पञ्चषष्टितमः सर्गः ६५
श्रीवसिष्ठ उवाच ।
परस्मात्कारणादेव मनः प्रथममुत्थितम् ।
मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ॥ १ ॥
मनसो भोग्यवर्गस्य भोक्तुर्मूलस्य चाधुना ।
विमृश्य तत्त्वं चिन्मात्रपरिशेषः प्रदर्श्यते ॥ १ ॥
तत्रादौ सर्वकल्पनानां चिदनतिरेकं वक्तुं मूलभूतस्य मनस
उत्पत्तिस्थित्योः कारणानन्यसत्ताकत्वात्तन्मात्रत्वमाह - परस्मादिति ॥ १ ॥
भावाभावलसद्दोलं तेनायमवलोक्यते ।
सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया ॥ २ ॥
द्वैताभासस्य मनोधीनत्वमाह - भावाभावेति । इदमित्थं भवति इत्थं
नेत्येवं भावाभावयोर्विषययोर्लसन्ती दोलेव परिवृत्तिर्यस्येति पूर्वान्वयि ।
तेन चित्तेन पूर्वानुभूतो गन्धः स्मर्यमाणो यथा इच्छया
मनोरथेनासन्नप्यवलोक्यते तद्वत् ॥ २ ॥
न कश्चिद्विद्यते भेदो द्वैतैक्यकलनात्मकः ।
ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम् ॥ ३ ॥
तथाच मनःकल्पितो भेदो मनोऽपगमादपगच्छतीत्याह - न कश्चिदिति ॥ ३ ॥
अपारावारविस्तारसंवित्सलिलवल्गनैः ।
चिदेकार्णव एवायं स्वयमात्मा विजृम्भते ॥ ४ ॥
भेदापगमे शिष्टमात्मस्वरूपं दर्शयति - पारेति । संविल्लक्षणस्य
सलिलस्य वल्गनैरपरिच्छेदेन प्रसारैः ॥ ४ ॥
असत्यमस्थैर्यवशात्सत्यं सम्प्रतिभासतः ।
यथा स्वप्नस्तथा चित्तं जगत्सदसदात्मकम् ॥ ५ ॥
ननु चित्तजगतोर्बाधे कुतः सत्परिशेष इत्याशङ्क्य
स्थिरास्थिरोभयसंवलितत्वेन जगतः सदसदात्मकत्वादस्थिरांशबाधे
स्थिरपरिशेषोपपत्तिरित्याशयेनाह - असत्यमिति । स्वप्ने
अस्थिरचिषयांशबाधेऽपि स्थिरतद्द्र्ऽष्टृपरिशेषदर्शनात्तद्वदित्यर्थः ॥ ५ ॥
न सन्नासन्न सञ्जातश्चेतसो जगतो भ्रमः ।
अथ धीसमवायानामिन्द्रजालमिवोत्थितः ॥ ६ ॥
नन्वत्यन्तासतोऽपि न बाधो दृष्ट इत्याशङ्क्य
तयोर्बाधयोग्यामनिर्वचनीयतामाह - न सदिति । ननु मिथ्यात्वे कथं
बहूनामेकाकारता तत्राह - अथेति । अथेति तथापीत्यर्थे । तथापि
सामाजिकधीसमूहानामिन्द्रजालमायाक्षुब्धानामेकाकारताभ्रमवदुत्थित
इत्यर्थः ॥ ६ ॥
दीर्घः स्वप्नः स्थितिं यातः संसाराख्यो मनोबलात् ।
सम्यग्दर्शनात्स्थाणाविव पुंस्प्रत्ययो मुधा ॥ ७ ॥
कुतस्तर्हि चिरकालस्थायितास्य तत्राह - दीर्घ इति । मनोबलात्
मनःकृतासक्तिबलात् ॥ ७ ॥
अनात्मालोकनाच्चित्तं चित्तत्वं नानुशोचति ।
वेतालकल्पनाद्बाल इव सङ्कल्पिते भये ॥ ८ ॥
नन्वात्मा स्वपूर्णानन्दभावप्रच्युतिहेतुं सर्वदुःखनिदानं स्वस्य
मनोभावमेव कुतो नानुशोचति तत्राह - अनात्मालोकनादिति । न
आत्मालोकनमनात्मालोकनमात्मविषयकमज्ञानं अनात्मनामालोकनं
दर्शनं च तस्मान्निमित्ताच्चित्तं चित्तभावमापन्नोऽप्यात्माचित्तत्वं
चित्तभावकृतानर्थनानुशोचति यथा बालो वेतालकल्पनाद्भये सम्यक्कल्पिते
सम्यङ्निरूढे सति तदभिनिविष्टचित्तत्वात्तद्धेतुं वेतालकल्पनां नानुशोचति
तद्वदित्यर्थः ॥ ८ ॥
अनाख्यस्य स्वरूपस्य सर्वाशातिगतात्मनः ।
चेत्योन्मुखतया चित्तं चित्ताज्जीवत्वकल्पनम् ॥ ९ ॥
तथाच चितश्चेत्योन्मुखत्वस्वभाव एवानर्थपरम्परामूलमित्याह -
अनाख्यस्येत्यादिना ॥ ९ ॥
जीवत्वादप्यहम्भावस्त्वहम्भावाच्च चित्तता ।
चित्तत्वादिन्द्रियादित्वं ततो देहादिविभ्रमाः ॥ १० ॥
देहादिमोहतः स्वर्गनरकौ मोक्षबन्धने ।
बीजाङ्कुरवदारम्भसंरूढे देहकर्मणोः ॥ ११ ॥
देहादौ मोहतोऽहम्ममेत्यभिमानतः ॥ ११ ॥
द्वैतं यथा नास्ति चिदात्मजीवयो-
स्तथैव भेदोऽस्ति न जीवचित्तयोः ।
यथैव भेदोऽस्ति न जीवचित्तयो-
स्तथैव भेदोऽस्ति न देहकर्मणोः ॥ १२ ॥
इयं सर्वाप्यनर्थपरम्परा जीवब्रह्मभेदभ्रममूलत्वात्तदैक्यबोधेन
तद्भ्रमबाधे बाध्यत इत्याशयेन भेदमपवदति - द्वैतमिति चिदात्मा
ब्रह्मजीवश्च तयोर्द्वैतं भेदः ॥ १२ ॥
कर्मैव देहो ननु देह एव
चित्तं तदेवाहमितीह जीवः ।
स जीव एवेश्वरचित्स आत्मा
सर्वः शिवस्त्वेकपदोक्तमेतत् ॥ १३ ॥
सकलशास्त्रविचाररहस्यमेकोक्त्यैव सङ्क्षिप्य स्फुटमाह - कर्मैवेति ॥ १३
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
जीवविचारो नाम पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जीवविचारो नाम
पञ्चषष्टितमः सर्गः ॥ ६५ ॥
प्। २९०) १७८