चतुःषष्टितमः सर्गः ६४
श्रीवसिष्ठ उवाच ।
योऽयं सर्वगतो देवः परमात्मा महेश्वरः ।
स्वच्छः स्वानुभवानन्दस्वरूपोऽन्तादिवर्जितः ॥ १ ॥
भोग्यस्य शक्तिवैचित्र्याद्याविर्भावो निरूपितः ।
भोक्तुर्जीवत्वसम्पत्तिक्रमोऽत्र प्रतिपाद्यते ॥ १ ॥
एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः ।
जीवः सञ्जायते पूर्वं स चित्तं चित्ततो जगत् ॥ २ ॥
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति
श्रुतेर्नामरूपव्याकरणलक्षणजगत्सर्गात्पूर्वं
जीवोपाधिलिङ्गसमष्ट्युत्पत्त्या जीवः सञ्जायते स एवोपाधिप्राधान्येन
चित्तमित्युच्यते ॥ २ ॥
श्रीराम उवाच ।
स्वानुभूतिप्रमाणेऽस्मिन्ब्रह्मणि ब्रह्मबृंहिते ।
कथं सत्तामवाप्नोति जीवको द्वैतवर्जिते ॥ ३ ॥
अखण्डाद्वितीयस्वप्रकाशे ब्रह्मणि सखण्डसद्वितीयजीवसत्तानुपपत्तिं रामः
शङ्कते - स्वानुभूतीति । ब्रह्मणि ब्रह्मत्वादेव बृंहिते
निरतिशयापरिच्छेदलक्षणां वृद्धिं प्राप्ते । अल्पो जीवो जीवकः सत्तं
पूर्वसिद्धब्रह्मताविरोधिनीं पृथक्सत्तां कथमवाप्नोतीत्यर्थः ॥ ३ ॥
श्रीवसिष्ठ उवाच ।
असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम् ।
बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम् ॥ ४ ॥
सत्ये निरविद्ये ब्रह्मणि परमार्थदृशा न जीवसत्तासम्भवः साविद्ये तु
तत्सम्भवो न विरुध्यत इति विभज्य विवक्षुः प्रथमं साधारणं
तत्स्वरूपमाह - असदिति । असन्त आभासा द्वैतप्रत्यया यत्र ।
प्रबृंहितमित्यस्यैव विवरणं बृहच्चिद्भैरववपुरिति । अनात्मयोगिनां
भीषणत्वाद्भैरवं वपुः स्वरूपं यस्य । यथाहुर्वृद्धाः -
अस्पर्शयोगो नामैष दुर्दर्शः सर्वयोगिनाम् । योगिनो बिभ्यति ह्यस्मादभये
भयदर्शिनः ॥ इति ॥ ४ ॥
तस्य यत्सममापूर्णं शुद्धं सत्वमचिह्नितम् ।
तद्विदामप्यनिर्देश्यं तच्छन्तं परमं पदम् ॥ ५ ॥
आद्यं दर्शयति - तस्येति ॥ ५ ॥
तस्यैवोद्यदिवाशान्ति यत्सत्त्वं संविदात्मकम् ।
स्वभावात्स्पन्दनं तत्तु जीवशब्देन कथ्यते ॥ ६ ॥
द्वितीयं दर्शयति - तस्यैवेति ॥ आशान्ति आमोक्षं उद्भवबीजसत्त्वादुद्यदिव
यद्रूपं तस्योपाधिस्वभावाद्यत्स्पन्दनं चलनशक्त्यात्मकप्राणधारणम्
॥ ६ ॥
तत्रेमाः परमादर्शे चिद्व्योम्न्यनुभवात्मिकाः ।
असङ्ख्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः ॥ ७ ॥
तत्रैव सर्वनामरूपव्याकरणमित्याह - तत्रेति ॥ ७ ॥
ब्रह्मणः स्फुरणं किञ्चिद्यदवाताम्बुधेरिव ।
दीपस्येवाप्यवातस्य तं जीवं विद्धि राघव ॥ ८ ॥
जगद्वैचित्र्यकल्पनानुकूलक्रियाशक्तिप्रधानप्राणभाव एव जीवभावश्चित
इत्यत्र दृष्टान्तमाह - ब्रह्मण इति ॥ ८ ॥
शान्तत्वापगमेऽच्छस्य मनाक्संवेदनात्मकम् ।
स्वाभाविकं यत्स्फुरणं चिद्व्योम्नः सोऽङ्ग जीवकः ॥ ९ ॥
अच्छस्य ब्रह्मणः प्राणाधीनचलनाध्यासे शान्तत्वस्य निष्क्रियत्वस्यापगमे
तिरोधाने सति मनागल्पं यत्संवेदनं तदात्मकम् ॥ ९ ॥
यथा वातस्य चलनं कृशानोरुष्णता यथा ।
शीतता वा तुषारस्य तथा जीवत्वमात्मनः ॥ १० ॥
तच्च जीवत्वमामोक्षं जीवस्य स्वाभाविकमिवेत्याह - यथेति ॥ १० ॥
चिद्रूपस्यात्मतत्त्वस्य स्वभाववशतः स्वयम् ।
मनाक्संवेदनमिव यत्तज्जीव इति स्मृतम् ॥ ११ ॥
स्वस्य अभावनमभावोऽज्ञानं तद्वशतो मनाक्संवेदनं
ज्ञानस्वरूपस्य परिच्छेद इव यत्तत् ॥ ११ ॥
तदेव घनसंवित्त्या यात्यहन्तामनुक्रमात् ।
वह्न्यणुः स्वेन्धनाधिक्यात्स्वां प्रकाशकतामिव ॥ १२ ॥
तस्याहङ्कारात्मकरुद्रभावमाह - तदेवेति । घनसंवित्त्या
वासनादार्ढ्येन । अहन्तां अहङ्कारताम् । वह्न्यणुरग्निकणः स्वस्य
इन्धनं दीपनं यद्धृततैलादि तदाधिक्यात् ॥ १२ ॥
यथा स्वतारकामार्गे व्योम्नः स्फुरति नीलिमा ।
शून्यस्याप्यस्य जीवस्य तथाहम्भावभावना ॥ १३ ॥
स्वस्य द्रष्टुस्तारका कनीनिकोपलक्षितं चक्षुस्तस्या मार्गे अविषये भागे व्योम्नि
प्रसृतं हि चक्षुर्यावद्दूरं गन्तुं शक्नोति तावन्नीलिमानं न पश्यति ।
यत्र तु गत्वाग्रे कुण्ठीभवति ततः प्रभृति तस्या मार्गस्तत्र नैल्यशून्येऽपि
नीलिमा स्फुरति तथा अहन्ताशून्यस्याप्यस्य जीवस्य स्वाविषये
स्वात्मन्यहम्भावभावनेत्यर्थः ॥ १३ ॥
जीवोऽहङ्कृतिमादत्ते सङ्कल्पकलयेद्धया ।
स्वयैतया घनतया नीलिमानमिवाम्बरम् ॥ १४ ॥
सङ्कल्पकला पूर्वसङ्कल्पसंस्कारस्तया इद्धया उद्बुद्धया स्वया
स्वाध्यस्तया एतया प्रत्यक्षया घनतया स्निग्धेन्द्रनीलशिलाकल्पया निबिडतया
॥ १४ ॥
अहम्भावो हि दिक्कालव्यवच्छेदी कृताकृतिः ।
स्वयं सङ्कल्पवशतो वातस्पन्द इव स्फुरन् ॥ १५ ॥
दिक्कालव्यवच्छेदी आत्मनो दैशिककालिकपरिच्छेदकारी । स्वयं
सङ्कल्पवशतः कृतदेहाद्याकृतिः ॥ १५ ॥
सङ्कल्पोन्मुखतां यातस्त्वहङ्काराभिधः स्थितः ।
चित्तं जीवो मनो माया प्रकृतिश्चेति नामभिः ॥ १६ ॥
अहम्भावाध्यासमूलाश्चित्तादिभेदा इत्याह - चित्तमित्यादिना । सोहङ्कारो
रुद्रश्चित्तं विष्णुर्जीवो ब्रह्मा तेषामेव क्रमान्मनो माया प्रकृतिरिति
क्रियानामानि ॥ १६ ॥
तत्सङ्कल्पात्मकं चेतो भूततन्मात्रकल्पनम् ।
कुर्वंस्ततो व्रजत्येव सङ्कल्पाद्याति पञ्चताम् ॥ १७ ॥
तत्तत्र सङ्कल्पात्मकं चेतो ब्रह्मा सङ्कल्पाद्भूततन्मात्रकल्पनां
कुर्वस्ततश्चेतनात्मकपूर्वावस्थातो व्रजति प्रच्यवत एव जडां पञ्चतां च
याति ॥ १७ ॥
प्। २८८) १७७
तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत् ।
अजातजगति व्योम्नि तारका पेलवा यथा ॥ १८ ॥
तस्य पञ्चीकरणेन हैमाण्डप्रकृतितेजोभावमाह - तन्मात्रेति ।
ब्रह्मभावदृष्ट्या अल्पत्वात्कण इत्युक्तम् । पेलवा अस्फुटप्रकाशा ॥ १८ ॥
तेजःकणत्वमादत्ते चित्तं तन्मात्रकल्पनात् ।
शनैः स्वस्मात्परिस्पन्दाद्बीजमङ्कुरतामिव ॥ १९ ॥
उक्तमेव स्पष्टमाह - तेजःकणत्वमिति ॥ १९ ॥
असौ तेजःकनोऽण्डाख्यः कल्पनात्कश्चिदण्डताम् ।
प्रयात्यन्तःस्फुरद्ब्रह्मा जलमापिण्डतामिव ॥ २० ॥
तत्र पूर्वकल्पे विराडात्मोपासनसंस्कृतस्य
स्थूलसमष्टिविराड्भावस्तदन्यस्य
व्यष्टिस्थूलदेहाहम्भावसंस्कारात्तद्भाव इति विशेषमाह -
असावित्यादिना । कल्पनात्प्राक्तनोपासनात्मकाण्डात्माहम्भावकल्पनात् । तस्य
सह सिद्धं चतुष्टयमिति स्मृतिसिद्धमात्मज्ञानमित्याशयेन विशिनष्टि ##-
चतुर्मुखो यस्येत्यर्थः । आपिण्डतां करकादिघनीभावम् ॥ २० ॥
कश्चिद्द्रागिति देहादिकलनाद्याति देहताम् ।
भ्रान्तित्वं तदतद्रूपं गन्धर्वैश्च वसत्पुरम् ॥ २१ ॥
कश्चिदनुपासकस्तु पुण्यकृत् इति वक्ष्यमाणप्रकारेण दिव्यदेहादेः
कलनाद्द्राक् शीघ्रमेव देवादिदेहतां तत्र देहे अतद्रूपं अनहमि
अहम्भावलक्षणभ्रान्तित्वं याति । गन्धर्वैश्चादन्यैर्वा देवैर्वसत् पालितं
पुरममरावत्यादि याति ॥ २१ ॥
कश्चित्स्थावरतामेति कश्चिज्जङ्गमतामपि ।
कश्चिद्याति खचार्यादिरूपं सङ्कल्पतः स्वतः ॥ २२ ॥
कश्चित्पापकृत्तु स्थावरताम् । खचारिणः पक्षिणो रक्षःपिशाचादयश्च ।
आदिपदाज्जलचरा गृह्यन्ते ॥ २२ ॥
सर्गादावादिजो देहो जीवः सङ्कल्पसम्भवः [भावनः इति
पाठः] ।
क्रमेण पदमासाद्य वैरिञ्चं कुरुते जगत् ॥ २३ ॥
प्रथमजः सूक्ष्मदेहसमष्ट्युपाधिक एवात्मा विरिञ्चिजीवः
स्वसङ्कल्पादण्डान्तर्जगत्सृजतीत्यर्थः ॥ २३ ॥
आत्मभूकलनात्मासौ यत्सङ्कल्पयति क्षणात् ।
तत्स्वभाववशादेव जातमेव प्रपश्यति ॥ २४ ॥
तस्य सत्यसङ्कल्पतायां पूर्वतनसत्यसङ्कल्पात्मभूतादात्मोपासना
हेतुरित्याशयेन विशिनष्टि - आत्मभूकलनात्मेति ॥ २४ ॥
चित्स्वभावात्समायातं ब्रह्मत्वं सर्वकारणम् ।
संसृतौ कारणं पश्चात्कर्म निर्माय संस्थितम् ॥ २५ ॥
प्रथाचलनोभयधर्मकस्य जगतश्चिदात्मा प्रथमं प्रथायां
हेतुश्चलनविकारादौ तु पश्चात्तनं कर्मेत्याह - चित्स्वभावादिति । आद्यः
कारणशब्दो भावप्रधानः ॥ २५ ॥
चित्तं स्वभावात्स्फुरति चित्तः फेन इवाम्भसः ।
कर्मभिर्बध्यते पश्चाड्डिण्डीरमिव रज्जुभिः ॥ २६ ॥
उक्तमेव मूलतः स्फुटयति - चित्तमिति । डिण्डीरं फेनपिण्डो
नौकादिनिबन्धनरज्जिभिर्बध्यते निरुध्यते न जलं तद्वच्चित्तमेव
देहनिबन्धनैः कर्मभिर्बध्यते न चिदात्मेति भावः ॥ २६ ॥
सङ्कल्पः कलनाबीजं तदात्मैव हि जीवकः ।
कर्म पश्चात्तनोत्युच्चैरुत्थायाकर्मतः क्रमात् ॥ २७ ॥
लोकेऽपि सङ्कल्पपूर्वकं कर्मणा
घटादिरचनदर्शनादुक्तक्रमसिद्धिरित्याशयेनाह - सङ्कल्प इति ।
अकर्मतः निष्क्रियात्मसन्निधानादिति यावत् ॥ २७ ॥
क्रोडीकृताङ्कुरं पूर्वं जीवो धत्ते स्वजीवितम् ।
पश्चान्नानात्वमायाति पत्राङ्कुरफलक्रमैः ॥ २८ ॥
पश्चात्तनैरपि कर्मभिः प्राग्जीवे बीजान्तरङ्कुरवद्वासनात्मना
स्थितमेवाविष्क्रियते नापूर्वमित्याशयेनाह - क्रोडीकृताङ्कुरमिति । यथा
बीजस्थो जीवः पूर्वं क्रोडीकृतः सूक्ष्मतयान्तर्धृतः अङ्कुरो येन
तथाविधं स्वजीवितं धत्ते
पश्चात्त्वङ्कुरपत्रकाण्डशाखापल्लवपुष्पफलक्रमैर्नानात्वमायाति तथा
हिरण्यगर्भजीवोऽपीत्यर्थः ॥ २८ ॥
अन्ये स्व एव ये जीवा एवमेवाकृतिं गताः ।
पूर्वोत्पन्ने जगति ते यान्ति भूताश्रयां स्थितिम् ॥ २९ ॥
व्यष्टिजीवा अप्येवमेव स्वे स्वमिन् वासनात्मना स्थितामेवाकृतिं
देहाद्याकारं गताः प्राप्ताः । एतावांस्तु विशेषः । ते
हिरण्यगर्भजीवसङ्कल्पात्पूर्वोत्पन्ने जगति ब्रह्माणे
मातापित्रादिरूपभूताश्रयां प्राणिनिमित्तां स्थितिं देहलाभं यान्तीति ॥ २९ ॥
स्वकर्मभिस्ततो जन्ममृतिकारणतां गतैः ।
प्रयान्त्यूर्ध्वमधस्ताद्वा कर्म चित्स्पन्द उच्यते ॥ ३० ॥
कर्मशब्दं व्याचष्टे - चित्स्पन्द उच्यत इति ॥ ३० ॥
चित्स्पन्दनं भवति कर्म तदेव दैवं
चित्तं तदेव मवतीह शुभाशुभादि ।
तस्माज्जगन्ति भुवनानि भवन्ति पूर्वं
भूत्वा निजाङ्गकुसुमानि तरोरिवाद्यात् ॥ ३१ ॥
कर्मशब्दार्थमेव विवृण्वन्
सर्गद्वयवर्णितभोक्तृभोग्यसर्गमुपसंहरति - चित्स्पन्दनमिति ।
तरोर्निजाङ्गानि शाखादीनि कुसुमानि च यथा प्राग्भूत्वा पुनर्भवन्ति तथा
आद्यात्कारणाद्ब्रह्मणः
साकाशात्तस्माच्चित्स्पन्दनलक्षणाच्छुभाशुभलक्षणात्कर्मणो
निमित्ताज्जगन्ति भोक्तृप्राणिनिकायास्तदाधारतद्भोग्यभुवनानि च
पुनःपुनर्भवन्तीत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
उत्पत्तिबीजाङ्कुरनिर्णयो नाम चतुःषष्ठितमः सर्गः ॥ ६४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
उत्पत्तिबीजाङ्कुरनिर्णयो नाम चतुःषष्ठितमः सर्गः ॥ ६४ ॥
प्। २८९) १७७