षट्षष्टितमः सर्गः ६६
श्रीवसिष्ठ उवाच ।
एवमेकं परं वस्तु राम नानात्वमेत्यलम् ।
नानात्वमिव सञ्जातं दीपाद्दीपशतं यथा ॥ १ ॥
मनोमात्रविलासत्वं द्वैतस्यात्र प्रपञ्च्यते ।
इष्टस्यागात्प्रबोधाच्च साज्ञानमनसः क्षयः ॥ १ ॥
एवं चेत्योन्मुखतया चित्तमित्यादिवर्णितक्रमेण । तत्र दृष्टान्तमाह -
नानात्वमिति । नानात्वं सञ्जातं सम्प्राप्तं दीपशतम् । अथवा न केवलं
चेत्यस्यैव नानात्वं सञ्जातं किन्तु एवमुक्तदिशा चितोऽपि प्रत्युपाधिभेदं
नानात्वमिव सञ्जातम् । तत्र अग्र्निर्यथैको भुवनं प्रविष्टो रूपं रूपं
प्रतिरूपो बभूव इति श्रुत्युक्तं दृष्टान्तमाह - दीपादिति ॥ १ ॥
यथाभूतमसद्रूपमात्मानं यदि पश्यति ।
विचार्यतेऽन्तस्तदनुभावहीनं न शोचति ॥ २ ॥
यथाऽस्य चित्तादीनजीवत्वकल्पनया बन्धः एवं चित्ताधीनाभ्यामेव
विचारतत्त्वबोधाभ्यां मुक्तिरपीति गूढाशयेनाह - यथाभूतमिति । आदौ
यदि विचार्यते तदनुभावो द्वैताभिनिवेशस्तद्धीनं अत एव यथाभूतं
यथास्थितं असद्रूपम् । रूपग्रहणं नाम्नोऽप्युपलक्षणम् ।
नामरूपशून्यमित्यर्थः । तथाविधमात्मानं पश्यति तदा न शोचति । तरति
शोकमात्मवित् इति श्रुतेरित्यर्थः ॥ २ ॥
चित्तमात्रं नरस्तस्मिन्गते शान्तमिदं जगत् ।
उपानद्रूढपादस्य ननु चर्मास्तृतैव भूः ॥ ३ ॥
ननु विचारेण चित्तोपशमेऽपि कथं सर्वद्वैतोपशमस्तत्राह -
चित्तमात्रमिति । नरो जीवः । तस्य अचेत्यमानद्वैतसत्ताभावाच्चित्तोपरमे
द्वैतोपरमसिद्धिरित्यर्थः ॥ ३ ॥
पत्रमात्रादृते नान्यत्कदल्या विद्यते यथा ।
भ्रममात्रादृते नान्यज्जगतो विद्यते तथा ॥ ४ ॥
चित्तभ्रमोपादानकस्य
जगतस्तदतिरिक्तस्वरूपाभावादप्युपरमसिद्धिरित्याशयेनाह -
पत्रमात्रादिति । पत्रग्रहणं त्वक्काण्डमूलानामप्युपलक्षणम् । अन्यत्
स्वरूपमिति शेषः ॥ ४ ॥
जायते बालतामेति यौवनं वार्धकं ततः ।
मृतिं स्वर्गं च नरकं भ्रमाच्चेतो हि नृत्यति ॥ ५ ॥
उक्तमेव प्रपञ्चयति - जायत इति ॥ ५ ॥
विचित्रबुद्बुदोल्लासे स्वात्मनो व्यतिरेकिणि ।
यथा सुरायाः सामर्थ्यं तथा चित्तस्य संसृतौ ॥ ६ ॥
बुद्बुदोल्लासे नभसि अनेकसहस्रबुद्बुदाकारभ्रमजनने । तथा चित्तस्य
ब्रह्माण्डबुद्बुदोल्लासे ॥ ६ ॥
यथा द्वित्वं शशाङ्कादौ पश्यत्यक्षिमलाविलम् ।
चिच्चेतनकलाक्रान्ता तथैव परमात्मनि ॥ ७ ॥
मलेन तिमिरेणाविलं कलुषमक्षि पश्यति । चेतनं चित्तं तस्य कला
भ्रान्तिजननशक्तिस्तया आक्रान्ता परवशीकृता जीवचित् ॥ ७ ॥
यथा मदवशाद्भ्रान्तान्क्षीबः पश्यति पादपान् ।
तथा चेतनविक्षुब्धान्संसारांश्चित्प्रपश्यति ॥ ८ ॥
क्षीबो मदिरामत्तः ॥ ८ ॥
यथा लीलाभ्रमाद्बालाः कुम्भकृच्चक्रवज्जगत् ।
भ्रान्तं पश्यन्ति चित्तात्तु विद्धि दृश्यं तथैव हि ॥ ९ ॥
लीलया भ्रमाद्भ्रमणात् । कुम्भकृत्कुलालस्तदीयचक्रवत् ॥ ९ ॥
यदा चिच्चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः ।
यदा न चेतति द्वैतं तदा द्वैतैक्ययोः क्षयः ॥ १० ॥
चित्ताधीनप्रतीतिकालिकैव द्वैतसत्ता चित्तोपरमे उपरमतीत्याह - यदेति ॥ १० ॥
यच्चेत्यते तदितरद्व्यतिरिक्तं चितोऽस्ति न ।
किञ्चिन्नास्तीति संशान्त्या चितः शाम्यति चेतनं ॥ ११ ॥
प्रतीतिकालेऽपि सा न पृथगस्तीत्याह - यदिति । तस्याश्चित इतरज्जडरूपम् ।
चित्तस्य तर्हि कुतः शान्तिस्तत्राह - किञ्चिदिति । विषयापह्नवे निरिन्धनाग्निरिव
चित्तं स्वयमेव शाम्यतीत्यर्थः ॥ ११ ॥
चिद्घनेनैकतामेत्य यदा तिष्ठति निश्चलः ।
शाम्यन्व्यवहरन्वापि तदा संशान्त उच्यते ॥ १२ ॥
जीवन्मुक्तस्तर्हि कदा भवति तत्राह - चिद्घनेनेति । शाम्यन् समाधिलीनः ॥
१२ ॥
तन्वी चेतयते चेत्यं घना चिन्नाङ्ग चेतति ।
अल्पक्षीबः क्षोभमेति घनक्षीबो हि शाम्यति ॥ १३ ॥
नन्वल्पज्ञचितश्चिद्घनैक्ये सर्वज्ञतैव स्यान्न निर्विषयतालक्षणा
संशान्तिरिति चेत्तत्राह - तन्वीति । अङ्गेति सम्बोधने । घनक्षीबोऽत्यन्तमत्तः
। शाम्यति निर्व्यापाओ भवति । अयं भावः - चितः सविषयता न
केवलचित्त्वप्रयुक्ता किन्त्वविद्याविक्षिप्तचित्त्वप्रयुक्ता । सा च
ज्ञानसमाधिदार्ढ्याभिव्यक्तचिद्घनैक्येनाविद्याविक्षेपापगमे अपैत्येव ।
या त्वीश्वरादीनां सर्वज्ञता सापि मायिक्येव न वास्तवीति न कश्चिद्दोष इति ॥ १३ ॥
चिद्घनैकप्रपातस्य रूढस्य परमे पदे ।
नैरात्म्यशून्यवेद्याद्यैः पर्यायैः कथनं भवेत् ॥ १४ ॥
एतदेवाभिप्रेत्याह - चिद्घनैकेति । चिद्घनेन एकप्रपातोऽनन्यविषयता
नैरन्तर्यं च यस्य तथाविधस्य अत एव परमे पदे तस्मिन् रूढस्येति
निर्विकल्पसमाधिसाक्षात्कारावुक्तौ । तथाविधस्य चित्तस्य नैरात्म्यं
स्वरूपशून्यता शून्यवेद्यं निर्विषयतेत्यादिपर्यायैः ॥ १४ ॥
चिच्चेतनेन चेत्यत्वमेत्येवं पश्यति भ्रमम् ।
जातो जीवामि पश्यामि संसरामित्यसन्मयम् ॥ १५ ॥
चिति चेत्यजडसंसरणक्रमरूपताकल्पनापि चित्तनिमित्तैवेति तदुपशमे
तदपगमोपपत्तिरित्याशयेनाह - चिदिति ॥ १५ ॥
स्वभावाद्व्यतिरिक्तं तु न चित्तस्यास्ति चेतनम् ।
स्पन्दादृते यथा वायोरन्तः किं नाम चेत्यते ॥ १६ ॥
ननु चेतनं चित्तव्यापारः समाधिज्ञानाभ्यासादुपरमतु चित्तं
त्वनुपरतमेवेत्याशङ्कायामाह - स्वभावादिति । औष्ण्योपरमे
वह्निपरिशेषवद्व्यापारोपरमेन चित्तं परिशिष्यते न हि तदन्तर्गतं
स्वरूपान्तरं केनचिदनुभूयत इत्याह - अन्तरिति ॥ १६ ॥
प्। २९१) १७८
चेत्यत्वं सम्भवत्येवं किञ्चिद्यच्चेत्यते चिता ।
रज्जुसर्पभ्रमाभासं तमविद्याभ्रमं विदुः ॥ १७ ॥
एवं चित्तापगमे चितिचेत्याप्रथनादप्रथमानस्य च
साधकान्तराभावादसिद्धेश्च तदप्यपगतमेवेत्याशयेनाह -
चेत्यत्वमिति । प्राक्तर्हि चेत्यप्रतिभासः कीदृक् तमाह - रज्ज्विति ॥ १७ ॥
संविन्मात्रचिकित्स्येऽस्मिन्व्याधौ संसारनामनि ।
चित्तमात्रपरिस्पन्दे संरम्भो न च किञ्चन ॥ १८ ॥
एवञ्च रज्जुसर्पस्पन्द इव चित्तस्पन्दात्मकः संसारो बोधमात्रेण चिकित्सितुं
शक्य इत्याहसंविदिति । संरम्भ आयासः किञ्चन कश्चन ॥ १८ ॥
यदि सर्वं परित्यज्य तिष्ठस्युत्क्रान्तवासनः ।
अमुनैव निमेषेण तन्मुक्तोऽसि न संशयः ॥ १९ ॥
उत्क्रान्तवासनो वासनामयचित्तशून्यः ॥ १९ ॥
यथा रज्ज्वां भुजङ्गाभा विनश्यत्येव वीक्षणात् ।
संविन्मात्रविवर्तेन नश्यत्येव हि संसृतिः ॥ २० ॥
संविन्मात्रस्य विवर्तः प्रत्यङ्मुखतया परावृत्त्य स्वतत्त्वदर्शनं तेन ॥
२० ॥
यत्राभिलाषस्तन्नूनं सन्त्यज्य स्थीयते यदि ।
प्राप्त एवाङ्ग तन्मोक्षः किमेतावति दुष्करम् ॥ २१ ॥
संवित्परावृत्तौ चेन्द्रियनिग्रहो हेतुस्तत्र च विषयाभिलाषत्यागो
हेतुरित्याशयेनाह - यत्राभिलाष इति ॥ २१ ॥
अपि प्राणांस्तृणमिव जयन्तीह महाशयाः ।
यत्राभिलाषस्तन्मात्रत्यागे कृपणता कथम् ॥ २२ ॥
विषयत्यागं प्ररोचयति - अपीति ॥ २२ ॥
यत्राभिलाषस्तत्त्यक्त्वा चेतसा निरवग्रहम् ।
प्राप्तं कर्मेन्द्रियैर्मृह्णंस्त्यजन्नष्टं च तिष्ठ भोः ॥ २३ ॥
निरवग्रहं निरासङ्गम् । कथं तर्हि जीवनं तत्राह - प्राप्तमिति । नष्टं
त्यजन् नानुशोचन्निति यावत् ॥ २३ ॥
यथा करतले बिल्वं यथा वा पर्वतः पुरः ।
प्रत्यक्षमेव तस्यालमजत्वं परमात्मनः ॥ २४ ॥
तस्य उक्तलक्षणस्य तत्त्वविदः अजत्वं जन्मादिविक्रियाशून्यब्रह्मत्वं
अलमत्यन्तं प्रत्यक्षमेव न तिरोहितमित्यर्थः ॥ २४ ॥
आत्मैव भाति जगदित्युदितस्तरङ्गैः
कल्पान्त एक इव वारिधिरप्रमेयः ।
ज्ञातः स एव हि ददाति विमोक्षसिद्धिं
त्वज्ञात एव मनसे चिरबन्धनाय ॥ २५ ॥
उक्तार्थत्रयं सङ्क्षिप्योपसंहरति - आत्मैवेति । आत्मैवाज्ञदृशां
जगदिति वेषेण उदित आविर्भूतः सन् भाति । यथा
कल्पान्तवारिधिस्तरङ्गभेदैर्भाति तद्वत् । स एव ज्ञातो ज्ञानाभिव्यक्तः सन्
विमोक्षलक्षणां सिद्धिं पुरुषार्थं ददाति । अज्ञातस्तु प्रथमं मनसे
सर्वार्थनिदानमनोभावाय तत्प्रयुक्तचिरबन्धनाय च भवतीति शेषः ॥ २५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
संसृतिपरमयोगो नाम षट्षष्टितमः सर्गः ॥ ६६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
संसृतिपरमयोगो नाम सट्षष्टितमः सर्गः ॥ ६६ ॥