०७६

षट्सप्ततितमः सर्गः ७६

श्रीवसिष्ठ उवाच ।

अथाभवदसौ सूची कर्कटीराक्षसी पुनः ।
सूक्ष्मैव स्थौल्यमायाता मेघलेखेव वार्षिकी ॥ १ ॥

लब्ध्वा देहं समाधिस्था षण्मासा क्षुधितोत्थिता ।
कर्कटी वायुवचसा किरातविषय ययौ ॥ १ ॥

अथ सर्वावयवप्रादुर्भावानन्तरम् ॥ १ ॥

निजमाकाशमासाद्य किञ्चित्प्रमुदिता सती ।
बृहद्राक्षसभावं तद्बोधात्कञ्चुकवज्जहौ ॥ २ ॥

निजं स्वात्मभूतं ब्रह्माकाशं आसाद्य पुनः प्रतिसन्धाय तस्य
बोधात्साक्षात्काराच्चिरप्ररूढत्वाद्बृहद्राक्षसभावं जहौ ॥ २ ॥

प्। ३१४) १९१

तत्रैव ध्यायती तस्थौ बद्धपद्मासनस्थितिः ।
व्यालम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत् ॥ ३ ॥

शुद्धां निष्प्रपञ्चां संविदमात्मानं वृत्तिधारया व्यालाम्ब्य आश्रित्य
॥ ३ ॥

अथ सा मासषट्केन ध्यानाद्बोधमुपागता ।
महाजलदनादेन प्रावृषीव शिखण्डिनी ॥ ४ ॥

महाजलदनादेन बोधं समाधिव्युत्थानम् । शिखण्डिनीपक्षे कामोद्बोधम् ॥
४ ॥

प्रबुद्धा सा बहिर्वृत्तिर्बभूव क्षुत्परायणा ।
यावद्देहं स्वभावोऽस्य देहस्य न निवर्तते ॥ ५ ॥

अस्य देहस्य यावद्देहं यावदवस्थानं तावत्क्षुधादिस्वभावो न निवर्तते ॥ ५

अथ सा किं ग्रस इति चिन्तयामास चिन्तया ।
भोक्तव्यः परजीवश्च न्यायेन न विना मया ॥ ६ ॥

चिन्तया चिन्तनहेतुना चित्तेन ॥ ६ ॥

यदार्यगर्हितं यद्वा न्यायेन न समर्जितम् ।
तस्माद्ग्रासाद्वरं मन्ये मरणं देहिनामिदम् ॥ ७ ॥

आर्यैः पूज्यैर्महद्भिर्यद्गर्हितं निन्दितम् ॥ ७ ॥

यदि देहं त्यजामीदं तन्न्यायोपार्जितं विना ।
न किञ्चिदस्ति निर्न्यायं भुक्तोऽर्थो हि गरायते ॥ ८ ॥

न्यायोपार्जितं ग्रासं विना देहं यदि त्यजामि तदा निर्न्यायमन्याय्यं न
किञ्चिदस्ति । अन्यायोपार्जितस्त्वर्थो भुक्तः सन् गरायते विषवदाचरति ।
अनर्थकोटिषु पर्यवस्यतीति यावत् ॥ ८ ॥

यत्र लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत् ।
न जीवितेन नो मृत्या किञ्चित्कारणमस्ति मे ॥ ९ ॥

लोकसम्मतः क्रमो लोकक्रमस्तेन यन्न प्राप्तम् । मृत्या मरणेन । कारणं
इष्टमनिष्टं वा प्रयोजकम् ॥ ९ ॥

मनोमात्रमहं ह्यासं देहादिभ्रमभूषणम् ।
तच्छान्तं स्वावबोधेन देहादेहदृशौ कुतः ॥ १० ॥

देहादेहदृशौ जीवनमरणभ्रमौ ॥ १० ॥

श्रीवसिष्ठ उवाच ।

एवं स्थिता मौनवती शुश्राव गगनाद्गिरम् ।
रक्षःस्वरूपसन्त्यागतुष्टेनोक्तां नभस्वता ॥ ११ ॥

रक्षःस्वरूपस्य तद्देहाभिमानस्य सन्त्यागाद्धेतोस्तुष्टेन नभस्वता
वायुना ॥ ११ ॥

गच्छ कर्कटि मूढांस्त्वं ज्ञानेनाश्ववबोधय ।
मूढोत्तारणमेवेह स्वभावो महतामिति ॥ १२ ॥

तां गिरं दर्शयति - गच्छेत्यादिना । मूढाननात्मज्ञान् । महतां
तत्त्वविदाम् । इति हेतोः ॥ १२ ॥

बोध्यमानो भवत्यापि यो न बोधमुपैष्यति ।
स्वनाशायैव जातोऽसौ न्याय्यो ग्रासो भवेत्तव ॥ १३ ॥

असौ मूढः । न्याय्यो न्यायादनपेतः ग्रासः कवलः ॥ १३ ॥

श्रुत्वेत्यनुगृहीतास्मि त्वयेत्युक्तवती शनैः ।
उत्तस्थौ शैलशिखरात्क्रमादवरुरोह च ॥ १४ ॥

इति गिरं श्रुत्वा । त्वया वायुना । परमार्थदृशा अनुग्रहाभावात्तथा वक्तुं
लज्जमानेव शनैरुक्तवती ॥ १४ ॥

अधित्यकामतीत्याशु गत्वा चोपत्यकातटान् ।
विवेश शैलपादस्थं किरातजनमण्डलम् ॥ १५ ॥

अधित्यकां पर्वतोर्ध्वभागम् । उपत्यका पर्वतासन्नभूमिस्तत्तटान् । शैलस्य
हिमवतः पादेषु प्रत्यन्तपर्वतेषु स्थितम् ॥ १५ ॥

वह्नन्नपशुलोकौघद्रव्यशष्पौषधामिषम् ।
अनन्तमूलपानान्नमृगकीटखगादिकम् [मूलपानान्नेति पाठेऽन्नेति
पौनरुक्त्यम् पाठान्तरे तु मूलपा वृक्षाः । अदन्ता दन्तरहिताः
प्राणिविशेषाः । अनन्तमूलपादन्ता इति पाठः] ॥ १६ ॥

अन्नादीनां सप्तानां द्वन्द्वे बहुव्रीहिः । एवं मूलादीनामपि । शष्पाणि
बालतृणानि । आमिषाणि मांसानि ॥ १६ ॥

प्रचलितवलिताञ्जनाचलाभा
हिमगिरिपादनिवेशितं सुदेशम् ।
तदनुगतवती निशाचरी सा
निशि सुघनान्धतमिस्रमार्गभूमौ ॥ १७ ॥

प्रचलितः प्रस्थितो यो वलिताञ्जनः कज्जललिप्तोऽचलस्तदाभासा निशाचरी हिमगिरेः
पादेषु निवेशितं सुदेशं गतवतीति सम्बन्धः ॥ १७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे
अन्यायबाधिको नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे अन्यायबाधिको
नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥