अष्टसप्ततितमः सर्गः ७८
श्रीवसिष्ठ उवाच ।
अथ सा राक्षसी रक्षःकुलकाननमञ्जरी ।
तमस्येवाभ्रलेखेव गम्भीरं विननाद ह ॥ १ ॥
भीषणोक्त्याप्यभीतस्य राज्ञः कर्कटिदर्शनम् ।
मन्त्रिवाक्यानुनीतायाः प्रश्नारम्भश्च कीर्त्यते ॥ १ ॥
रक्षोवंशलक्षणस्य काननस्य
बोधसौरभमकरन्दमधुरत्वात्पुष्पमञ्जरीव स्थिता ॥ १ ॥
नादान्ते समुवाचेदं हुङ्कारापरुषं वचः ।
गर्जितानन्तरं जातकरकाशनिशब्दवत् ॥ २ ॥
शब्दतो हुङ्कारभीषणत्वेऽप्यर्थतोऽपरुषमनिष्ठुरम् ॥ २ ॥
भो भो घोराटवीव्योमपदवीशशिभास्करौ ।
महामायातमःपीठशिलाकोटरकीटकौ ॥ ३ ॥
घोराटवीलक्षणाया व्योमपदव्याः प्रकाशकत्वाच्छशिभास्करौ ।
महामायातमोलक्षणायाः सर्वभूताधारपीठभूतायाः
कोटरान्तर्गतकीटकौ । अनेन स्वस्या आत्मज्ञता सूचिता ॥ ३ ॥
कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ ।
मद्ग्रासपदमापन्नौ क्षणान्मरणकोचितौ ॥ ४ ॥
आत्मज्ञाने सति बुद्धेः साफल्यान्महाबुद्धी पूज्यबुद्धी । तदभावे
बुद्धिवैयर्थ्याद्दुर्बुद्धी । कुत्सितं मरणं मरणकं तदुचितौ ॥ ४ ॥
राजोवाच ।
भो भो भूतक किं स्यास्त्वं क्व तिष्ठसि च देहकम् ।
दर्शयास्यास्तव गिरः को बिभेत्यलिनीध्वनेः ॥ ५ ॥
अल्पं देहं देहकं दर्शय । अलिनीध्वनेर्भ्रमरिकाध्वनितुल्याया अस्यास्तव
गिरः सकाशात्को बिभेति । न कश्चिदित्यर्थः ॥ ५ ॥
सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः ।
त्यज संरम्भमारम्भं स्वसामर्थ्यं प्रदर्शय ॥ ६ ॥
संरम्भं कोपम् । आरम्भं भीषणोद्योगम् ॥ ६ ॥
किं प्रार्थयसि मे ब्रूहि ददामि तव सुव्रत ।
किं वा संरम्भशब्दाभ्यां भीषयास्मान्बिभेषि किम् ॥ ७ ॥
त्वत्सूचिता आत्मज्ञता मया ज्ञातेति द्योतनाय सुव्रतेति सम्बोधनम् । अस्मान्प्रति
संरम्भशब्दाभ्यां भीषया वा किम् । त्वमेव वा किं बिभेषि ॥ ७ ॥
क्षिप्रमाकारशब्दाभ्यां मायया सन्मुखीभव ।
न किञ्चिद्दीर्घसूत्राणां सिद्ध्यत्यात्मक्षयादृते ॥ ८ ॥
मायया परदृश्यशरीरकल्पनशक्त्या । दीर्घसूत्राणामक्षिप्रकारिणाम् ॥ ८ ॥
राज्ञेत्युक्ते रम्यमुक्तमिति सञ्चिन्त्य सा तयोः ।
प्रकाशायाप्य धैर्याय ननाद च जहास च ॥ ९ ॥
ततो ददृशतुस्तां तौ शब्दपूरितदिग्गणाम् ।
साट्टहासप्रभापिण्डपूरप्रकटिताकृतिम् ॥ १० ॥
अट्टहासदशनप्रभापिण्डपूरैः प्रकाशितस्वाकाराम् ॥ १० ॥
कल्पाभ्राशनिकाषेण घृष्टामद्रितटीमिव ।
स्वनेत्रविद्युद्वलयबलाकोज्ज्वलिताम्बराम् ॥ ११ ॥
अशनिकाषेण वज्रनिष्पेषेण घृष्टां निष्पिष्टाम् । स्वनेत्रविद्युद्भ्यां
शङ्खवलयलक्षणबलाकाभिश्च दीपिताकाशाम् ॥ ११ ॥
तिमिरैकार्णवौर्वाग्निज्वालाविवलनामिव ।
गर्जद्घनघटातो।पपीवरासितकन्धराम् ॥ १२ ॥
तिमिरलक्षणस्यैकार्णवस्य ॥ १२ ॥
रणद्दशनसंरम्भहाहाहतनिशाचराम् ।
रोदसीकज्जलस्तम्भां लीलयोल्लसितां पुनः ॥ १३ ॥
ऊर्ध्वकेशीं शिरालाङ्गीं कपिलाक्षीं तमोमयीम् ।
यक्षरक्षःपिशाचानामप्यनर्थभयप्रदाम् ॥ १४ ॥
रणद्भ्यः कटकटायमानेभ्यो दशनेभ्यः संरम्भाद्भयात्
हाहाकारपूर्वकं हता मारिता निशाचराश्चोरव्याघ्रजम्बुकादयो यया ।
रोदस्यौ द्यावापृथिव्यौ कज्जलैः स्तम्भयति विष्टभ्रातीति तथोक्ताम् ॥ १३ ॥ १४ ॥
देहरन्ध्रविशच्छ्वासवातभाङ्कारभीषणाम् ।
मुसलोलूखलालातहलशूर्पकशेखराम् ॥ १५ ॥
हलं शूर्पकाणि भग्नशूर्पाणि शेखरे यस्याः ॥ १५ ॥
प्। ३१७) १९२
स्फुरन्तीमिव कल्पान्ते वैदूर्यशिखरस्थलीम् ।
हासघट्टितविश्वेशां कालरात्रिमिवोदिताम् ॥ १६ ॥
कल्पान्ते विदीर्णामिति शेषः । हासैर्घट्टिता हिंसिता विश्वस्येशा दानवा यया
तथाविधां कालरात्रिं शिवदूतीमिव ॥ १६ ॥
शरद्व्योमाटवीं साभ्रां कृतदेहामिवागताम् ।
शरीरिणीं महाभ्राढ्यां यामिनीमिव मांसलाम् ॥ १७ ॥
शरीरसन्निवेशेन पङ्कपीठमिवोत्थिताम् ।
तनुं चन्द्रार्कयुधाय तमसेव समाश्रिताम् ॥ १८ ॥
पङ्कपीठं पृथिवीपीठम् । तमसा राहुणा ॥ १८ ॥
इन्द्रनीलमहाशुभ्रलम्बाभ्रयुगलोपमौ ।
उलूखलादिहारौघौ दधानामसितौ स्तनौ ॥ १९ ॥
इन्द्रनीलमिव महाशुभ्रं नीलं यल्लम्बाभ्रयुगलं तदुपमो ॥ १९ ॥
लग्नामङ्गारकाष्ठेन समानां च महातनुम् ।
द्रुमाभास्पन्दसशिरलसद्भुजलतातनुम् ॥ २० ॥
लग्नां लाञ्छितां समानां सवर्णां च । द्रुमाभाभ्यां अस्पन्दाभ्यां
शिरासहिताभ्यां लसद्भ्यां भुजलताभ्यां अतनुं अनल्पाम् ॥ २० ॥
तामवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ ।
न तदस्ति विमोहाय यद्विविक्तस्य चेतसः ॥ २१ ॥
विविक्तस्य सत्यमिथ्याविवेकशालिनः ॥ २१ ॥
मन्त्र्युवाच ।
महाराक्षसि संरम्भो महात्मा किमयं तव ।
लघवो ह्यथवा कार्ये लघावप्यतिसम्भ्रमाः ॥ २२ ॥
यदि त्वं महत्यसि तर्ह्यल्पकार्ये नैतावान्संरम्भो युक्त इति साम्ना
समाधित्सुर्मन्त्री उवाच - महाराक्षसीति । हे महाराक्षसि तव
स्वाभिमतसिद्धौ महात्मा निरतिशयस्वरूपोऽयं संरम्भः कोपः किं
किमर्थ इत्यर्थः । वाङ्मात्रलभ्ये आहारलाभलक्षणे कार्ये न
क्रोधसाहसादेः प्रयोजनमस्तीति भावः । अथवा यदि लघुरसि तर्हि न
त्वत्संरम्भेण बिभीव इत्याशयेनाह - लघवो हीति ॥ २२ ॥
त्यज संरम्भमारम्भो नायं तव विराजते ।
विषये हि प्रवर्तन्ते धीमन्तः स्वार्थसाधकाः ॥ २३ ॥
साम्ना पुनः प्रथमकल्पमेवाश्रित्याह - त्यजेति । बुद्धिमन्तः
सामसाध्येऽर्थे न दण्डमनुसरन्तीति भावः ॥ २३ ॥
त्वादृशानां सहस्राणि मशकानामिवाबले ।
अस्माकं धीरतावात्याव्यूढानि तृणपर्णवत् ॥ २४ ॥
पुनर्द्वितीयकल्पमाश्रित्य दण्डोद्योगवैयर्थ्यमाह - त्वादृशानामिति ।
धीरतालक्षणया वात्या वात्यया । वातशब्दात्पाशादित्वात्समूहे यप्रत्यये
व्यत्ययेन ङीपि हलस्तद्धितस्य इति यलोपे तृतीयान्तोऽत्र वात्येति । व्यूढानि
निरस्तानि ॥ २४ ॥
संरम्भद्वारमुत्सृज्य समतास्वच्छया धिया ।
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ॥ २५ ॥
तर्हि कथं स्वार्थसिद्धिस्तत्राह - संरम्भेति । व्यवहारिण्या
प्राज्ञव्यवहारोचितया ॥ २५ ॥
स्वेनैव व्यवहारेण कार्यं सिद्ध्यतु वा न वा ।
महानियतिरित्येव भ्रमस्यावसरो हि कः ॥ २६ ॥
कार्यसिद्धिसंशयेऽप्यनादिनियतिसिद्धः सामोपायो न हेयः किं वाच्यं
तन्निश्चये इत्याशयेनाह - स्वेनैवेति । भ्रमस्य भ्रान्तोचितसंरम्भस्य ॥
२६ ॥
कथयाभिमतं किं ते किमर्थयसि चार्थिनी ।
अर्थी स्वप्नेऽपि नास्माकमप्राप्तार्थः पुरो गतः ॥ २७ ॥
कथं तर्हि साम्ना सिद्धिस्तत्राह - कथयेति ॥ २७ ॥
इत्युक्ता सा तदा तेन चिन्तयामास राक्षसी ।
अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः ॥ २८ ॥
सत्त्वं धैर्य बुद्धिबलं च ॥ २८ ॥
न सामान्याविमौ मन्ये विचित्रेयं चमत्कृतिः ।
वचोवक्रेक्षणेनैव वदत्यन्तर्विनिश्चयम् ॥ २९ ॥
वक्रेक्षणेन मुखदर्शनेनैव प्रसादादिलिङ्गैरन्तस्तत्त्वविनिश्चयं वदति
सूचयति ॥ २९ ॥
वचोवक्रेक्षणद्वारैर्धीमतामाशया मिथः ।
एकीभवन्ति सरितां पयांसि वलनैरिव ॥ ३० ॥
वलनैः सङ्गमैः ॥ ३० ॥
आभ्यां प्रायः परिज्ञातो मम भावोऽनयोर्मया ।
न विनाश्यौ मया चेमौ स्वयमेवाविनाशिनौ ॥ ३१ ॥
मन्ये भवेतामात्मज्ञौ नात्मज्ञानादृते मतिः ।
प्रमृष्टसदसद्भावाद्भवत्यस्तभया मृतौ ॥ ३२ ॥
मिथ्यात्वनिश्चयेन प्रमृष्टौ सदसद्भावौ जीवनमरणप्रत्ययौ
यस्मात्तथाविधादात्मज्ञादृते ॥ ३२ ॥
तदेतौ परिपृच्छामि किञ्चित्सन्देहमुत्थितम् ।
प्राज्ञं प्राप्य न पृच्छन्ति ये केचित्ते नराधमाः ॥ ३३ ॥
इति सञ्चिन्त्य पृच्छायै तन्वानावसरं ततः ।
अकालकल्पाभ्ररवं हासं संयम्य साव्रवीत् ॥ ३४ ॥
हासं हास्यम् । संयम्य निरुध्य ॥ ३४ ॥
कौ भवन्तौ नरौ धीरौ कथ्यतामिति मेऽनघौ ।
जायते दर्शनादेव मैत्री विशदचेतसाम् ॥ ३५ ॥
मन्त्र्युवाच ।
अयं राजा किरातानामस्याहं मन्त्रितां गतः ।
उद्यतौ रात्रिचर्येण त्वादृग्जनविनिग्रहे ॥ ३६ ॥
त्वादृग्जनानां हिंस्राणां विनिग्रहे उद्यतौ उद्युक्तौ ॥ ३६ ॥
राज्ञो रात्रिन्दिवं धर्मो दुष्टभूतविनिग्रहः ।
स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम् ॥ ३७ ॥
राक्षस्युवाच ।
राजंस्त्वमसि दुर्मन्त्री दुर्मन्त्री न नृपो भवेत् ।
सद्रूपस्य भवेन्मन्त्री राजा सन्मन्त्रिणो भवेत् ॥ ३८ ॥
करिष्यमाणप्रश्नस्योपोद्घातं रचयन्त्याह - राजन्निति । दुष्टो मन्त्री
यस्य स तथा असि । सम्भावित इति शेषः ॥ ३८ ॥
राजा चादौ विवेकेन योजनीयः सुमन्त्रिणा ।
तेनार्यतामुपायाति यथा राजा तथा प्रजाः ॥ ३९ ॥
आर्यतां श्रेष्ठताम् ॥ ३९ ॥
समस्तगुणजालानामध्यात्मज्ञानमुत्तमम् ।
तद्विद्राजा भवेद्राजा तद्विन्मन्त्री च मन्त्रवित् ॥ ४० ॥
समस्तेति । तथाचाहुः - तत्कर्मयन्न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ इति । मन्त्रविद्विचाररहस्यवित् ॥
४० ॥
प्। ३१८) १९३
प्रभुत्वं समदृष्टित्वं तच्च स्याद्राजविद्यया ।
तामेव यो न जानाति नासौ मन्त्री न सोऽधिपः ॥ ४१ ॥
प्रभुत्वं
समदृष्टित्वाधीनत्वादायुर्घृतमितिवत्ताद्रूप्यारोपात्समदृष्टित्वं
विद्यानां राजा राजविद्या आत्मविद्या तया स्यात् । शुनि चैव श्वपाके च पण्डिताः
समदर्शिनः इति भगवद्वचनात् ॥ ४१ ॥
भवन्तौ तद्विदौ साधू यदि तच्छ्रेय आप्नुथः ।
नो चेदनर्थदौ स्वस्याः प्रकृतेरद्म्यहं युवाम् ॥ ४२ ॥
यथा राजा तथा प्रजा इति प्रागुक्तत्वाद्राज्ञो मौर्ख्ये प्रजानामपि
तदनिवारणात्तत्प्रयुक्तानर्थदौ युवां अद्मि भक्षयामि ॥ ४२ ॥
एकोपायेन मत्पार्श्वाद्बालकावुत्तरिष्यथः ।
मत्प्रश्नपञ्जरं सारं चेद्विचारयथो धिया ॥ ४३ ॥
बालकाविव पित्रोः प्रीतिविषयौ ॥ ४३ ॥
प्रश्नानिमान्कथय पार्थिव वा च मन्त्रिम्-
स्तत्रार्थिनी भृशमहं परिपूरयार्थम् ।
अङ्गीकृतार्थमददत्क इवास्ति लोके
दोषेण सङ्क्षयकरेण न युज्यते यः ॥ ४४ ॥
हे पार्थिव त्वमिमान् प्रश्नान् पृष्ठानर्थान्कथय । अथवा हे मन्त्रिंस्त्वं
च वा कथय । तत्र तस्मिन्विषयेऽहं भृशमर्थिनी उपयाचनवती अस्मि । अर्थ
मदभिलषितं परिपूरय । योऽङ्गीकृतं दास्यामीति
प्रतिज्ञातमर्थमदददप्रयच्छन्सन्सङ्क्षयकरेण दोषेण न युज्यते स
तादृशः क इवास्ति को वास्ति । न कश्चिदित्यर्थः ॥ ४४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क०
राक्षसीवर्णनं नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीवर्णनं
नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥