चतुःसप्ततितमः सर्गः ७४
श्रीवसिष्ठ उवाच ।
तस्य तत्रोर्ध्वशृङ्गस्य तस्यां भुवि महावनौ ।
ददर्श मध्यमां सूचीं प्रोत्थितां सशिखामिव ॥ १ ॥
दृष्ट्वाअ तां तापसीं सूचीं वायोः शक्रान्तिके गतिः ।
वरार्थं प्रार्थनं धातुर्ज्ञानं सूच्याश्च वर्ण्यते ॥ १ ॥
महती वनी प्राग्वर्णितारण्यानी यस्यां सा महावनिस्तथाविधायां भुवि ।
गोस्त्रियोरुपसर्जनस्य इति ह्रस्वः । शृङ्गस्य मध्यमां शिखामिव ॥ १ ॥
एकपादं तपस्यन्तीं शुष्यन्तीं शिर-ऊष्मणा ।
सततानशनां शुष्कपिण्डीभूतोदरत्वचम् ॥ २ ॥
स तत इति पाठे स ततो ददर्शेति पूर्वेणान्वयः । पिण्डीभूतोदरत्वचमिव ।
सूच्या उदरत्वगसम्भवात् ॥ २ ॥
सकृद्विकसितास्येन गृहीत्वेवातपानिलान् ।
पश्चात्त्यजन्तीं हृदये मे न मान्तीत्यनारतम् ॥ ३ ॥
आतपाननिलांश्च । तेमयावेकवचनस्य इत्यत्र अपादादावित्यधिकारात्पादादौ
मे इत्यादेशश्छान्दसः ॥ ३ ॥
शुष्कां चण्डांशुकिरणैर्जर्जरां वनवायुभिः ।
अचलन्तीं निजात्स्थानात्स्नापितामिन्दुरश्मिभिः ॥ ४ ॥
पूर्वं रजोणुनैकेन संविष्टच्छन्नमस्तकाम् ।
कृतार्थत्वं कथयतीं ददतान्यस्य नास्पदम् ॥ ५ ॥
सूचीमस्तके रजोन्तराऽसमावेशादन्यस्य रजोजातीयस्य रजोगुणस्य
तत्सहचरिततमसोऽप्यास्पदं न ददता रजोणुना लिङ्गेन कृतार्थत्वं
कथयतीमिवानुमापयन्तीम् ॥ ५ ॥
अरण्यान्येव दत्त्वार्थं चिरं जातशिखामिव ।
मूर्ध्न्यवस्थापितप्राणजटाजूटवलीमिव ॥ ६ ॥
पूर्वोक्तया अरण्यान्या स्वीयतरुगुल्ममृगादिरूपमर्थं स्वविभवं
अरण्यान्तरेभ्यो दत्त्वा चिरं तपसा सूच्यात्मना जातां जनितां शिखां
चूडामिव स्थिताम् । ततोऽपि योगपरिपाकान्मूर्ध्नि अवस्थापितप्राणानां
जटाजूटस्य वलीं संवलनामिव स्थिताम् । सूच्यास्तप उपक्रमे
सूक्ष्मत्वादरण्यानीशिखात्वेनोत्प्रेक्षा । चिरेण तपस्तेजसो बहलीभावेन
पुञ्जीभावविवक्षया तु तज्जटाजूटवलित्वेनोत्प्रेक्षेति बोध्यम् । आद्य इवशब्द
उत्प्रेक्षाद्योतकः । इतरौ तु औत्प्रेक्षिकोपमानार्थौ ॥ ६ ॥
तां प्रेक्ष्य पवनः सूचीं विस्मयाकुलचेतनः ।
प्रणम्यालोक्य सुचिरं भीतभीत इवागतः ॥ ७ ॥
देवानामपि ब्रह्मविदो वन्द्या इति द्योतनायोक्तं प्रणम्येति । भीतभीतो
भृशं भीत इव ॥ ७ ॥
महातपस्विनी सूची किमर्थं तप्यते तपः ।
नेति प्रष्टुं शशाकासौ तत्तेजोराशिनिर्जितः ॥ ८ ॥
इति प्रष्टुं न शशाकेति योजना ॥ ८ ॥
भगवत्या महासूच्या अहो चित्रं महातपः ।
इत्येव केवलं ध्यायन्मारुतो गगनं ययौ ॥ ९ ॥
समुल्लङ्घ्याभ्रमार्गं तु वातस्कन्धानतीत्य च ।
सिद्धवृन्दानधः कृत्वा सूर्यमार्गमुपेत्य च ॥ १० ॥
ऊर्ध्वमेत्य विमानेभ्यः प्राप शक्रपुरान्तरे ।
सूचीदर्शनपुण्यं तमालिलिङ्ग पुरन्दरः ॥ ११ ॥
विमानेभ्यो वैमानिकप्रधाननक्षत्रलोकेभ्यः । सूचीदर्शनेन पुण्यं
पवित्रीभूतम् ॥ ११ ॥
पृष्टश्च कथयामास दृष्टं सर्वं मयेत्यसौ ।
सहदेवनिकायाय शक्रायास्थानवासिने ॥ १२ ॥
वायुरुवाच ।
जम्बूद्वीपेऽस्ति शैलेन्द्रो हिमवान्नाम सून्नतः ।
जामाता यस्य भगवान्साक्षाच्छशिकलाधरः ॥ १३ ॥
तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी ।
स्थिता तपस्विनी सूची तपश्चरति दारुणम् ॥ १४ ॥
परमरूपिणी महातेजस्विनी ॥ १४ ॥
बहुनात्र कुमुक्तेन वाताद्यशनशान्तये ।
यया स्वोदरसौषिर्यं पिण्डीकृत्वा निवारितम् ॥ १५ ॥
पिण्डीकृत्वा लोहघनतां सम्पाद्य । समासस्याविवक्षणान्न ल्यप् ॥ १५ ॥
शान्तसङ्कोचसूक्ष्मार्थं विकास्यास्यं रजोणुना ।
तयाद्य स्थगितं शीतवाताशननिवृत्तये ॥ १६ ॥
तया शीतस्य वातस्याप्यशनस्य ग्रसनस्य निवृत्तये शान्तसङ्कोचं
निवारितसङ्कोचनं सूक्ष्मार्थं अत्यल्पच्छिद्रमास्यं विकास्य रजोणुना
स्थगितं पिहितम् ॥ १६ ॥
तस्यास्तीव्रेण तपसा तुहिनाकरमुत्सृजन् ।
अग्न्याकारमयो गृह्णन् देव दुःसेव्यतां गतः ॥ १७ ॥
तुहिनाकरमिति भावप्रधानो निर्देशः ।
तपोग्निद्रावितशिलानामयःपिण्डात्मतासम्पत्तेरग्न्याकारं अयो गृह्णन्
सशपथं तुहिनाकरतां त्यजन्निति भावः । दुःसेव्यतां गतो हिमवानिति
शेषः । अगो गृह्णन् इति पाठे तु स्पष्टम् ॥ १७ ॥
प्। ३१२) १९०
तदुत्तिष्ठाशु गच्छामः सर्व एव पितामहम् ।
तद्वरार्थमनर्थाय विद्धि तत्सुमहत्तपः ॥ १८ ॥
अनर्थाय उपेक्षितमिति शेषः ॥ १८ ॥
इति वातेरितः शक्रः सहदेवगणेन सः ।
जगाम ब्रह्मणो लोकं प्रार्थयामास तं विभुम् ॥ १९ ॥
सूच्या वरमहं दातुं गच्छामि हिमवच्छिरः ।
ब्रह्मणेति प्रतिज्ञाते शक्रः स्वर्गमुपाययौ ॥ २० ॥
एतावताथ कालेन सा बभूवातिपावनी ।
सूची निजतपस्तापतापितामरमन्दिरा ॥ २१ ॥
एतावता सप्तसहस्रवर्षपरिमितेन ॥ २१ ॥
मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा ।
विकासिन्या विवर्तिस्था चोदितान्तमवेक्षिता ॥ २२ ॥
आसर्गसमाप्तेस्तत्तप एव वर्णयिष्यन्निर्जने कृतस्य सूचीतपसस्तच्छायैव
साक्षिणीत्याह - मुखेति । विवर्तिनि विजृम्भमाणे तपसि स्था स्थिता सा सूची
स्वच्छाययैव चोदितान्तं तत्सङ्कल्पविदितकालमर्यादान्तं [विहित इति
पाठः] अवेक्षिता । केन कारणेन । विकासिन्या प्रसृतया मुखरन्ध्रे स्थितो
योऽर्कांशुरातपस्तल्लक्षणया दृशा दृष्ट्येत्यर्थः ॥ २२ ॥
कौशेयरूपया सूच्या मेरुः स्थैर्येण निर्जितः ।
मज्जनं नैति वृद्ध्वैवं मुक्तमाद्यन्तयोर्दिने ॥ २३ ॥
तर्हि तच्छायया सन्ध्ययोर्निशि च किमर्थ तद्दर्शनं मुक्तं तत्राह -
कौशेयेति । कौशेयतन्तुवत्तुच्छरूपया लध्व्या च सूच्या स्थैर्येण गुणेन
निर्जितो मेरुर्लज्जयाम्बुधौ मज्जनं नैति न प्राप्नोति किं इति काकुना द्योत्यते ।
एवमनेनाभिप्रायेण तद्द्रष्टुमिव दिने आद्यन्तयोर्भागयोर्वृद्ध्वा
दैर्घ्यमालाम्ब्य तद्दर्शनान्मुक्तमुपरतमिति यावत् ॥ २३ ॥
मध्याह्णे तापभीत्येव विशन्त्या मारुतान्तरम् ।
अन्यदा गौरवाद्दृष्ट्वा दूरतः प्रेक्षमाणया ॥ २४ ॥
तर्हि मध्याह्ने किमिति मूले निलीना तत्राह । मध्याह्ने इति । मारुतानां
सूचीप्राणामन्तरमवकाशभूतं सूच्युदरं विशन्त्या मुक्तमित्यनुषज्यते ।
गौरवात् सन्मानहेतोः ॥ २४ ॥
सा तमावेक्षते क्षारात्तापादङ्गे निमज्जति ।
सङ्कटे विस्मरत्येव जनो गौरवसत्क्रियाम् ॥ २५ ॥
सा छाया । तां सूचीम् । क्षारात्तीक्ष्णात् । तापादातपात् । कथं तर्हि मध्याह्ने
गौरवत्यागस्तत्राह - सङ्कटे इति ॥ २५ ॥
छयासूची तापसूची यश्चात्मा स तृतीयया ।
त्रिकोणं तपसा पूतं वाराणस्या समं कृतम् ॥ २६ ॥
यश्च आत्मा लोहसूची तेन सतृतीयया परस्परग्रथनान्तरालदेशरूपं
त्रिकोणं असी वरणा गङ्गा ग्रथनान्तरालस्थया वाराणस्या समं
कृतमित्यर्थः ॥ २६ ॥
गतास्तेन त्रिकोणेन त्रिवर्णपरिखावता ।
वायवः पांसवो येऽपि ते परां मुक्तिमागताः ॥ २७ ॥
शुष्कत्वेनामूर्ता श्यामा शुक्ला चेति त्रिवर्णसूचीसरिल्लक्षणपरिखावता ।
मुक्तिं स्वसंसर्गिजनमुक्तिप्रयोजनतां दोषमुक्तिलक्षणां पावनतां वा ॥
२७ ॥
विदितपरमकारणाद्य जाता
स्वयमनुचेतनसंविदं विचार्य ।
स्वमननकलनानुसार एक-
स्त्विह हि गुरुः परमो न राघवान्यः ॥ २८ ॥
विदितं साक्षात्कृतं परमकारणं ब्रह्म यया तथाविधा जाता ।
चेतनसंविदं प्रत्यगात्मानं स्वयमनुविचार्य । ननु कस्तस्या गुरुस्तत्राह
- स्वेति । स्वस्य मननं युक्तिभिर्विचारस्तेन कलना
स्वात्मपरिचयस्तदनुसरणं तदनुसार एवैको मुख्यो गुरुः । अन्यो गुरुस्तु न
मुख्य इत्यर्थः । यद्यपि आचार्यवान्पुरुषो वेद इति श्रुतिराह तथापि सा
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मया सूक्ष्मदर्शिभिः इति
श्रुत्यन्तरानुसाराच्छिष्यप्रज्ञामेवानुसरतीति भावः ॥ २८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे
सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥