०६३

त्रिषष्टितमः सर्गः ६३

श्रीवसिष्ठ उवाव ।

यदेतद्ब्रह्मतत्त्वं सर्वथा सर्वदैव सर्वत एव सर्वशक्ति सर्वाकारं
सर्वेश्वरं सर्वगं सर्वमेवेति ॥ १ ॥

विस्फूर्जति यथा ब्रह्म सर्वतः सर्वरूपतः ।
मायाशक्तिविलासेन तथात्र प्रतिपाद्यते ॥ १ ॥

नियत्यादिविलासैर्ब्रह्मैव विस्फूर्जतीत्युक्तं तत्कस्य हेतोस्तत्राह - यदेतदिति ।
यद्यत एतन्मायाशबलं ब्रह्मतत्त्वं सर्वथा सर्ववस्तुतः सर्वदैव कालतः
सर्वत एव देशतश्च सर्वशक्ति सर्वभावसमर्थमत एव सर्वाकारम्
सर्वज्ञतया सर्वनियन्तुमीष्ट इति सर्वेश्वरम् । विप्रकर्षताटस्थ्ययोर्वारणाय
सर्वगं सर्वमेवेति विशेषणे । इति अतो हेतोरित्यर्थः ॥ १ ॥

एष त्वात्मा सर्वशक्तित्वाच्च क्वचिच्चिच्छक्तिं प्रकटयति क्वचिच्छान्तिं
क्वचिज्जडशक्तिं क्वचिदुल्लासं क्वचित्किञ्चिन्न किञ्चित्प्रकटयति ॥ २ ॥

कुतो न विप्रकर्षताटस्थ्ये तत्राह - एष त्वात्मेति । स तर्हि सर्वं सर्वत्र
प्रकटयेन्नेत्याह - क्वचिदिति । क्वचिदन्तःकरणोपाधौ जीवभावेन
प्रवेशाच्चिच्छक्तिं प्रकटयति सात्त्विकोपाधौ शान्तिम् तामसोपाधौ
जडशक्तिम् राजसोपाधौ रागलोभप्रवृत्त्याद्युल्लासम् किञ्चिन्मिश्रितं
गुणकार्यत्वाद्विशेषतो दुर्वचम् सुषुप्तिप्रलययोस्तु न किञ्चित्प्रकटयति ॥ २ ॥

यत्र यदा यदेवासौ यथा भावयति तत्र तदा तदेवासौ प्रपश्यति ॥ ३ ॥

तत्र चास्य सत्यसङ्कल्पतैव हेतुरित्याह - यत्रेति ॥ ३ ॥

सर्वशक्तेर्हि या यैव यथोदेति तथैव सा ॥ ४ ॥

शक्तीनामाविर्भावानुगुणैव स्थितिवैचित्र्यं चेत्याह - सर्वशक्तेरिति । या
येति वीप्सा ॥ ४ ॥

तदास्ति शक्तिर्नानारूपिणी सा स्वभावत इमाः शक्तयोऽयमात्मेति ॥ ५ ॥

शक्तिशक्तिमद्भेदकल्पनेयं व्यवहारदृशैव न परमार्थत इत्याह -
इमा इति ॥ ५ ॥

एवं विकल्पजालं व्यवहारार्थं धीमद्भिः परिकल्पितं लोके नवात्मनि
विद्यते भेदः ॥ ६ ॥

यथोर्मितरङ्गपयसां सागरे कटकाङ्गदकयूरैर्वा हेम्नः ।
अवयवावयविनोः संवित्काल्पनिकी द्विता न वास्तवी ॥ ७ ॥

नत्वात्मनि विद्यते भेद इत्यत्रार्थे दृष्टान्तत्रयप्रदर्शनपरो यथेत्यादिर्न
वास्तवीत्यन्तो ग्रन्थः । संवित्काल्पनिकी व्युत्पादकबुद्धिपरिकल्पिता द्विता भिदा ॥
७ ॥

यथा यच्चेत्यते हि तथैव तन्न बाह्यतो नान्तरतश्चैतत्समुदेति हि ॥ ८ ॥

हि यस्माद्यद्यद्रज्ज्वादि यथा सर्पादिप्रकारेण चेत्यते बुध्यते तत्तथैव
विवर्ततो भवति न परमार्थतः । कुतः यत एतत्सर्पादि रज्ज्वादेर्न बाह्यं
समुदेति नाप्यन्तरतः ॥ ८ ॥

सर्वात्मत्वात्समाभासं क्वचित्किञ्चित्प्रपश्यति ॥ ९ ॥

समाभासं सर्वसाधारणप्रथारूपं साक्षिचैतन्यं
भोजकादृष्टोद्बुद्धं क्वचित्किञ्चिदेव भ्रान्त्या प्रपश्यति न सर्वत्र नापि
स्वरूपमित्यर्थः ॥ ९ ॥

सर्वाकारमयं ब्रह्मैवेदं ततं मिथ्याज्ञानवद्भिः
शक्तिशक्तिमत्त्वे अवयवावयविरूपे कल्पिते न पारमार्थिके ॥ १० ॥

परमार्थतस्तु ततं विस्तृतमिदं सर्वाकारमयं ब्रह्मैव । तत्किं
शक्तिविशिष्टं जगदवयवकं परमार्थतो ब्रह्म नेत्याह -
मिथ्याज्ञानवद्भिरिति ॥ १० ॥

सद्वा भवत्वसद्वा चिद्यत्सङ्कल्पयत्यभिनिविशति तत्तत्पश्यति सकला
तत्सद्ब्रह्मैव चिद्भाति ॥ ११ ॥

एवञ्च मिथ्याज्ञानोपहिता चित्सत् शास्त्रानुगुणमसत् शास्त्रप्रतिकूलं वा
यदेव कर्तव्यतया सङ्कल्पयति तदभिनिविशति तद्विषये उद्युक्तं च
भवतीत्यर्थः । अभिनिवेशेन च तत्तदनुरूपं विहितं निषिद्धं वा कृत्वा
फलभोगकालेऽपि तत्तत्पश्यतीति आद्यसर्गसङ्कल्पमारभ्य
भूतभौतिकदेहभोग्यादिसर्गेण पुरुषभोगान्तसकलप्रपञ्चरूपा
ब्रह्मचिदेव भाति विस्फूर्जति नान्यदिति ॥ ११ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
चित्तविकारो नाम त्रिषष्टितमः सर्गः ॥ ६३ ॥

चिद्भावश्चित्ता तस्या अविकारः सर्गार्थः । इति
श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तविकारो नाम
त्रिषष्टितमः सर्गः ॥ ६३ ॥

प्। २८७) १७६