एकसप्ततितमः सर्गः ७१
श्रीवसिष्ठ उवाच ।
अथ सा बहुकालेन कर्कटी नाम राक्षसी ।
सर्वेषां नरमांसानां नतु तृप्तिमुपाययौ ॥ १ ॥
कर्कढ्याः सूचिभूतायाः पश्चात्तापोऽत्र वर्ण्यते ।
स्मरन्त्याः प्राक्तनं देहं विस्तरात्परिदेवनम् ॥ १ ॥
सर्वेषां सर्वजातीयानां नराणां मांसानामास्वादनेऽपीति शेषः ।
तृप्तिमलम्बुद्धिम् ॥ १ ॥
पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना ।
सूच्याः किमिव मात्यन्तस्तृष्णासूची सुदुर्भरा ॥ २ ॥
तृप्ता अपगतक्षुधा ॥ २ ॥
चिन्तयामास हा कष्टं किमहं सूचितां गता ।
सूक्ष्मास्मि हतशक्तिश्च अपि ग्रासो न माति च ॥ ३ ॥
हतशक्तिः कुण्ठितभक्षणसामर्थ्या । न माति । उदरे इति शेषः ॥ ३ ॥
क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः ।
कालमेघविशालानि वने शीर्णानि पर्णवत् ॥ ४ ॥
तानि प्राक्तनानि । अङ्गानि हस्तपादादीनि ॥ ४ ॥
मय्यस्यां मन्दभाग्यायां मनागपि न माति हि ।
स्वादुमांसरसग्रासो वसावासित आसयन् ॥ ५ ॥
अस्यामेतद्दशापन्नायाम् । वसया वासितः सुगन्धिः । आसनि आस्ये यन् प्रविशन् ।
एतेः शतृप्रत्ययः । पद्दन् - इति सूत्रे प्रभृतिग्रहणस्य
प्रकारार्थत्वादासन्नादेशः ॥ ५ ॥
पङ्कान्तर्विनिमज्जामि पतामि धरणीतले ।
हस्तास्मि जनपादौघैः शुक्रेण मलिनास्मि च ॥ ६ ॥
पङ्कान्तर्मज्जनादि प्राक्सर्गे वर्णितम् । शुक्रेण चरमधातुना ॥ ६ ॥
हा हताहमनाथाहमनाश्वासा निरास्पदा ।
दुःखाद्दुःखे निमज्जामि सङ्कटात्सङ्कटेऽपि च ॥ ७ ॥
अनाश्वासा सखिबन्ध्वाद्याश्वासनशून्या । सङ्कटात्प्राणसङ्कटात् ॥ ७ ॥
न सखी न च मे दासी न मे माता न मे पिता ।
न मे बन्धुर्न मे भृत्या न मे भ्राता न मे सुतः ॥ ८ ॥
तत्कुतस्तत्राह - नेति ॥ ८ ॥
न मे देहो न मे स्थानं न मे कश्चित्समाश्रयः ।
नैकस्थाने समावासो भ्राम्यामि वनपर्णवत् ॥ ९ ॥
समाश्रय उपजीव्यः ॥ ९ ॥
आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे ।
अभावमपि वाञ्छामि सोऽपि सम्पद्यते न मे ॥ १० ॥
अभावं मरणम् ॥ १० ॥
स्वको देहः परित्यक्तो मूढचेतनया मया ।
काचबुद्ध्या विमूढेन हस्ताच्चिन्तामणिर्यथा ॥ ११ ॥
आपतद्धि मनो मोहं पूर्वमापत्प्रयच्छति ।
पश्चादनर्थविस्ताररूपेण परिजृम्भते ॥ १२ ॥
इदं च दुःखं मोहाविष्टमनःकृतमेवेत्याह - आपतद्धीति । मनः
कर्तृ मोहमापतत्सत्पूर्वमापादयति दुःखसहस्रमित्यापद्दुर्बुद्धिस्ताम् ।
व्यत्ययेन प्रथमा ॥ १२ ॥
धूमेषु परितिष्ठामि मार्गे विलुलितास्मि च ।
तृणेषु प्रेषितास्म्यन्तर्हा मे दुःखपरम्परा ॥ १३ ॥
किञ्च कदाचिदहं कैश्चित्सूत्रे प्रोता धूमप्रदेशे बद्धा धूमेषु परि उपरि
तिष्ठामि । कदाचिन्मार्गे पतिता खरोष्ट्रादिभिर्विलुलिता उपमर्दिता ।
कदाचित्कैश्चिन्नलिकादितृणेषु निधानायान्तः प्रेषिता प्रवेशितास्मि ॥ १३ ॥
परप्रैषकरी नित्यं परसञ्चारचारिणी ।
परं कार्पण्यमायाता जाता परवशास्म्यलम् ॥ १४ ॥
भ्रान्तिं करोमि तुच्छे च सापि वेधनरूपिणी ।
अहो ममाल्पभाग्याया दौर्भाग्यमपि दुर्भगम् ॥ १५ ॥
तुच्छेष्वान्तररक्ताद्यास्वादविषयेषु भ्रान्तिमभिलाषम् । सा भ्रान्तिरपि
वेधनरूपिणी वेधनमात्रफला नास्वादनफला । निरुदरजिह्वत्वादित्यर्थः ॥ १५
॥
प्। ३०५) १८६
उत्थितः स्फारवेतालः कुर्वत्याः शान्तिमद्य मे ।
सर्वनाशोऽवदातेन प्रवृत्ताया ममोदिता ॥ १६ ॥
सोऽयं वेतालशान्तिकर्मणि वेतालोदय इति लोकप्रसिद्ध आभाणकः स्वस्यां
सम्पन्न इत्याह - उत्थित इति । अवदातेन तपसा ॥ १६ ॥
किं मन्दया मया तादृक्सन्त्यक्तं तन्महावपुः ।
यथा नाशेन वा भाव्यं तथोदेत्यशुभा मतिः ॥ १७ ॥
तत्प्राक्तनं महावपुः किङ्कारणं त्यक्तम् । वा अथवा येन प्रकारेण बुद्धौ
सत्यां नाशेन भाव्यम् । आवश्यके कृत्यः ॥ १७ ॥
मामवान्तरनिर्मग्नां सूक्ष्मां कीटतनोरपि ।
उद्धरिष्यति को नाम पांसुराशिभिरावृताम् [हारितां
पांसुराशिभिः इति पाठष्टीकानुगुणः] ॥ १८ ॥
नापूजयद्गणेशानं सूचीसृष्टौ स विश्वसृट् । नापसूत्रां ततः सूचीं
नष्टां विन्दति मानवः ॥ इत्याभाणकमनुसृत्याह-मामिति । अवान्तरे
पथि दैवात्पांसुनिर्मग्नां को वा उद्धरिष्यति । दुर्लक्ष्यत्वान्न
कश्चिदुद्धरिष्यतीत्यर्थः । हारितां हापिताम् । आवृताम् इति पाठे तु स्पष्टम् ॥
१८ ॥
विविक्तमनसाम्बुद्धौ क्व स्फुरन्ति हताशयाः ।
ग्राममार्गतृणानीव गिरेरुपरिवासिनाम् ॥ १९ ॥
यद्यप्यसूक्ष्मदृश उद्धर्तुमशक्तास्तथापि विविक्तमनसः सूक्ष्मदर्शिनो
योगिनस्त्वामुद्धरिष्यन्तीत्याशङ्क्याह - विविक्तेति । हताशया मादृशा इति
शेषः ॥ १९ ॥
स्थिताया अज्ञताम्भोधौ क्व ममाभ्युदयो भवेत् ।
अन्धस्योदेति प्राकाश्यं नखद्योतानुसेविनः ॥ २० ॥
ननु त्वयैव स्वात्मोद्धर्तव्यस्तत्राह - स्थिताया इति । प्रकाशयतीति
प्रकाशस्तद्भावः प्राकाश्यमर्थदर्शनम् ॥ २० ॥
अतः कियन्तं नो जाने कालमावलितापदम् ।
मयापच्छ्वभ्रगर्तेषु लुठितव्यं हतेहया ॥ २१ ॥
आवलिता आपदा [आपदा इति टावन्तम्] यस्मिन्कर्मणि तद्यथा स्यात्तथा
लुठितव्यम् ॥ २१ ॥
कदा स्यामञ्जनमहाशैलपुत्रकरूपिणी ।
द्यावापृथिव्योर्वैधुर्ये स्तम्भतामनुतिष्ठती ॥ २२ ॥
वैधुर्ये प्राणिसंहारेणावष्टम्भेन च भारोत्तारणे ॥ २२ ॥
मेघमालासमभुजा चिरं विद्युत्पदेक्षणा ।
नीहारजालवसना प्रोच्चकेशमिताम्बरा ॥ २३ ॥
विद्युत्पदे विद्युत्स्थानापन्ने ईक्षणे चक्षुषी यस्याः । प्रोच्चैः
केशैर्मितमम्बरं यस्याः ॥ २३ ॥
लम्बोदराभ्रसन्दर्शप्रनर्तितशिखण्डिनी ।
लम्बलोलस्तनी श्यामा देहवातद्रवत्स्तनी ॥ २४ ॥
उदरलक्षणस्याभ्रस्य सन्दर्शेन प्रेक्षणेन प्रनर्तिताः शिखण्डिनो मयूरा
यया । देहवातेन श्वासेन द्रवन्तौ कम्पमानौ स्तनौ यस्याः ॥ २४ ॥
हासभस्मच्छटाच्छन्नसूर्यमण्डलरोधिनी ।
कृतान्तग्रसनोद्युक्तकृत्यैकाकृतिधारिणी ॥ २५ ॥
हासेनाट्टहासबिलासेन भस्मच्छटाभिर्दग्धारण्यधूलिपटलैश्च्छन्नस्य
आच्छादितस्य सूर्यमण्डलस्य रोधिनी पिधानशीला । कृतान्त इव
सर्वप्राणिग्रसनमेव उद्युक्तमारब्धं कृत्यं यया तथाविधा या एका
आकृतिर्भीषणाकारस्तद्धारिणी ॥ २५ ॥
कृशानूलूखलदृशा सूर्यस्रग्दामहारिणी ।
पर्वतात्पर्वते शृङ्गे न्यस्य पादौ विहारिणी ॥ २६ ॥
कृशानुरिव ज्वलन्त्यौ उलूखलमिव निमग्ने दृशे नेत्रे यस्याः । आपं चैव
हलन्तानाम् इति भागुरिमतेन दृशाशब्दः साधुः । कदा भविष्यामीति
सर्वत्रानुषज्यते ॥ २६ ॥
कदा मे स्याद्गुरुश्वभ्रभासुरं तन्महोदरम् ।
कदा मे स्याच्छरन्मेघमेदुरा नखरावली ॥ २७ ॥
नखरा नखास्तेषामावली पङ्क्ति ॥ २७ ॥
कदा मे स्यान्महारक्षोविद्रावणकरं स्मितम् ।
स्वस्फिग्वाद्यैररण्यान्यां कदा नृत्येयमुन्मदा ॥ २८ ॥
महतां प्रौढानां रक्षसां हृदयविद्रावणकरं स्मितं ईषद्धसितम् ।
स्फिग्वाद्यैः स्फिजो वादनैः । अरण्यान्यां महारण्ये । इन्द्रवरुण -
इत्यादिना ङीष्यानुक् ॥ २८ ॥
वसासवमहाकुम्भैर्मृतमांसास्थिसञ्चयैः ।
कदा करिष्येऽविरतं मेदुरोदरपूरणम् ॥ २९ ॥
कदा पीतमहालोकरुधिरा क्षीबतां गता ।
भवेयं मुदिता दृप्ता मुद्रिता निद्रया ततः ॥ ३० ॥
मयैव कुतपोवह्नौ तदग्र्यं भासुरं वपुः ।
भस्मत्वं कनकेनेव सूचित्वमुररीकृतम् ॥ ३१ ॥
दुःखफलपर्यवसितत्वात्कुत्सार्हे तपोवह्नौ तत्प्राक्तनं भासुरं
वपुर्भस्मत्वं नीतमिति शेषः । यथा कनकेन स्वकनकत्वनाशकं
भस्मत्वं लोहसूचित्वं वा उररीकृतं स्यात्तत्तुल्यम् ॥ ३१ ॥
क्व क्लिआञ्जनशैलाभं वपुर्भरितदिक्तटम् ।
क्व प्राचिकाखुरसमं सूचित्वं तृणपेलवम् ॥ ३२ ॥
प्राचिका दीर्घपादलूता जातिस्तस्याः खुरः पादाग्रं तत्समम् ॥ ३२ ॥
त्यजत्याशु मृदित्यज्ञः प्राप्यापि कनकाङ्गदम् ।
मया सूचित्वलोभेन सन्त्यक्तं भासुरं वपुः ॥ ३३ ॥
मृन्मलिनं कनकाङ्गदं प्राप्याप्यविचारेण मृदिति भ्रान्त्या त्यजति ॥ ३३ ॥
हा महोदर विन्ध्याद्रिसनीहारगुहोपम ।
अद्य नान्तं करोषि त्वं कथं सिंहेन हस्तिनाम् ॥ ३४ ॥
इदानीमुदराद्यङ्गानि प्रत्येकं सम्बोध्यानुशोचत्याह - हा इत्यादिना ।
विन्ध्याद्रेः सनीहारगुहा उपमा यस्य तथाविध हे महोदर त्वं सिंहेन
सिंहसदृशेन स्वाविर्भावेन हस्तिसदृशानां त्वद्वियोगदुःखानामन्तं
नाशं कथं न करोषि ॥ ३४ ॥
हा भुजौ भरनिर्भग्नशिखरौ शशभृन्नखैः ।
पुरोडाशधिया चन्द्रं कथमद्य न बाधतः ॥ ३५ ॥
भरेणातिशयेन निर्भग्नगिरिशिखरौ ।
शशभृत्सदृशैर्नखैर्देवभोग्यत्वात्पुरोडाशमिव स्थितं चन्द्रं
कथं न बाधत इति दैर्घ्यातिशयोक्तिः ॥ ३५ ॥
प्। ३०६) १८७
हा वक्षः काचवैधुर्यगिरीन्द्रतटसुन्दर ।
नाद्य सिंहादि यौकं तद्धृतं रोमवनं तथा ॥ ३६ ॥
काचमणिमालानां वैधुर्येऽपि स्वत एव गिरीन्द्रतटमिव सुन्दर हे वक्षः
त्वया सिंहादय इव सिंहादय एव वा सिंहानत्तुं शीलमस्य तथाविधं वा
यूकानां समूहो यौकं यत्र तथाविधं रोमवनं यथा पूर्व धृतं
तथाद्य न धृतमित्यर्थः ॥ ३६ ॥
हा नेत्रे कृष्णरजनीरजःशुष्केन्धनैजने ।
कस्मान्न मे भूषयतो दृग्ज्वालामालया दिशः ॥ ३७ ॥
कृष्णरजन्या कृष्णपक्षराज्या रज्यते आसञ्ज्यत इति
कृष्णरजनीरजोऽन्धकारस्तद्रूपशुष्केन्धनस्य एजने प्रदीपने । एजृ दीप्तौ
ल्युः । हे मे नेत्रे दृक् दर्शनं तद्वक्षणया ज्वालामालया दिशः कस्मान्न
भूषयतः ॥ ३७ ॥
हा स्कन्ध बन्धो नष्टोऽसि निषिद्धोऽसि महीतले ।
कालेन विनिपिष्टोऽसि निपृष्टोऽसि शिलातले ॥ ३८ ॥
निषिद्धः परिहृतः । परित्यक्त इति यावत् ॥ ३८ ॥
हा मुखेन्दो तपसि किं नाद्य त्वं मम रश्मिभिः ।
कल्पान्तदावसंशान्तचन्द्रबिम्बमनोहर ॥ ३९ ॥
कल्पान्ते दावेन दवाग्निना संशान्तं दग्धं चन्द्रबिम्बमिव
श्यामत्वान्मनोहर ॥ ३९ ॥
हा हा हस्तौ महाकारौ तावद्य क्व गतौ मम ।
सम्पन्नास्मि महासूचिर्मक्षिकाखुरदोलिता ॥ ४० ॥
मक्षिकाणां खुरैः पादाग्रैरपि दोलिता चालिता । अतिक्षुद्रेत्यर्थः ॥ ४० ॥
हा [त्वां शोचामीत्यर्थः]
भगोग्रकरञ्जाढ्यसत्कन्दश्वभ्रशोभन ।
विन्ध्याद्वरेण्यविपुलनितम्बामलबिम्बक ॥ ४१ ॥
सत् विद्यमानं कन्दं स्थूलतरुमूलं यस्मिंस्तथाविधं श्वभ्रं गर्त इव
शोभन ॥ ४१ ॥
क्वाकारोऽम्बरपूरकः क्व च नवं तुच्छात्मसूचीवपू
रोदोरन्ध्रसमं क्व वास्य कुहरं क्वेदं च सूचीमुखम् ।
क्व ग्रासो बहुमांसभारबहुलः क्वाब्बिन्दुना भोजनं
सूक्ष्मास्म्येतदहो मयैव रचितं स्वात्मक्षये नाटकम् ॥ ४२ ॥
बहुभिर्मासभारैर्बहुलो विपुलो ग्रास आहारः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे क०
सूचिकापरिदेवनं नामैकसप्ततितमः सर्गः ॥ ७१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सूचिकापरिदेवनं नामैकसप्ततितमः सर्गः ॥ ७१ ॥