०७७

सप्तसप्ततितमः सर्गः ७७

श्रीवसिष्ठ उवाच ।

एतस्मिन्नन्तरे तत्र किरातजनमण्डले ।
हस्तहार्यतमःपिण्डा बभूवासितयामिनी ॥ १ ॥

तमिस्रा वर्ण्यते पश्चाद्दर्शनं राजमन्त्रिणोः ।
कर्कट्यास्तत्परीक्षार्थं प्रश्नेच्छा चात्र विस्तरात् ॥ १ ॥

तमः पिण्ड इव तमःपिण्डः । हस्तेन हर्तुं शक्यो हस्तहार्यः ।
हस्तहार्यस्तमः पिण्डो यस्याम् । यामिनी रात्रिः ॥ १ ॥

नीलमेघपटच्छन्ना निरिन्दुगगनान्तरा ।
तमालवनसम्पिण्डा मांसलोड्डीनकज्जला ॥ २ ॥

तां रात्रिं कर्कटीसखी भूतराक्षस्यन्तररूपेण वर्णयति -
नीलमेघेत्यादिना । निरिन्दु अमृतलुण्ठनभयात्पलायितेन्दु गगनान्तरं यया ।
तमालवनानि सम्पिण्डयति एकघनीकरोतीव तमालवनसम्पिण्डा । मांसला
पुष्टा । सर्वत्रोड्डीनं श्यामीकुर्वत् नेत्रकज्जलं यस्याः ॥ २ ॥

लताघनतया ग्रामकोटरैकान्ध्यमन्थरा ।
गृहचत्वरसम्बाधे नगरे नवयौवना ॥ ३ ॥

गिरिग्रामेषु लतानां घनतया नक्षत्रज्योतिषोऽप्यप्रसरान्मुख्येनान्ध्येन
जरतीव मन्थरा कुण्ठितगतिः । गृहचत्वरैः सम्बाधे निबिडिते नगरे
नवयौवनेव दीपिकाभिः सञ्चरन्ती ॥ ३ ॥

प्। ३१५) १९१

चत्वरेषु तमःपिण्डी प्रजिह्मीकृतदीपिका ।
कुञ्चितच्छिद्रनिष्क्रान्ताऽदीपिकारोचिराजिता ॥ ४ ॥

बहिश्चत्वरेषु वायुना प्रजिह्मीकृता वक्रीकृता दीपिका यया । अत एव तमांसि
पिण्डयतीति तमःपिण्डी । कुञ्चितानां कुटिलगवाक्षाणां छिद्रेभ्यो
निष्क्रान्तैरीषद्दीपिकारोचिर्भिः राजिता शोभमाना । आदीपिकारोचिरितीषदर्थे आङ्
ढ्रलोप इति दीर्घाभावश्छान्दसः ॥ ४ ॥

सुवयस्येव कर्कट्याः परिनृत्यत्पिशाचिका ।
मत्तवेतालकङ्कालकाष्ठमौनमिवास्थिता ॥ ५ ॥

सुवयस्या शोभमाना सखीव । मत्तवेतालानां कङ्कालादिहरणप्रसङ्गे
निवारणाभावात्काष्ठमौनं व्रतमास्थितेव ॥ ५ ॥

सुषुप्तमृगभूतौघघननीहारहारिणी ।
मन्दमन्दमरुत्स्पर्शलसत्प्रालेयसीकरा ॥ ६ ॥

सुषुप्तैर्मृगादिप्राणिनिकायैर्घनैर्नीहारैश्च हारिणी अलङ्कृता ॥ ६ ॥

सरःसु विवटद्वारि काकभेकतरङ्गिता ।
अन्तःपुरेषु रमणरणन्नारीनरानना ॥ ७ ॥

इतःपरं राक्षसीरूपकं विहाय स्वरूपेणैव वर्णयति - सरःस्वित्यादिना ।
विवटानां गर्तानां विवृद्धवटानां च द्वारि काकैर्भेकैश्च तरङ्गिता
व्याप्ता । रमणे क्रीडने रणन्ति नारीनराननानि यस्याम् ॥ ७ ॥

जङ्गलेषु जगज्ज्वाला जटालज्वलनोज्ज्वला ।
केदारेष्वम्बुसंसेकपृष्ठपाकमिलच्छला ॥ ८ ॥

जगतो ज्वाला प्रलयानल इव जटालेन ज्वलनेनोज्ज्वला । अम्बुसेकेन आर्द्रीभावेन
शल्यकपृष्ठे पाकेन परिपक्वदशया चोन्मूलनात्केदारेषु मिलन्ति शलानि
शललीकण्टका यस्याम् ॥ ८ ॥

नभस्थलेक्षितस्पन्दप्रविविक्तर्क्षचक्रिका ।
वनेषु विसरद्वातपतत्पुष्पफलद्रुमा ॥ ९ ॥

अक्षीणीव सञ्जातान्यक्षितानि स्पन्दादिव प्रविविक्तानि विभक्तानि ऋक्षचक्राणि
नक्षत्रवृन्दानि यस्याम् ॥ ९ ॥

श्वभ्रेषु कौशिकस्यान्तर्वायसव्याहतारवा ।
तस्कराक्रान्तपर्यन्तग्राम्याक्रन्दनकर्कशा ॥ १० ॥

श्वभ्रेषु वृक्षकोटरेष्वन्तः कौशिकस्य रवं श्रुत्वेति शेषः ॥ १० ॥

विपिने विपिनामौना नगरे सुप्तनागरा ।
वनेषु विसरद्वाता नीडेष्वस्पन्दपक्षिका ॥ ११ ॥

विपिनमिव आमौना ईषदशब्दा ॥ ११ ॥

गुहासु सुप्तसिंहाढ्या कुञ्जेषुस्वपदेणका ।
खे सावश्यायनिकरा विपिने मौनचारिणी ॥ १२ ॥

कज्जलाम्भोदमध्याभा काचशैलोदरोपमा ।
पङ्कपिण्डान्तरघना खड्गच्छेद्यान्ध्यमांसला ॥ १३ ॥

पङ्कपिण्डो मृत्पिण्डस्तस्यान्तरमिव घना निबिडा ॥ १३ ॥

प्रलयानिलविक्षुब्धकज्जलाचलचञ्चला ।
एकार्णवमहापङ्कपर्वतोदरमेदुरा ॥ १४ ॥

विक्षुब्धो विचूर्णितो विचलितो वा । एकार्णवमहापङ्कमिव पर्वतोदरमिव च
मेदुरा ॥ १४ ॥

अङ्गारकोटरघना सौषुप्तपदसुन्दरी ।
अज्ञाननिद्रानिबिडा भृङ्गपृष्ठच्छदच्छविः ॥ १५ ॥

अङ्गारस्य दग्धकाष्ठस्य कोटरमिव श्यामघना । सौषुप्तपदं
गाढाज्ञानमिव सुन्दरी । अज्ञाननिद्रा मूलाज्ञानमिव निबिडा घना ।
भृङ्गानां पृष्ठानीव च्छदाः पक्षा इव च च्छविर्यस्यास्तथाविधा ।
असितयामिनी बभूवेत्युपक्रमेणान्वयः ॥ १५ ॥

तस्यां रजन्यां भीमायां किरातजनमण्डले ।
मन्त्रिणा सह भूपालस्तस्मिन्नवसरे तदा ॥ १६ ॥

निर्जगाम सुधीरात्मा नगरात्सुप्तनागरात् ।
अटवीं विक्रमो नाम विषमां वीरचर्यया ॥ १७ ॥

वीरोचितया तस्करादिवधार्थया चर्यया ॥ १७ ॥

अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ ।
अपश्यद्धृतधैर्यास्त्रौ वेतालालोकनोन्मुखौ ॥ १८ ॥

धृतानि धैर्यं च अस्त्राणि च याभ्यां तौ । ग्रामाद्बहिष्ठस्य
ग्रामदैवतस्य वेतालस्य आलोकने उन्मुखौ ॥ १८ ॥

अथ सा चिन्तयामास लब्धो भक्षो ह्यहो मया ।
मूढावेतावनात्मज्ञौ भारो देहः किलानयोः ॥ १९ ॥

सा कर्कटी ॥ १९ ॥

इहामुत्र च नाशाय मूढो दुःखाय जीवति ।
यत्नाद्विनाशनीयोऽसौ नानर्थः परिपाल्यते ॥ २० ॥

इह लोके अमुत्र परलोके च । मूढोऽनात्मज्ञः ॥ २० ॥

अपश्यतः स्वमात्मानं मृतिर्मूढस्य जीवितम् ।
मरणेनोदयोऽस्यास्ति पापासम्पत्तिहेतुतः ॥ २१ ॥

मृतिरेव जीवितं । जीविताद्वरमिति यावत् । तदेवोपपत्त्या दर्शयति -
मरणेनेति ॥ २१ ॥

आदिसर्गे च नियमः कृतः पङ्कजजन्मना ।
हिंस्राणां भोजनायास्तु मूढात्मानात्मवानिति ॥ २२ ॥

तस्मादिमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ ।
अभव्य एव निर्दोषं प्राप्तमर्थमुपेक्षते ॥ २३ ॥

अभव्यः अभाग्य एव ॥ २३ ॥

कदाचित्ताविमौ स्यातां गुणयुक्तौ महाशयौ ।
तादृङ्न रविनाशो हि स्वभावान्मे रोचते ॥ २४ ॥

आत्मज्ञानलक्षणगुणेन युक्तौ ॥ २४ ॥

तदेतौ सम्परीक्षेऽहं यदि तादृग्गुणान्वितौ ।
तद्भक्षं न करोम्येतौ न हिंस्यां गुणिनः क्वचित् ॥ २५ ॥

तत्तर्हि ॥ २५ ॥

अकृत्रिमं सुखं कीर्तिमायुश्चैवाभिवाञ्छता ।
सर्वाभिमतदानेन पूजनीया गुणान्विताः ॥ २६ ॥

सर्वेषाममिमतानामिष्टानां दानेन ॥ २६ ॥

अपि नङ्क्ष्यामि देहेन नैव भोक्ष्ये गुणान्वितम् ।
सुखयन्ति हि चेतांसि जीवितादपि साधवः ॥ २७ ॥

देहेन नत्वात्मना अविनाशित्वात् ॥ २७ ॥

प्। ३१६) १९२

अपि जीवितदानेन गुणिनं परिपालयेत् ।
गुणवत्सङ्गमौषध्या मृत्युरप्येति मित्रताम् ॥ २८ ॥

वशीकरणौषध्या ॥ २८ ॥

यत्राहमपि रक्षामि राक्षसी गुणशालिनम् ।
तत्रान्यः को न कुर्यात्तं हृदि हारमिवामलम् ॥ २९ ॥

तं गुणिनम् ॥ २९ ॥

उदारगुणयुक्ता ये विहरन्तीह देहिनः ।
धरातलेन्दवः सङ्गाद्भृशं शीतलयन्ति ते ॥ ३० ॥

धरातले इन्दवश्चन्द्राः ॥ ३० ॥

मृतिर्गुणितिरस्कारो जीवितं गुणिसंश्रयः ।
फलं स्वर्गापवर्गादि जीविताद्गुणिसंश्रितात् ॥ ३१ ॥

फलं सिध्यतीति शेषः ॥ ३१ ॥

तस्मादिमौ परीक्षेऽहं कयाचित्प्रश्नलीलया ।
किम्मात्रज्ञानकावेताविति तामरसेक्षणौ ॥ ३२ ॥

परीक्षे परीक्षिष्ये ॥ ३२ ॥

आदौ विचार्य सगुणागुणलेशयुक्तिं
पश्चात्स्वतोऽधिकतरं च गुणैर्यदि स्यात् ।
कुर्यात्ततः समुपपत्तिवशेन दण्डं
दड्यस्य युक्तिसदृशं घनसम्भवेन ॥ ३३ ॥

आदौ सगुणोऽयमगुणो वेति गुणलेशेनापि युक्तिं योगं विचार्य पश्चात्स्वतः
स्वस्मादधिकतरं च गुणिनं विचार्य यदि गुणैर्हीनः स्यात्ततस्तदनन्तरं
सम्यक् शास्त्रोक्तदृशा उपपत्तिवशेन युक्तिसदृशं दण्ड्यस्य दण्डं
कुर्यात् स्वतो गुणैर्घनसम्भवे अतिशयस्य सम्भवे तु न कुर्यादित्यर्थः ॥ ३३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क०
राक्षसीविचारो नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीविचारो
नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥