त्रसप्ततितमः सर्गः ७३
श्रीवसिष्ठ उवाच ।
कर्कटीकटुवृत्तान्तं सर्वमाकर्ण्य वासवः ।
नारदं परिपप्रच्छ पुनर्जातकुतूहलः ॥ १ ॥
जीवसूच्या इह पुनर्वर्ण्यते भोगविस्तरः ।
ततश्चान्वेषणं वायोः सर्वतः शक्रचोदनात् ॥ १ ॥
कर्कट्याः कटुमप्रियं तपोवृत्तान्तम् । जीवसूचीभोगप्रकारश्रवणे
जातकुतूहलः ॥ १ ॥
शक्र उवाच ।
सूचीवृत्तपिशाचत्वं तपसोपार्ज्य तत्तया ।
कर्कट्या हिममर्कट्या के भुक्ता विभवा मुने ॥ २ ॥
सूचीव वृत्तं पिशाचत्वमिव अदृश्यं जीवसूचित्वम् । हिमसम्बन्धादिव
प्राप्तजाड्यबुद्ध्या मर्कटीव तुच्छभोगचपलया कर्कट्या ॥ २ ॥
श्रीनारद उवाच ।
जीवसूच्याः पिशाचत्वं गतायाः शक्र पेलवम् ।
आसीत्कार्ष्णायसी सूची तस्याः समवलम्बनम् ॥ ३ ॥
समवलम्बनमाश्रयः ॥ ३ ॥
तत्समालम्बनं त्यक्त्वा व्योमवातरथस्थया ।
प्राणमारुतमार्गेण तया देहप्रविष्टया ॥ ४ ॥
कदाचित्तस्या लोहसूच्याः समालम्बनं त्यक्त्वा व्योमवात आकाशगो
वायुस्तद्रूपरथारूढया तया ॥ ४ ॥
सर्वेषामान्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् ।
रन्ध्रेण पक्षिणेवान्तर्निलीनं मलिनात्मनाम् ॥ ५ ॥
तया जीवसूच्या मलिनात्मना पापिनामन्त्रतन्त्र्यादीनां रन्ध्रेण प्रविश्य
देहान्तर्निलीनं चिरं निलीय स्थितमित्यर्थः ॥ ५ ॥
यस्यां नाड्यां नभोवायुर्माति तत्तामुपेतया ।
तत्र शूलं कृतं स्थूलन्यग्रोधाय इवोत्कटम् ॥ ६ ॥
नाड्यां शिरायाम् । नभोवायुः रोगाश्रयबाह्यवायुर्माति सम्मितो भवति ।
तत्तां तादृशप्रवहताम् । तत्र नाड्याम् । शूलं शूलाख्या वेदना । यथा
स्थूलस्य श्रीदक्षिणामूर्तेर्न्यग्रोधस्य नाडीनामग्रे शैवं शूलं कृतं
विषक्तं तद्वत् ॥ ६ ॥
तच्छरीरेन्द्रियैस्तानि तथान्यानि बहूनि च ।
भुक्तानि नरमांसानि भोजनान्युचितानि च ॥ ७ ॥
तेषां प्राणिनां शरीरेन्द्रियैः तत्प्राण्युचितभोजनानि भुक्तानि ॥ ७ ॥
सुप्तं विवलितान्ल्पमालया मुग्धबालया ।
कान्तवक्षःस्थलस्यूतसृष्टपत्रकपोलया ॥ ८ ॥
विवलिताः कान्ताश्लेषामृदिता अनल्पा मालाः स्रजो यस्यास्तया मुग्धबालया ।
तद्भावापन्नयेत्यर्थः । कान्तवक्षःस्थले स्यूतं कृतं सृष्टं
सङ्क्रामितं पत्रं याभ्यां तथाविधौ कपोलौ यस्यास्तया । तथाच
मुग्धबालासुखमप्यनुभूतमेवेति भावः ॥ ८ ॥
विद्रुतं वीतशोकासु विहङ्ग्या वनवीथिषु ।
कल्पद्रुमौघपुष्पाग्रद्विगुणाम्भोजपङ्क्तिषु ॥ ९ ॥
विहङ्ग्या विहङ्गशरीरप्रविष्टया वनवीथिषु पद्मवनश्रेणिषु
कल्पद्रुमपुष्पश्रेष्ठेभ्यो द्विगुणामोदादिशालिपद्मपङ्क्तिष्वित्यर्थः ॥ ९ ॥
पीत आमोदमन्दारमकरन्दकणासवः ।
वनेष्वमर"ऐलानामलिन्यामलिलीलया ॥ १० ॥
अलिन्यां प्रविष्टयेति शेषः ॥ १० ॥
चर्वितानि शवाङ्गानि गृध्न्याऽगर्तानि वृद्धया ।
खड्गपृष्ठ्येव सङ्ग्रामे वीराङ्गानि जवेद्धया ॥ ११ ॥
गृद्ध्र्या गृध्रदेहप्रविष्टया आगर्तान्यापादितगर्तानि शवाङ्गानि ।
खड्गपृष्ठ्या खड्गधारया । खड्गयष्ट्येव इति पाठे स्पष्टम् ॥ ११ ॥
सर्वाङ्गकोशनाडीषु दिक्ष्विवानिललेखया ।
उड्डीनमवडीनं च काचौघव्योमवीथिषु ॥ १२ ॥
काचौघनीलासु व्योमवीथिषु ॥ १२ ॥
विराडात्महृदि प्राणवातस्पन्दाः स्फुरन्ति तु ।
यथा तथा प्रस्फुरितं प्रतिदेहगृहं तया ॥ १३ ॥
समष्टिप्राणवातस्पन्दा यथा स्वच्छन्दं स्फुरन्ति तथा प्रस्फुरितम् ॥ १३ ॥
सर्वप्राणिशरीरेषु भान्ति चिच्छक्तयस्तथा ।
दीपप्रभाभासितया गृहिण्येव स्वसद्मसु ॥ १४ ॥
ननु प्रतिदेहगृहं तया केन प्रकाशेन व्यवहृतं तदाह [तमाह इति
पाठः] - सर्वप्राणीति । सर्वप्राणिशरीरेषु यथा प्राणवाताः स्पन्दन्ते
तथा चिच्छक्तयोऽपि भान्ति । अन्तःकरणोपाधिभेदाद्बहुवचनम् ।
अर्थात्तादृशचिच्छक्तिप्रभाभासितया तया दीपप्रभाभासितया गृहिण्या
स्वसद्मस्विव व्यवहृतमित्यर्थः ॥ १४ ॥
विहृतं रुधिरेष्वन्तर्द्रवशक्त्येव वारिषु ।
अब्धिष्वावर्तवृत्त्येव जठरेषु विवल्गितम् ॥ १५ ॥
सुप्तं मेदःसु शुभ्रेषु शेषाङ्गेष्विव शौरिणा ।
स्वादितश्चाङ्गगन्धोऽन्तः पीतशक्त्यामृतं यथा ॥ १६ ॥
पीतशक्त्या पानशक्त्या ॥ १६ ॥
प्। ३०९)
तरुगुल्मौषधादीनां हृदौजान्यनिलश्रिया ।
परिभुक्तान्यशुक्लानि हिंसयोधीकृतानि च ॥ १७ ॥
हृदि ओजयन्ति बलारोग्यादि जनयन्तीति हृदौजानि रसनिर्यासादीनि । अनिलश्रिया
वायुरूपया । अशुक्लानि शुक्लेतरवर्णानि ॥ १७ ॥
अथो जीवमयी सूची स्यामिति स्थावरेण सा ।
सम्पन्ना तापसी सूची चेतना पावनी सिता ॥ १८ ॥
सैवेयं स्वसङ्कल्पा तपसि स्थैर्येण तापसी सती परमपावनी सम्पन्नेत्याह ##-
अदृश्यया तया चेह मारुतोग्रतुरङ्गया ।
अयःसूच्याऽनिलतया वहन्त्या दिक्ष्वरुद्धया ॥ १९ ॥
अयःसूच्या करणेन अनिलतया वायुवेगेन वहन्त्या गच्छन्त्या ॥ १९ ॥
पीतं भुक्तं विलसितं दत्तं दापितमाहृतम् ।
नर्तितं गीतमुषितमनन्तैः प्राणिदेहकैः ॥ २० ॥
अदृश्ययाऽशरीरिण्या मनःपवनदेहया ।
कृतमाकाशरूपिण्या न तदस्ति न यत्तया ॥ २१ ॥
जीवसूच्याः पारमार्थिकरूपं मनसि निधायाह - अदृश्ययेति ।
समष्टिव्यष्टिमनःपवनदेहया सर्वं जगदेव कृतमिति भावः ॥ २१ ॥
मत्तया शक्तयास्वादरसाच्चलितमेतया ।
कालमालानमाश्रित्य करिण्येव विवल्गितम् ॥ २२ ॥
यद्येवम्प्रभावा सा तर्हि तया सूचीभावे सर्वेऽपि कुतो न हिंसितास्तत्राह -
शक्तयेति । शक्तयापि तया कतिपयप्राणिरक्ताद्यास्वादरसादेव मत्तया
प्राण्यायुर्नियतिलक्षणं कालमालानं बन्धनस्तम्भमाश्रित्य
करिण्येवाल्पप्रदेशेष्वेव विवल्गितं भ्रान्तमित्यर्थः ॥ २२ ॥
कल्लोलबहुलाधूतदेहदृष्टनदीष्वलम् ।
वेगैर्वेधुर्यकारिण्या मत्तया मकरायितम् ॥ २३ ॥
देहरूपासु दृष्टनदीषु प्रत्यक्षनदीषु । वैधुर्यं प्राणिनां देहवैधुर्य
तत्कारिण्या ॥ २३ ॥
अशक्तया निगिरितुं मेदोमांसं तथा हृदि ।
नूनं रुदितमर्थाढ्यवृद्धातुरधिया यथा ॥ २४ ॥
हृदि स्वमनसि । अर्थेन धनेन आढ्यानां वृद्धानामातुराणां च धिया
यथा भोजनाशक्त्या रुदितं तद्वत् ॥ २४ ॥
अजोष्ट्रमृगहस्त्यश्वसिंहव्याघ्रादिनर्तितम् ।
नर्तक्येव चिरं रङ्गे वलयाङ्गदमङ्गके ॥ २५ ॥
यथा नर्तक्या स्याङ्गके वलयाङ्गदादिनर्तितं तथा
स्वपीडितमजोष्ट्राद्यप्यनया नर्तितमित्यर्थः ॥ २५ ॥
बहिरन्तश्च वायूनामेकत्वमनुजातया ।
गन्धलेखिकयेवान्तः स्थितं दुर्बलया तथा ॥ २६ ॥
बहिः वातस्कन्धेषु । अन्तः प्राणेषु । दुर्बलया । वायुगतिपरवशयेति यावत् ॥ २६
॥
मन्त्रौषधितपोदानदेवपूजादिभिर्हता ।
बहिर्गिरिनदीतुङ्गतरङ्गवदुपद्रुता ॥ २७ ॥
बहिः उप समीपदेशे द्रुता पलायिता ॥ २७ ॥
दीपप्रभेवाविज्ञातगतिर्गत्याशु लीयते ।
अयःसूच्यां मातरीव तत्र निर्वृतिमेति सा ॥ २८ ॥
गत्या अन्तर्धानशक्त्या अविज्ञातगतिः । अयः सूच्यां लीयते । निर्वृतिं
विश्रान्तिसुखम् ॥ २८ ॥
स्ववासनानुसारेण सर्व आस्पदमीहते ।
सूचित्वमेव राक्षस्या सूचीत्वेनास्पदीकृतम् ॥ २९ ॥
सर्वा विहृत्यापि दिशः स्वमेवास्पदमापदि ।
जीवसूची लोहसूचीमिवायाति जडो जनः ॥ ३० ॥
एवं प्रयतमाना सा विहरन्ती दिशो दश ।
मानसीं तृप्तिमायाता न शारीरीं कदाचन ॥ ३१ ॥
सति धर्मिणि धर्मा हि सम्भवन्तीह नासति ।
शरीरं विद्यते यस्य तस्य तत्किल तृप्यति ॥ ३२ ॥
अथ तृप्तस्य देहस्य स्मरणात्प्राक्तनस्य सा ।
बभूव दुःखितस्वान्ता पूर्णोदरसुखार्थिनी ॥ ३३ ॥
पूर्णोदरजन्यं यत्तृप्तिसुखं तदर्थिनी ॥ ३३ ॥
ततः प्राक्तनदेहार्थं करिष्ये विपुलं तपः ।
इति सञ्चिन्त्य तपसे देशं निर्णीय सात्मना ॥ ३४ ॥
वेवेशाकाशगृध्रस्य हृदयं तरुणस्य सा ।
प्राणमारुतमार्गेण खं खगीव विलेशया ॥ ३५ ॥
आकाशगामिनो गृध्रस्य । सा जीवसूचिः । केन मार्गेण विवेश तमाह -
प्राणेति । खं नीडच्छिद्रम् । बिलेशया नीडबिलशायिनी ॥ ३५ ॥
गृध्रः स्वामयसूचित्वं कश्चिदेतत्समाश्रितः ।
नितान्तप्रेरितः सूच्या कर्तुं मन उपाददे ॥ ३६ ॥
स्वामयसूचित्वं स्वान्तर्गतरोगसूचिभावमाश्रितः कश्चित्प्रागुक्तगृध्रः
स्वप्रविष्टसूच्यभिलषितं कर्म कर्तुं मन उपाददे ॥ ३६ ॥
सूचीमादाय गृध्रोऽसौ ययौ तच्चिन्तितं गिरिम् ।
अन्तःसूचिपिशाच्यन्ते नुन्नोऽब्द इव वायुना ॥ ३७ ॥
सूचीं लोहसूचीम् । अन्तर्गतसूचिपिशाच्या अन्ते निवृत्तिकाले उपस्थिते सति ॥ ३७ ॥
तत्राजने महारण्ये स्थापयामास तामसौ ।
सर्वसङ्कल्परहिते पदे योगीव चेतनाम् ॥ ३८ ॥
चेतनां बुद्धिवृत्तिम् ॥ ३८ ॥
एकेनैवाशु सा तेन पादप्रान्तेन सुस्थिता ।
सम्प्रतिष्ठापितेवद्रिमूर्ध्नि गृध्रेण देवता ॥ ३९ ॥
गृध्रेणाद्रिमूर्ध्नि सम्प्रतिष्ठापिता देवताप्रतिमेव सुस्थिता लोहसूची
बभूवेत्यर्थः ॥ ३९ ॥
रजःकणगृहस्थाणुशिरस्येकेन सानुना ।
पादेनातिष्ठदुद्ग्रीवं शिखीव गिरिमूर्धनि ॥ ४० ॥
रजःकण एव गृहं तत्स्थस्याणोः शिरसि एकेन अणुना सूक्ष्मतमेन
पादेनाग्रेण । शिखी अग्निरिव । उद्ग्रीवं शिखीव इति पाठे तु मयूर इव ॥ ४० ॥
[उज्जिह्वं शिखीव इति पाठः साधीयान् । शिखी अग्निरिव इति
व्याख्यानुरोधात्]
प्। ३१०) १८९
उत्थितां स्थापितां सूचीं गृध्रेण जीवसूचिका ।
दृष्ट्वा बहिर्विनिर्गन्तुं खगदेहात्प्रचक्रमे ॥ ४१ ॥
खगदेहान्निर्जगाम सूची प्रोन्मुखचेतना ।
पवनाद्गन्धलेखेव घ्राणवातलवोन्मुखी ॥ ४२ ॥
प्रोन्मुखी निर्गमनोत्सुका चेतना बुद्धिर्यस्याः ॥ ४२ ॥
जगाम गृध्रः स्वं देशं भारं त्यक्त्वेव भारिकः ।
निवृत्तव्याधिरिव स बभूवान्तरनाकुलः ॥ ४३ ॥
निवृत्तव्याधिः पुरुष इव अनाकुलः स्वस्थः ॥ ४३ ॥
अतः सूचिस्तयाधारस्तपसे परिकल्पिता ।
दृढः सुसदृशोऽर्थानां विनियोगो हि राजते ॥ ४४ ॥
अतो वक्ष्यमाणहेतुतः । सूचिर्लोहसूचिः । तया जीवसूच्या ॥ ४४ ॥
न ह्यमूर्तस्य सिद्ध्यन्ति विनाधारं किल क्रियाः ।
इत्याधारैकनिष्ठत्वमाश्रित्यासौ तपःस्थिता ॥ ४५ ॥
जीवसूची लोहसूचीं पिशाची शिंशपामिव ।
सर्वतो वलयामास वात्येवामोदलेखिकाम् ॥ ४६ ॥
वलयामास व्याप्तवती ॥ ४६ ॥
ततस्ततः प्रभृत्येषा सूची दीर्घतपस्विनी ।
अरण्यान्यां स्थिता शक्र तत्र वर्षगणान्बहून् ॥ ४७ ॥
तस्या वरार्थं यत्नं त्वं कुरु कर्तव्यकोविद ।
चिरेण सम्भृतं लोकमलं दग्धुं हि तत्तपः ॥ ४८ ॥
वरार्थं तुच्छवरेण वञ्चनार्थम् ॥ ४८ ॥
श्रीवसिष्ठ उवाच ।
इति नारदतः श्रुत्वा शक्रः सूचीनिरीक्षणे ।
मारुतं प्रेषयामास दशदिङ्मण्डलान्यथ ॥ ४९ ॥
जगामाथ मरुत्संविदात्मना तामवेक्षितुम् ।
अथामुच्य नभोमार्गं विचचार त्वरान्वितः ॥ ५० ॥
मरुतः संवित् दिव्यदृष्टिलक्षणं ज्ञानं तामवेक्षितुं दिशो जगाम ।
गन्तुं दिव्यदृशा दिशः पर्यालोचितवानित्यर्थः । नभोमार्गमामुच्य
विचचार भूमाविति शेषः ॥ ५० ॥
सा तस्य संवित्क्षिप्रार्धेनैव सर्वगता सती ।
परमार्चिरिवाविघ्नं सहसैव ददर्श ह ॥ ५१ ॥
क्षिप्रा त्वरावती । अर्धेनैकांशेनैव सर्वगता सर्वदिक्पर्यालोचनपरा सती
परमं सर्वोत्कृष्टं अर्चिर्ब्रह्मज्योतिरिव । अविघ्नमप्रतिबन्धम् ॥ ५१ ॥
भूमेः सप्तसमुद्रान्ते निबद्धां विपुलस्थलीम् ।
लोकालोकाद्रिरसनां ततो मणिमयोपमम् ॥ ५२ ॥
सर्वं ददर्शेत्युक्तमेव प्रपञ्चयति - भूमेरित्यादिना । विपुलस्थलीं
प्राणिशून्यकाञ्चनभूमिम् । अत्र द्वीपाम्भोधिक्रमः प्रागुक्तक्रमेण वा
ब्रह्माण्डान्तरत्वादत्रत्यक्रमेण वा बोध्यः ॥ ५२ ॥
स्वादूदकाब्धिवलयं सकोटरककुब्गणम् ।
पुष्करद्वीपवलयं तदन्तर्गिरिमण्डले ॥ ५३ ॥
कोटरशब्देन पर्वतसन्धिस्था देशा उच्यन्ते ॥ ५३ ॥
मदिराम्भोधिवलयं तज्जलेचरसंस्थितम् ।
गोमेदद्वीपकटकं तन्मध्यविषयव्रजम् ॥ ५४ ॥
तज्जलेचरैः संस्थितमाश्रितम् । अनेन तत्रत्यप्राणिनां
जलस्थलोभयसञ्चारसामर्थ्यं गम्यते ॥ ५४ ॥
इक्षूदकाब्धिपरिखं शान्तं गिरिगणान्तरम् ।
क्रौञ्चद्वीपोर्वरापीठं शान्तं गतगिरिक्रमम् ॥ ५५ ॥
शान्तं निरुपद्रवम् ॥ ५५ ॥
क्षीराब्धिमुक्तावलयं समध्यगतनायकम् ।
श्वेताख्यद्वीपवलयं सभूतप्रविभागकम् [सम्भूत इति
पाठः] ॥ ५६ ॥
क्षीराब्धिरेव मुक्ताखचितवलयो यस्य तत् । मध्यगतेन त्रैलोक्यनायकेन
विष्णुना सहितम् । प्रविभागा अवान्तरखण्डभेदाः ॥ ५६ ॥
ततो घृतोदवलयस्वान्तस्थपुरमन्दिरम् ।
कुशद्वीपवृतिव्याप्तं समहाशैलकोटरम् ॥ ५७ ॥
दध्यम्भोराशिरशनासान्ताम्बरपुरोदरम् ।
शाकद्विपोर्वराकारं सान्तस्थविषयान्तरम् ॥ ५८ ॥
रसनया सान्तं साबधिकमम्बरं पुरोदरं यस्य ॥ ५८ ॥
क्षाराम्भोराशिपरिधिं सान्तस्थविषयान्तरम् ।
जम्बूद्वीपे महामेरुं कुलपर्वतसङ्कुलम् ॥ ५९ ॥
विषयशब्देन तद्वासिनो जना लक्ष्यन्ते ॥ ५९ ॥
वातस्कन्धेभ्य एवादौ पतितानिलवेदना ।
क्रमेणानेन पर्यन्ते तेनैव प्रसृतोऽञ्जसा ॥ ६० ॥
पतिता अवतीर्णा प्रागुक्ता वायोः संवित् । अनेन स्वसंविदवतारक्रमेण
प्रसृतोऽवतीर्णो वायुः ॥ ६० ॥
वायुरालोकयन्नद्धा जम्बूद्वीपं निरीक्ष्य च ।
तत्प्राप हिमवच्छृङ्गं यत्र सूची तपस्विनी ॥ ६१ ॥
यत्र सा तपस्विनी सूचीस्थिता तामरण्यानीं वायुरवाप । प्राणिकर्मभिः
प्राणिसञ्चारैः ॥ ६१ ॥
शृङ्गमूर्ध्नि महत्युग्रे सारण्यानीमवाप ताम् ।
द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः ॥ ६२ ॥
असञ्जाततृणव्यूहां निकटत्वाद्विवस्वतः ।
रजोमयीमेव ततां संसाररचनामिव ॥ ६३ ॥
निकटत्वादिति । अनेन शिखरौन्नत्यातिशयो गम्यते । रजोमयीं पांसुप्रचुरां
रजोगुणविकारभूतां च । एवमन्ये अपि विशेषणे
अरण्यानीसंसाररचनासाधारणे बोध्ये ॥ ६३ ॥
मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम् ।
शक्रकोदण्डसङ्काशमृगतृष्णासरिच्छताम् ॥ ६४ ॥
अमितानन्तपर्यन्तां लोकपालेक्षितैरपि ।
केवलं पवनस्पन्दप्रवहद्धूलिकुण्डलाम् ॥ ६५ ॥
लोकपालानामिन्द्रादीनामीक्षितैर्दृष्टिभिरप्यमिता इयत्तयानवधारिता अनन्ताः
पर्यन्ता अवान्तरप्रदेशभेदा यस्याम् । पार्श्वद्वये वात्या पवनस्पन्देन
प्रवहद्भूलिपटले एव कुण्डले यस्याः । एतदादिविशेषणैररण्यानी
व्योमविलासिनीत्वेनोत्प्रेक्ष्यते ॥ ६५ ॥
सूर्यांशुकुङ्कुमालिप्तां लग्नचन्द्रांशुचन्दनाम् ।
विलासिनीमिव व्योम्नो वातसूत्कारपायिनीम् ॥ ६६ ॥
कान्तालिङ्गनसुखव्यञ्जकोध्वनिः सूत्कारस्तं पाययति श्रावयति तच्छीलाम् ॥
६६ ॥
प्। ३११) १८९
सप्तद्वीपसमुद्रमुद्रणसमुच्छन्नैकदेशाश्रयं
भूपीठं परितो विहृत्य पवनो दीर्घाध्वना जर्जरः ।
तां प्राप्योग्रगिरिस्थलीमलिवपुर्व्योमाङ्गलग्नामिव
व्याप्तानन्तदिगन्तपूरकबृहद्देहो विशश्राम सः ॥ ६७ ॥
व्याप्तानन्तदिगन्तपूरकबृहद्देहः स पवनः सप्तभिर्द्वीपैः ससमुद्रैश्च
मुद्रणेन लाञ्छनेन सम्यक् उत् उपरिभागे छन्नस्य
व्याप्तस्यैकदेशस्याश्रयं भूलक्षणं पीठं परितो विहृत्य
दीर्घेणाध्वना जर्जरः श्रान्तः सन् अलिसदृशवपुषो व्योम्नः अङ्गे
लग्नामिव स्थितां तामुग्रगिरिस्थलीं प्राप्य विशश्राम विश्रान्तिं
प्रापेत्यर्थः ॥ ६७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
सूचीतपोवर्णनं नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीतपो
वर्णनं नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥