्येतज्जगत्त्रये
सत्त्वानामधिकारिप्राणिनामुपदेशाय कल्पितं शब्दे एवास्ति न वस्तुनि । तस्य
चिदेकरूपत्वादित्यर्थः ॥ ६० ॥
द्रष्टाऽदृष्टपदं गच्छन्नात्मनां सम्प्रपश्यति ।
नेत्रदृश्याभिपातीव सदेवासदिव स्थितम् ॥ ६१ ॥
दृश्यतां नयन्नित्यन्तस्य तात्पर्यमुक्त्वा प्रश्नशेषस्य तदाह -
द्रष्टेति । नित्यापरोक्षोऽप्यात्मा अविद्यानावृतत्वादन्तःकरणावच्छेदेन
सदैव स्फुरंस्तदभिमानेन द्रष्टा
बहिर्विषयावच्छेदेनावृतत्वाददृष्टं पदं विषयं
नेत्रदृश्याभिपातीव भूत्वा नेत्रद्वारा निर्गतान्तःकरणप्रणाड्या
बहिर्गच्छन् सदेवात्मरूपमसद्घटादिरूपमिव स्थितमात्मानं
सम्प्रपश्यति स्वात्मचितैव प्रकाशयति न नेत्रेण तस्य
द्वारमात्रत्वादित्यनेत्रवानित्युक्तमित्यर्थः ॥ ६१ ॥
नच गच्छति दृश्यत्वं द्रष्टा ह्यसदवास्तवम् ।
आन्तन्येव न यत्किञ्चित्तत्तामेति कथं परः ॥ ६२ ॥
सदेवासदिव स्थितम् इत्येतदुपपादयति - नचेति । कुतो न गच्छति तत्राह -
आत्मनीति । सतोऽसद्रूपेण भवितुमशक्यत्वादिति भावः ॥ ६२ ॥
दृगेव लोचने सा च वासनान्तं निजं वपुः ।
बहीरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता ॥ ६३ ॥
एवं द्रष्टृतापि मिथ्यादृश्यसापेक्षत्वान्मिथ्यैवेत्याह - दृगेवेति ।
न चक्षुषी लोचने द्वारमात्रत्वात्किन्तु दृक् अपरोक्षात्मचैतन्यमेव लोचने ।
चक्षुषश्चक्षुः इति श्रुतेः । सा च दृक् आविर्भावादारभ्य पुनस्तिरोभावेन
वासनाभावान्तं दृश्यं कृत्वा तद्द्रष्टृतया स्वयमुदिता आत्मानं
कल्पितवतीत्यर्थः ॥ ६३ ॥
न विना द्रष्टृतामस्ति दृश्यसत्ता कथञ्चन ।
पितृतेव विना पुत्रं द्वितेवैक्यपदं विना ॥ ६४ ॥
एवञ्च परस्परसापेक्षकल्पनयोर्द्वयोरपि मिथ्यात्वमित्याह - न
विनेत्यादिना ॥ ६४ ॥
द्रष्टैव दृश्यतामेति न द्रष्टृत्वं विनास्ति तत् ।
विना पित्रेव तनयो विना भोक्रेव भोग्यता ॥ ६५ ॥
द्रष्टुर्दृश्यविनिर्माणे चित्त्वादस्त्येव शक्तता ।
कनकस्यावदातस्य कटकादिकृताविव ॥ ६६ ॥
दृश्यस्य द्रष्टृनिर्माणे जडत्वान्नास्ति शक्तता ।
कटकस्य तु हैमस्य यथा कनकनिर्मितौ ॥ ६७ ॥
चेतनादृश्यनिर्माणं चित्करोत्यसदेव सत् ।
अकारणं मोहहेतुं हेमेव कटकभ्रमम् ॥ ६८ ॥
चिद्यतश्चेतना चेत्यप्रकाशनादिसमर्था अतो दृश्यनिर्माणं करोति ।
मोहहेतुमज्ञानमात्रहेतुकम् ॥ ६८ ॥
कटकत्वावभासे हि यथा हेम्नो न हेमता ।
सत्येव प्रकचत्येवं द्रष्टृदृश्यस्थितौ वपुः ॥ ६९ ॥
यदि द्रष्टैव दृश्यतां गच्छति तर्हि द्रष्टैवेदमिति दृश्यं कुतो न
विभाव्यते तत्राह - कटकत्वेति । न हेमता सत्येव स्फुटं कचति कल्पितव्या
मूढबुद्धौ सत्यास्फुरणात् । एवं दृश्यात्मना द्रष्टुः स्थितौ
द्रष्टृवपुर्न कचतीत्यर्थः ॥ ६९ ॥
द्रष्टा दृश्यतया तिष्ठन्द्रष्टृतामुपजीवति ।
सत्यां कटकसंवित्तौ हेम काञ्चनतामिव ॥ ७० ॥
तर्हि द्रष्टुरस्फुरणे तन्निरपेक्षसत्ताकमेव किं न स्यादिति
चेत्तदुपजीवकताभावप्रसङ्गान्नैवमित्याशयेनाह - द्रष्टेति । सत्यां
पूर्वसिद्धां काञ्चनतामिव ॥ ७० ॥
प्। ३२८) १९८
एकस्मिन्प्रतिभासे हि न सत्ता द्रष्टृदृश्ययोः ।
पुम्प्रत्ययप्रकचने क्व पशुप्रत्ययोदयः ॥ ७१ ॥
कटकत्वावभासे हि यथा हेम्नो न हेमता सत्येव प्रकचतीत्येतदयुक्तं
कटकमिदं हेमेति सामानाधिकरण्यप्रत्यये
उभयसत्त्वप्रतिभासादेवमहं द्रष्टेति प्रत्ययेऽपीति चेत्तत्राह - एकस्मिन्निति
। यथा दूरस्थे विषये पुमान्पशुर्वेति संशये पुंस्प्रत्ययकोटौ न पशुत्वं
प्रतिभासते पशुप्रत्ययांशे च न पुंस्त्वम् एवं
सामानाधिकरण्यप्रत्ययेऽपि नोभयांशस्यैकप्रत्ययप्रमेयतासम्भव
इत्यर्थः ॥ ७१ ॥
दृश्यं पश्यन्स्वमात्मानं न द्रष्टा सम्प्रपश्यति ।
द्रष्टुर्हि दृश्यतापत्तौ सत्ताऽसत्तेव तिष्ठति ॥ ७२ ॥
बहिर्मुखतया हि दृश्यं पश्येदन्तर्मुखतया च द्रष्टारम्
नचोभयमुखता चितो युगपत्सम्भवतीत्याशयेनाह - दृश्यमिति । सत्ता
द्रष्टृसत्ता । असत्तेव असतीवेति यावत् ॥ ७२ ॥
बोधाद्गलितदृश्यस्य द्रष्टुः सत्तेव भासते ।
अबुद्धे कटके स्वस्य हेम्नोऽकटकता यथा ॥ ७३ ॥
अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् । दृश्यासम्पत्तये पश्यन् पुरो
दृश्यं न पश्यति ॥ इति प्रश्नस्योत्तरमाह - बोधादिति । अबुद्धे
हेमैकतत्त्वपरीक्षणे दत्तदृष्टितया उपेक्षणादप्रतिसंहिते ॥ ७३ ॥
दृश्ये सत्यस्ति वै द्रष्टा दृश्यं द्रष्टरि भासते ।
द्वयेन च विना नैकं नैकमप्यस्ति चानयोः ॥ ७४ ॥
दृश्यादर्शनेऽपि द्रष्टुर्दर्शनमपरिहार्यमिति कथमात्यन्तिकं
दृश्यादर्शनं सिद्ध्येदित्यत आह - दृश्यते इति । द्रष्टरि सतीति शेषः ।
बोधाद्गलितदृश्यस्य पुंसः अनयोर्द्रष्टृदृश्ययोर्मध्ये एकमपि नास्ति ।
छत्रापाये छायापायवद्दृश्यापाये
द्रष्टुरप्यपायाद्दृङ्मात्रपरिशेषादित्यर्थः ॥ ७४ ॥
सर्वं यथावद्विज्ञाय शुद्धसंविन्मयात्मना ।
वाचामविषयं स्वच्छं किञ्चिदेवावशिष्यते ॥ ७५ ॥
आत्मानं दर्शनं दृश्यं दीपेनेवावभासितम् ।
कृतं च सर्वमेतेन चिन्मात्रपरमाणुना ॥ ७६ ॥
आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् इत्यस्योत्तरमाह -
आत्मानमिति । आत्मानं द्रष्टारम् । एतेन चिन्मात्रपरमाणुना च भासितं
प्रथमानं कृतं द्रष्टादि सर्व मातृमानप्रमेयाख्यं त्रयं बुधो
निगिरतीति परेणान्वयः ॥ ७६ ॥
मातृमानप्रमेयाख्यं बुधो निगिरति त्रयम् ।
हेमेव कटकादित्वमसन्मयमुपस्थितम् ॥ ७७ ॥
कटकादीनि हेम्नेव विकीर्णं केन च त्रयम् इति प्रश्नं
प्राक्तनोक्तदृष्टान्तोपन्यासेनैवार्थात्परिहरति [प्राक्तनोक्ति इति
पाठः] - हेमेति ॥ ७७ ॥
यथा न जलभूम्यादेः पृथक्किञ्चिन्मनागपि ।
तथैतस्मात्स्वभावाणोर्न किञ्चित्पृथगस्ति हि ॥ ७८ ॥
कस्मान्न किञ्चिच्च पृथक् इति प्रश्नस्योत्तरमाह - यथेति । किञ्चिद्भौतिकम्
॥ ७८ ॥
सर्वगानुभवात्मत्वात्सर्वानुभवरूपतः ।
एकत्वानुभवन्याये रूढे सर्वैकतास्य हि ॥ ७९ ॥
अपृथक्त्वं युक्त्याप्यनुभावयति - सर्वगेति ॥ ७९ ॥
अस्येच्छया पृथङ्गास्ति वीचितेव महाम्भसः ।
इच्छानुरूपसम्पत्तेर्भावितार्थैकता किल ॥ ८० ॥
कस्येच्छया पृथक् चास्तीत्येतद्दूषयति - अस्येति । किलेति हेतौ । इच्छानुरूपस्य
फलस्य सम्पत्तेरिच्छाभावितार्थस्य च एकता अपृथक्ता यत इत्यर्थः ॥ ८० ॥
दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः ।
सर्वात्मत्वात्स सर्वात्मा सर्वानुभवतः स्वतः ॥ ८१ ॥
दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः । द्वैतमप्यपृथक्कस्मात्
इत्यस्योत्तरमाह - दिक्कालेति द्वाभ्याम् । सः सर्वेषामात्मत्वात्सर्वमात्मा
अपृथग्भूतं यस्य सर्वात्मा स्वतस्तु सर्वानुभव एव न जडः ॥ ८१ ॥
सन्नेष चेतनात्मत्वाद्दर्शनानवबोधतः ।
द्वैतैक्ये नात्र विद्येते सर्वरूपे महात्मनि ॥ ८२ ॥
असतः सतः इत्येतदर्थमाह - सन्नेष इति । असन्दिग्धात्मसत्त्वानां
चेतनानामात्मत्वात् दर्शने चक्षुरादिभिरालोचनेऽनवबोधतोऽत्रात्मनि
द्वैतमैक्यं च लौकिकसद्रूपे न विद्येते इत्यसन्नित्युच्यते श्रुतौ न
वास्तवासत्त्वाभिप्रायेणेत्यर्थः ॥ ८२ ॥
यदि कश्चिद्द्वितीयः स्यात्तदैकस्यैकता भवेत् ।
द्वैतैक्ययोर्मिथः सिद्धिरातपच्छाययोरिव ॥ ८३ ॥
ननु द्वैतं सापेक्षरूपत्वान्मिथ्यास्तु ऐक्यं तु
द्वितीयनिरपेक्षत्वाद्वास्तवमेवेति तत्कथं न विद्यत इत्युच्यते तत्राह - यदीति
॥ ८३ ॥
यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् ।
एकतायामसिद्धायां द्वयमेव न विद्यते ॥ ८४ ॥
द्वितीयव्यावर्तनाय कल्पितं सङ्ख्यारूपमपि द्वितीयसापेक्षं
द्वित्वदितुल्यमेवेत्याशयेनाह - यत्रेति ॥ ८४ ॥
एवं स्थिते तु यस्तिष्ठंस्तत्तादृक्तदिवास्ति हि ।
तस्मान्न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः ॥ ८५ ॥
द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः इत्यंशं विवृणोति -
एवं स्थिते त्विति । एवं द्वैतैक्यशून्यत्वेन तत्त्वे स्थिते सति
यस्तादृग्द्वैतैक्यवानिव द्वैतैक्यमिव च यस्तिष्ठन् प्रतिभासते
तस्मात्तद्द्वैतैक्यरूपमम्भसो द्रवतेव न व्यतिरिक्तमित्यर्थः ॥ ८५ ॥
नानारम्भविभासं [विनाशं च इति पाठः] च
साम्येनाक्षुब्धरूपिणः ।
बीजस्यान्तस्तरुरिव ब्रह्मणोऽन्तः स्थितं जगत् ॥ ८६ ॥
आत्मानं दर्शनं दृश्यं सदसच्च जगत्त्रयम् । कोऽन्तर्बीजमिवान्तस्थं
स्थितः कृत्वा त्रिकालगः ॥ इत्यस्योत्तरमाह - नानेति । बीजपक्षे
भूजलादीनां ब्रह्मपक्षे सत्त्वरजस्तमसां साम्येन अक्षुब्धरूपिणः
पूर्वावस्थातोऽप्रच्युतस्य ॥ ८६ ॥
द्वैतमप्यपृथक्तस्माद्धेम्नः कटकता यथा ।
सम्यग्बुद्धावबोधो हि द्वैतं तच्च न सन्मयम् ॥ ८७ ॥
सम्यगबुद्धस्यावगतवतोऽवबोधो ज्ञानात्मकमेव द्वैतम् । तच्च ज्ञानं
सदेव न सन्मयम् ॥ ८७ ॥
यथा द्रवत्वं पयसः स्पन्दनं मातरिश्वनः ।
व्योम्नः शून्यत्वमेवं हि न पृथग्द्वैतमीश्वरात् ॥ ८८ ॥
प्। ३२९) १९८
द्वैताद्वैतोपलम्भो हि दुःखायैव क्रियात्मने ।
निपुणोऽनुपलम्भो यस्त्वेतयोस्तत्परं विदुः ॥ ८९ ॥
किर्यात्मने प्रवृत्तिसिद्धये एव न निवृत्तये ॥ ८९ ॥
मातृमानप्रमेयादिद्रष्टृदर्शनदृश्यता ।
एतावज्जगदेतच्च परमाणौ चिति स्थितम् ॥ ९० ॥
भूतं भवद्भविष्यच्च इत्यस्योत्तरमाह - मात्रिति । यद्भूतभव्यादि जगत्
शास्त्रीयमातृमानप्रमेयं आदिपदात्प्रमितिश्चेत्येतावत् लौकिकसाधारणं
तु द्रष्ट्रादित्रिपुटीत्येतावदेव नातोऽधिकमस्ति । तत्सर्वं तत्साक्षिचिति परमाणौ
स्थितमित्यर्थः ॥ ९० ॥
अयं जगदणुर्नित्यमेतेनाणुसुमेरुणा ।
स्पन्दनं पवनेनेव स्वाङ्ग एव कृताकृतः ॥ ९१ ॥
एतेनात्मरूपेणाणुसुमेरुणा पवनेन स्पन्दनमिवायं जगल्लक्षणोऽणुः
स्वाङ्गे एव बहुशः कृतः अकृत उपसंहृतश्चेत्यर्थः ॥ ९१ ॥
अहो नु भीमा मायेयमथवा मायिनां परा ।
परमाण्वन्तरेवास्ति यत्त्रैलोक्यपरम्परा ॥ ९२ ॥
बृहद्भ्रममित्यंशमुपपादयति - अहो इति ।
इयमात्मचितिर्मायाशबलत्वान्माया । अथवा मायिनां जनव्यामोहकानां परा
श्रेष्ठा । यद्यस्माद्धेतोः परमाण्वन्तरेव त्रैलोक्यपरम्परास्तीति
दर्पणोदरप्रतीतो गिरिरिव नास्त्येवेति बृहद्भ्रम एवेत्यर्थः ॥ ९२ ॥
अथासम्भवमायित्वमेवैतत्सर्वदा स्थितम् ।
चिन्मात्रपरमाणुत्वमात्रमेव जगत्स्थितिः ॥ ९३ ॥
यदि तु एकमेवाद्वितीयम् इत्यादिश्रुत्या मायाया अप्यसत्त्वं तदापि जगच्चिदणुरेव
न वस्त्वन्तरमस्तीति जगत्प्रत्ययो बृहद्भ्रम एवेत्याशयेनाह - अथेति ।
अथेति पक्षान्तरे । न सम्भवतीत्यसम्भवं मायित्वं
यस्मिंस्तथाविधमेवैतदात्मरूपं सर्वदा स्थितमिति पक्षेऽपीत्यर्थः ॥ ९३ ॥
अन्तर्गतजगज्जालोऽप्येषोऽणुः साम्यमत्यजन् ।
स्थितोऽन्तस्थबृहद्वृक्षं बीजं भाण्डोदरे यथा ॥ ९४ ॥
नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः इत्यस्योत्तरमाह - अन्तर्गतेति ।
बीजं भाण्डोदरे यथा इति दृष्टान्तपरमाण्वाद्यन्तर्गतब्रह्मचित्यपि
सर्वजगदुत्पादनशक्तिसम्भृतत्वलाभाय ॥ ९४ ॥
बीजेऽन्तर्वृक्षविस्तारः स्थितः सफलपल्लवः ।
परया दृश्यते दृष्ट्या जगच्च चिदणूदरे ॥ ९५ ॥
बीजस्यान्तरिव द्रुमः इत्यंशं वर्णयति - बीजेऽन्तरिति द्वाभ्याम् । परया ।
योगपरिष्कृतया ब्राह्म्या च ॥ ९५ ॥
स शाखाफलपुष्पं स्वमजहद्बीजकोटरे ।
यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत् ॥ ९६ ॥
संस्थितं द्वैतमद्वैतं बीजकोश इव द्रुमः ।
जगच्चित्परमाण्वन्तर्यः पश्यति स पश्यति ॥ ९७ ॥
स्वमेकमजहद्रूपमुदेत्यनुदितोऽपि कः इति प्रश्ने
स्वमेकमजहद्रूपमित्यंशमुपपादयितुमध्यारोपितं
स्थूलसूक्ष्मादिप्रपञ्चमपवदति - संस्थितमित्यादिसार्धत्रयेण ॥ ९७ ॥
न द्वैतं नैव चाद्वैतं न च बीजं न चाङ्कुरः ।
न स्थूलं न च वा सूक्ष्मं नाजातं जातमेव च ॥ ९८ ॥
न चास्ति न च नास्तीदं न सौम्यं क्षुभितं न च ।
त्रिजगच्चिदणोरन्तः खवाय्वपि न किञ्चन ॥ ९९ ॥
न जगन्नाजगच्चास्ति विद्यते चित्परा शुभा ।
सर्वात्मिका यदा यत्र सा यथोदेति तत्तथा ॥ १०० ॥
उदेत्यनुदितोऽपि कः इत्यंशमुपपादयति - सर्वात्मिकेत्यादिना । सा चित् । यथा
यादृशप्राग्वासनानुगुण्येन उदेति सृष्टिप्रतिभात्मना आविर्भवति ॥ १०० ॥
उदेत्यनुदितोऽप्येष स्वयंवेदनजृम्भितः ।
परमात्माणुरेकात्मा समग्रात्मतयैव खे ॥ १०१ ॥
स्वयंवेदनेन स्वात्मरूपेण सर्गप्रतिभासेन जृम्भितो बृंहितः
जृम्भितोऽपि खे निष्प्रपञ्चस्वरूपाकाशे एकात्मा सन् समग्रात्मतयैवास्ते
इत्यर्थः ॥ १०१ ॥
द्रुमो भूमौ स्वबीजत्वमिवोदेत्यनुदेत्यपि ।
परं तत्त्वं जगद्भङ्ग्या जगत्तां स्वोदयेन च ॥ १०२ ॥
तत्र दृष्टान्तमाह - द्रुम इति । यथा वृक्षो बीजानि जनयन्
वृक्षस्वभावं अनुत् अनपनयन्स्वबीजत्वं उदेति ततो भूमौ एति प्राप्नोत्यपि
तथा परं तत्त्वमपि जगद्भङ्ग्या उदेति तथा स्वोदयेन जगत्तां
जन्ममरणादिकल्पनां च एति प्राप्नोतीत्यर्थः ॥ १०२ ॥
द्रुमो बीजतयैवाशु न सन्त्यक्तसमस्थितिः ।
तिष्ठत्यपगतस्पन्दस्त्यागात्यागपरोऽणुकः ॥ १०३ ॥
एतावांस्तु विशेषो यत् द्रुमो बीजतयैव सन्त्यक्ता समस्थितिर्येन तथाविधो
विकारी न किन्तु वृक्षतयापि । उभयात्मना विकारवैषम्यदर्शनात् ।
आत्माणुकस्तु त्यागात्यागपरः असङ्गाद्वितीयत्वात्सर्वत्यागपरः ।
सर्वानुगतसद्रूपत्वाच्च सर्वात्यागपरश्च सन् अपगतस्पन्दो निर्विकारः एव
सदा तिष्ठतीत्यर्थः ॥ १०३ ॥
बिसतन्तुर्महामेरुः परमाणोरपेक्षया ।
दृश्यं किल विशेत्तन्तुरदृश्याक्ष्णा पराणुता ॥ १०४ ॥
बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया इत्यस्योत्तरमाह - बिसतन्तुरिति ।
परमाणोरपेक्षया स्थूलत्वादिति शेषः । तत्र युक्तिमाह - दृश्यमिति ।
भावप्रधानो निर्देशः । दृग्गोचरतां विशेदाविशेत् ॥ १०४ ॥
बिसतन्तुर्महामेरुः परमाणोः किलात्मनः ।
तस्यैव तद्घनाः स्वान्तः स्थिता मेर्वादिकोटयः ॥ १०५ ॥
दृष्टान्तोक्तं दार्ष्टान्तिकेऽप्युपपादयन् तस्य कस्योदरे सन्ति
मेरुमन्दरकोटयः इत्यस्योत्तरमाह - बिसतन्तुरिति ।
परमाणोरप्यान्तरस्यात्मनो ब्रह्मणोऽपेक्षया बिसतन्तुरपि मेरुस्तस्यैव
स्वान्तस्तद्घनाश्चिद्घनाः परमार्थस्वभावा मेरुमन्दरकोटयः स्थिताः ॥
१०५ ॥
एकेन तेन महता परमाणुना च
व्याप्तं ततं विरचितं जनितं कृतं च ।
दृश्यं प्रपञ्चरचितं नभसेव विश्वं
शून्यत्वमच्छमभितः परिलब्धमेव ॥ १०६ ॥
विरचितं जनितं कृतं चेति चतुर्धा उत्तरम् । अपञ्चीकृतभूतात्मना ततम्
पञ्चीकरणेन ब्रह्माण्डभुवनात्मना विरचितम् तत्र देवनरासुरतिर्यग्भेदेन
जनितम् । तेषां भोगाय तत्तद्विषयभेदेन कृतं चेत्यर्थः । यथा नभसा
गन्धर्वनगरादि दृश्यं नाना वैचित्र्यप्रपञ्चेन रचितमपि अभितः अच्छं
शून्यत्वं आकाशैकस्वभावतां परिलब्धमेव तद्वदित्यर्थः । एतेन किंसार
एव परिवल्गसि पासि हंसि इत्येतदपि विश्वान्तर्गतत्वात्तत्सार
एवेत्यर्थात्समाहितमेव ॥ १०६ ॥
प्। ३३०) २००
द्वैतेन सुन्दरतरं स्वमनुज्झितेन
रूपं सुषुप्तसदृशेन यथावबोधात्
ऐक्यं गतं स्थितिगमागममुक्तमेव-
मित्थं स्थितं तनु जगत्परमार्थपिण्डः ॥ १०७ ॥
किन्दर्शनेन न भवस्यथ वा सदैव नूनं भवसि इत्यस्योत्तरमाह -
द्वैतेनेति । यदा
यथास्थितात्मतत्त्वावबोधाच्चित्सम्भिन्नजडाविद्यामात्ररूपत्वात्सुषुप्तसदृस्
हेन स्वकालेऽपि सत्तास्फूर्तिव्यवहारसिद्धये सच्चिदानन्दैकरसत्वत्सुन्दरतरं
स्वं रूपमधिष्ठानात्मतत्त्वमनुज्झितेनात्यक्तवता [अत्यक्तवता इति
क्वचिन्न पठ्यते] द्वैतेन स्थितिगमागमैः
सत्ताक्रियातन्निवृत्तिभिर्मुक्तमैक्यं गतं प्राप्तं तदा तनु क्षुद्रं
जगदित्थं परमार्थपिण्ड एव स इत्थं ब्रह्मैकस्वाभाव्येन स्थितमिति
संसाररूपो न भवामि सदैवाद्वितीयब्रह्मैकरूपश्च भवामीत्यर्थः ॥ १०७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क०
परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः ॥ ८१ ॥
इति श्रीवसिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः ॥ ८१ ॥