०७५

पञ्चसप्ततितमः सर्गः ७५

श्रीवसिष्ठ उवाच ।

अथ वर्षसहस्रेण तां पितामह आययौ ।
वरं पुत्रि गृहाणेति व्याजहार नभस्तलात् ॥ १ ॥

प्रसन्नेऽपि विधौ सूच्याः प्रबोधाज्जोषमासनम् ।
तथाप्यस्या वराद्धातुर्देहोद्भूतिश्च कीर्त्यते ॥ १ ॥

अथ प्रबोधानन्तरं वर्षसहस्रेण ॥ १ ॥

सूची कर्मेन्द्रियाभावाज्जीवमात्रकलावती ।
न किञ्चिद्व्याजहारास्मै चिन्तयामास केवलम् ॥ २ ॥

कर्मेन्द्रियाभावे वागिन्द्रियस्याप्यभावात् । कर्मेन्द्रियाभावश्चास्याः
सूचीत्वात् प्रबोधबाधितत्वाच्च ॥ २ ॥

पूर्णास्मि गतसन्देहा किं वरेण करोम्यहम् ।
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ ३ ॥

चिन्ताप्रकारमेव स्फुटमाह - पूर्णेत्यादिना ॥ ३ ॥

ज्ञातं ज्ञातव्यमखिलं शान्ता सन्देहजालिका ।
स्वविवेको विकसितः किमन्येन प्रयोजनम् ॥ ४ ॥

अखिलं ज्ञातम् । एकविज्ञानेन सर्वविज्ञानात् ॥ ४ ॥

यथा स्थितेयमस्मीह सन्तिष्ठेयं तथैव हि ।
सत्यासत्यकलामेव त्यक्त्वा किमितरेण मे ॥ ५ ॥

सत्या परमार्थरूपा । तां सत्यकलामेव त्यक्त्वा इतरेण मिथ्यार्थेन किं न
किञ्चिदित्यर्थः ॥ ५ ॥

प्। ३१३) १९०

एतावन्तमहं कालमविवेकेन योजिता ।
स्वसङ्कल्पसमुत्थेन वेतालेनेव बालिका ॥ ६ ॥

इदानीमुपशान्तोऽसौ स्वविचारणया स्वयम् ।
ईप्सितानीप्सितैरर्थः को भवेत्कलितैर्मम ॥ ७ ॥

असौ अविवेकः । कलितैः प्राप्तैः ॥ ७ ॥

इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् ।
तूष्णीस्थितां सनियतिः स पश्यन्भगवान्स्थितः ॥ ८ ॥

नियत्या कर्मफलावश्यम्भावनियामकेश्वरसङ्कल्पेन सहितः । सनियतिः स
पितामहः ॥ ८ ॥

ब्रह्मा पुनरुवाचेदं वीतरागां प्रसन्नधीः ।
वरं पुत्रि गृहाण त्वं किञ्चित्कालं च भूतले ॥ ९ ॥

किञ्चिदिति पदसंस्कारपक्षे सामान्ये नपुंसकम् ॥ ९ ॥

भोगान्भुक्त्वा ततः पश्चाद्गमिष्यसि परं पदम् ।
अव्यावृत्तिस्वरूपाया नियतेरेष निश्चयः ॥ १० ॥

अव्यावृत्तिस्वरूपायाः अस्मदादिभिरपि निवर्तयितुमशक्यायाः प्रागुक्तनियतेः
॥ १० ॥

तपसानेन सङ्कल्पः सफलोऽस्तु तवोत्तमे ।
पीना भव पुनः शैले हिमकाननराक्षसी ॥ ११ ॥

अनेन तपसा फलितेनेति शेषः । पीना अभिवृद्धशरीरा ॥ ११ ॥

यया पूर्वं वियुक्तासि तन्वा जलदरूपया ।
बीजान्तर्वृक्षता पुत्रि बृहद्वृक्षतया यथा ॥ १२ ॥

बीजान्तर्लीना वृक्षता जातिर्बृहद्दृक्षतया व्यक्त्या यथा वियुक्ता तथा यया
तन्वा वियुक्तासि तया योगमेष्यसीति परेण सम्बन्धः ॥ १२ ॥

योगमेष्यसि भूयश्च तन्वान्तर्बीजरूपिणी ।
तयैव रससेकेन लतयेवाङ्कुरस्थितिः ॥ १३ ॥

ननु नष्टायाः कथं पुनरुद्भव इत्याशङ्क्याह - अन्तर्बीजरूपिणीति । न
सा नष्टा किन्तु सूच्यन्तरेव बीजभावेन लीनेति भावः ॥ १३ ॥

बाधां विदितवेद्यत्वान्न च लोके करिष्यसि ।
अन्तःशुद्धा स्पन्दवती शारदीवाभ्रमण्डली ॥ १४ ॥

लोकबाधाहेतुना मम किं तया तन्वा तत्राह - बाधामिति ॥ १४ ॥

अश्रान्तध्याननिरता कदाचिल्लीलया यदि ।
भविष्यसि बहीरूपा सर्वात्मध्यानरूपिणी ॥ १५ ॥

यदि कदाचिद्बहीरूपा निर्विकल्पसमाधिव्युत्थिता भविष्यसि तदा न्यायेन
भूतबाधां करिष्यसीति परेणान्वयः ॥ १५ ॥

व्यवहारात्मकध्यानधारणाधाररूपिणी ।
वातस्वभाववद्देहपरिस्पन्दाद्विलासिनी ॥ १६ ॥

किं ध्यानधारणदीनां सत्यता नेत्याह - व्यवहारेति । एवं
स्पन्दादिव्यवहारोऽपि न वास्तव इत्याशयेनाह - वातस्वभाववद्देहेति ॥ १६ ॥

तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी ।
न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि ॥ १७ ॥

स्वकर्म राक्षसोचितमशास्त्रीयहिंसादि तदेव स्पन्दस्तस्य रोधिनी ॥ १७ ॥

भविष्यसि न्यायवृत्तिर्लोके त्वन्यायबाधिका ।
जीवन्मुक्ततया देहे स्वविवेकैकपालिका ॥ १८ ॥

इत्युक्त्वा गगनतलाज्जगाम देवः
सूची सा भवतु ममेति किं विरोधः ।
रागो वाब्जजवचनार्थवारणेऽस्मि-
न्नित्यन्तः स्वतनुमयी मनाग्बभूव ॥ १९ ॥

देवो ब्रह्मा जगाम । सा सूची अचिन्तयत् । इति ब्रह्मणोक्तं मम भवतु नाम किं
विरोधोऽस्ति नास्तीत्यर्थः । अब्जजवचनार्थस्य वरस्य वारणे मम रागो वा किं
किमर्थ इति विचिन्त्य अन्तर्मनसि मनाक् स्वतनुमयी प्राक्तनस्वशरीराकारा
बभूव ॥ १९ ॥

प्रादेशः प्रथममभूत्ततोऽपि हस्तो
व्यामश्चाप्यथ विटपस्ततोऽभ्रमाला ।
सोद्यत्स्वावयवलता बभौ निमेषा-
त्सङ्कल्पद्रुमकणिकाङ्कुरक्रमेण ॥ २० ॥

मानसकल्पनाक्रमेणैव स्थूलदेहाविर्भावमाह - प्रादेश इति । प्रादेशः
प्रादेशप्रमाणो देहः । प्रमाणे लः इति द्वयसचो लुक् । एवमग्रेऽपि । विटपो
वृक्षशाखाग्रप्रमाणः । ततो विस्तृतः । अभ्रमाला तत्प्रमाणः । एवं
क्रमेण सा सूची निमेषात्स्वसङ्कल्पद्रुमकणिकाया बीजस्याङ्कुरक्रमेण
उद्यत्स्वावयवलता सती बभौ ॥ २० ॥

तद्गात्राण्यविकलशक्तिमन्ति देहा-
दुद्भूतान्यथ करणेन्द्रियाणि सम्यक् ।
सङ्कल्पद्रुमवनपुष्पवत्समन्ता-
द्बीजौघान्यलमभवंस्तिरोहितानि ॥ २१ ॥

गात्राणि अङ्गानि करणानीन्द्रियस्थानानि इन्द्रियाणि च उद्भूतानि । प्राक्तिरोहितानि
बीजौघभूतानि सन्ति तदा अलं पर्याप्तानि पुनराविर्भूतान्यभवन् । तथाच
मनःकल्पनामूलकत्वान्मिथ्याभूतान्येवेत्यर्थः ॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
सूच्युपाख्याने सूचीशरीरलाभो नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीशरीरलाभो
नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥