०७०

सप्ततितमः सर्गः ७०

श्रीवसिष्ठ उवाच ।

अथ भूधरशृङ्गाभा सा महाकृष्णराक्षसी ।
कज्जलाम्बुदलेस्वेव तानवं गन्तुमुद्यता ॥ १ ॥

क्रमशस्तनुतापूर्वं सूचिरूपद्वयं गतिः ।
सूच्याः प्राणिशरीरेषु प्रवेशश्चोपवर्ण्यते ॥ १ ॥

तनु सूक्ष्मं तद्भावं तानवम् ॥ १ ॥

बभूवाभ्रोपमाकारा ततो विटपरूपिणी ।
पुंस्प्रमाणा ततोऽप्यासीदथाभूद्धस्तमात्रिका ॥ २ ॥

तदेव प्रपञ्चयति - बभूवेत्यादिना । विटपरूपिणी
वृक्षशाखाप्रमाणा ॥ २ ॥

ततः प्रादेशमात्रा सा ततोऽप्यङ्गुलिरूपिणी ।
ततो माषशमीतुल्या ततः सूची बभूव ह ॥ ३ ॥

माषशमी माषशिम्बी । सूची स्थूलसूची ॥ ३ ॥

ततः कौशेयसूचित्वं पद्मकेसरसुन्दरी ।
प्राप सा शिखराकारा सङ्कल्पाद्रिरिवाणुताम् ॥ ४ ॥

कौशेयसीवनयोग्या सूक्ष्मतमसूची तद्भावम् । अयञ्च स्थूलशरीरस्य
क्रमेण सूक्ष्मीभावस्तस्याः स्वसङ्कल्पकल्पितस्यैव । पराविद्याकल्पितस्य
त्वग्रे तत्रैव गलितत्वं वक्ष्यति ॥ ४ ॥

रराज सूचिका कृष्णा सूक्ष्मायसमनायसी ।
पुर्यष्टकेन चलिता व्योमगा व्योमवासिनी ॥ ५ ॥

सा सूक्ष्ममायसमयो विकारो भूत्वा कृष्णा सूचिका अनायसी जीवसूचिका च सती
रराज ।
महाभूतकर्मेन्द्रियज्ञानेन्द्रियप्राणान्तःकरणाविद्याकामकर्मसङ्घातात्
मकपुर्यष्टकेन ॥ ५ ॥

सूची दृश्यत एवासौ नत्वयो नाम विद्यते ।
संविद्भ्रमकुले चैषा स्वल्पसूचीव लक्ष्यते ॥ ६ ॥

इदं चास्याः सूचित्वं दृश्यभ्रान्तिकल्पितमेव न वास्तवम् ।
वरशापसहस्रैरपि वस्त्वन्यथाभावायोगादित्याशयेनाह - सूचीति ।
संविद्भ्रमाणां कुले समूहमध्ये एषाप्येका भ्रान्तिरित्यर्थः ॥ ६ ॥

रत्नसूचीव मसृणा मनोमननसंयुता ।
वैदूर्यरश्मिलेखेव भानुसन्तानसुन्दरी ॥ ७ ॥

भानूनां सूर्यकिरणानां सन्तानेनान्तःप्रवेशेन सुन्दरी रत्नसूचीव
वैदूर्यरश्मिलेखेव च लक्ष्यते । मनोमननसंयुतेत्यातावान्
दृष्टान्ताद्विशेष इत्यर्थः ॥ ७ ॥

कज्जलाम्भोदसङ्कल्कलतेव पवनाहृता ।
सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टज्योतिःकनीनिका ॥ ८ ॥

सूर्यकिरणासम्पर्के त्वाह - कज्जलेति । कज्जलमयोऽम्भोदो मेघस्तद्रूपस्य
सङ्कल्कस्य पिण्डस्य लताप्रतानो लेशः । पवनेनाहृता उपनीता । सूक्ष्मं
यद्रन्ध्रं तत्र विशिष्टयोरीक्षणयोर्दृशोः स्वच्छदृष्टज्योतिषी इव
कनीनिके कृष्णतारे यस्याः ॥ ८ ॥

सुमुखग्राह्यरूपेण श्लक्ष्णपुच्छशिखाणुना ।
तदा वैपुल्यशान्त्यर्थं परं मौनव्रतं गता ॥ ९ ॥

सूक्ष्मया पुच्छशिखया पुच्छाग्रेणाणुना परमाणुकल्पेन सुमुखं
प्रसन्नवदनं यथा स्यात्तथा वरदानाद्ग्राह्येण अभीष्टतमेन सूचीरूपेण
निमित्तेन पूर्वतनदेहवैपुल्यस्य शान्त्यर्थ तदा प्राक्काले मौनं
मुनिसम्बन्धि तपोव्रतं गता परं नूनं इत्युत्प्रेक्षा । अस्यास्तपोव्रतं
स्ववैपुल्यशान्तावेव पर्यवसन्नं व्यर्थमिवासीदित्याशयः ॥ ९ ॥

सुदूराद्दीपवद्दृष्टं खतन्मात्रत्वमागता ।
दूरादेव मनोज्ञेन प्रोद्गिरन्ती मुखेन खम् ॥ १० ॥

कीदृशं कथं च तत्सूचीरूपं सा प्राप्ता तदाह - सुदूरादिति ।
सुदूराद्वीक्षणे ज्वलन्नेत्रयोः सन्ध्यदर्शनादेकदीपवद्दृष्टं
सूचीशरीरस्यादर्शनात्स्वतन्मात्रत्वमाकाशसाम्यमागता प्राप्ता । देहे
अन्तर्गतस्याकाशस्य सौक्ष्म्यप्राप्तौ बहिरवस्थानान्मनोज्ञेन
वरप्राप्तिप्रसन्नेन मुखेन खं प्रोद्गिरन्ती वमन्तीवेत्युत्प्रेक्षा ॥ १० ॥

कुञ्चितेक्षणसन्दृश्या दीर्घदीपांशुकोमला ।
सद्यःस्नातसमुत्सन्नबालवालविलासिनी ॥ ११ ॥

पुनः सा कीदृशी तत्राह - कुञ्चितेत्यादिना । दीर्घा दूरप्रसृता
दीपांशवो दीपकिरणा इव कोमला सूक्ष्मा । अत एवैकाग्र्याय
कुञ्चितैरीक्षणैर्द्रष्टृदृष्टिभिः सन्दृश्या । सद्यःस्नातेन स्नानेन
समुत्सन्नो बालानामर्भकाणां बालः केश इव विलासिनी विलसनशीला ॥ ११ ॥

तन्तुर्बिसादिवोड्डीना बाह्यसञ्चारकौतुकात् ।
ब्रह्मनाडिरिवोद्युक्ता बहीरन्ध्रं सुसुन्दरी ॥ १२ ॥

बिसान्मृणालादुड्डीना ऊर्ध्वं निर्गता ब्रह्मनाडिः सुषुम्ना बहीरन्ध्रं
ब्रह्मरन्द्र्हाद्बहिर्निर्गत्य उत् ऊर्ध्व सूर्यमण्डलाभिमुखतया युक्ता ॥ १२ ॥

नियतेन्द्रियशक्तिः सा जीवेनैव बहिःस्थिता ।
बौधतार्किकविज्ञानसन्तानवदलक्षिता ॥ १३ ॥

नियताः प्रतिनियतस्थाननिव्ष्टाश्चक्षुरादीन्द्रियशक्तयो यस्याः । जीवेन
लिङ्गदेहेनैव बहिःसूच्याकारापन्नेन स्थिता । यथा
बौद्धानामालयविज्ञानसन्तानः स्वमात्रगोचरोऽपि परैरलक्षितो यथा वा
तार्किकाणां धाराबाहिकज्ञानसन्तानः
साक्ष्यनभ्युपगमादलक्षितस्तद्वत्परैरलक्षिता ॥ १३ ॥

प्। ३००) १८३

शून्यसिद्धार्थसविका रन्ध्रानीलमयाऽरवा ।
अदृश्यया जीवसूच्या सन्ततानुसृता स्थिता ॥ १४ ॥

अत्यन्तालक्ष्यत्वादेव शून्यवादिसिद्धार्थानां सविका प्रसवित्री वेत्युत्प्रेक्षा ।
रन्ध्रस्य नभसो यदा नीलं नैल्यं तन्मया तत्प्राया । अरवा निःशब्दा ।
मयटष्टित्वेऽपि ङीबभावश्छान्दसः । कर्मधारये पुंवद्भावो वा ।
एवमायसीं सूचीमुपवर्ण्य अनायस्या जीवसूच्यास्तदनुसारित्वमाह -
अदृश्ययेति ॥ १४ ॥

कलाकलनधर्मिण्या वासनामात्रसारया ।
क्षीणदीपांशुसूचीवत्तीक्ष्णयानुपलभ्यया ॥ १५ ॥

कलास्तत्तद्वृत्तिषु प्रतिफलितचिदाभासास्तत्कलनधर्मिण्या । क्षीणस्य
विनश्यदवस्थस्य दीपस्यांशूः किरणस्तल्लक्षणा सूची यथा
चक्षुषाऽनुपलभ्यापि स्पृश्यमाना दाहकत्वात्तीक्ष्णा तादृश्या ॥ १५ ॥

ग्रासार्थं सूचितां याता सैवास्था नोपयुज्यते ।
विचारितं तया नैतदहो मौर्ख्यविजृम्भितम् ॥ १६ ॥

इदानीं तस्याः सूचीभावलक्षणं तपःफलमिष्टानुपयोगादुपहसति -
ग्रासार्थमित्यादिना । सा ग्रासास्थैव निरुदरायाः सूच्या नोपयुज्यते ॥ १६ ॥

साग्रा सञ्चिन्तयामास न सूचीरूपतुच्छताम् ।
चित्तमीहितमेवैकं पश्यन्त्यास्ते निरर्थकम् ॥ १७ ॥

अविचार्यैव सूचित्वं तया मूढधियाष्थितम् ।
नानर्थबुद्धेः स्फुरति पूर्वापरविचारणा ॥ १८ ॥

आस्थितं अभिलषितम् । अनर्थबुद्धेर्निरर्थकबुद्धेर्जन्तोः ॥ १८ ॥

स्वार्थक्रियोग्रसामर्थ्याद्याति भावनयान्यताम् ।
पदार्थोऽभिमतांशाढ्यो निःश्वासेनेव दर्पणः ॥ १९ ॥

विमर्शयोग्ये चित्ते कुतो न स्फुरति तत्राह - स्वार्थेति । अभिमते अभिलषितेंऽशे
विषये वाढ्योऽभिनिविष्टश्चित्तपदार्थः । स्वार्थक्रिया अभिमतार्थे
दृढप्रयत्नस्तस्योग्रादनतिक्रमणीयात्सामर्थ्याद्भावनया
तद्रागानुरञ्जनेनान्यतां पूर्वनैर्मल्यवैपरीत्यम् । कालुष्यमिति यावत् । याति ।
यथा निःश्वासेन दर्पणः ॥ १९ ॥

सूचीभावं प्रपन्नायास्त्यजन्त्याः पीवरं वपुः ।
महामरणमप्यस्या राक्षस्याः सुसुखं स्थितम् ॥ २० ॥

किञ्च स्वार्थदृढानुरागादस्या महादुःखमपि सुखायितमित्याह -
सूचीति ॥ २० ॥

एकवस्त्वतिरागाणामहो नु विषमा गतिः ।
देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया ॥ २१ ॥

एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः ।
राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः ॥ २२ ॥

नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम् ।
सूचीभूता विदेहापि परितुष्टैव राक्षसी ॥ २३ ॥

अन्या बभूव लग्ना [आयससूच्या संलग्ना । लग्नाशा इति पाठः तत्र
लग्ना आशा प्राणिग्रसनेच्छा यस्या इत्यर्थः] सा तथा जीवविषूचिका ।
व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ॥ २४ ॥

प्रसङ्गान्नीतिमुपवर्ण्य प्रस्तुतमनुसरन् जीवसूच्याख्यव्याधिस्वरूपमाह

  • अन्येत्यादिना । व्योमवृत्ति आकाशवत्सूक्ष्मस्वभावं लिङ्गशरीरं
    यस्याः ॥ २४ ॥

तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका ।
मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी ॥ २५ ॥

मूलसंवेदनं कुण्डलिनीशक्तिस्तदाकारा । चन्द्रार्कयोरल्पा अंशव्ॐऽशुकानि
तानीव सुन्दरी ॥ २५ ॥

पृथगेवासिधाराभा परमाण्ववलीय सा ।
कौसुमी गन्धलेखेव कला कलनरूपिणी ॥ २६ ॥

तस्याः कर्कट्याः पापात्मिका अत एव असिधाराभा क्रूरा मनोवृत्तिरयः
सूच्याः पृथगेव तथा जीवसूचीरूपेण स्थितेति परेणान्वयः । कौसुमी
गन्धलेखेव परमाणु परमसूक्ष्मं यथा स्यात्तथा
प्राणिदेहेष्ववलीयान्तः प्रविश्य हिंसादिकलानां चातुरीणां यत्कलनं
सम्पादनं तेन रूपिणी प्रकटा स्थिता ॥ २६ ॥

पापात्मिका मनोवृत्तिः सा हि तस्यास्तथा स्थिता ।
परप्राणवशादेव परमार्थपरायणा ॥ २७ ॥

तदेव स्पष्टमाह - परेति । परेषां प्राणिनां
प्राणवशात्प्राणाननुसृत्य परमोऽर्थः स्वमनोरथसिद्धिस्तत्र परायणा
उद्युक्ता ॥ २७ ॥

एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा ।
नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा ॥ २८ ॥

तनुद्वयवर्णनमुपसंहरति - एवमिति ॥ २८ ॥

तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् ।
वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ॥ २९ ॥

अथ तस्याः सङ्क्षेपतश्चरित्रमाह - तनुद्वयेनेति ॥ २९ ॥

सर्वः स्वसङ्कल्पवशाल्लाघुर्भवति वा गुरुः ।
कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् ॥ ३० ॥

सङ्कल्पस्याघटितघटनासामर्थ्ये इदमेव निदर्शनमित्याह - सर्व इति ॥
३० ॥

तुच्छोऽप्यर्थोऽल्पसत्त्वानां गच्छति प्रार्थनीयताम् ।
सूचीवृत्तपिशाचीत्वं राक्षस्या तपसा स्थितम् ॥ ३१ ॥

अल्पसत्त्वानां क्षुद्रमनसाम् । सूच्या वृत्तमिव वृत्तं यस्मिंस्तथाविधं
पिशाचीत्वम् ॥ ३१ ॥

अपि पुण्यशरीराणां जातिबन्धो न शाम्यति ।
तनुसूचीपिशाचीत्वं राक्षस्या तपसार्जितम् ॥ ३२ ॥

ननु सा तपसा पूता पुण्यशरीरा सम्पन्ना तथाभूतायास्तस्याः
परपीडाहेतुसूचीशरीरप्रार्थनं कथं युक्तं तत्राह - अपीति । जातिबन्धो
जात्यनुसारी वासनानिबन्धः ॥ ३२ ॥

तस्यां दिगन्तभ्रमणे प्रवृत्तायां महानिलैः ।
तत्रैव सा तनुः स्थूला गलिता शरदभ्रवत् ॥ ३३ ॥

सा स्थूला सर्वसाधारणाऽविद्याकल्पिता कर्कटीतनुर्महद्भिरनिलैर्वायुभिर्गलिता
विशीर्णा ॥ ३३ ॥

प्। ३०१) १८३

कस्यचिद्विवशाङ्गस्य क्षीणस्य विपुलस्य च ।
प्रविश्यान्तर्वातसूचिर्भवत्यतिविषूचिका ॥ ३४ ॥

अथ विषूच्याश्चरित्रं विस्तरेणाह - कस्यचिदित्यादिना । प्राग्रोगान्तरेण
विवशाङ्गस्य । क्षीणस्य कृशाङ्गस्य । विपुलस्य पीनाङ्गस्य । वातलीना
अयःसूचिरतिशयिता विषूचिकाप्रवृत्तिरोगो भवति ॥ ३४ ॥

कस्यचित्तनुदेहस्य स्वस्थस्य सुधियोऽपि वा ।
प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिका ॥ ३५ ॥

अन्तर्विषूचिका दुर्बुद्धिरूपा ॥ ३५ ॥

एवं क्वचित्तृप्यति सा दुर्बुद्धिहृदयास्थिता ।
क्वचिदुच्छेद्यते पुण्यैर्मन्त्रौषधितपःक्रमैः ॥ ३६ ॥

क्वचित्कत्स्मिंश्चित्पुरुषे । उच्छेद्यते निवार्यते ॥ ३६ ॥

आसीद्बहूनि वर्षाणि भ्रमणैकपरायणा ।
देहद्वयेन गच्छन्ती व्योम्नि भूमितले तथा ॥ ३७ ॥

रजस्तिरोहिता भूमौ हस्तेऽङ्गुलितिरोहिता ।
प्रभातिरोहिता व्योम्नि वस्त्रे सूत्रतिरोहिता ॥ ३८ ॥

तस्यास्तिरोधानस्थलविशेषानाह - रज इत्यादिना ॥ ३८ ॥

अन्तःस्थस्नायुसरिति दुर्भगे पांशुपाण्डुरे ।
शुष्करेखासरित्खाते सूक्ष्मरेखाजरत्तृणे ॥ ३९ ॥

देहमध्येऽपि तानाह - अन्तःस्थेति । व्यभिचारादिदोषदुष्टे भगे
उपस्थेन्द्रिये । पांशुभिरूषादिभूपांसुभिः पाण्डुरे धूसरावयवे । शुष्का
रूक्षा या हस्तपादादिरेखास्तल्लक्षणे शुष्कसरित्खाते । सूक्ष्मा या
रोमादिरेखास्तल्लक्षणे जरत्तृणे ॥ ३९ ॥

अर्थहीने गतच्छाये शून्या उच्छ्वासकारिणी ।
मक्षिकावातहरिते श्रीवृक्षपरिवर्जिते ॥ ४० ॥

अर्थ्यते इत्यर्थः सौभाग्यलक्षणं तद्धीनेऽङ्गे । गतच्छाये नष्टकान्तौ ।
शून्या अन्तःसद्भावशून्या । उच्छ्वासः पीडितानामूर्ध्वनिःश्वासः ।
देहाद्बहिर्देशेऽपि मक्षिकाभिः रूक्षदुर्गन्धवातैश्च युक्ते
हरिततृणाद्यावृतप्रदेशे । श्रिया वृक्षैश्च श्रीकरैर्वा
बिल्वाम्रादिवृक्षैः परिवर्जिते ॥ ४० ॥

स्थूलास्थिग्रन्थिवलिते नित्यकम्पस्फुरत्तमे ।
अनात्मीयाच्छनीहारेऽशुद्धंशुककृतभ्रमे ॥ ४१ ॥

स्थूलैः पशुनराद्यस्थिग्रन्थिभिर्वलिते । वात्यादिना नित्यं कम्पेन स्फुरत्तमे
सञ्चलत्तमे । आत्मीया आत्मनिष्ठास्त एव अच्छाः स्वच्छा
नीहारवत्परसन्तापहारिणः । न विद्यन्ते आत्मीयाच्छनीहारा यत्र ।
अशुद्धान्यंशुकानि येषां तथाविधैरशिष्टजनैः कृतसञ्चारे ॥ ४१ ॥

किणस्थाण्वङ्गविश्रान्तमक्षिकापिकवायसे ।
रौक्षरूढरसद्वाते विलोलाङ्गुलिशाखिनि ॥ ४२ ॥

किणेषु कोटरेषु स्थाण्वङ्गेषु च्छिन्नाग्रवृक्षेषु च क्रमाद्विश्रान्ता
मधुमक्षिकाः पिकवायसाश्च यत्र । शीतातिशयेन रूक्ष एव रौक्षो रूढः
प्रादुर्भूतो रसन् शब्दायमानो वातो यत्र । अत एव कम्पविलोलाङ्गुलिशाखिनि ॥
४२ ॥

मालाभ्रलेखासंसारे स्वाङ्गुलिव्रणगर्तके ।
स्पन्दावश्यायपृषति पदवल्मीकपर्वते ॥ ४३ ॥

मालाभूतानामभ्रलेखानां नीहारपटलानां संसारः सञ्चारो यत्र ।
विदीर्णस्वाङ्गुलिव्रणानां जनानां गर्तप्राये निवासदेशे । स्पन्दमाना
अवश्यायपृषतो हिमबिन्दवो यत्र । पदे पुरुषपादाङ्किते देशे वल्मीके
वामलूरे पर्वते च । समाहारैकत्वम् ॥ ४३ ॥

कचत्याशु जलभ्रान्तौ नखाजगरकर्कशे ।
क्वचित्कविसरद्भीतभीतयूककुपान्थके ॥ ४४ ॥

आशु जलभ्रान्तौ कचति प्रकाशमाने मरुदेशे ।
नखैर्नखप्रधानैर्व्याघ्रभल्लूकादिभिरजगरादिभिश्च कर्कशे
कठिनतमे अरण्ये । क्वचिद्भवाः क्वाचित्का विसरन्तः पलायमाना भीतेभ्योऽपि
भीता यूकाभिः कुत्सिताः पान्थाः पथिकजना यत्र ॥ ४४ ॥

विरूपाशुष्कसन्दष्टवीटिकापूतिपल्वले ।
मध्यस्थलेखमार्गौघशीतश्वसनगोचरे ॥ ४५ ॥

विरूपैराशुष्कैश्च पिशाचादिभिः सन्दष्टानि ताम्बूलवीटिकाप्रायाणि
शीर्णपर्णानि यत्र तथाविधे पूतिपल्वले दुर्गन्धजलगर्ते । मध्यस्था लेखाः
कुल्यादिखातानि येषु तथाविधमार्गौधानां शीतस्य श्वसनस्य गोचरे विषये
पान्थविश्रान्तिस्थाने ॥ ४५ ॥

ग्रस्तयूकानरौघासृक्पूर्णसृक्किनखास्यताम् ।
दधताङ्गुष्ठपक्षेण क्रान्ते सर्वत्र यायिनी ॥ ४६ ॥

ग्रस्तानां चर्वितानां यूकानामुदरस्थनरौघासृग्भिः पूर्णे सृक्किणी
येषां तथाविधानां पामरनरवानरादीनां नखा एवास्यानि मुखानि यस्य
तद्भावं दधता अङ्गुष्ठपक्षेण अङ्गुष्ठपरिवारायितेनाङ्गुलिजालेन
क्रान्ते आक्रान्ते सर्वत्र देहप्रदेशे भूम्यादिप्रदेशे प्रागुक्तस्थानेषु च
यायिनी गमनशीला सा अभूदिति शेषः ॥ ४६ ॥

नानाविरचनाचित्रपटपत्तनगामिनी ।
गमागमपरिश्रान्ता तत्रात्यन्तचिराध्वगा ॥ ४७ ॥

तथा नानाविधाभिर्गजतुरगादिविरचनाभिश्चित्राः पटा वस्त्राणि येषु
तथाविधेषु पत्तनेषु नगरेषु गमनशीला । तत्र गमागमैः सञ्चारैः
परिश्रान्ता अभूदिति शेषः ॥ ४७ ॥

नगरानगरे व्यस्तसूत्रभाण्डैकभारिणी ।
तप्ते कलेवरारण्ये बलीवर्दापवर्तिनी ॥ ४८ ॥

सूचीस्वभावादेव च नगरेष्वनगरेषु ग्रामेषु च व्यस्तानां
रथ्याप्रक्षिप्तानां कार्पासादिसूत्राणां तत्प्रोतानां काचमण्यादीनां
भाण्डानामलङ्काराणां च एकं भर्तु शीलमस्याः
सौक्ष्म्येणान्यहरणाशक्तेः । किञ्च ज्वरादिना तप्ते प्राणिनां कलेवरारण्ये
बलीवर्दापवर्तिनी । यथा हृष्टो बलीवर्दः शृङ्गाभ्यां
वल्मीकाद्यपरिकरन्नपवर्तयति तद्वदियं सूच्यपि तच्छीलेत्यर्थः ॥ ४८ ॥

गुप्ता विश्रमणायैव मनाक्करपरिच्युता ।
तन्तुप्रोता मुखाकृष्टिः खिन्ना क्वापि विलीयते ॥ ४९ ॥

केनचित्सीवनाय गृहीता चिरं सीवने तन्तुप्रोतमुखाकृष्टिः खिन्ना श्रान्ता
सती मनाक् तत्करपरिच्युता सती विश्रमणायैव क्वापि गुप्ता प्रच्छन्ना लीयते ॥
४९ ॥

प्। ३०२) १८५

वेधनं कर्मसंश्लिष्टा कठिनापि न साकरोत् ।
न हि तीक्ष्णो वहिः कार्यो निजत्वं विजहाति चेत् ॥ ५० ॥

ननु सा सीवनकर्तुः करवेधनं कुतो नाकरोदित्याशङ्क्याह - वेधनमिति
। कठिना क्रूरापि सा स्वयोग्ये सीवनकर्मणि सूचीत्वादेव संश्लिष्टा
कौतुकादासक्ता सती वेधनं नाकरोत् । कुतः । सा सूची निजत्वं निजस्वभावं
सीवनं विजहाति त्यजति न प्रकटयति चेत्तत्तुल्ययोगत्वात्स्वीयस्तीक्षणः
क्रौर्यस्वभावोऽपि न बहिः कार्यो बहिः प्रकटयितुं शक्यः । तस्यापि
निजत्वाविशेषादित्यर्थः ॥ ५० ॥

सायःसूची मनःसूच्या वलिता विजहार ह ।
दिक्ष्वाशेव शिलागुर्वी नावाङ्गपलिता सती ॥ ५१ ॥

सा अयःसूची मनःसूच्या जीवसूच्या । गुर्वी शीला नावेव अङ्गपलितायां
वृद्धायां सती स्थिता आशेव च दिक्षु विजहार बभ्राम । अङ्गेति सम्बोधनं
वा ॥ ५१ ॥

विससार दिगन्तेषु सान्तःकरणसत्तया ।
तुषलेखेव पवनशक्त्या संसृतिरूपया ॥ ५२ ॥

संसृतिर्भ्रमणं रूपयति प्रकटयतीति संसृतिरूपा तया ॥ ५२ ॥

मुखेन सूक्ष्मसूत्रान्तं चरन्तीव परोम्भितम् ।
परपूरोद्यमेनाशु जातेव हृदयान्विता ॥ ५३ ॥

परैरुम्भितं गुम्फितं सूक्ष्मं सूत्रान्तं चरन्ती भक्षयन्तीव अत एव हि
परप्रयुक्तेनैवोदरपूरणोद्यमेन हृदयान्विता स्वस्थचित्ता जातेवेत्युत्प्रेक्षा ॥
५३ ॥

परपूररसेनैव सूच्या हृत्सुविकासितम् ।
अनारतपतत्सूक्ष्मसूत्रान्त इव स्तम्भिता ॥ ५४ ॥

उचितैवेयमुत्प्रेक्षेत्याशयेनाह - परेति । यतः सूच्या प्रागपि
परपूररसेनैव परवधप्रयुक्तोदरपूरणेच्छयैव तपःक्लेशितं स्वं
मनः सुविकासितमुल्लासितमतः सा अनारतं मुखे पतति । सूक्ष्मसूत्रान्ते
स्वाभिलषितप्राये स्तम्भिता निरुद्धेवेत्युत्प्रेक्षोचितैवेत्यर्थः ॥ ५४ ॥

तीक्ष्णैरपि चिरक्षीणं पूर्यते निर्विचारणा ।
दृष्टान्तोऽत्र क्षणात्सूच्या पूरितो जर्जरः पटः ॥ ५५ ॥

इदानीं सूच्या मौढ्याचरितं तपःसूत्रैः पटच्चरोदरपूरणायैव
सम्पन्नं न स्वोदरपूरणायेत्युत्प्रेक्षितार्थो
लोकप्रसिद्धसामान्योक्तिदृष्टान्तः सम्पन्नं इत्याह - तीक्ष्णैरपीति ।
चिराय क्षीणं दारिद्र्यकार्श्यादिपीडितं कुलं तीक्ष्णैः क्रूरैरपि पूर्यते
दयया पोष्यते । निर्विचारणा नास्मिन्नर्थे विचारोऽस्ति । यतो दृष्टान्तोऽत्रार्थे
सूच्या पूरितो जर्जरः पटः प्रत्यक्षं दृष्ट इत्यर्थः ॥ ५५ ॥

सूत्रांशुनिर्गमे योग्यं सूच्या हृदयमर्जितम् ।
परपूरणयैवाशु तेजश्च कवितार्करुक् ॥ ५६ ॥

कुतो न सूच्या स्वोदरपूरणं कृतं तत्राह - सूत्रेति । यतः सूच्या
सूत्रस्यांशोरग्रभागस्य निर्गमे अन्तरप्रवेशे योग्यमच्छिद्रमेव
हृदयं तपसा अर्जितं तथा तेजोबुद्धिप्रकाशोऽपि
तत्त्वावबोधभाग्यशालित्वात्कविताया अभिज्ञताया अर्करुक् सूर्यकान्तिरिव
प्रकाशस्वभावमपि परपूरणयैव पटादिसीवनेनैव आशु व्याप्तं नतु
स्वभोगोपयुक्तमर्जितमित्यर्थः । आङ्पूर्वात् अशू व्याप्तौ इति धातोरौणादिक
उप्रत्ययः ॥ ५६ ॥

अकस्मात्तेन रूढेन क्षीणपूरेण रूपिणी ।
हृदये राक्षई सूचिः कर्मणा तप्यते च सा ॥ ५७ ॥

अत एव तस्याः पश्चात्तापोऽभूदित्याह - अकस्मादिति । पूर्यत इति पूर उदरम् ।
क्षीणपूरेण तेन तपःकर्मणा अकस्माद्रूढेन प्रादुर्भूतेन तेन
सूचीभावेन रूपिणी । सा सूचिः ॥ ५७ ॥

वेधं पूररयेणेव करोति स्वं प्रचारिता ।
प्रकृतेन निजेनापि वेधाय व्यवहारिता ॥ ५८ ॥

यदि पश्चात्तप्ता सा तर्हि किं प्राणिवेधनादुपरता नेत्याह - वेधमिति ।
तथापि सा पूररयेणेव नदीप्रवाहवेगसदृशेन निजेन राक्षसस्वभावेन
प्रकृतेन सूचीस्वभावेनापि प्राणिवेधनाभिनिवेशेन वेधायैव स्वं
स्वानुरूपं प्रचारिता प्रथममुद्योजिता पश्चाद्व्यवहारिता च सती वेधं
करोत्येव ॥ ५८ ॥

सञ्चारयति वस्त्रेषु सूत्रं चतुरवेधनात् ।
आदीर्घवासनातन्तुः शरीरेष्विव चेतनाम् ॥ ५९ ॥

अत एव केवलसूचीस्वभावप्रयुक्तं कार्यमपि करोतीति प्रागुक्तमर्थं
सदृष्टान्तमाह - सञ्चारयतीति । यथा पुत्रकलत्रादिविषयेष्वादीर्घो
वासनारूपस्तन्तुर्मरणकाले उद्भूतस्तत्तद्वासनानुरूपस्त्र्यादिशरीरेषु
जीवचेतनां सञ्चारयति तद्वद्वस्त्रेषु सूत्रं सञ्चारयतीत्यर्थः ॥ ५९ ॥

सञ्चार्यमाणवेधेन धावन्तीवाक्षिपातने ।
अदर्शितमुखा एव दुर्जना मर्मवेधिनः ॥ ६० ॥

अत एव तुन्नवायैः पटेषु वेधेन सञ्चार्यमाणा तेषामक्षिपातने
चक्षुःसन्निकर्षे मुखं पटे निगूह्य धावन्तीव बभूवेति शेषः ।
दुर्युक्तमेवेदं तया कृतमित्यर्थान्तरन्यासेन द्रढयति - अदर्शितेति ।
पिशुनचोरादयो हि दुर्जना अदर्शितस्वमुखा एव परमर्मभेदिनः प्रसिद्धा
इत्यर्थः ॥ ६० ॥

कण्ठवस्त्रदलप्रोता वेधाक्ष्णा मुखमीक्षते ।
कथमेता भिनद्मीति तीक्ष्णानामेतदीप्सितम् ॥ ६१ ॥

कदाचित्कण्ठसक्तस्योत्तरीयवस्त्रस्य गुणे प्रोता सती वेधाक्ष्णा
स्वकीयच्छिद्रलक्षणेन नेत्रेण नारीणां मुखमीक्षते । केनाभिप्रायेणेति
तमाह - कथमिति ॥ ६१ ॥

सममेव च कौशेये क्षौमे च वसने सृता ।
जडः क इव वा नाम गुणागुणमपेक्षते ॥ ६२ ॥

कौशेये मृदुस्निग्धत्वादिगुणवति पट्टवस्त्रे क्षौमे
काठिन्यरूक्षत्वादिदोषवति क्षुमावल्कले च समं तुल्यवृत्त्यैव सृता
प्रविष्टा । जडो मूर्खः । अगुणं दोषम् । अपेक्षते विमृशतीति यावत् ॥ ६२ ॥

सा दधाना ततं सूत्रमङ्गुष्ठाङ्गुलिपीडिता ।
आन्त्रतन्तुमिवामान्तमुद्गिरन्ती निरीक्षते ॥ ६३ ॥

सीवनकाले सूचीच्छिद्रात्तन्तुनिर्गमनं
सीवकाङ्गुष्ठनिपीडितसूच्युदरान्तर्गतान्त्रतन्तूद्वमनत्वेनोत्प्रेक्षते -
सेति । अमान्तं निरवकाशत्वादन्तःस्थितिमलभमानम् ॥ ६३ ॥

तीक्ष्णाप्यहृदयत्वेन सरसेष्वरसेष्ववित् ।
सूत्रितापि पदार्थेषु विशत्यरसगामिनी ॥ ६४ ॥

सूत्रिता सूत्रप्रोता तीक्ष्णापि सा सरसेष्वरसेष्वपि पदार्थेषु अहृदयत्वेन
अन्तर्हृदयशून्यत्वेन अवित् विशेषानभिज्ञा अत एवारसगामिनी रसास्वादहीना
सूची स्वभावादेव विशति ॥ ६४ ॥

प्। ३०३) १८५

अगर्दती मुखप्रोता सुतीक्ष्णापि च तापिधीः ।
सुवेधिताप्यहृदया राजपुत्र्यापि दुर्भगा ॥ ६५ ॥

अनपराधदण्डप्राप्तेरहो अस्या दुर्दशेत्याह - अगर्दतीति । नर्द गर्द शब्दे
। अगर्दती निष्ठुरभाषणादिशब्दमकुर्वाणापि मुखे प्रोता सूत्रेण सुतीक्ष्णा
परसन्तापसमर्थापि स्वयमेव तापिनी सन्तापवती धीर्यस्याः । सुष्ठु वेधिता
सञ्जातच्छिद्रापि अहृदया अनुदरच्छिद्रा । यथा राजपुत्र्यापि दुर्भगा
अभाग्या सम्पद्यते तद्वदियमपि सम्पन्नेत्यर्थः ॥ ६५ ॥

विना परापकारेण तीक्ष्णा मरणमीहते ।
वेदनाद्रोधिता सूची कर्मपाशे प्रलम्बते ॥ ६६ ॥

युक्तैवास्याः सा दुर्दशेत्याह - विनेति । यतः सा परेषां स्वापकारेण
विनैव मरणं वधमीहते इच्छति अतस्तत्पापवशाद्वेदनात्स्वबुद्धिवशादेव
सूत्रे रोधिता सती स्वकर्मपाशे एव प्रलम्बते इत्युत्प्रेक्षा ॥ ६६ ॥

शेते किंश्याममैत्र्येव दूरे करपरिच्युता ।
स्वरूपसदृशं मित्रं कस्मै नाम न रोचते ॥ ६७ ॥

दैवात्सीवकस्य करात्परिच्युता सती तस्यान्यस्य वा अङ्के [अङ्के इति
निराधारशयनानुपपत्त्या आक्षिप्तं बोध्यम्] उत्सङ्गे दूरे
करस्पर्शायोग्ये स्थाने किंश्यामैः कुत्सितश्यामवर्णैरधोरोमभिः सह
मैत्र्येव मित्रत्ववशादिव तेषु शेते निद्राति । कुतोऽस्यास्तत्समागमो रोचते तत्राह

  • स्वरूपसदृशमिति ॥ ६७ ॥

मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने ।
तिष्ठत्यात्मसमां को हि सङ्गतिं त्यक्तुमिच्छति ॥ ६८ ॥

अत एव मूर्खचित्तवृत्त्यापि सह सङ्गतिस्तस्या रोचत इत्याह - मिश्रितेति ॥ ६८ ॥

भवत्ययस्कारवित्तौ सन्त्यज्यान्तर्धिगामिनी ।
भस्त्रावातैर्विचलिता गगनादुत्पतोन्मुखी ॥ ६९ ॥

नन्वेवं तस्या लोहसूच्यन्तरैः सहापि साम्यात्तन्मैत्र्या कदाचित्तैः सह
दैवाल्लोहकारप्राप्तौ किं करोति तत्राह - भवतीति । अयस्काराणां वित्तौ
प्राप्तौ सत्यां तैः सन्तापायाग्नौ न्यस्यमाना तदीयचर्मभस्त्रावातैर्विचलिता
सती तान्सन्त्यज्यान्तर्धिगामिनी अन्तर्धानगता सती गगनादुत्पतोन्मुखी
पलायनपरा भवतीत्यर्थः ॥ ६९ ॥

प्राणापानप्रवाहस्थहृत्पद्मान्तरचारिणी ।
दुःखशक्तिर्महाघोरा जीवशक्तिरिवोदिता ॥ ७० ॥

तस्याः प्राणिनां प्राणादिद्वारा देहान्तःसञ्चारमाह - प्राणेत्यादिना ।
दुःखप्रदा कर्मशक्तिरेव जीवशक्तिः सजीवा उदिता आविर्भूतेव ॥ ७० ॥

समानवैपरीत्येन समानसमगामिनी ।
उदानविपरीतत्वादुदानसमगामिनी ॥ ७१ ॥

व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी ।
हृत्कण्ठे शूलपवने वैवर्ण्योन्मादकारिणी ॥ ७२ ॥

शूलपवने शूलरोगात्मके वायौ प्रविश्येति शेषः ॥ ७२ ॥

प्रायशोऽविकहस्तस्था सुप्तोर्णागन्धकोटरे ।
बालहस्ताङ्गुलीतल्पवेधनैकविलासिनी ॥ ७३ ॥

प्रायशः कम्बलादिसीवनकाले अविकानां अविपालानां हस्तस्था
कदाचित्तदीयोर्णानां गन्धस्य लेशस्य कोटरे सुप्ता कदाचित्तु बालानां
हस्ताङ्गुल्यादिलक्षणस्य स्वतल्पस्य वेधने एकविलासिनी मुख्यकौतुकवती
आसीदिति शेषः ॥ ७३ ॥

पादप्रविष्टा रुधिरपानोपार्जनविस्मिता ।
तुष्यत्यतितरां गुच्छभोजना तुच्छभोजनैः ॥ ७४ ॥

पुष्पगुच्छमालाग्रथनकाले गुच्छभोजना तुच्छभोजनैरल्पभोजनैस्तुष्यति
तृप्यति ॥ ७४ ॥

शेते कर्दमकोशस्था चिरकालमधोमुखी ।
इच्छानुरूपमासाद्य क इवास्पदमुज्झति ॥ ७५ ॥

कर्दमकोशो मलपङ्किलमूलाधारकोशः ॥ ७५ ॥

क्रौर्येणापहतात्मानं दर्शयत्युपवेधनैः ।
उत्सवादपि नीचानां कलहोऽपि सुखायते ॥ ७६ ॥

अपहतं दूषितमात्मानं स्वाम् । उपवेधनैः
परप्राणापहारपर्यन्तैर्वेधनैः । स्वार्थाभावे कथं परमारणे तस्याः
प्रवृत्तिस्तत्राह - उत्सवादपीति । येषां परपीडाऽसामर्थ्येऽपि परैः सह
कलहोऽपि सुखायते तेषां परमारणं सुखायते इति किं वक्तव्यमिति भावः ॥
७६ ॥

कपर्दकार्धलाभेन कृपणो बहु मन्यते ।
दुरुच्छेदा हि भूतानामहङ्कारचमत्कृतिः ॥ ७७ ॥

अल्पतररक्तकणास्वादलोभाद्वास्याः परमारणे प्रवृत्तिरुपपन्नेत्याह -
कपर्दकेति । राक्षसकुलोचितपरहिंसाविहाराभिमानाद्वा तदुपपत्तिरित्याह -
दुरुच्छेदेति ॥ ७७ ॥

सूचिकायुग्मलभ्येन मोहितेनात्मना नृणाम् ।
मृतिमाशङ्कते चित्रा स्वार्थे नोदेति मूढता ॥ ७८ ॥

सा मोहितेन मूढेनात्मना क्रियमाणेन जीवसूचीलोहसूचीति
स्वक्कियसूचिकाद्वयलभ्येन वेधनेन सर्वेषां नृणां मृतिमाशङ्कते
तर्कयति । मूढानामावश्यके [मूढानां व्यर्थे इति पाठः]
स्वार्थे मूढता नोदेति सा चित्रा आश्चर्यभूतेत्यर्थः ॥ ७८ ॥

वस्त्रतन्तुविभेदेन परमारणमाशु मे ।
इदं सम्पद्यत इति भवत्यन्तर्हि निर्मला ॥ ७९ ॥

इदानीं मे मम परमारणं प्राक् सीवनकाले वस्त्रतन्तुविभेदेनाभ्यस्तमिति
हेतोराशु सम्पद्यत इति स्वकौशलानुसन्धानेनान्तः अत्यन्तं निर्मला प्रसन्ना
भवति । हृष्यतीति यावत् ॥ ७९ ॥

स्थापिता मलमादत्ते यथा मृद्घर्षणं विना ।
परापराधविरहाद्व्याधिस्तस्याः प्रवर्तते ॥ ८० ॥

यथा लोके प्रसिद्धा सूचिः सीवनेन [सीवनेत्याद्यर्थलब्धम्] मृदो
घर्षणं विना तूष्णी स्थापिता मलमनैर्मल्यमादत्ते स्वीकरोति । तथा तस्या अपि
परापराधविरहाद्व्याधिर्दुःखं प्रवर्तत इत्यर्थः ॥ ८० ॥

सूक्ष्माऽदृश्या चैव दात्री क्षणाद्विस्मृतिमेति सा ।
तीक्ष्णभेदकरी क्रूरा सूची चेष्टेव दैविकी ॥ ८१ ॥

अदृश्या दात्री खण्डयित्री । दैविकी औत्पातिकी चेष्टेव ॥ ८१ ॥

प्। ३०४) १८६

तन्तुवेधनमात्रेण हतोऽन्य इति तोषिता ।
दुर्जनो येन तेनैव नाशितेनैति हृष्टताम् ॥ ८२ ॥

मर्मस्थानाच्छादनोत्तरीयतन्तुवेधनमात्रकौशलेन ॥ ८२ ॥

पङ्के मज्जति याति खं विहरति व्योमानिलैर्दिक्तटे
शेते पांसुषु भूतलेष्विव वने पट्टे गृहेऽन्तःपुरे ।
हस्ते श्रोत्रसरोरुहेऽथ मृदुनि स्वेच्छोर्णिकाखण्डके
रन्ध्रे काष्ठमृदां च माति हृदये द्रव्यात्मशक्त्यैव सा ॥ ८३ ॥

विस्तरोक्तं सूचीचरित्रं सङ्क्षिप्योपसंहरति - पङ्के इति । पल्वलादिपङ्के
मज्जति । खमाकाशं याति । व्योमानिलैः सह दिक्तटे विहरति । इवकारो
भिन्नक्रमः । अन्तःपुरे गृहे पट्टे पर्यङ्कपट्टास्तरण इव भूतले वने
पांसुष्वपि शेते । तथा नराणां हस्ते श्रोत्रलक्षणे श्रोत्रस्थे वा सरोरुहे
पद्मे स्वेच्छया ऊर्णिकानां मेषरोम्णां खण्डके राशौ च शेते ।
काष्ठानां मृदां कुड्यादीनां च रन्ध्रे अल्पतरेऽपि छिद्रे माति सम्मीयते
तथा प्राणिनां हृदये च माति यथा मणिमन्त्रादिद्रव्यात्मशक्त्या मायावी
योगी वा सर्वत्र यथेच्छं विहरति तद्वदित्यर्थः ॥ ८३ ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम्
श्यामक्षये रविकरैश्च सहाजगाम ॥ ८४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
सूचिव्यवहारवर्णनं नाम सप्ततितमः सर्गः ॥ ७० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सूचिव्यवहारवर्णनं नाम सप्ततितमः सर्गः ॥ ७० ॥

षष्ठो दिवसः ।