द्विसप्ततितमः सर्गः ७२
श्रीवसिष्ठ उवाच ।
सूची सा सम्भवद्वाणी चिन्तयित्वेत्यकम्पनम् ।
पुनस्तद्देहलाभाय भवाम्याशु तपस्विनी ॥ १ ॥
वर्ण्यतेऽत्र पुनः सूच्यास्तप उग्रं हिमाचले ।
तद्विस्मितस्य शक्रस्य नारदोक्त्या विनिश्चयः ॥ १ ॥
सा शोकपरायणा सूची असम्भवद्वाणी मौनमास्थिता सती अकम्पनं
सैकाम्यनिश्चलं यथा स्यात्तथा इति प्रागुक्तरीत्या स्वदेहादिकं
वक्ष्यमाणप्रकारं च चिन्तयित्वा । तमेव प्रकारमाह - पुनरिति ॥ १ ॥
इति सञ्चिन्त्य चित्तस्थं संहृत्य जनमारणम् ।
तदेव हिमवच्छृङ्गं जगाम तपसे स्थितम् ॥ २ ॥
तपसे [तपसे इति क्वचिन्न लभ्यते] जगाम । स्थितं प्रागास्थितम् ॥ २ ॥
अपश्यदेव सूचित्वं सा तन्मानसमात्मनि ।
प्राणवातात्मिका प्राणैः प्रविश्य हतमानसम् ॥ ३ ॥
कथं जगामेति तदाह - अपश्यदेवेति । प्रथममात्मनि मानसं
मनःकल्पितं सूचित्वमेवापश्यत् । क्रियाशक्तिशून्ये आत्मनि सूचित्वदर्शनेऽपि
कथं गमनसिद्धिस्तत्राह - प्राणेति । या प्राणवातात्मिका जीवसूचिः सा
स्वोपाधिभूतैः प्राणैः सूचित्वकल्पनाहतं मानसं प्रविश्य ।
मनःकल्पितां लोहसूचीं प्रविश्येति यावत् । हतमानवाम् इति पाठे हता मानवा
यया लोहसूच्या तां प्रविश्येत्यर्थः ॥ ३ ॥
अथात्मन्येव सूचित्वं पश्यत्येव मनोमयम् ।
प्राणवातशरीरासौ जगाम हिमवच्छिरः ॥ ४ ॥
अथ जीवसूच्यात्मन्येव मनोमयं लोहसूचिभावं पश्यत्येव । तथाच
लोहजीवसूच्योरन्योन्यतादात्म्याध्यासादसौ कर्कटी प्राणवाताऽभिन्नशरीरा सती
क्रियाशक्तिं प्राप्य हिमवच्छिरो जगाम । वक्ष्यमाणरीत्या गृध्रशरीरं
प्रविश्येत्यर्थः ॥ ४ ॥
दृढदावानले तत्र सर्वभूतविवर्जिते ।
महामहाशिलाभाभारूक्षे पांसुविधूसरे ॥ ५ ॥
महती विशाला या महाशिला गुणोत्कृष्टेन्द्रनीलशिला तदामेवाभा
कान्तिर्यस्याः । आभाभिरातपै रूक्षे इति वा ॥ ५ ॥
तस्थावभ्युदितेवासौ निस्तृणे विपुले स्थले ।
मरावकस्मात्सञ्जातशुष्का तृणशिखा यथा ॥ ६ ॥
अभ्युदिता तत्रैवाङ्कुरितेव ॥ ६ ॥
सुसूक्ष्मस्यैकपादस्य सार्धेनैवाश्रितोर्वरा ।
स्वसंविदेकपादात्म तपः कर्तुं प्रचक्रमे ॥ ७ ॥
सुसूक्ष्मस्य सूच्यग्ररूपस्यैकपादस्यार्धेन लेशेनैव आश्रिता उर्वरा
भूमिर्यया । अत एव द्विपदामिवैकपादपरिहारेणैकपादात्मत्वासम्भवेऽपि
स्वसंविदा स्वीयकल्पनयैव कल्पितभागद्वयमध्ये
अग्रार्धपरिहारेणैकपादात्म एकपादावस्थितिरूपं तपः ॥ ७ ॥
सूक्ष्मपादतलेनैषा वसुधारेणुसङ्कटी ।
निवार्य त्रिपदीं कृत्स्नाद्यत्नेनोर्ध्वमुखी स्थिता ॥ ८ ॥
पादतलेन निशिताग्रभागेन वसुधाया रेणुमपि सङ्कटयति तुदतीति
वसुधारेणुसङ्कटी । सङ्कटशब्दात् तत्करोति - इति णिचि कर्मण्यण् ।
अङ्गोपस्य स्थानिवद्भावान्नोपधावृद्धिः । त्रिपदीं
पुरःपार्श्वद्वयलक्षणत्रिभागप्रसृतां दृष्टिं
कृत्स्नाद्विषयान्निवार्य ॥ ८ ॥
प्। ३०७) १८७
कृष्णत्वहिंस्रतातैक्ष्ण्यव्याप्त्यास्यपवनाशनैः ।
यत्नात्पदं निबध्नन्ती रेण्वणूपलसङ्कटे ॥ ९ ॥
ननु ऊर्ध्वमुखत्वे दृष्टेः सर्वतो निवारणे च रेण्वणूपलसङ्कटे कथं
तस्याः पादस्थैर्यं सिद्धं तत्राह - कृष्णत्वेति । दृढत्वादेव
स्थैर्यं सिद्धं दृढत्वं चास्याः कृष्णत्वेन कृष्णायसत्वेन
हिंस्रत्वेन तैक्ष्ण्येन तीक्ष्णाग्रत्वेन च सर्वाङ्गव्याप्त्या आस्येन
पवनस्याशनैर्ग्रसनैस्तद्विष्टम्भलक्षणयत्नाच्च सिद्धमित्यर्थः ॥ ९ ॥
अरण्ये क्षुभितां सम्पद्दूरालोकार्थमुत्थिताम् ।
पुच्छाकोटिस्थितां वातालोलामनुचकार सा ॥ १० ॥
सा सूची अरण्ये क्षुधाक्षुभितां अत एव सम्यक् पद्यन्ते समीपमुपसर्पन्तीति
सम्पदोऽरण्याध्वगास्तेषां
दूरादालोकनमालोकस्तदर्थमुत्थितामुर्ध्वीकृतमुस्वभागाम् । पुच्छेन
आकोटौ तृणपर्णाद्यग्रभागे स्थिताम् । पथिकव्यामोहाय
वातेनाप्यलोलामचनलाम् । अर्थात्तृनजलूकामनुचकार विडम्बितवती ।
दूरालोकायम् इति पाठे दूरादालोकाय आयं आयतं दीर्घ यथा स्यात्तथा
उत्थितामित्यर्थः ॥ १० ॥
मुखरन्ध्रविनिष्क्रान्ता तस्या भास्करदीधितिः ।
सखी बभूव सूच्याभा पश्चाद्भागैकरक्षिणी ॥ ११ ॥
सूचीरन्ध्रनिःसृतातपस्यापि सूच्याकारत्वात्तत्सखीत्वमुत्प्रेक्षते - मुखेति
द्वाभ्याम् ॥ ११ ॥
क्षुद्रेऽपि स्वजने भूतेऽप्येति वत्सलतां जनः ।
दीधीत्यापि सखीवृत्तं सूच्यां शुचितया भृतम् ॥ १२ ॥
बभूव तस्याः स्वच्छाया द्वितीया तापसी सखी ।
एवं सूचीव मलिना तया पश्चात्कृतेव सा ॥ १३ ॥
सूचीच्छायामपि तत्सख्यन्तरत्वेन कल्पयति - बभूवेति । एवं दीधितिवदेव ।
यो विशेषस्तमाह - सूचीवेति । तया सूच्या सा छायासूची पश्चात्कृता
पृष्ठरक्षिका कृतेव ॥ १३ ॥
सूच्या तया सुनिर्गत्य सुपाताक्ष्यः स्म कूणितैः ।
पश्चात्सख्याभया साधुरन्योन्याचारकेवलम् ॥ १४ ॥
तासां तिसृणां सूचीनां परस्परशिरोमूलग्रन्थने
परस्परविष्टम्भात्परस्परानुकूल्याचरणमिव वृत्तमित्युत्प्रेक्षते -
सूच्येति । पश्चात्सख्या आभया सूर्यदीधित्या तया लोहसूच्या द्वारभूतया सुप्रु
निर्गत्य सुपाताक्ष्या दीधीतिषुपात एव अक्षि नेत्रं यस्यास्तस्या छायासूच्या सह
कूणितैर्ग्रथनैः । छायासूचीमूलग्रथनेन सह गणनाद्बहुत्वम् ।
अन्योन्याचारके परस्पराचरणीये स्थैर्यसाहाय्ये बलं दार्ढ्य कृतमिति
शेषः । स्म किल । अतः स आचारः साधुरित्यर्थः ॥ १४ ॥
सूच्याभिप्रेक्षिते याता मतिं द्रुमलतादयः ।
महातपस्विनीं सूचीं दृष्ट्वा नोत्कण्ठयन्ति के ॥ १५ ॥
एवं तपस्यन्त्याः सूच्याः अभिप्रेक्षिते पुरोदर्शनचिषये द्रुमलतादयोऽपि मतिं
सद्बुद्धिं याताः प्राप्ताः । रतिम् इति पाठे स्पष्टम् ॥ १५ ॥
स्थिरबद्धपदामेनां स्वमनोवृत्तिमुत्थिताम् ।
अनिलं भोजयाञ्चक्रुर्मुखनिर्गतभाङ्कृतैः ॥ १६ ॥
तपोविषये स्थिरां स्वमनसो वृत्तिमिवोत्थितामेनां सूची द्रुमलतादयः
स्वपुष्पफलादिवासितमनिलं वायुं भोजयाञ्चकुरित्युत्प्रेक्षा ।
तस्यास्तद्भोजनसम्भावने हेतुः - मुखनिर्गतभाङ्कृतैरिति । सशब्दं
हि भोजनं पामरेषु प्रसिद्धमिति भावः ॥ १६ ॥
प्रसूतानि भविष्याणि गीर्वाणान्यानि वा चिरम् ।
कौसुमानि रजांस्यस्या इत्यास्यं पर्यपूरयन् ॥ १७ ॥
दैवाद्रुमलताभिः कुसुमरजोभिः कृतं सूचीविलपिधानमुत्प्रेक्षते -
प्रसूतानीति । यानि प्राक्प्रसूतानि यानि च भविष्याणि यानि गीर्वाणेभ्यो
देवेभ्योऽन्यानि । अदेवतार्थानीत्यर्थः । तानि सर्वाणि कौसुमानि रजांसि अस्यै
सूच्यै देयानीयु * * *? वेत्यर्थः ॥ १७ ॥
ततो महेन्द्रप्रहितं वातनुन्नामिषं रजः ।
तया त्वभ्रत्वव्याजेन न निगीर्णं मुखे विशत् ॥ १८ ॥
दैवाच्छिद्रे वातवुध्ना * * * * * *? रजसां
प्रवेशं महेन्द्रकृतविघ्नत्वेन प्रविष्टानां यद्बहिर्निर्गमनं
तत्तद्दियानि * * * *? न चोत्प्रेक्षते - तत इति द्वाभ्याम् ।
अभ्रत्वव्याजेन च्छिद्रत्वच्छ * *? स्थिते मुखे विशदपि तया न
न निगीर्णवती तानि रजांसि दृढनिश्चयात् ।
अन्तःसारतया कार्यं लघवोऽप्याप्नुवन्ति हि ॥ १९ ॥
कार्य तपोविघ्ननिवारणलक्षणं प्रयोजनम् ॥ १९ ॥
न पिबत्यास्यसंस्थानि तथा पुष्परजांस्यपि ।
विस्मयं पवनः प्राप सुमेरून्मूलनाधिकम् ॥ २० ॥
आशिरः पिहिता पङ्कैः पूरितापि महाजलैः ।
विधूतापि बृहद्वातैर्दग्धापि वनवह्निभिः ॥ २१ ॥
एवं विप्रान्तरैरपि सा न क्षुभितेत्याह - भाशिर इत्यादिना ॥ २१ ॥
भिन्नापि करकापातैर्भ्रामितापि तडिद्भ्रमैः ।
उद्वेजितापि जलदैः क्षोभिताप्यतिगर्जितैः ॥ २२ ॥
अपि वर्षसहस्रैः सा चित्तस्थदृढनिश्चया ।
पादाग्रं तु कुसुप्तेव नाकम्पत तपस्विनी ॥ २३ ॥
कुसुमा विषमूर्च्छादिषुवेव । पादार्थ सूच्यग्रमात्रम् । अणुमात्रमपीत्यर्थः
। तुशब्दोऽप्यर्थे ॥ २३ ॥
निवृत्ताया बहिःस्पन्दाद्देशकाले वहौ गते ।
विचारयन्त्यास्तस्याः स्वमात्मा सत्यं सुचेतनम् ॥ २४ ॥
तपस्यन्त्यास्तस्याः पापक्षयाचिरं चित्तङ्काभ्याच विचारपूर्वकं
ज्ञानमुत्पन्नमित्याह - निवृत्ताया इत्यादिना । सत्यं शुचेतनं स्तं
विचारयन्त्यस्तस्या आत्मैव ज्ञानां लोकस्तत्साक्षात्कारवृत्तिद्धबोधात्मा
समुदभूदित्यर्थः ॥ २४ ॥
ज्ञानालोकः समुदभूत्सा परावरदर्शिनी ।
बभूव निर्मला सुच्चिर्विषूची पावनं परम् ॥ २५ ॥
जाता विदितवेद्या सा स्वयमेव तया धिया ।
तपसा दुष्कृते क्षीणे सूची स्वसुखसूचिनी ॥ २६ ॥
इति वर्षसहस्राणि साकरोद्दारुणं तपः ।
सप्तसप्तमहालोकसन्तापकरमुन्मुखी ॥ २७ ॥
सप्तवर्षसहस्राणि सप्तसप्तानां चतुर्दशानां महतां भूरादिलोकानां
सन्तापकरं तपः । उन्मुखी ऊर्ध्वमुखी ॥ २७ ॥
तस्याः कल्पाग्निभीमेन तपसा हि महागिरिः ।
बभूव तेन ज्वलितो जज्वालेव ततो जगत् ॥ २८ ॥
प्। ३०८) १८८
कस्येदं तपसाक्रान्तं जगदित्यथ वासवः ।
नारदं परिपप्रच्छ स तस्याकथयच्च तत् ॥ २९ ॥
तत्सूचीतपः ॥ २९ ॥
सप्तवर्षसहस्राणि सूची दीर्घतपस्विनी ।
महाविज्ञानदेहासौ तेनेदं ज्वलितं जगत् ॥ ३० ॥
नागाः श्वसन्ति विचलन्ति नगाः पतन्ति
वैमानिका जलधिवारिधराः प्रयान्ति ।
शोषं दिशोऽर्कसहिता मलिनीभवन्ति
सूच्याः सुरेन्द्र तपसा क्षयमाययेव ॥ ३१ ॥
जलधयो वारिधराश्च शोषं प्रयान्ति ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क०
सूचीतपःप्रभावो नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥
इतिश्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीतपः
प्रभावो नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥