०७९

एकोनाशीतितमः सर्गः ७९

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा राक्षसी प्रश्नान्सा वक्तुमुपचक्रमे ।
उच्यतामिति राज्ञोक्ते तानिमान्शृणु राघव ॥ १ ॥

अनात्मविद्वज्रसमानात्मविद्धृदयङ्गमान् ।
चक्रे द्विसप्ततिप्रश्नान्क्रमात्सर्गेऽत्र कर्कटी ॥ १ ॥

उच्यतामिति राज्ञा उक्ते अभ्यनुज्ञाते सति वा वक्तुमुपचक्रमे ॥ १ ॥

राक्षस्युवाच ।

एकस्यानेकसङ्ख्यस्य कस्याणोरम्बुधेरिव ।
अन्तर्ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव ॥ २ ॥

प्रश्नानामाशय उत्तरसर्गयोः स्फुटो भविष्यतीति नेहातिविस्तरः क्रियते ।
उपाधिभेदादनेकसङ्ख्यस्य दुर्लक्ष्यत्वादणोरपरिच्छेदाच्चाम्बुधेरिव ॥ २ ॥

किमाकाशमनाकाशं न किञ्चित्किञ्चिदेव किम् ।
कोऽहमेवासि सम्पन्नः को भवानप्यहं स्थितः ॥ ३ ॥

अनाकाशमशून्यम् । लौकिकप्रसिद्धं न किञ्चित्तत्त्ववित्प्रसिद्धं किञ्चिदेव ॥ ३

गच्छन्न गच्छति च कः कोऽतिष्ठन्नपि तिष्ठति ।
कश्चेतनोऽपि पाषाणः कश्चिद्व्योम्नि विचित्रकृत् ॥ ४ ॥

अतिष्ठन् गतिनिवृत्तिमकुर्वन् । पाषाण इव चैतन्यानाश्रयः ॥ ४ ॥

वह्नितामजहच्चैव कश्च वह्निरदाहकः ।
अवह्नेर्जायते वह्निः कस्माद्राजन्निरन्तरम् ॥ ५ ॥

अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः ।
अनेत्रलभ्यात्कस्माच्च प्रकाशः सम्प्रवर्तते ॥ ६ ॥

अविनाशः सन् प्रकाशकः ॥ ६ ॥

लतागुल्पाङ्कुरादीनां जात्यन्धानां तथैव च ।
अन्येषामप्यनक्षाणामालोकः क इवोत्तमः ॥ ७ ॥

अनक्षाणामनाविर्भूतेन्द्रियाणाम् ॥ ७ ॥

जनकः कोऽम्बरादीनां सत्तायाः कः स्वभावदः ।
को जगद्रत्नकोशः स्यात्कस्य कोशो मणेर्जगत् ॥ ८ ॥

स्वभावदः सत्ताप्रदः ॥ ८ ॥

कोऽणुस्तमःप्रकाशः स्यात्कोऽणुरस्ति च नास्ति च ।
कोऽणुर्दूरेऽप्यदूरे च कोऽणुरेव महागिरिः ॥ ९ ॥

निमेष एव कः कल्पः कः कल्पोऽपि निमेषकः ।
किं प्रत्यक्षमसद्रूपं किं चेतनमचेतनम् ॥ १० ॥

प्रत्यक्षं भासमानमपि मूढदृशा असद्रूपम् ॥ १० ॥

कश्च वायुरवायुश्च कः शब्दोऽशब्द एव कः ।
कः सर्वं न च किञ्चिच्च कोऽहं नाहं च किं भवेत् ॥ ११ ॥

किं प्रयत्नशतप्राप्यं लब्ध्वापि बहुजन्मनि ।
लब्धं न किञ्चिद्भवति किन्तु सर्वं न लभ्यते ॥ १२ ॥

प्राग् बहुजन्मनि स्वात्मत्वादेव
लब्ध्वाप्यज्ञानावृतत्वादलब्धप्रायत्वात्प्रयत्नशतप्राप्यम् । सर्व
पूर्णम् ॥ १२ ॥

स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः ।
केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम् ॥ १३ ॥

आत्मा स्वात्मैव केनापहारितो नाशितप्रायः कृतः । त्रिभुवनं तृणं
क्रियत इति पृथक्प्रश्नः ॥ १३ ॥

केनाप्यणुकमात्रेण पूरिता शतयोजनी ।
कोऽणुरेव भवन्माति न योजनशतेष्वपि ॥ १४ ॥

केनालोकनमात्रेण जगद्बालः प्रनाट्यते ।
कस्याणोरुदरे सन्ति किलावनिभृतां घटाः ॥ १५ ॥

प्रनाड्यते प्रनर्त्यते अनर्द्राटि इति णोपदेशपर्युदासान्न णः । घटाः
समूहाः ॥ १५ ॥

अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः ।
वालाग्रशतभागात्मा कोऽणुरुच्चैः शिलोच्चयः ॥ १६ ॥

शिलोश्चयः पर्वतनिभः ॥ १६ ॥

प्। ३१९) १९३

कोऽणु प्रकाशतमसां दीपः प्रकटनप्रदः ।
कस्याणोरुदरे सन्ति समग्रानुभवाणवः ॥ १७ ॥

अनुभवाणवो वृत्त्यवच्छिन्नज्ञानलवाः ॥ १७ ॥

कोऽणुरत्यन्तनिःस्वादुरपि संस्वदतेऽनिशम् ।
केन सन्त्यजता सर्वमणुना सर्वमाश्रितम् ॥ १८ ॥

निःस्वादुर्मधुरादिरसशून्यः । आश्रितं स्वीकृतमिति यावत् ॥ १८ ॥

केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् ।
जगल्लये न कस्याणोः सद्भूतमपि जीवति ॥ १९ ॥

लयेन तिरोहितमपि जगत्कस्याणोः सत्तया सद्भूतं पुनः सर्गे जीवत्यपि ॥ १९ ॥

अजातावयवः कोऽणुः सहस्रकरलोचनः ।
को निमेषो महाकल्पः कल्पकोटिशतानि च ॥ २० ॥

अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः ।
बीजानि निष्कलान्तानि स्फुटान्यनुदितान्यपि ॥ २१ ॥

जगन्ति अनुत्पन्नान्यपि प्रलये कस्मिंस्तिष्ठन्ति । सर्गकाले च निष्कलं
निरवयवमव्यक्तमन्तो बीजपरम्परावधिर्येषां तानि सर्वाणि बीजानि सर्गकाले
जगदात्मना स्फुटानि विकासितान्यपि कस्मिन्सदैवानुदितानि ॥ २१ ॥

कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः ।
कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः ॥ २२ ॥

एवङ्कल्पः प्रलयोऽपि कस्यान्तः स्थितः । प्रयोजनं तत्तत्कारकप्रवर्तनं तत्र
कर्तृत्वं अक्रियत्वात्कारकव्यापारयितृत्वमनाश्रित्यापि कः कारकः
कर्तेत्यर्थः । अथवा प्रयोजनकर्तृत्वं क्रियाफलनिष्पादकत्वम् ॥ २२ ॥

दृश्यसम्पत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् ।
दृश्यं पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवान् ॥ २३ ॥

दृश्यसम्पत्तये भोग्यसिद्धये । बहिर्दृशा दृश्यं पश्यन् ॥ २३ ॥

अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् ।
दृश्यासम्पत्तये पश्यन्पुरो दृश्यं न पश्यति ॥ २४ ॥

ज्ञानेनान्तर्गलितदृश्यं यथा स्यात्तथा पश्यन् ॥ २४ ॥

आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् ।
कटकादीनि हेम्नेव विकीर्णं केन च त्रयम् ॥ २५ ॥

आत्मानं द्रष्टारम् । दर्शनं वृत्तिम् ।
दृश्यवच्चक्षुर्दृश्यमिवापरोक्षं को भासयति । विकीर्ण विक्षिप्तं ।
विक्षेपशक्त्या प्रकटितमिति यावत् । तत्त्रयं द्रष्टा दर्शनं दृश्यम् ॥ २५ ॥

कस्मान्न किञ्चिच्च पृथगूर्म्यादीव महाम्भसः ।
कस्येच्छया पृथकास्ति वीचितेव महाम्भसः ॥ २६ ॥

दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः ।
द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः ॥ २७ ॥

असतः अस्थूलत्वादसत्कल्पात्सतः ॥ २७ ॥

आत्मानं दर्शनं दृश्यं सदसच्च [सदसच्च गतक्रमम् इति
पाठः] जगत्त्रयम् ।
कोऽन्तर्बीजमिवान्तस्थं कृत्वा त्रिकालगः ॥ २८ ॥

सदुद्भूतावस्थं असत्तिरोहितावस्थं च अन्तस्थं कृत्वा स्थितः त्रिकालगः
सदैवेत्यर्थः ॥ २८ ॥

भूतं भवद्भविष्यच्च जगद्वृन्दं बृहद्भ्रमम् ।
नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः ॥ २९ ॥

कस्यान्तर्नित्यमस्तीति शेषः ॥ २९ ॥

बीजं द्रुमतयेवाशु द्रुमो बीजतयेव च ।
स्वमेकमजहद्रूपमुदेत्यनुदितोऽपि कः ॥ ३० ॥

दृष्टान्तद्वयाद्दार्ष्टान्तिके विशेषमाह - स्वमेकमिति । अविकृत एवेति
यावत् । उदेति जगद्विकारात्मनेति शेषः ॥ ३० ॥

बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया ।
तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः ॥ ३१ ॥

यदपेक्षया यद्दार्ढ्यमपेक्ष्य महामेरुर्बिसतन्तुरत्यन्तादृढतम
इत्यर्थः । अथवा यस्यापेक्षया सङ्कल्पेन बिसतन्तुरपि महामेरुरिव दृढ
इत्यर्थः । तस्य तथाविधस्य वस्तुन उदरे अन्तः ॥ ३१ ॥

केनेदमाततमनेकचिदेव विश्वं
किंसार एवमतिवल्गसि हंसि पासि ।
किन्दर्शनेन न भवस्यथवा सदैव
नूनं भवस्यमलदृग्वदनः स्वशान्त्यै ॥ ३२ ॥

अनेकाश्चितश्चेतना यस्मिंस्तथाविधमिदं विश्वं केन आततं सृष्ट्या
विस्तारितम् । त्वं च कः सारो वास्तवं रूपं यस्य तथाविधः
सन्सर्वव्यवहारेष्वतिशयेन वल्गसि व्यवहरसि पासि प्रजा हंसि च वध्यान् ।
तथाच सृष्ट्यादिनिर्वाहाः सर्वेषां किन्निमित्तका इत्यर्थः । कस्य दर्शनं
किन्दर्शनं तेन त्वममलदृग्रूपः संस्तदन्यो न भवसि । अथवा तद्रूप
एव सदैव नूनं भवसि तद्वस्तुनः अस्मभ्यं स्वशान्त्यै
स्वमृत्युमोक्षार्थं वदेत्युपसंहारः ॥ ३२ ॥

एषोऽसौ प्रगलतु संशयो ममोच्चै-
श्चित्तश्रीमुखमिहिकामलानुलेपः ।
यस्याग्रे न गलति संशयः समूलो
नैवासौ क्वचिदपि पण्डितोक्तिमेति ॥ ३३ ॥

एष उक्तलक्षणोऽसौ चित्तश्रियो मुखं स्वात्माकारवृत्तिस्तस्याश्चन्द्रस्येव
मिहिकालक्षणस्य मलस्यानुलेप आवरणभूतो मम संशयो गलतु । समूलो
मूलाज्ञानसहितः । पण्डितोक्तिं पण्डितशब्दयोग्यतां नैवैति ॥ ३३ ॥

एवं मे यदि न विनेष्यथः क्रमोक्तं
संशान्तं लघुतरसंशयं [मसंशयं इति क्वचित्] सुबुद्धी ।
तद्रक्षोजरठहुताशनेन्धनत्वं
निर्विघ्नं झटिति गमिष्यथः क्षणेन ॥ ३४ ॥

एवंरूप मे लघुतरसंशयं यदि न विनेष्यथो नापाकरिष्यथस्तत्तर्हि
रक्षोजातेः स्वदेहस्य जठरहुताशनेन्धनत्वं । भक्ष्यतामिति यावत् । झटिति
क्षणेन निर्विघ्नं गमिष्यथः । अनात्मज्ञानां देहमात्रात्मभावानां
[भावनां इति पाठः] रक्षोन्नभावस्य दुर्वारत्वादिति भावः ॥ ३४ ॥

पश्चात्तां जनपदमण्डलीं समन्ता-
द्भावत्कीमुरुजठरा क्षणाद्ग्रसेऽहम् ।
एवं ते भवतु सुराजतेति मन्ये
मूर्खाणामतिरस एव सङ्क्षयाय ॥ ३५ ॥

न केवलं युवयोरेवानर्थः किन्तु सर्वस्य जनपदस्याप्युपस्थित इत्याह -
पश्चादिति । उरुजठरा बृहत्कुक्षिः । एवमुक्तप्रश्नोत्तरदानेन ते स्वात्मना
सह सर्वप्रजापालनात्सुराजता स्यादिति मन्ये । मूर्खाणामनात्मज्ञानामतिरसो
भोगलाम्पट्यातिशयो राजत्वनिमित्तः सङ्क्षयायैव भवति ।
मद्भक्षणाभावेऽपि राज्यान्ते नरकावश्यम्भावादिति भावः ॥ ३५ ॥

प्। ३२०) १९४

इत्युक्त्वा विपुलगभीरमेघनाद-
प्रोल्लासप्रकटगिरा निशाचरी सा ।
तूष्णीमप्यतिविकटाकृतिस्तदासी-
च्छुद्धान्तः शरदमलाभ्रमण्डलीव ॥ ३६ ॥

विपुलगभीरमेघनादप्रोल्लास इव प्रकटया तारया गिरा सा निशाचरीत्युक्त्वा
बहिरतिविकटाकृतिरपि अन्तः शुद्धा शरदमलाभ्रमण्डलीव
तूष्णीमासीदित्यर्थः ॥ ३६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे क० राक्षसीप्रश्नो
नामैकोनाशीतितमः सर्गः ॥ ७९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीप्रश्नो
नामैकोनाशीतितमः सर्गः ॥ ७९ ॥