अशीतितमः सर्गः ८०
श्रीवसिष्ठ उवाच ।
महानिशि महारण्ये महाराक्षसकन्यया ।
इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ ॥ १ ॥
समादधेऽत्र प्रथमं मन्त्री प्रश्नगणान्क्रमात् ।
व्युत्क्रमाच्च यथान्यायं सूक्ष्माभिरुपपत्तिभिः ॥ १ ॥
गिरं वक्ष्यमाणप्रतिज्ञानलक्षणाम् ॥ १ ॥
मन्त्र्युवाच ।
शृणु तोयदसङ्काशे प्रश्नमेतं भिनद्मि ते ।
अनुक्रमात्मकं मत्तं गजेन्द्रमिव केसरी ॥ २ ॥
प्रश्नं प्रश्नगणं भिनद्मि उपपत्तिभिर्विदारयामि ॥ २ ॥
भवत्या परमात्मैष कथितः कमलेक्षणे ।
अनयैव वचोभङ्ग्या प्रश्नविद्बोधयोग्यया ॥ ३ ॥
सर्वान्प्रश्नान् शिथिलीकर्तु सर्वप्रश्नहृदयं तावत्प्रथमं दर्शयति ##-
अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः ।
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥ ४ ॥
कस्याणोरम्बुधेरिवेति
प्रथमप्रश्नविशेष्येऽणुशब्दप्रयोगस्याभिप्रायमुद्घाटयति -
अनाख्यत्वादिति । तथाच अणुः पन्था विततः पुराणः इत्यादिश्रुतिषु प्रसिद्ध इति
भावः ॥ ४ ॥
चिदणोः परमस्यान्तः सदिवासदिवापि वा ।
बीजेऽन्तर्द्रुमसत्तेव स्फुरतीदं जगत्स्थितम् ॥ ५ ॥
अन्तर्ब्रह्माण्डलक्षाणीति पृष्टांशं दर्शयति - चिदणोरिति । एतेन अणौ
जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः इति प्रश्नोऽप्युत्तरितः ॥ ५ ॥
सत्किञ्चिदनुभूतित्वात्सर्वात्मकतया स्वतः ।
तदात्मकतया पूर्वं भावाः सत्तां किलागताः ॥ ६ ॥
सदिवासदिवापि वा इत्युक्त्या सूचितं सत्तायाः कः स्वभावद इति
प्रश्नस्योत्तरमाह - सत्किञ्चिदिति । सर्ववस्तुसत्ताया
अनुभवसत्ताधीनत्वात्तत्सत्ताया
अन्याधीनत्वेऽनवस्थापातात्स्वतःसिद्धसत्ताकानुभवादेव सर्वे भावाः सत्तां
प्राप्ता इत्यर्थः ॥ ६ ॥
आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।
अतीन्द्रियत्वान्नो किञ्चित्स एवाणुरनन्तकः ॥ ७ ॥
किमाकाशमनाकाशम् इति प्रश्नतात्पर्यमुद्घाटयति - आकाशमिति । न
किञ्चित्किञ्चिदेव किम् इति प्रश्नोत्तरमाह - अतीन्द्रियत्वादिति । नेन्द्रियगम्यं
किञ्चिदेव यत्तदित्यर्थः ॥ ७ ॥
सर्वात्मकत्वाद्भुक्ते च तेन किञ्चिन्न किञ्चन ।
चिदणोः प्रतिभा सा स्यादेकस्यानेकतोदिता ।
असत्येव [असत्येवापि सत्येव हेम्नः कटकता यथा इति क्वाचित्कः
पाठः] यथा हेम्नः कटकादि तथा परे ॥ ८ ॥
यदि तु किञ्चिदपि न किञ्चिद्यदात्मभावे तदिति प्रश्नार्थस्तदाप्याह -
सर्वात्मकत्वादिति । स्वस्यैव सर्वात्मकत्वात्स्वात्मनैव साक्षात्कृतेन
सर्वस्मिन्भुक्ते निगीर्णे सति तदेव किञ्चित् । न किञ्चनात्मना परिशिष्यत इत्याशय
इत्यर्थः । एकस्यानेकसङ्ख्यस्येति प्रश्नोपक्रमाभिप्रायमाह - चिदणोरिति ।
एकस्यैव चिदणोस्त्वदुदितानेकताप्रतिभामात्र प्रातीतिकी न वास्तवीत्यर्थः । एतेन
कटकादीनि हेम्नेवेति प्रश्नोऽप्युक्तप्राय एवेत्याशयेनाह - यथा हेम्न इति ॥
८ ॥
एषोऽणुः परमाकाशः सूक्ष्मत्वादप्यलक्षितः ।
मनःषष्ठेन्द्रियातीतः स्थितः सर्वात्मकोऽपि सन् ॥ ९ ॥
कोऽणुस्तमःप्रकाशः स्यात् इत्यादिप्रश्नेषु पुनःपुनरणुशब्दप्रयोगस्यापि
प्रागुक्त एवाभिप्राय इत्याह - एषोऽनुरिति ॥ ९ ॥
सर्वात्मकत्वान्नैवासौ शून्यो भवति कर्हिचित् ।
यदस्ति न तदस्तीति वक्ता मन्ता इति स्मृतः ॥ १० ॥
कोऽणुरस्ति च नास्ति च इति प्रश्ने नास्ति चेत्यंशो बाधित एवेति दूषयति -
सर्वात्मकत्वादित्यादिना । कथं बाधितस्तत्राह - यदस्तीति ।
यद्यस्माद्धेतोस्तदस्ति नास्तीति च वक्ता मन्ता च पुरुषः स आत्मैवेति
वक्तृमन्त्रादिरूपेण स्मृतः प्रसिद्धः । तथाच
स्वात्मापलापायोगान्नास्तितास्य न घटत एवेत्यर्थः ॥ १० ॥
कयाचिदपि युक्त्येह सतोऽसत्त्वं न युज्यते ।
सर्वात्मा स्वात्मगुप्तेन कर्पूरेणेव दृश्यते ॥ ११ ॥
सतोऽसत्त्वविरोधादपि न युक्तमिदमित्याह - कयाचिदपीति । यद्यस्त्येव तर्हि
कुतो न दृश्यत इत्याशङ्क्य निष्कृष्टरूपेणादर्शनेऽपि
सर्वानुगतसद्रूपेणापिधानगुप्तेनापि कर्पूरेण स्वगन्धात्मनेव दृश्यत
एवेत्याह - सर्वात्मेति । स्वात्मना प्रत्यग्रूपेण गुप्तेन छन्नेन सर्वात्मा
सर्वानुगतसदात्मा दृश्यत इत्यर्थः ॥ ११ ॥
चिन्मात्राणु स एवेह सर्वं किञ्चिन्मनःस्थितम् ।
न किञ्चिदिन्द्रियातीतरूपत्वादमलः स्थितः ॥ १२ ॥
कः सर्व न च किञ्चिच्च इत्यस्योत्तरमाह - चिन्मात्राणुरिति । नन्वपरिच्छिन्नं
कथं परिच्छिन्नसर्वरूपं तत्राह - किञ्चिदिति । मन
इन्द्रियवृत्तिभिर्नानात्मताप्रत्ययात्किञ्चिन्मनःपरिच्छिन्नरूपेणैव
सर्वमित्यर्थः । अत एव मन इन्द्रियाद्यपरिच्छिन्नस्वाभाविकरूपेण न
किञ्चिदपीत्याशयेन त्वया तथोक्तमित्याह - न किञ्चिदिति ॥ १२ ॥
प्। ३२१) १९४
स एव चैकोऽनेकश्च सर्वसत्त्वात्मवेदनात् ।
स एवेदं जगद्धत्ते जगत्कोशस्तथैव हि ॥ १३ ॥
एतदभिप्रायेण वा तव एकस्यानेकसङ्ख्यस्येत्युपक्रम इत्याह - स एवैक इति
। नित्यं समस्य कस्यान्तः इति प्रश्नस्य को जगद्रत्नकोशः स्यात् इत्यस्य
चोत्तरमाह - स एवेति ॥ १३ ॥
इमाश्चित्तमहाम्भोधौ त्रिजगल्लववीचयः ।
प्रज्ञास्तस्मिन्कचन्त्यप्सु द्रवत्वाच्चक्रता इव ॥ १४ ॥
कस्मान्न किञ्चिच्च पृथगूर्म्यादीव महाम्भसः इत्यस्योत्तरमाह - इमा
इति । चित्तात्मना महाम्भोदिवद्विकारिणि । प्रज्ञाश्चित्तविकल्पमात्ररूपाः । एतेन
कस्येच्छया पृथक्चास्तीत्येतदपि समाहितमेव ॥ १४ ॥
चित्तेन्द्रियाद्यलभ्यत्वात्सोऽणु शून्यस्वरूपवत् ।
स्वसंवेदनलभ्यत्वादशून्यं व्योमरूप्यपि ॥ १५ ॥
दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः इति
शून्याशून्योभयात्मतोक्तेस्तात्पर्यमाह - चित्तेन्द्रियादिति ॥ १५ ॥
सोऽहं भवानेव भवान्सम्पन्नोऽद्वैतवेदनात् ।
स भवान्न भवेन्नाहं जातो बोधबृहद्वपुः ॥ १६ ॥
को भवानेव सम्पन्नः इत्यस्योत्तरमाह - सोऽहमिति । अहमद्वैतवेदनात्स
आत्मैव सम्पन्नः सन् भवान् त्वदात्मैव भवान्स सम्पन्नः अहमेव । इदमपि
अहन्ताभवत्ताप्रतिसन्धानव्यवहारे अव्यवहारदृशा तु स आत्मा न
भवान्नाहं च किन्तु बोधबृहद्वपुरेव जातः प्रादुर्भूत इत्यर्थः ॥ १६ ॥
त्वन्ताहन्तात्मकं सर्वं विनिगीर्यावबोधतः ।
न त्वं नाहं न सर्वं च सर्वं वा भवति स्वयम् ॥ १७ ॥
उक्तार्थमेव स्फुटमाह - त्वन्तेति ॥ १७ ॥
गच्छन्न गच्छत्येषोऽणुर्योजनौघगतोऽपि सन् ।
संवित्त्या योजनौघत्वं तस्याणोरन्तरे स्थितम् ॥ १८ ॥
गच्छन्न गच्छति च कः इत्यस्योत्तरमाह - गच्छन्निति । योजनौघगत
आकाशवद्योजनौघव्याप्यपि सन् । संवित्त्या स्वप्न इव कल्पनया ॥ १८ ॥
न गच्छत्येष यातोऽपि सम्प्राप्तोऽपि च नागतः ।
स्वसत्ताकाशकोशान्तर्वासित्वाद्देशकालयोः ॥ १९ ॥
को तिष्ठन्नपि तिष्ठति इत्यस्योत्तरमपि तयैव दिशा आह - न गच्छतीति ॥ १९ ॥
गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि ।
कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते ॥ २० ॥
उक्तमुभयं दृष्टान्तेनोपपादयति - गम्यमित्यादिना । गम्यं गमनेन
प्राप्तव्यं देशान्तरम् ॥ २० ॥
गम्यो यस्य महादेशो यावत्सम्भवमक्षयः ।
अन्तस्थः सर्वकर्तुर्हि स कथं क्वेव गच्छति ॥ २१ ॥
यथा देशान्तरप्राप्ते कुम्भे वक्रसमुद्रिते ।
तदाकाशस्य गमनागमने न तथात्मनः ॥ २२ ॥
स्फुटं दृष्टान्तान्तरमाह - यथेति । वक्रसमुद्रिते बद्धमुखे
गमनागमने न स्तस्तथेत्यर्थः ॥ २२ ॥
चित्तता स्थाणुता स्वान्तर्यदा स्तोऽनुभवात्मिके ।
चेतनस्य जडस्यैव तदासौ द्वयमेव च ॥ २३ ॥
कश्चेतनोऽपि पाषाणः इत्यस्य प्रश्नस्य यदि चिद्रूपो जडरूपश्चेति
विरुद्धोभयात्मक इत्यर्थस्तदाह - चित्ततेति । यदा जडस्यैव
देहादेरात्मतादात्म्याध्यासाच्चेतनस्य चित्तता प्रकाशस्वभावता स्थाणुता
जडता चानुभवात्मिके स्वानुभवसाक्षिके स्तस्तदासावविमर्शाद्द्वयं
जडबोधोभयरूपो भवत्येवेत्यर्थः ॥ २३ ॥
यदा चेतनपाषाणसत्तैकात्मैकचिद्वपुः ।
तदा चेतन एवासौ पाषाण इव राक्षसि ॥ २४ ॥
यदा तु चेतनोऽपि पाषाण इव घनरूपः क इति प्रश्नार्थस्तदा
पारमार्थिकमात्मरूपमेव चिद्घनं स इत्याह - यदा चेति ॥ २४ ॥
परमव्योम्न्यनाद्यन्ते चिन्मात्रपरमात्मना ।
विचित्रं त्रिजगच्चित्रं तेनेदमकृतं कृतम् ॥ २५ ॥
कश्चिद्व्योम्नि विचित्रकृत् इत्यस्योत्तरमाह - परमव्योम्नीति ।
मिथ्यात्वादकृतमेव कृतम् ॥ २५ ॥
तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः ।
सर्वगोऽप्यदहत्येव स जगद्द्रव्यपावकः [स सर्वद्रव्यपावकः इति
पाठः साधुः] ॥ २६ ॥
वह्नितामजहच्चैव कश्च वह्निरदाहकः इत्यस्योत्तरमाह - तत्संवित्त्येति ।
आत्मसत्ताया एव वह्निसत्तात्वे तस्याः सर्वगतत्वात्सर्वगोऽपि सः अदहति न
दहत्येव । अमानोनाः प्रतिषेधे इति नञर्थको निपातोऽकारः । नैतावता स
सर्वगतो नेति मन्तव्यम् । यतः स सर्वद्रव्याणां पावक इव प्रकाशक
इत्यर्थः ॥ २६ ॥
प्रज्वलद्भास्वराकारान्निर्मलाद्गगनादपि ।
प्रज्वलच्चेतनैकात्मा तस्मादग्निः स जायते ॥ २७ ॥
अवह्नेर्जायते वह्निः कस्मादिति प्रश्नस्योत्तरमाह - प्रज्वलदिति ॥ २७ ॥
संवेदनाद्यदर्कादिप्रकाशस्य प्रकाशकः ।
न नश्यत्यात्मभारूपो महाकल्पाम्बुदैरपि ॥ २८ ॥
अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः इत्यस्योत्तरमाह -
संवेदनादिति ॥ २८ ॥
अनेत्रलभ्योऽनुभवरूपो हृद्गृहदीपकः ।
सर्वसत्ताप्रदोऽनन्तः प्रकाशः परमः स्मृतः ॥ २९ ॥
अनेत्रलभ्यात्कस्माच्च प्रकाशः सम्प्रवर्तते इत्यस्योत्तरमाह - अनेत्रलभ्य
इति ॥ २९ ॥
प्रवर्ततेऽस्मदालोको मनःषष्ठेन्द्रियातिगात् ।
येनान्तरापि वस्तूनां दृष्टा दृश्यचमत्कृतिः ॥ ३० ॥
तस्य स्वयञ्ज्योतिष्ट्वमनुभावयति - प्रवर्तत इति ।
अस्मदालोकोऽहङ्कारादिप्रथा मनःषष्ठेन्द्रियातिगादात्मनः
सकाशात्प्रवर्तते । यथा गाढान्धकारस्थितोऽपि त्वं क्वासीति
पृष्ठोऽहमिहास्मीति वक्ति । येन हेतुना अन्तरा आलोकदीपादिकमिति शेषः ।
वस्तूनां स्वदेहेन्द्रियादीनां विषये दृश्यचमत्कृतिरपरोक्षप्रथा
दृष्टा । सर्वानुभवप्रसिद्धेति यावत् ॥ ३० ॥
प्। ३२२) १९५
लतागुल्माङ्कुरादीनामनक्षाणां च पोषकः ।
उत्सेधवेदनाकारः प्रकाशोऽनुभवात्मकः ॥ ३१ ॥
लतागुल्म इत्यादिप्रश्नस्योत्तरमाह - लतेति । पोषकः स्वसन्निधानेन
वृद्धिनिमित्तम् । उत्सेधस्य च तत्फलस्य वेदनमेव आकारो यस्य तत्साक्षिणः ॥
३१ ॥
कालाकाशक्रियासत्ता जगत्तत्रास्ति वेदने ।
स्वामी कर्ता पिता भोक्ता आत्मत्वाच्च न किञ्चन ॥ ३२ ॥
जनकः कोऽम्बरादीनाम् इत्यस्योत्तरमाह - कालाकाशेति । व्यवहारदृशा
चेदं परमार्थदृशा त्वाह - आत्मत्वादिति ॥ ३२ ॥
अणुत्वमजहत्सोऽणुर्जगद्रत्नसमुद्गकः ।
मातृमानप्रमेयात्म जगनास्तीति केवले ॥ ३३ ॥
को जगद्रत्नकोशः स्यात् इत्यस्योत्तरं पुनराह - अणुत्वमिति । समुद्गकः
सम्पुटकः । कस्य कोशी मणेर्जगत् इत्यस्योत्तरमाह - मात्रित्यादिसार्धेन ॥
३३ ॥
स एव सर्वजगति सर्वत्र कचति स्फुटम् ।
यदा जगत्समुद्रेऽस्मिंस्तदासौ [जगत्समुद्रे इति पाठः] परमो
मणिः ॥ ३४ ॥
दुर्बोधत्वात्तमः सोऽणुश्चिन्मात्रत्वात्प्रकाशदृक् ।
सोऽस्ति संवित्तिरूपत्वादक्षातीतस्तथा न सन् ॥ ३५ ॥
कोऽणुस्तमःप्रकाशः स्यात् इत्यस्योत्तरमाह - दुर्बोधत्वादिति । कोऽणुरस्ति च
नास्ति च इत्यस्योत्तरमाह - सोऽस्तीति ॥ ३५ ॥
दूरे सोऽनक्षलभ्यत्वाच्चिद्रूपत्वान्न दूरगः ।
सर्वसंवेदनाच्छैलो ह्यसावेवाणुरेव सन् ॥ ३६ ॥
कोऽणुर्दूरेऽप्यदूरे च इत्यस्योत्तरमाह - दूरे स इति । कोऽणुरेव महागिरिः
इत्यस्योत्तरमाह - सर्वसंवेदनादिति । विनैव करणं सर्वैरप्यहमहमिति
पुरोवर्तिशैल इवापरोक्षतया संवेदनादिति त्वयोक्त इत्यर्थः ॥ ३६ ॥
तत्संवेदनमात्रं यत्तदिदं भासते जगत् ।
न सत्यमस्ति शैलादि तेनाणावेव मेरुता ॥ ३७ ॥
तत्राणुरेव सन् इत्यंशस्य तात्पर्यमाह - तत्संवेदनेति ॥ ३७ ॥
निमेषप्रतिभासो [निमेषकृतिभासः इति पाठः] हि निमेष इति
कथ्यते ।
कल्पेति प्रतिभासो हि कल्पशब्देन कथ्यते ॥ ३८ ॥
निमेष एव कः कल्प इत्यस्योत्तरमाह - निमेषेत्यादिनवभिः ॥ ३८ ॥
कल्पक्रियाविलासो हि निमेषः प्रतिभासते ।
बहुयोजनकोटिस्थं मनस्येव महापुरम् ॥ ३९ ॥
उक्तार्थमुपपादयति - कल्पेति । निमेष एव कल्पे यावन्त्यः क्रियास्तैर्विलसतीति
कल्पक्रियाविलासः प्रतिभासत इत्यर्थः । अल्पान्तर्विस्तृतस्य प्रतिभासे
दृष्टान्तमाह - वह्विति ॥ ३९ ॥
निमेषजठरे कल्पसम्भवः समुदेति हि ।
महानगरनिर्माणं मुकुरेऽन्तरिवामले ॥ ४० ॥
तदसम्भावनावारणाय दृष्टान्तान्तरमाह - निमेषेति । मुकुरे दर्पणे
॥ ४० ॥
निमेषकल्पशैलादिपूरयोजनकोटयः ।
यत्राऽणावेव विद्यन्ते तत्र द्वैतैक्यते कुतः ॥ ४१ ॥
निमेषाः कल्पाः शैलादिपूरा योजनकोटयश्च स्वसत्यत्वे विरोधादाश्रय
भेदका यत्राऽणावतिसूक्ष्मेऽपि विद्यन्ते मिथ्यात्वमालम्ब्य समाविशन्ति तत्र
द्वैतैक्ययोरपि तथैव मिथ्यात्वेनैव समावेशादित्यर्थः ॥ ४१ ॥
कृतवान्प्रागिदमहमिति बुद्धावुदेति हि ।
क्षणात्सत्यमसत्यं च दृष्टान्तः स्वप्नविभ्रमः ॥ ४२ ॥
सत्यं व्यावहारिकमसत्यं प्रातिभासिकं च ॥ ४२ ॥
दुःखे कालः सुदीर्घो हि सुखे लघुतरः सदा ।
रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता ॥ ४३ ॥
उक्तेऽर्थे लोकानुभवमाख्यायिकां चोदाहरति - दुःख इति । उदिता आविर्भूता ॥
४३ ॥
निश्चयो य उदेत्यन्तः सत्यात्मा सत्य एव च ।
हेम्नीव कटकादित्वं स एव चिति राजते ॥ ४४ ॥
चित्तवृत्त्यनुसारेणैव चितः प्रतिभासो न वस्तुवृत्तानुसारेणेत्याह -
निश्चय इति ॥ ४४ ॥
न निमेषोऽस्ति नो कल्पो नादूरं न च दूरता ।
चिदणुप्रतिभैवैवं स्थितान्यान्यान्यवस्तुवत् [नान्यान्यवस्तुवत् इति
पाठः] ॥ ४५ ॥
किं तर्हि वस्तुवृत्तं तदाह - नेति ॥ ४५ ॥
प्रकाशतमसोर्दूरादूरयोः क्षणकल्पयोः ।
एकचिद्देहयोरेव न भेदोऽस्ति मनागपि ॥ ४६ ॥
एवमन्येष्वपि विरुद्धेष्वधिष्ठानचिदभेदादेव भेदो नेत्याह -
प्रकाशेति ॥ ४६ ॥
प्रत्यक्षमक्षसारत्वादप्रत्यक्षं ततोऽतिगम् ।
दृश्यत्वेनैष वोदेति चेता द्रष्टैव सद्वपुः ॥ ४७ ॥
किं प्रत्यक्षमसद्रूपम् इति प्रश्नस्योत्तरमाह - प्रत्यक्षमिति । अक्षाणां
बाह्यान्तरकरणानां सारत्वात्स्वस्वविषयापरोक्षप्रथानिर्वाहकत्वात् ।
ततोऽतिगं तदविषयः । अथवा
प्रत्यक्षादिप्रमाणगम्यदृश्यारोपेणोदयादप्यस्य प्रत्यक्षत्वमित्याह ##-
प्रत्यक्ष इत्यर्थः ॥ ४७ ॥
यावत्कटकसंवित्तिस्तावनास्तीव हेमता ।
यावच्च दृश्यतापत्तिस्तावन्नास्तीव सा कला ॥ ४८ ॥
यदि स एव दृश्यात्मा तर्हि कुतो दृश्यस्य हेयता तत्राह - यावदिति । सा
कला वास्तवी चिदेकरसता । तथाच न दृश्यरूपेण परमपुरुषार्थतेति
हेयत्वमिति भावः ॥ ४८ ॥
कटकत्वेऽकृतेऽदृष्टे सुवर्णत्वमिवाततम् ।
केवलं निर्मलं शुद्धं ब्रह्मैव परिदृश्यते ॥ ४९ ॥
अत एव दृश्यात्मना अकल्पने कल्पितस्य वा अदर्शने तस्य
ब्रह्मरूपत्वात्पुरुषार्थतेत्याशयेनाह - कटकत्वे इति । अकृते अदृष्टे चेति
च्छेदः ॥ ४९ ॥
सर्वत्वादेव सद्रूपो दुर्लक्ष्यत्वादसद्वपुः ।
चेतनश्चेतनात्मत्वाच्चेत्यासम्भवतस्त्वचित् ॥ ५० ॥
असद्रूपमिति प्रश्नांशाशयमाह - सर्वत्वादिति । सर्वानुविद्धसद्रूपेण
प्रथनात्सद्रूपः । निष्कृष्टरूपेण दुर्लक्ष्यत्वाच्चासद्वपुरसद्रूपः । असद्वा
इदमग्र आसीत्ततो वै सदजायत इति श्रुतौ तथा व्यवहारदर्शनादित्याशयः ।
किं चेतनमचेतनम् इति प्रश्नोत्तरमाह - चेतन इति । अचित् अचेतन
इत्युक्तस्त्वयेत्यर्थः ॥ ५० ॥
प्। ३२३) १९५
चिच्चमत्कारमात्रात्मन्यस्मिंश्चित्प्रतिभात्मनि ।
जगत्यनिलवृक्षाभे चिच्चेत्यकलने कुतः ॥ ५१ ॥
चेत्याभावमुपपादयति - चिच्चमत्कारेत्यादिना । चित्प्रतिभात्मनि
चित्प्रतिभारूपे अनिललोलितवृक्षवदस्थिरे अनिलमयवृक्षवदत्यन्तासति च ।
चिच्चेत्यकलने चैतन्याश्रयविषयताकल्पने ॥ ५१ ॥
यथा तापस्य पीनस्य भासनं मृगतृष्णिका ।
एवं पीवरमद्वैतं तथा चिद्भासनं जगत् ॥ ५२ ॥
चिच्चमत्कारमात्रे दृष्टान्तमाह - यथेति । तापस्य आतपस्य । पीनस्य
प्रचुरस्य ॥ ५२ ॥
अर्कांशुभिः सूक्ष्मतरनिर्माणं यदनामयम् ।
अस्तितानास्तिते तत्र कल्पादेरिव कैव धीः ॥ ५३ ॥
यथा अर्करश्मिभिर्वक्ष्यमाणकाञ्चनादिनिर्माणं तत्र निर्माणे अस्तितानास्तिते
ब्राह्मकल्पादिरूपस्य जगत इवेत्यसत उपमाभूतस्य असत्त्वं स्फुटमेव ।
एवञ्च चिच्चेत्यभेदधीः कैव । निर्विषयेत्यर्थः ॥ ५३ ॥
माययांशुकणाङ्के खे यथा कचति काञ्चनम् ।
तथा जगदिदं भाति चिच्चेत्यकलने कुतः ॥ ५४ ॥
मायया अविद्यया यथा अंशुकणाङ्के सूर्यांशुलेशाञ्चिते खे आकाशे
काञ्चनं कचति प्रथते ॥ ५४ ॥
स्वप्नगन्धर्वसङ्कल्पनगरे कुड्यवेदनम् ।
न सन्नासद्यथा तद्वद्विद्धि दीर्घभ्रमं जगत् ॥ ५५ ॥
तथा चैवंविधन्यायभावनाभ्यासनिर्मलात् ।
चिदाकाशेन निर्याति यथा भूतार्थदर्शिनः ॥ ५६ ॥
अस्त्वेवं जगद्भ्रान्तिसिद्धं किं ततस्तत्राह - तथाचेति । तथाच
एवंविधानां मिथ्यात्वोपपादकन्यायानां
पुनःपुनर्भावनालक्षणेनाभ्यासेन निर्मलान्मनसो यथाभूतार्थदर्शिनः
पारमार्थिकं ब्रह्म दृष्टवतः पुंसोऽविद्यानाशे सति चिदाकाशे पुनः
संसारो न निर्याति पुनरावृत्तिर्नास्तीति सिद्धमित्यर्थः । अथवा
न्यायपरिष्कृततत्त्वदृशा सृष्टिरेव नाभूदित्यर्थः ॥ ५६ ॥
न कुड्याकाशयोर्भेदो दृश्यसंवेदनादृते ।
आब्रह्मजीवकलनाद्यद्रूढं रूढमेव च ॥ ५७ ॥
अथवा विषयरूपभेदकसंवेदनमेदादेव भिन्नमिव न वस्तुतस्तथैव
आब्रह्मस्तम्बपर्यन्तनिरूढजीवानुभवादित्याह - नेति ॥ ५७ ॥
प्रतिभासाच्चिदाकाशे सत्त्वशून्यं भवन्ति ताः ।
प्रकचन्ति ह्यनिर्भाव्याः प्रभापिण्ड इव प्रभाः ॥ ५८ ॥
यदि न भेदस्तर्हि कथं कुड्यादिभेदकलना जायन्ते तत्राह - प्रतिभासादिति
। ताः कलनाः सत्त्वशून्यं यथा स्यात्तथा भवन्तीत्यर्थः । अत्यन्तासत्त्वे
खपुष्पवद्भानानुपपत्तेराह - अनिर्भाव्या इति । यौक्तिकदृशा
अनिर्वचनीया इत्यर्थः ॥ ५८ ॥
पृथक्तामतिभासस्य स्वचमत्कारयोगतः ।
सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत् ॥ ५९ ॥
एवं सोपपत्ति प्रासङ्गिकं किं चेतनमचेतनम् इति प्रश्नोत्तरमुक्त्वा
शिष्टानां प्रश्नानामुत्तरं राजार्थे
परिशेषयंस्तदज्ञानशङ्कानिवृत्तये तेष्ववयुत्य द्वित्राणामुत्तरं
विवक्षुर्द्वैतमिथ्यात्वोपवर्णनप्रसञ्जितं द्वैतमप्यपृथक्कस्मात्
इत्यस्योत्तरमाह - पृथक्तेति । पृथक्तासंस्कारसंस्कृताया
मतेर्बुद्धिवृत्तेर्यो भासोऽन्तर्गत आत्मप्रकाशस्तस्य यः स्वचमत्कारः
पृथक्ताप्रकटनशक्तिलक्षणस्तद्योगतो द्वैतं प्रतिभातमपि
अपृथगेवेत्यर्थः । तत्र हेतुमाह - सर्वात्मिकेति । प्रतिभा आत्मप्रकाशः ॥
५९ ॥
बीजमन्तस्थवृक्षत्वं नानाऽनाना यथैकदृक् ।
तथाऽसङ्ख्यजगद्ब्रह्म शान्तमाकाशकोशवत् ॥ ६० ॥
वृक्षात्मबीजवदिति दृष्टान्तं विवृण्वन् कोऽन्तर्बीजमिवान्तस्थं स्थितः
कृत्वा त्रिकालगः इत्यस्योत्तरमाह - बीजमिति । एकदृक् एकरूपं बीजं नाना
पृथग्भूतं अनाना अपृथग्भूतं च अन्तस्थवृक्षत्वं
अन्तर्गतवृक्षाकारं कृत्वा स्थितं तथा ब्रह्माप्यसङ्ख्यजगदित्यर्थः ॥
६० ॥
बीजस्यान्तस्थवृक्षस्य व्योमाद्वैता स्थितिर्यथा ।
ब्रह्मणोऽन्तस्थजगतः साक्षित्वाच्चित्स्थितिस्तथा ॥ ६१ ॥
आकाशकोशवदित्युक्तेस्तात्पर्यं स्फुटयति - बीजस्येति । व्यधिकरणे
षष्ठ्यौ । बीजान्तर्गतवृक्षस्यातिसूक्ष्मत्वात्स्थितिर्यथा व्योमाद्वैता
आकाशतुल्या तथा ब्रह्मान्तर्गतजगतोऽप्यात्मसाक्षित्वात्तत्साक्षिणः
पृथगनुपलम्भाच्चिद्रूपेणैव स्थितिरिति
चितिभेदकाभावादाकाशकोशसाम्यमित्यर्थः ॥ ६१ ॥
शान्तं समस्तमजमेकमनादिमध्यं
नेहास्ति काचन कलाकलना कथञ्चित् ।
निर्द्वन्द्वशान्तमतिरेकमनेकमच्छ-
माभासरूपमजमेकविकासमास्ते ॥ ६२ ॥
एतावतैव सर्वप्रश्नानामुत्तरमुक्तप्रायमिति
सूचयन्सर्वप्रश्नपरमतात्पर्यविषयाद्वितीयचिन्मात्रपरमार्थस्थितिप्रदर्शन्
एनोपसंहरति - शान्तमिति । निर्द्वन्द्वैः शान्तमतिभिरेव रिच्यते
मायातत्कार्यमलनिरासेन परिशोध्यत इति निर्द्वन्द्वशान्तमतिरेकम् ।
अनेकमेकत्वाख्यगुणेनापि शून्यम् । एकमेव परितो निरङ्कुशं विकसति
बृहत्तमत्वादित्येकविकासम् । आभासरूपं चिन्मात्रमास्ते परमार्थत
इत्यर्थः । अजपदाभ्यां जन्मादिविकाराणां तद्वतां च निरासः ॥ ६२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषुत्पत्तिप्रकरणे क०
प्रश्नभेदनं नामाशीतितमः सर्गः ॥ ८० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे प्रश्नभेदनं
नामाशीतितमः सर्गः ॥ ८० ॥
प्। ३२४) १९६