अष्टषष्टितमः सर्गः ६८
श्रीवसिष्ठ उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
राक्षस्योक्तं महाप्रश्नजालमावलिताखिलम् ॥ १ ॥
वर्ण्यते विस्तरेणात्र कर्कटी नाम राक्षसी ।
तस्याश्चोग्रं तपः सर्वजन्तुजालजिघांसया ॥ १ ॥
विस्तरसङ्क्षेपाभ्यां वर्णितेऽर्थे दृढीकाराय
कर्कट्युपाख्यानाख्येतिहासमुखेन राक्षस्याः किरातराजमन्त्रिसंवादं
विस्तरेण विवक्षुस्तमवतारयति - अत्रैवेति । आवलितं तत्त्वतो विमर्शेन
व्याप्तमखिलं जगद्यत्र ॥ १ ॥
अस्ति कज्जलपङ्काद्रेरिवोग्रा शालभञ्जिका ।
हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥ २ ॥
कज्जलमयात्पङ्कादद्रेर्वां निर्मिता शालभञ्जिका प्रतिमेव वर्णतः ।
कर्मतस्तूग्रा ॥ २ ॥
विषूचिकाभिधाना च नाम्नाप्यन्यायबाधिका ।
विन्ध्याटवीव देहेन शुष्का कार्श्यमुपागता ॥ ३ ॥
तस्या द्वे नामनी अन्ये दर्शयति - विषूचिकेति ॥ ३ ॥
प्। २९७) १८१
महाबलाग्निनयना रोदोरन्ध्रार्धपूरणी ।
नीलाम्बरधरा कृष्णा देहबद्धेव यामिनी ॥ ४ ॥
अग्निरिव प्रज्वलन्नयना । रोदस्योर्द्यावापृथ्व्यो रन्ध्रमन्तरालं
तदर्धपूरणीति वैपुल्यातिशयोक्तिः ॥ ४ ॥
नीहारवसनच्छन्ना मेदुराभ्रशिरःपटा ।
लम्बाभ्रबिम्बोल्लसिता नित्योत्थतिमिरोर्ध्वजा ॥ ५ ॥
नीहारैर्वसनेन परिधानीयेनेव च्छन्ना । मेदुराण्यभ्राण्येव शिरःपट
उत्तरीयं यस्याः । लम्बमानमभ्रबिम्बमिव उल्लसिता । नित्योत्थं
तिमिरमिवोर्ध्वजाः केशा यस्याः ॥ ५ ॥
स्थिरविद्युल्लतानेत्रा तमालतरुजानुका ।
वैदूर्यशूर्पाग्रनखी भस्मनीहारहासिनी ॥ ६ ॥
वैदूर्यवर्णाः शूर्पाग्राकाराश्च नखा यस्याः ॥ ६ ॥
निर्मांसनरदेहौघपुष्पस्रग्दामभूषिता ।
सर्वाङ्गोदात्तसम्प्रोतशवमालाविराजिता ॥ ७ ॥
वेतालावेशविचलत्कालकङ्कालकुण्डला ।
अर्कादानोत्कदीर्घाग्रभीमोग्रभुजमण्डला ॥ ८ ॥
वेतालैः सह आवेशो नर्तनाभिनिवेशस्तेन विचलती स्पन्दमाने कालवर्णे
कङ्कालकुण्डले यस्याः । अर्कस्यादाने ग्रहणे उत्कमुत्कण्ठितमिव दीर्घाग्रम्
॥ ८ ॥
तस्या विपुलकायत्वाद्दुर्लभत्वान्निजान्धसः ।
अतृप्तोऽर्णवलेखाया इवाभूज्जाठरोऽनलः ॥ ९ ॥
निजस्य स्वजात्युचितस्यान्धस ओदनस्य । आहारस्येति यावत् ॥ ९ ॥
न कदाचन सा तृप्तिमुपयाता महोदरी ।
वडवानलजिह्वेव चिन्तयामास चैकदा ॥ १० ॥
जम्बूद्वीपगतान्सर्वान्निगिरामि जनान्यदि ।
अनारतमनुश्वासं जलराशिमिवार्णवः ॥ ११ ॥
अनुश्वासं प्रतिश्वासम् ॥ ११ ॥
मेघेन मृगतृष्णेव तन्मे क्षुदुपशाम्यति ।
अविरुद्धैव सा युक्तिर्ययापदि हि जीव्यते ॥ १२ ॥
मेघेन मृगतृष्णा स्वहेत्वातपनिवारणे कृते यथा शाम्यति तद्वत् । यया
युक्त्या आपदि जीव्यते सा युक्तिर्हि अविरुद्धा सम्मता ॥ १२ ॥
मन्त्रौषधतपोदानदेवपूजादिरक्षितम् ।
सममेव जनं सर्वं निर्बाधं कः प्रबाधते ॥ १३ ॥
युगपत्सर्वजनग्रसनयुक्तिस्तु अशक्यत्वाद्विरुद्धैवेत्याशयेनाह - मन्त्रेति
। समं युगपत् ॥ १३ ॥
तपः करोमि परममखिन्नेनैव चेतसा ।
तपसैव महोग्रेण यद्दुरापं तदाप्यते ॥ १४ ॥
तर्हि कथं सर्वजनग्रसनमनोरथसिद्धिस्तत्राह - तप इति ॥ १४ ॥
इति सञ्चिन्त्य सा सर्वजन्तुजातजिघांसया ।
तपोर्थमथ सस्मार पर्वतं भूतदुर्गमम् ॥ १५ ॥
पर्वतं हिमवन्तम् ॥ १५ ॥
आरुरोह च तच्छृङ्गं स्थिरविद्युद्विलोचना ।
हस्तपादादिमद्देहा श्यामलेवाभ्रमण्डली ॥ १६ ॥
देहशब्दः स्वरूपपरः ॥ १६ ॥
तत्र गत्वाथ सा स्नात्वा तपः कर्तुं कृतस्थितिः ।
अतिष्ठदेकपादेन चन्द्रार्कास्पन्दलोचना ॥ १७ ॥
चन्द्रार्काविव दीप्ते अस्पन्दे लोचने यस्याः ॥ १७ ॥
क्रमेण दिवसाः पक्षास्तस्या मासर्तवो ययुः ।
शीतातपेषु लीनायाः कृताया इव शैलतः ॥ १८ ॥
शैलतः कृताया इवेति तपःक्लेशसहनादुत्प्रेक्षा ॥ १८ ॥
सा बभूवाभ्रमालायाः समासं स्तम्भिताकृतिः ।
कृष्णोर्ध्वगोर्ध्वकेशी च खमाहर्तुमिवोद्गता ॥ १९ ॥
नैल्यादभ्रोपमा । आहर्तुं आहारं कर्तुं । ग्रसितुमिति यावत् ॥ १९ ॥
आलोक्य तां पवनजर्जरिताङ्गकत्वक्
चीराङ्गणाकृतिरणत्पवनावधूतैः ।
ऊर्ध्वस्थमूर्धजतमःपटलैर्दधानां
तारौघमौक्तिकमजः समुपाजगाम ॥ २० ॥
पवनैः शीतोष्णपांसुरुक्षवायुभिर्जर्जरितानां
शिथिलीकृतानामङ्गकानां कृशाङ्गानां लम्बमाना त्वगेव चीरं
वल्कलमिव यस्यास्तथाभूताम् । गणाः सेनास्तदाकृति । तद्वदिति यावत् ।
रणद्भिः पवनैरवधूतैः कम्पितैः
ऊर्ध्वदिक्स्थैर्मूर्धजलक्षणैस्तमःपटलैस्तारा नक्षत्राणि तत्समूहरूपं
मौक्तिकं दधाना तां कर्कटीलोक्य तस्यै वरं दातुमजो ब्रह्मा
समुपाजगामेति वक्ष्यमाणस्य सङ्क्षिप्योक्तिः ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
राक्षसीवर्णनं नामाष्टषष्टितमः सर्गः ॥ ६८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीवर्णनं
नामाष्टषष्टितमः सर्गः ॥ ६८ ॥