सप्तषष्टितमः सर्गः ६७
श्रीराम उवाच ।
मनस्त्वयोग्यो जीवोऽयं को भवेत्परमात्मनः ।
कथं वास्मिन्समुत्पन्नः को वायं वद मे पुनः ॥ १ ॥
भोक्ता यः कथितो जीवस्तत्स्वरूपमिहोच्यते ।
व्यष्टिप्राधान्यतस्तस्य करणादेश्च सम्भवः ॥ १ ॥
समष्टिप्राधान्येनोक्तं जीवं व्यष्टिप्राधान्येन स्फुटं जिज्ञासुः
श्रीरामः पुनः पृच्छति - मनस्त्वेति । मनः सृष्ट्वा तत्तादात्म्यस्य
स्वस्मिन्नध्यासान्मनस्त्वयोग्यः परमात्मनः सम्बन्धी को भवेत् । किमम्श
उत कार्यमुत स एव । यदि स एव तर्हि कथं वास्मिन्समुत्पन्नः । किं
परिणामेनोत विवर्तेन । आद्ये अनित्यता । द्वितीये बाध्यता । यद्यनुत्पन्नस्तर्हि
भोक्तुरसिद्धिः । ब्रह्मणोऽशनायाद्यत्ययश्रुतेः । यद्यन्यस्तर्हि को वा ।
तत्सजातीय उत विजातीय इति विकल्पे नैकोऽपि पक्षो घटत इति सन्देहपरिहाराय
पुनर्वदेत्यर्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
समस्तशक्तिखचितं ब्रह्म सर्वेश्वरं सदा ।
ययैव शक्त्या स्फुरति प्राप्तां तामेव पश्यति ॥ २ ॥
अचिन्त्यानन्तशक्तिसम्पन्नमायाशक्तिशबलं ब्रह्म परमार्थत
आविष्कृतमभिन्नमपि स्वस्मिन्नेव मायया द्वितीयतामिवापन्ने
औपाधिकविकारानारोप्यानन्तजीववेषेण सर्वज्ञेश्वरभावेन च क्रीडितुं
समर्थमिति न कश्चिद्दोष इत्याशयेन वसिष्ठः समाधातुमुपक्रमते -
समस्तेति । सर्वेश्वरं सर्वसमर्थम् ॥ २ ॥
स्वयं यां वेत्ति सर्वात्मा चिरं चेतनरूपिणीम् ।
सा प्रोक्ता जीवशब्देन सैव सङ्कल्पकारिणी ॥ ३ ॥
चिरमनादिकालाच्चेतनरूपिणीं चित्तसंस्कारोपहितचिद्रूपाम् ॥ ३ ॥
स्वभावात्कारणं द्वित्वं पूर्वसङ्कल्पचित्स्वयम् ।
नानाकारणतां पश्चाद्याति जन्ममृतिस्थितेः ॥ ४ ॥
आत्मनि स्वाभाविकं द्वितीयत्वमेवोत्तरसंसारप्रवृत्तेर्मुख्यं कारणं
पूर्वपूर्वसङ्कल्पवासनावासितजीवचैतन्यं तु
पश्चात्तनवैचित्र्यमात्रहेतुरित्याह - स्वभावादिति ॥ ४ ॥
श्रीराम उवाच ।
एवं स्थिते मुनिश्रेष्ठ दैवं नाम किमुच्यते ।
किमुच्यते तथा कर्म कारणं च किमुच्यते ॥ ५ ॥
एतावतैव प्रश्नशेषस्याप्युत्तरमुक्तप्रायमिति मन्यमानो राम उक्तजीवस्य
जन्मादिनिमित्तदैवकर्मकारणानि तत्त्वतो जिज्ञासुः पृच्छति - एवमिति ।
एवमुक्तविधया जीवस्वरूपे स्थिते बुद्धौ प्रतिष्ठिते सति पृच्छामीति शेषः ॥ ५
॥
प्। २९२) १७९
श्रीवसिष्ठ उवाच ।
स्पन्दास्पन्दस्वभावं हि चिन्मात्रमिह विद्यते ।
खे वात इव तत्स्पन्दात्सोल्लासं शान्तमन्यथा ॥ ६ ॥
स्पन्दस्वभावं रजःप्रधानमायोपहितम् । अस्पन्दस्वभावं शुद्धम् ।
सोल्लासं सृष्ट्युन्मुखं भवतीति शेषः । अन्यथा स्पन्दाभावे तु
शान्तमेवावतिष्ठत इत्यर्थः ॥ ६ ॥
चित्त्वं चित्तं भावितं सत्स्पन्द इत्युच्यते बुधैः ।
दृश्यत्वभावितं चैतदस्पन्दनमिति स्मृतम् ॥ ७ ॥
तत्राद्यं विवृणोति - चित्त्वमिति । स्वीयं स्वाभाविकं चित्त्वमेव चित्तं
चेत्याकारं स्वाविद्यया भावितं कल्पितं चेत्तदाकारं सत् स्पन्द इत्युच्यत
इत्यर्थः । द्वितीयं विवृणोति - दृश्यत्वेति ॥ ७ ॥
स्पन्दात्स्फुरति चित्सर्गो निःसप्न्दाद्ब्रह्म शाश्वतम् ।
जीवकारणकर्माद्या चित्स्पन्दस्याभिधा स्मृता ॥ ८ ॥
स्पन्दास्पन्दाभ्यामेव चितः प्रपञ्चाप्रपञ्चात्मतेति निष्कर्षे स्पन्दस्यैव
जीवकारणकर्मदैवादिनाम्ना व्यपदेश इति फलितमित्याह - स्पन्दादिति ।
चिदिति पृथक्पदम् । तत्र प्राणस्पन्दविवक्षया जीवः
स्वान्तर्गतकार्याणामाविर्भावनलक्षणस्पन्दविवक्षया कारणं
शरीरादिस्पन्दविवक्षया कर्म देव सूक्ष्मावस्थं चिरस्थितं
फलारम्भोन्मुखं दैवमिति भेद इति भावः ॥ ८ ॥
य एवानुभवत्मायं चित्स्पन्दोऽस्ति स एव हि ।
जीवकारणकर्माख्यो बीजमेतद्धि संसृतेः ॥ ९ ॥
तेषां चानुभवसत्तालम्बनेनैव सत्ता स्वकार्यक्षमता चेत्याह - य एवेति ॥
९ ॥
कृतद्वित्वचिदाभासवशाद्देहमुपस्थितम् ।
सङ्कल्पाद्विविधार्थत्वं चित्स्पन्दो याति सृष्टिषु ॥ १० ॥
यत्पृष्टं कथं वास्मिन्समुत्पन्न इति तस्योत्तरमाह - कृतद्वित्वेति ।
तत्तत्कर्मानुसारेण प्राङ्मरणकाले बुद्धावुपस्थितं देवनरतिर्यगादिदेहं
पूर्वसङ्कल्पानुसारिविविधभोग्यपदार्थभावं च याति प्राप्नोति ॥ १० ॥
नानाकारणतां यातश्चित्स्पन्दो मुच्यते चिरात् ।
कश्चिज्जन्मसहस्रेण कश्चिदेकेन जन्मना ॥ ११ ॥
नानाविधानि योनिसहस्राणि कारणानि जन्महेतूनि यस्य तद्भावं चिराद्यातः
सन् कश्चिन्मन्दशास्त्रीयप्रवृत्तिश्चित्स्पन्दश्चिरान्मुच्यते ।
सम्पन्नज्ञानाधिकारस्त्वेकेन जन्मना ॥ ११ ॥
स्वभावात्कारणाद्वित्वं चित्समेत्याधिगच्छति ।
स्वर्गापवर्गनरकबन्धकारणतां शनैः ॥ १२ ॥
यदुक्तं नानाकारणतां यात इति तत्प्रकारमाह - स्वभावादिति । चितः
स्वभावो येनोपाधिना सम्बध्यते तद्रूपेण स्फुरणम् । यथा आलोको नीलपटे
नीलरूपो रक्तपटे रक्तरूपः पीते तद्रूप इति । तादृशस्वभाववशादेव
देहजन्मकारणैरन्नरसैस्तद्द्वारा पित्रादिशरीरैश्चाद्वित्वमैक्यं समेत्य
सम्प्राप्य क्रमेण शुक्रशोणितादिरूपेण परिणतं शनैः
स्वर्गमोक्षनरकवधबन्धादिकारणदेहतामधिगच्छति प्राप्नोतीत्यर्थः ।
अपगच्छति इति पाठे स्वर्गादिहेतुं देहभावं प्राप्तुं शुक्रादिरूपेण
पितृदेहादपगच्छति निर्गच्छतीत्यर्थः ॥ १२ ॥
हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ ।
देहे तिष्ठति नानात्वं जडे भावविकारजम् ॥ १३ ॥
तथा चोपाधीनां मेलनेनैक्ये पितापुत्रजीवयोर्भेदो न लक्ष्यते
उपाधिपृथग्भावे तु भेदः प्रतीयत इति जीवानां परस्परभेद उपाधेरेव
धर्मो न चैतन्यस्येत्याह - हेम्नीवेति । उपाधीनामपि
भूतविकारत्वाद्भूतानां चोत्तरोत्तरं
पूर्वपूर्वभूतविकारत्वादखण्डाकाशमात्रत्वेन सत्यभेदावकाश
इत्याशयेन हेमकटकदृष्टान्तोपन्यासः । जन्मादयः
षड्भावविकारास्तेभ्यो जातं नानात्वं भेदः ॥ १३ ॥
अजातमप्यसद्रूपं पश्यतीदं मनोभ्रमः ।
जातः स्थितो मृतोऽस्मीति भ्रमार्तः पत्तनं यथा ॥ १४ ॥
एवं भेदस्य मृसात्वेऽपि जन्मादिभेदप्रतीतिर्मनोभ्रम एवेत्याह -
अजातमपीति ॥ १४ ॥
अहम्ममेत्यसद्रूपमेव चेतः प्रपश्यति ।
अदृष्टपरमार्थत्वादाशाविवशसंस्थिति ॥ १५ ॥
सर्वभेदप्रत्ययानामहम्ममेति भेदकल्पनामूलं तस्या अपि
पूर्णात्मस्वरूपाज्ञानं भोगाशासंस्काराश्च क्रमेण
मूलमित्याशयेनाह - अहमिति ॥ १५ ॥
मथुराधिपते राज्ञो यथा श्वपचसम्भ्रमः ।
आसीदेवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः ॥ १६ ॥
उक्तेऽर्थे वक्ष्यमाणलवणोपाख्यानार्थो निदर्शनमित्याह - मथुरेति ॥ १६ ॥
सर्वमेव मनोमात्रभ्रान्त्युलासविजृम्भणम् ।
इदं जगत्तया राम प्रस्फुरत्यम्बुभङ्गवत् ॥ १७ ॥
शिवात्प्राक्कारणात्पूर्वं चिच्चेत्यकलनोन्मुखी ।
उदेति सौम्याज्जलधेः पयःस्पन्दो मनागिव ॥ १८ ॥
उक्तमेवारोपक्रमं पुनः प्रत्येकं दृष्टान्तैर्बोधयति -
शिवादित्यादिना ॥ १८ ॥
स्फुरणाज्जीवचक्रत्वमेति चित्तोर्मितां दधत् ।
चिद्वारिब्रह्मजलधौ कुरुते सर्गबुद्बुदान् ॥ १९ ॥
स्फुरणात् स्पन्दनात् । जीवचक्रत्वं जीवस्वरूपामावर्तताम् ॥ १९ ॥
स्वस्थः सौम्य समस्यैतद्यत्सिंहस्य विजृम्भणम् ।
ब्रह्मणः संविदाभासस्तत्सञ्चेत्यमिव स्वयम् ॥ २० ॥
हे सौम्य स्वबोधमात्रेण सिंहः मायाबन्धनं हन्तीति सिंहस्तथाविधस्य
सिंहवदचिन्त्यशक्तिमतो वा ब्रह्मणो यन्मायया विजृम्भणं
गात्रविनमनं स एव स्वात्मस्थः संविदाभासो जीव इव स्थितं तदेव
सञ्चेत्यं विषयरूपमिव स्थितं न पृथगस्तीत्यर्थः ॥ २० ॥
चित्संवित्त्योच्यते जीवः सङ्कल्पात्स मनो भवेत् ।
बुद्धिश्चित्तमहङ्कारो मायेत्याद्यभिधं ततः ॥ २१ ॥
कैरुपाधिभिस्तर्हि जीवमनोबुद्धिचित्ताहङ्कारादिशब्दभेदस्तानाह -
चित्संवित्त्येति । चित्संवित्त्या चिदाभासात्मना अध्यवसायाद्बुद्धिः
स्मरणाच्चित्तमभिमानादहङ्कारो विक्षेपशक्तित्वान्माया । आदिपदात्
प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः
इत्यादिश्रुत्युक्ताभिधासङ्ग्रहः ॥ २१ ॥
प्। २९३) १७९
तन्मात्रकल्पना पूर्वं तनोतीदं जगन्मनः ।
असत्यं सत्यसङ्काशं गन्धर्वनगरं यथा ॥ २२ ॥
तत्र सङ्कल्पप्रधानस्य शब्दादिसूक्ष्मभूतकल्पनापूर्वकं
जगत्कल्पकत्वमाह - तन्मात्रेति ॥ २२ ॥
यथा शून्ये दृशः स्फारान्मुक्तावल्यादिदर्शनम् ।
यथा स्वप्ने भ्रमश्चैव तथा चित्तस्य संसृतिः ॥ २३ ॥
मनःकल्पितस्य च मानोरथिकवस्तुवन्मिथ्यात्वमेवेत्याह - यथेति । शून्ये
आकाशे दृशो दृष्टेः स्फाराद्विस्तारात् ॥ २३ ॥
शुद्ध आत्मा नित्यतृप्त इव शान्तः समस्थितः ।
अपश्यन्पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम् ॥ २४ ॥
तत्साक्षिणस्तु नित्यशुद्धतैवेत्याह - शुद्ध इति ।
अशनायाद्यभावान्नित्यतृप्त इव ॥ २४ ॥
संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहङ्कृतिम् ।
चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते ॥ २५ ॥
तस्यैवेन्द्रियद्वारैर्बहिः संसृतिर्जाग्रत् । अन्तरहम्भाववासितस्य
हृदयात्कण्ठपर्यन्तं संसृतिः स्वप्नः । स्मृतिबीजवासनामात्रशेषेण
हृदि स्थितिः सुषुप्तिस्तदतिक्रमस्तु तुर्यतेत्याह - संसृतिरिति ॥ २५ ॥
अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम् ।
तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥ २६ ॥
एवं शोधितस्य प्रत्यक्तत्त्वस्य ब्रह्मात्मनि परिणस्या निरामयं यथा
स्यात्तथा स्थितिरेव तुर्यातीतत्वमित्याह - अत्यन्तेति ॥ २६ ॥
तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते ।
न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा ॥ २७ ॥
अशोधिततत्पदार्थे प्रतिष्ठाशङ्कावारणाय तच्छोधनं तज्जलानिति शान्त
उपासीत इति श्रुतिदर्शितदिशा दर्शयति - तमिन्निति । न चेदं तदिति शेषः ।
आद्यो ब्रह्मणि जगत्तादात्म्यस्य निषेधो द्वितीयस्तु संसर्गस्य ॥ २७ ॥
अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः ।
अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः ॥ २८ ॥
यदि जगत्सम्बन्धशून्यस्तर्हि कथं जगद्धेतुरिति श्रुत्योक्तस्तत्राह -
अरोधकत्वादिति । समुन्नतेरभिवृद्धेः । मायाकृतसर्गे अनिवारकत्वमात्रेण
कर्तृत्वोपचार इत्यर्थः ॥ २८ ॥
सन्निधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम् ।
यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने ॥ २९ ॥
लौहो लोहविकार आदर्शः ॥ २९ ॥
बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत् ।
चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत् ॥ ३० ॥
कथं तर्हि सर्वं न युगपज्जायते तत्राह - बीजमिति । युक्तिरत्र क्रमः ।
तथैवानादिनियतिस्थितेरित्यर्थः ॥ ३० ॥
स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत् ।
तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति ॥ ३१ ॥
ननु प्रलये सर्वविलये तथैव स्वस्था चित्सदा कुतो नावतिष्ठते तत्राह -
यथेति । यथा अनुशयिजीवसंयुक्ता विप्रुड्
वृष्टिजलबिन्दुर्वृक्षसस्याद्यनुप्रविश्य पुनर्बीजं भवत्येव नोदास्ते तथा
जीववासनावासिता चिदपि चेत्यचित्तादिसर्गात्मना पुनर्भवत्येव न तत्त्यक्त्वा
स्वस्था तिष्ठतीत्यर्थः ॥ ३१ ॥
यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः ।
इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः ॥ ३२ ॥
ननु बीजे सूक्ष्मतया स्थितस्य तरोस्तद्बीजस्य च अबोधे बोधे वा न
तरुजननशक्तिरपैति तथा चित्तात्मतापन्नयोर्जगद्ब्रह्मणोरपि तत्त्वतो
बोधाबोधयोर्विशेषो न स्यादिति बोधवैफल्यमित्याशङ्क्याह - यद्यपीति ।
इयान्परिदृश्यमानस्तरुजननशक्तिभेदोऽस्ति तथापि
चित्तभूतयोर्जगद्ब्रह्मणोः स नास्त्येव । यतो बीजतरुबोधमात्रेण न
तात्त्विकमखण्डितं रूपं व्यज्यते ब्रह्मबोधेन तु दीपेन रूपश्रीरिव
तद्व्यज्यते इति इयान्भेदो वैलक्षण्यमस्तीत्यावृत्त्या परेण सह योज्यम् ॥ ३२ ॥
तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम् ।
रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत् ॥ ३३ ॥
यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत् ।
या या विचार्यते विद्या तथा सा सा परं भवेत् ॥ ३४ ॥
कुतो बोधस्येदृशसामर्थ्यमिति चेद्विचारजन्यत्वेन
तत्त्वावगाहित्वादित्याशयेनाह - यद्यदिति । अविद्या आविद्यकं पटादि । परं
अधिष्ठानसत्तामात्रम् ॥ ३४ ॥
स्फटिकान्तःसन्निवेशः स्थाणुताऽवेदनाद्यथा ।
शुद्धेऽनानापि नानेव तथा ब्रह्मोदरे जगत् ॥ ३५ ॥
स्फाटिकान्तर्वनादिसन्निवेशः स्थाणुता कौटस्थ्यं तदवेदनाद्यथा भवति
तथा शुद्धे ब्रह्मोदरे अनानापि जगन्नानेव भातीति शेषः ॥ ३५ ॥
ब्रह्म सर्वं जगद्वस्तु पिण्डमेकमखण्डितम् ।
फलपत्रलतागुल्मपीठबीजमिव स्थितम् ॥ ३६ ॥
पिण्डं स्फटिकघनम् । स्वप्रतिबिम्बितवनफलपत्रलतादयस्तेषां
पीठमाधारभूस्तदन्तर्गतं बीजं चेत्येवंरूपमिव ब्रह्म जगद्रूपं
स्थितमित्यर्थः ॥ ३६ ॥
श्रीराम उवाच ।
अहो चित्रं जगदिदमसत्सदिव भासते ।
अहो बृहदहो स्वस्थमहो स्फुटमहो तनु ॥ ३७ ॥
इत्थं वर्णितं जीवमनोबुद्धिचित्ताहङ्कारस्वरूपं तन्मात्रकल्पनान्तं
प्रासङ्गिकं जगतो मायामात्रत्वं च श्रुत्वा विस्मितो गुरुवचनविश्वासाज्जगतो
मायामात्रत्वमनुवादेनानुमोदमानस्तन्मात्राणां
सेन्द्रियसमष्टिव्यष्टिस्थूलशरीरभावोत्पादक्रमं जिज्ञासुः पृच्छति -
अहो इत्यादिना ॥ ३७ ॥
ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः ।
अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम् ॥ ३८ ॥
यथाऽसौ याति अपुल्यं यथा भवति चात्मभूः ।
यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो ॥ ३९ ॥
वैपुल्यं समष्टिव्यष्टिस्थूलदेहभावम् ।
यथार्थस्वभावसिद्धादर्थादात्मवस्तुनः सकाशाद्यथा
आत्मभूर्व्यष्टिसमष्टिस्थूलभूग्विश्ववैश्वानरात्मा यथा भवति तथा
कथय मे इत्यर्थः ॥ ३९ ॥
प्। २९४) १८०
श्रीवसिष्ठ उवाच ।
अत्यन्तासम्भवद्रूपमनन्यत्स्वस्वभावतः ।
अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः ॥ ४० ॥
उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम् ।
यथोदेति तथोदेति परे ब्रह्मणि जीवता ॥ ४१ ॥
पृष्ठं वर्णयितुं
प्रथममत्यन्तासम्भावितानिर्वचनीयस्थूलतान्तसर्ववासनाविजृम्भितजीवभ्
आवाविर्भावं सदृष्टान्तं दर्शयति - अत्यन्तेत्यादिद्वाभ्याम् ।
जीवलक्षणमत्यन्तासम्भवद्रूपमफुल्लाङ्गो वस्तुतः फुल्लाङ्गशून्योऽपि
फुल्लाङ्गो वेतालो यथा बालहृदि स्फुटमुदेति तथोदेतीत्यन्वयः ॥ ४० ॥
मानमेयात्मिका शुद्धा सत्यैवासत्यवस्त्स्थिता ।
भिन्नेव च न भिन्ना स्याद्ब्रह्मणो बृंहणात्मिका ॥ ४२ ॥
अननुभूतमननायोगादनुभवस्य च मानमेयाधीनत्वान्मनोभावनिमित्तं
मानमेयवासनोद्भवमाह - मानेति ॥ ४२ ॥
यथा ब्रह्म भवत्याशु जीवः कलनजीवितः ।
तथा जीवो भवत्याशु मनो मननवेदनात् ॥ ४३ ॥
मननवेदनान्मननवासनोद्भवाज्जीवो मनो भवति । मन्वानो मनः इति
श्रुतेरित्यर्थः ॥ ४३ ॥
चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत् ।
एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे ॥ ४४ ॥
तच्चित्तं मनस्तन्मात्रगोचरमननं स्वीयं स्वरूपवत्तन्मात्रात्मना
आविर्भूतं पश्यतीत्यर्थः । अस्तनिमेषः अविच्छिन्नदृग्रूपः
अनिललवप्रख्यः अतिसूक्ष्मः एष तन्मात्रात्मा खान्तरे चिदाकाशे स्फुरति ।
स्वतःप्रकाशमाने सति तत्स्फूर्त्या संवेदनात्मकं सृष्टिकालवशेन
पञ्चीकरणद्वारोत्पादितं कान्तं हिरण्मयत्वात्सूर्यवत्प्रकाशमानं
अपरिच्छिन्नचिद्दृष्ट्या अवश्यायकणोपमं ब्रह्माण्डरूपं
मनुष्यादिदेहरूपं चात्मनि पश्यतीत्यनुषज्यते ॥ ४४ ॥
अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम् ।
संवेदनात्मकं कालकलितं कान्तमात्मनि ॥ ४५ ॥
अहङ्किमिति शब्दार्थवेदनाभोगसंविदम् ।
संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थकम् ॥ ४६ ॥
तस्मिन्पथमं शब्दार्थविभागास्फूर्त्या सम्मुग्धमहन्ताध्यासं ततः
संसारतत्त्वस्मरणं चाह - अहमिति । अहं किमिति तत्त्वतो वा
मनुष्याद्याकारतो वा विशिष्य वेदनां न भुङ्क्ते तां तथाविधां संविदं
प्रथमं ततः सार्थकं पुरुषार्थविचारसहितं
प्राक्तनजन्मसहस्रस्मृत्या गर्भे जगत्तत्त्वशब्दार्थं संविदं च
पश्यतीत्यर्थः ॥ ४६ ॥
तादृक्षवेदनात्सोऽथ रसशब्दार्थवेदनम् ।
भाविजिह्वार्थनाम्नैकदेशेऽनुभवति क्षणात् ॥ ४७ ॥
तस्येन्द्रियकल्पनां क्रमेणाह - तादृक्षेत्यादिना । तादृक्षवेदनात्पिण्डे
स्फुटाहम्भाववेदनादिति सर्वत्रार्थः । जिह्वाशब्दो रसनेन्द्रियपरस्तदर्थस्य
रसस्य नाम्ना उपलक्षितमिति शेषः । एकदेशे मुखविलादिप्रदेशे ॥ ४७ ॥
तादृक्षवेदनात्तेजःशब्दार्थोन्मुखतां गतः ।
भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम् ॥ ४८ ॥
तादृक्षवेदनात्सोऽथ घ्राणं तद्वृष्टिवेदनात् ।
स्थितो यस्मिन्भवतीति तावद्दृश्यादिता स्थिता ॥ ४९ ॥
तद्दृष्टिर्घ्राणदृष्टिः । इति अनया रीत्या यस्मिन् श्रोत्रादिभावेऽपि यावत्कालं
स्थितो भवति तावत्कालं शब्दादिदृश्यं अत्ति उपभुङ्क्ते तच्छीलता अस्य
स्थितेत्यर्थः ॥ ४९ ॥
एवम्प्रायः स जीवात्मा काकतालीयवच्छनैः ।
विशिष्टसन्निवेशत्वं भावितं पश्यति स्वतः ॥ ५० ॥
तस्य सङ्घाताभिमानमाह - विशिष्टेति । भावितं प्राग्वासनाकल्पितम् ॥ ५०
॥
स तस्य सन्निवेशस्य त्वसतोऽपि सतः सतः ।
शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति ॥ ५१ ॥
तस्य श्रोतादिभिः शब्दादिभोगे तत्तदिन्द्रियतादात्म्याध्यासमाह - स
तस्येत्यादिना । असतोऽपि सतः सतः सत्त्वेन सम्पन्नस्य ।
श्रवणक्रियालक्षणेनार्थेन प्रयोजनेन शब्दान् भावयति ग्राहयतीति
शब्दभावः श्रोत्रं तल्लक्षणं देहैकदेशत्वं विन्दति लभते ॥ ५१ ॥
स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति ।
रसभावैकदेशत्वं रसनात्वेन विन्दति ॥ ५२ ॥
रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति ।
गन्धभावैकदेशत्वं नासिकात्वेन पश्यति ॥ ५३ ॥
एवं भावमयैः सत्ताप्रकटीकरणक्षमम् ।
भविष्यदिन्द्रियाख्यं स रध्रं पश्यति देहके ॥ ५४ ॥
एवमुक्तानुक्तेन्द्रियमयैर्बाह्यार्थसत्ताप्रकटीकरणक्षमं इन्द्रस्य
परमात्मनो लिङ्गत्वेन भाविना भविष्यदिन्द्रियाख्यम् ॥ ५४ ॥
इत्येवमादि जीवस्य राघवाद्यतनस्य च ।
उदेति प्रतिभासात्मा देह एवातिवाहिकः ॥ ५५ ॥
जीवस्य समष्टिरूपस्याद्यतनस्य व्यष्टिरूपस्य च ॥ ५५ ॥
अनाख्येयं परा सत्तास्यातिवाहिकतामिव ।
सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात् ॥ ५६ ॥
ब्रह्मण एवाज्ञानाद्विविधातिवाहिकदेहभावो ज्ञानात्तदपगमश्चेति
दर्शयति - अनाख्येति । इयमिति च्छेदः ॥ ५६ ॥
मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् ।
तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत् ॥ ५७ ॥
आतिवाहिकदेहादिमुखेनाध्यारोपापवादकल्पनाप्यात्मव्युत्पादकव्यवहारदृ
^इशैव न परमार्थदृशेत्याशयेनाह - मात्रिति ॥ ५७ ॥
अन्यत्ववेदनादन्यः परस्मादातिवाहिकः ।
ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा ॥ ५८ ॥
यदि यथावेदनमेव वस्तु तर्हि को विशेषस्तत्राह - सा संवित्तिरिति । सा
ब्रह्मत्ववेदनाख्या संवित्तिर्नान्यजा न भ्रान्तिजेत्यर्थः ॥ ५८ ॥
श्रीराम उवाच ।
असम्भवादसंवित्तेर्ब्रह्मात्मैकतयाथवा ।
को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः ॥ ५९ ॥
यद्येवं तर्हि चिदेकरसे ब्रह्मण्यज्ञानस्यैवायोगात्तदभावे
जीवभेदकल्पकाभावेन ब्रह्मात्मैकत्वस्य स्वतःसिद्धेर्वा
स्वातिरिक्तमोक्षफलस्य तत्प्रापकविचारादेश्च सम्भव एव नास्तीति कथं
तत्प्रवृत्तिरिति रामः शङ्कते - असम्भवादिति ॥ ५९ ॥
प्। २९५) १८०
श्रीवसिष्ठ उवाच ।
सिद्धान्त एवैष प्रश्नस्ते राम राजते ।
अकालपुष्पमाला हि शोभनापि न शोभते ॥ ६० ॥
किमयं तत्त्वं बुद्ध्वा प्रश्न उताबुद्ध्वा । आद्ये विचारानर्थक्ये
इष्टापत्तिर्द्वितीये तु नास्यावसर इत्याशयेन वसिष्ठः समाधत्ते -
सिद्धान्तकाले इत्यादिना । न शोभते औत्पातिकानर्थशङ्काभयहेतुत्वादिति
भावः ॥ ६० ॥
सार्थैवानर्थिकाऽकालमाला विलासिता यथा ।
तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते ॥ ६१ ॥
अर्थान्तरन्यासोक्तमर्थमुपमानेनापि स्पष्टमाह - सार्थैवेति । विलसिता
शोभमानाप्यकालपुष्पमाला यथा तात्कालिकोपभोगेन सार्थैव सती
औत्पातिकानर्थहेतुत्वेन जनहर्षाहेतुत्वादनर्थिका तथैव अपरिपाकदशापन्ने
जन्तौ अकालोत्पन्ना मिनोत्यर्थ प्रमापयतीति मित् उक्तिरप्यनर्थिकेत्यर्थः ॥ ६१ ॥
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते ।
ननु सर्वपाअर्थानां कालेन फलयोगतः ॥ ६२ ॥
तत्कुतस्तत्राह - प्रतिबन्धेति ।
हेमन्तादिकालशाल्याद्यङ्कुरोदयप्रतिबन्धस्य
यवाद्यङ्कुरोदयाभ्यनुज्ञानस्य आनुकूल्यस्य च दातेत्यन्वयव्यतिरेकाभ्यां
दृश्यते लोके । नत्वित्यवश्यमित्यर्थे ॥ ६२ ॥
एवमेव स जीवात्मा स्वप्नात्मा समुपस्थितः ।
पितामहत्वमुच्छ्रनं पश्यन्नात्मनि कालतः ॥ ६३ ॥
एवं रामस्य शङ्कां हेलनया समाधाय अनाख्येयं परं
ब्रह्मास्यातिवाहिकतामिवेत्यन्तं यदुक्तं [वस्तुनो इति पाठः]
तदेवानुसृत्यातिवाहिकदेहसमष्ट्युपहिते पितामहत्वकल्पनामाह -
एवमेवेति । स्वप्नात्मा स्वप्नसमष्ट्यात्मा । उपासनापरिपाकेनोपास्यभावेन
फलीभूतेन समुपस्थितः । कालतः कालेन तद्भावोचितेन ॥ ६३ ॥
ॐमुच्चारणसंवित्तिवेदनाच्च प्रपश्यति ।
यत्करोति मनोराज्यं भवत्याशु स तन्मयः ॥ ६४ ॥
तस्य प्रणवोच्चारणेन तदर्थसंवित्त्या सर्वप्रपञ्चस्रष्टृत्वं दर्शयति
- ॐमुच्चारणेति ॥ ६४ ॥
इदमेवमसत्सर्वमिव व्योम्नि ततात्मनि ।
पर्वतोच्चाकृतिर्व्योम जगद्व्योम्नि विजृम्भते ॥ ६५ ॥
एवञ्च व्यष्टिमनोराज्यवत्समष्टिमनोराज्यभूतस्यास्य जगतः असत्त्वमेवेति
फलितमित्याह - इदमेवमिति । व्योम्नि कल्पितं सर्वं तलमलिनत्वादीव ।
तथाच पर्वतानां मेर्वादीनामुच्चाकृतिरुन्नताकारोऽपि व्योमैव । किं
पुनरन्यदल्पम् । यतो वाय्वादिक्रमेण जगद्व्योम्न्येवारोपेण विजृम्भते
ततोऽस्य तलमालिन्यादिसाम्यमेवेत्यर्थः ॥ ६५ ॥
नेह प्रजायते किञ्चिन्नेह किञ्चिद्विनश्यति ।
जगद्गन्धर्वनगररूपेण ब्रह्म जृम्भते ॥ ६६ ॥
एवञ्च सृष्टिव्युत्पादनं प्रपञ्चमिथ्यात्वज्ञापनायैव न
वास्तवसर्गप्रदर्शनायेत्यभिप्रेत्य न निरोधो न चोत्पत्तिः
इत्यादिश्रुत्याशयमुद्घाटयति - नेहेति ॥ ६६ ॥
यथैव पद्मजादीनां जीवानां सदसन्मयी ।
सत्ता तथैव सर्वेषामासरीसृपमासुरम् ॥ ६७ ॥
जीवत्वमपि जगत्कोटावेवेति दर्शयितुं जगतो जीवसमसत्ताकत्वं दर्शयति -
यथैवेति । यौक्तिकदृशा सदसन्मयी विचारासहा । अधः सासरीसृपं ऊर्ध्व
आसुरं सुरानभिव्याप्येत्यर्थः ॥ ६७ ॥
संवित्सम्भ्रम एवायमेवमभ्युत्थितोऽप्यसन् ।
आब्रह्मकीटसंवित्तेः सम्यक्संवेदनात्क्षयः ॥ ६८ ॥
परमार्थदृशा त्वाह - संविदिति । आब्रह्मकीटं प्रसिद्धायाः
संवित्तेरनुभवाभ्युत्थितोऽप्यसन् । कुतः यतोऽस्य सम्यक्संवेदनात्क्षयो बाध
इत्यर्थः ॥ ६८ ॥
यथा सम्पद्यते ब्रह्मा कीटः सम्पद्यते तथा ।
कीटस्तु रूढभूतौघवलनात्तुच्छकर्मकः ॥ ६९ ॥
आब्रह्मकीटसंवित्तेरित्युक्तांशमुपपादयति - यथेति । तर्हि कथं कीटस्य
क्षुद्रकर्मता तत्राह - कीटस्त्विति । भूतौघवलनात् चित्ते
भौतिकमालिन्याधिक्यादिति यावत् ॥ ६९ ॥
यदेव जीवनं जीवे चेत्योन्मुखचिदात्मकम् ।
तदेव पौरुषं तस्मिन्सारं कर्म तदेव च ॥ ७० ॥
उपाध्यनुसारिणी जीवता तदनुसारिपौरुषं तदेव फलपर्यवसितं कर्म तच्च
तदेव पौरुषमेवेत्यर्थः ॥ ७० ॥
ब्रह्मणः सुकृतात्पापात्कीटकस्य समुत्थितेः ।
चित्तन्मात्रात्मिका [अज्ञाता या चित् तन्मात्रात्मिका पूर्वं
षट्पञ्चाशश्लोके अनाख्येयं परा सत्ता इति मूले अत्रतु अनाख्येयं
परं ब्रह्म इति वर्तते तत्र सदसद्विशैर्विचारणीयम्] भ्रान्तिः
प्रेक्षामात्रं भवेत्क्षयः ॥ ७१ ॥
तत्र सुकृतरूपसारोत्कर्षपरमावधिफलं ब्रह्मता
दुष्कृतरूपसारोत्कर्षपरमावधिफलं कीटकतेति
वैचित्र्यनिमित्तभेदेऽप्यज्ञातचिन्मात्रप्रयुक्ता
द्वैतभ्रान्तिर्ज्ञानमात्रप्रयुक्तस्तदपगम इत्येतदुभयत्रापि तुल्यमेवेत्याह
- ब्रह्मण इति ॥ ७१ ॥
मातृमानप्रमेयाणि न चिन्मात्रेतरद्यतः ।
ततो द्वैतैक्यवादार्थः शशशृङ्गाब्ज्नीसमः ॥ ७२ ॥
ननु यावन्माता मानेन प्रमेयं द्वैतं वेत्ति तावद्द्वैतं तदपगमे
त्वैक्यमेवेति क्रमिकद्वैतैक्यस्वभावत्वमेव वस्तुतो [वस्तुनो इति
पाठः] वास्तवं किं न स्यात्तत्राह - मात्रिति । न द्वैतं
मातृमानप्रमेयं मातृमानप्रमेयद्वैतस्यापि
मातृमानान्तरापेक्षापत्त्या अनवस्थापातात् । अतस्तेषां चिन्मात्रत्वे
द्वैतैक्यसाधकान्तराभावाद्द्वैतैक्यवादार्थः
शशशृङ्गनभोब्जिनीसम इत्यर्थः ॥ ७२ ॥
भावदार्ढ्यात्मकं मिथ्या ब्रह्मानन्दो विभाव्यते ।
आत्मैव कोशकारेण लालादार्ढ्यात्मकं यथा ॥ ७३ ॥
यदि न द्वैतं मानसेयं तर्हि कथं
कुद्दालकोटिदुर्भेदभुवनादिभावदार्ढ्यात्मकं प्रतीयते तत्राह -
भावदार्ढ्यात्मकमिति । ब्रह्मानन्दात्मक आत्मैव
बन्धकभुवनादिभावदार्ढ्यात्मकं द्वैतमिति भ्रान्त्यानुभूयते । यथा
कोशकारकीटेन स्वलालादार्ढ्यात्मकं बन्धनमनुभूयते तद्वदित्यर्थः ॥
७३ ॥
प्। २९६) १८१
मनसा ब्रह्मणा यद्यद्यथा दृष्टं विभावितम् ।
तत्तथा दृश्यते तज्ज्ञैः स्वभावस्यैष निश्चयः ॥ ७४ ॥
यद्यात्मकल्पित एव बन्धस्तर्हि प्रतिपुरुषं यथाभिलषितकल्पनैव
स्यान्नानिष्टकल्पनमित्याशङ्क्याह - मनसेति । सर्वमनःसमष्ट्यात्मना
ब्रह्मणा भोक्तृकर्मानुसारेण यद्यद्वस्तु यथा स्रष्टव्यत्वेन दृष्टं
यादृशकार्यार्थं विभावितं च तत्तत् अन्यैरपि तज्ज्ञैर्जीवैस्तथा दृश्यते ।
तत्कुतः । यतः स्वभावस्य नियतेरेष निश्चयो व्यवस्थित इत्यर्थः ॥ ७४ ॥
यथा यदुदितं वस्तु तत्तत्तन्न विना भवेत् ।
निमेषमपि कल्पं वा स्वभावस्यैष निश्चयः ॥ ७५ ॥
वटबीजादेव वटाङ्कुरो न कुटजबीजात् । बुद्बुदः कतिपयनिमेषं तिष्ठति
ब्रह्माण्डं तु महाकल्पमिति हेतुफलादिनियतिबलादपि न यथेच्छं
कल्पनप्रसक्तिरित्याह - यथेति ॥ ७५ ॥
अलीकमिदमुत्पन्नमलीकं च विवर्धते ।
अलीकमेव स्वदते तथालीकं विलीयते ॥ ७६ ॥
न चास्मदाद्यस्वातन्त्र्यबलान्नियतिकृतशक्तिकालादिव्यवस्थादर्शनाच्च
सत्यमेवेदं जगदिति भ्रमितव्यमित्याह - अलीकमिति । अलीकशब्दो
मिथ्यावचनः । स्वदते रोचते भोक्तॄणां भोगकाले ॥ ७६ ॥
शुद्धं सर्वगतं ब्रह्मानन्तमद्वितीयं [१]
दुःखबोधवशाद-
शुद्धमिवासदिवानेकमिवासर्वगमिवावबुध्यते ॥ ७७ ॥
सर्गत्रयेण पद्मैर्विस्तरेणोक्तमर्थजातं गद्यैः सङ्क्षिप्य दर्शयति -
शुद्धमित्यादिना । दुरवबोधो भ्रान्तिस्तद्वशात् ॥ ७७ ॥
जलमन्यत्तरङ्गोऽन्य इति बालकुकल्पनया भेदः कल्प्यत
एवमवास्तवस्तस्माद्यो योऽयमाभाति भेदः स केवलमतत्त्वविद्भिः
परिकल्पितो रज्ज्वां सर्प इव एवं भेदाभेदशक्त्योररिमित्रयोरेव
ब्रह्मण्येव सम्भवेत् ॥ ७८ ॥
यथा जलमन्यत्तरङ्गोऽन्य इति बालानां मूर्खाणां कुकल्पनयैवाऽवास्तवो
भेद एवं जगद्भेदोऽप्यवास्तव एव कल्प्यते । जले तरङ्गभेदस्य
परिणामत्वदृष्टौ न विवर्तता स्फुटेति दृष्टान्तान्तरमाह - रज्ज्वां
सर्प इवेति । भेदाभेदशक्त्योः स्थितिरिति शेषः । अरिमित्रयोर्विरुद्धाविरुद्धयोरेव
न कदाचिदपि तत्स्वभावत्यजोरित्येवकारार्थः ॥ ७८ ॥
तेनात्मनाऽद्वितीयेनैव द्वित्वमिवाततं यथा सलिलेन तरङ्गकल्पनया
सुवर्णेन कटककल्पनयैवमिति अतस्तेन स्वयमेवात्मनात्मान्य इव चेत्यते
॥ ७९ ॥
तेन ब्रह्मभूतेनात्मना प्रतीचा आततं विस्तारितम् ॥ ७९ ॥
अतः कलना जाता सैव स्फारतां प्राप्य मनः सम्पन्नं
तेनाहम्भावः कल्पितो निर्विकल्पप्रत्यक्षरूपमेतत्प्रथमं
तन्मनस्तदहं भवति क्षिप्रमहंशब्दार्थभावनात् ॥ ८० ॥
कलना निर्विकल्पकजगत्स्फूर्तिः । स्फारतां सविकल्पताम् । तथैव तद्व्याचष्टे ।
निर्विकल्पप्रत्यक्षरूपमेतत्प्रथमं तन्मनस्तदहं भवतीति
अहंशब्दार्थभावनात्तदुभयगोचरसंस्कारोद्भवात् ॥ ८० ॥
ततो मनोहङ्काराभ्यां स्मृतिरनुसंहिता
तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि तन्मात्रेषु जीवेन चित्तात्मना
स्वयं काकतालीयवद्ब्रह्मोपादानादियान्सन्निवेशः कल्पितो दृश्यते ॥
८१ ॥
अनुसंहिता यथानुभवमुत्पादिता । तया स्मृत्या अनुभूतानि यथानुभवं
स्मृतानि । कल्पितानि सृष्टानि । जीवेन ब्रह्मलक्षणादुपादानकारणादियान्
ब्रह्माण्डविस्तृतो जगत्सन्निवेशः कल्पितः । हस्तपादादिमान् इति पाठान्तरे
स्पष्टम् ॥ ८१ ॥
एवं यदेव मनः कल्पयति तदेव पश्यति ।
सद्वा भवत्वसद्वा चित्तं यत्कल्पयत्यभिनिविष्टम् ।
तत्तत्पश्यति यास्यति सदिव प्रतिभासमुपगतं सद्यः ॥ ८२ ॥
उपवर्णितः सृष्टिक्रमो लोकेऽप्येवमेव स्वप्ने प्रसिद्ध इत्याह - यदेवेति ।
पश्यति स्वसम्भ्रमादाविति शेषः । ननु स्वाप्नं प्रातिभासिकमसत् कथं सतो
व्यावहारिकस्य दृष्टान्तस्तत्राह - सद्वेति । चित्तं मनः अभिनिविष्टं
चिरं तद्भावनोपचितं सद्यदेव कल्पयति तदवश्यं पश्यति दर्शनेन
सत्सत्यमिव प्रतिभासमागतं प्राप्तं सत्सद्यो यास्यति व्यवहारोपयोगितया
प्राप्स्यति चेत्यर्थः ॥ ८२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे
सत्योपदेशो नाम सप्तसष्टितमः सर्गः ॥ ६७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सत्योपदेशो
नाम सप्तषष्टितमः सर्गः ॥ ६७ ॥