०६९

एकोनसप्ततितमः सर्गः ६९

श्रीवसिष्ठ उवाच ।

अथ वर्षसहस्रेण तां पितामह आययौ ।
दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः ॥ १ ॥

दत्त्वात्र धातुः कर्कट्यै यथाभिलषितं वरम् ।
मन्त्रं च गुणिरक्षार्थं स्वलोके गतिरुच्यते ॥ १ ॥

कुतो दुर्वृत्तायामपि तस्यां दुर्लभतमो धातुः प्रसादस्तत्राह -
दारुणमिति । सिद्ध्यै भवत्येवेति शेषः । यतस्तपःसिद्धौ विषसहितोऽग्निरपि
शीतलो भवति । नासाध्यं तपसोऽस्तीति भावः ॥ १ ॥

मनसैव प्रणम्यैनं सा तथैव स्थिता सती ।
को वरः क्षुच्छमायालमिति चिन्तान्विताभवत् ॥ २ ॥

प्। २९८) १८२

आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् ।
अनायसी चायसी च स्यामहं जीवसूचिका ॥ ३ ॥

स्मरणेऽयमाकारो निपातो न त्वाङ् । अनायसी रोगरूपा । जीवयुक्ता सूचिका
जीवसूचिका ॥ ३ ॥

अस्योक्त्या द्विविधा सूचिर्भूत्वा लक्ष्या विशाम्यहम् ।
प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा ॥ ४ ॥

अस्य ब्रह्मण उक्त्या वरेण सह युगपत् सुरभिर्घ्राणाकृष्टं सौगन्ध्यं
यथा ॥ ४ ॥

यथाभिमतमेतेन ग्रसेयं सकलं जगत् ।
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् ॥ ५ ॥

एतेन क्रमेण उपायेन ॥ ५ ॥

इति सञ्चिन्तयन्तीं तामुवाच कमलालयः ।
अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्रारवोपमम् ॥ ६ ॥

शान्तिदान्तिदयादितपस्विधर्मविरुद्धलोकहिंसाभिलाषिणीत्वादन्या##-

ब्रह्मोवाच ।

पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ।
उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् ॥ ७ ॥

प्रशंसा भाविकल्याणद्योतनार्था ॥ ७ ॥

कर्कट्युवाच ।

भगवन्भूतभव्येश स्यामहं जीवसूचिका ।
अनायसी चायसी च विधेऽर्पयसि चेद्वरम् ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

एवमस्त्विति तामुक्त्वा पुनराह पितामहः ।
सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका ॥ ९ ॥

सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ।
दुर्भोजना दुरारम्भा मूर्खा दुःस्थितयश्च ये ॥ १० ॥

सूक्ष्मया जनैर्दुर्लक्ष्यया । दुर्भोजना निषिद्धापक्वाकालभोजना
अतिभोजनाश्च । दुरारम्भाः परानिष्टारम्भकाः । दुःस्थितयः
अशास्त्रीयमार्गस्थाः ॥ १० ॥

दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि ।
प्रविश्याऽहृदयं प्राणैः पद्मप्लीहादिबाधनात् ॥ ११ ॥

प्राणैः प्राणद्वारा आहृदयं अपानमारभ्य हृदयपर्यन्तं प्रविश्य
हृदयपद्मस्य प्लीहस्य तत्सन्निहितमांसग्रन्थेरादिपदाद्वस्तिशिरादीनां च
बाधनात् पीडनात् ॥ ११ ॥

वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका ।
सगुणं विगुणं चैव जनमासादयिष्यसि ॥ १२ ॥

सगुणं शास्त्रसदाचारनिष्ठम् । तदन्यं विगुणम् ॥ १२ ॥

गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ।

ब्रह्मोवाच ।

हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥ १३ ॥

चिकित्सा रोगप्रतीकारस्तदर्थम् ॥ १३ ॥

विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका ।

तस्या मन्त्रः ।

ॐ ह्रीं ह्रां रीं रां विष्णुशक्तये नमः । ॐ नमो भगवति
विष्णुशक्तिमेनां ॐ हरहर नयनय पचपच मथमथ उत्सादय दूरे
कुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा ।

इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन संयुतः ॥ १४ ॥

अन्याया न्यायपथातिवर्तिनस्तेषां बाधिका । द्विविधा हि विष्णुशक्तिराद्या माया
यदधीना अन्याः सर्वाः शक्तयः । अपरा तु तदधीना प्रतिवस्तुनियता
सात्त्विकादिभेदभिन्ना च । तत्र तामस्याः संहारशक्तेरंशाः
प्राणिदुष्कर्मफलजननशक्तिविशेषा रोगाः । अतस्तन्निवृत्तये आद्या
मायाशक्तिः प्रणवमायादिरहस्यबीजैः पञ्चभिः सम्बोध्य नमस्कृत्य
प्रार्थ्यते । ॐमिति चतुर्थ्यन्तम् । नमःशब्दयोगात् । परब्रह्मात्मिकायै नम
इत्यर्थः । भगो माहात्म्यं सर्वनियमनवीर्यं वा तद्वति आद्यविष्णुशक्ते
त्वं द्वितीयां एनां त्वदंशभूतां रोगात्मिकां विष्णुशक्तिं । ॐकारवाच्ये
कारणस्वरूपे हरहर भृशमुपसंहर । नित्यवीप्सयोः इति भृशार्थे
द्विर्वचनम् । नय स्वस्थानं प्रापय । पच पाकेनेव सद्यो मृदूकुरु । मथ
दधिवद्विलोडय । उत्सादय अस्मात्स्थानादन्यतो नय । उक्तैरन्यैर्वा प्रकारैर्दूरे
कुरु । स्वाहेति हविर्दानादिना पूज्यत्वद्योतनार्थम् । एवमादिशक्तिं सम्प्रार्थ्य
तदधीना रोगशक्तिः प्रार्थ्यते हिमवन्तं स्वस्थानं गच्छेति । ततो रोगिणं
प्रत्याह । सः प्राक्तनदुष्कर्मणाभिभूतः स रोगेणाभिभूतः स मृत्युना
वाकृष्यमाणस्त्वं मन्त्रसामर्थ्यान्मृतोज्जीवनसमर्थेनामृतेन
[र्थ्याज्जिवमृतोज्जीवन इति क्वचित्] सम्पूर्णं चन्द्रमण्डलं
मदीयभावनया गतः प्राप्तोऽसि । अन्ते स्वाहेति दीप्तेऽग्नौ हविष इव
पूर्णचन्द्रमण्डले रोगिणो भावनया प्रक्षेपः कार्य इति द्योतनार्थम् । इति
इमं मन्त्रं मन्त्री लिखित्वा वामकरस्योदरे तले न्यस्य ॥ १४ ॥

हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।
कर्कटीं कर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् ॥ १५ ॥

तां विषूचिकाम् । विद्रुतां पलायिताम् ॥ १५ ॥

आतुरं चिन्तयेच्चन्द्रे रसायनहृदि स्थितम् ।
अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः ॥ १६ ॥

रसायनहृदि अमृतगर्भे । युक्तं समाहितचित्तम् ॥ १६ ॥

साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ।
क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम् ॥ १७ ॥

पाठक्रमादार्थक्रमबलीयस्त्वाच्छौचाचमनादिपूर्वमेव कार्यम् ॥
सुसमाहितः अव्यग्रचित्तः ॥ १७ ॥

प्। २९९) १८२

इति गगनगतस्त्रिलोकनाथो
गगनगसिद्धगृहीतसिद्धमन्त्रः ।
गत उपगतशक्रवन्द्यमानो
निजपुरमक्षयमायमुज्ज्वलश्रीः ॥ १८ ॥

त्रिलोकनाथो ब्रह्मा गगनगैः सिद्धैर्गृहीतः सिद्धोऽव्याहतो मन्त्रो यस्य
तथाविधः सन् कार्यान्तरसिद्धये उपगतेन शक्रेण वन्द्यमानः सन् अक्षयाः
परैरुपहन्तुमशक्या मायाः सत्यसङ्कल्पसिधाः
परचित्तसाङ्कल्पिकपितृमातृभ्रातृगन्धमाल्यादिलोकरूपा
विचित्रभोग्यमाया यत्र तथाविधं निजपुरं सत्यलोकं गतः ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्ति० सूच्युपाख्याने
विषूचिकामन्त्रकथनं नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
विषूचिकामन्त्रकथनं नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥