द्विषष्टितमः सर्गः ६२
श्रीवसिष्ठ उवाच ।
परमाणुनिमेषाणां लक्षांशकलनास्वपि ।
जगत्कल्पसहस्राणि सत्यानीव विभान्त्यलम् ॥ १ ॥
भ्रान्तिमात्रत्वमुदितं विश्वस्यादौ प्रपञ्चयते ।
महानियतिशक्तिश्च जीवन्मुक्त्यादिसिद्धये ॥ १ ॥
परमाणोर्लक्षतमांशस्य कल्पनायां तत्र जगच्छब्दितब्रह्माण्डसहस्राणि
निमेषस्य लक्षांशकल्पनायां तत्र कल्पसहस्राणि च अलमन्त्यन्तं
दृश्यमानब्रह्माण्डवदेव सत्यानीव भान्तीति क्रमेण सम्बन्धः ॥ १ ॥
तेष्वप्यन्तस्तथैवान्तः परमाणुकणं प्रति ।
भ्रान्तिरेवमनन्ताहो इयमित्यवभासते ॥ २ ॥
तेष्वपि प्रत्येकमेवंविधा कल्पना
सम्भवतीत्यनवस्थितस्वभावत्वाद्भ्रान्तिरेवेयमित्याह - तेष्वपीति ॥ २ ॥
वहन्तीमाः पराः सत्तः शान्ताः सर्गपरमपराः ।
सलिलद्रवतेवान्तःस्फुटावर्तविवर्तिका ॥ ३ ॥
इमा वर्तमानाः परा आगामिन्यः शान्ता अतीताश्च सर्गपरम्परा अन्तःस्फुटा
आवर्तानां विवर्तिकाः परिवृत्तयो यस्यां तथाविधा सलिलद्रवतेव प्रातीतिकीः
सत्ता वहन्ति धारयन्ति प्रवहन्ति च ॥ ३ ॥
मिथ्यात्मिकैव सर्गश्रीर्भवतीह महामरौ ।
तीरद्रुमलतोन्मुक्तपुष्पालीव तरङ्गिणी ॥ ४ ॥
तीरद्रुमैर्लताभिश्चोन्मुक्ता अभिवृष्टा पुष्पालिर्यस्यां तथा कल्पिता
तरङ्गिणी मृगतृष्णिका नदीव ॥ ४ ॥
स्वप्नेन्द्रजालपुरवत्सङ्कथेहापुराद्रिवत् ।
सङ्कल्पवदसत्यैव भाति सर्गानुभूतिभूः ॥ ५ ॥
श्रीराम उवाच ।
एकात्मैकतयैवं हि जाते सम्यग्विचारणात् ।
निर्विकल्पात्मविज्ञाने परे ज्ञानवतां वर ॥ ६ ॥
तत्त्वज्ञानोदयेन सर्वभ्रान्तिनाशे विदुषां देहस्थित्यसम्भवं रामः
शङ्कते - एकात्मेति । एवमुक्तप्रकारात्सम्यग्विचारणात् । एकोऽद्वितीय आत्मा
ब्रह्म तदेकतया तदभेदेन परे उत्कृष्टे निर्विकल्पात्मविज्ञाने जाते सति ॥ ६ ॥
किमर्थमिह तिष्ठन्ति देहास्तत्त्वविदामपि ।
दैवेनैव समाक्रान्ता दैवमत्र च किं भवेत् ॥ ७ ॥
दैवेन सम्यगाक्रान्ता बलिप्रभृतय इव । अत्र तत्त्वज्ञविषये दैवं किं
भवेत् । तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवति । इति श्रुत्या
तत्त्वविदि दैवस्यासामर्थ्योक्तेः किं तत्प्रबलतरं सम्भावितमित्यर्थः ॥ ७ ॥
श्रीवसिष्ठ उवाच ।
अस्तीह नियतिर्ब्राह्मी चिच्छक्तिः स्पन्दरूपिणी ।
अवश्यभवितव्यैकसत्ता सकलकल्पगा ॥ ८ ॥
प्राण्यदृष्टवस्तु शक्तिसहकृतेश्वरसङ्कल्पलक्षणमहानियतिवशादेव
सर्वव्यवहारव्यवस्थावद्विदुषां देहधारणमपीत्याशयेन वसिष्ठ
उत्तरमाह - अस्तीत्यादिना । स्पन्दः सर्वजगद्व्यवस्थितव्यवहारस्तेन
रूपिणीव स्फुटा ॥ ८ ॥
आदिसर्गे हि नियतिर्भाववैचित्र्यमक्षयम् ।
अनेनेत्थं सदा भाव्यमिति सम्पद्यते परम् ॥ ९ ॥
कदाप्रभृति सा किंरूपा वा तदाह - आदिसर्गे इति । अनेन वह्न्यादिना
इत्थमौष्ण्योर्ध्वज्वलनादिस्वभावेन सदा भाव्यमिति परं ब्रह्म स्वयं
सङ्कल्पात्मकवृत्तिरूपमक्षयमप्रतिहतं सम्पद्यते ॥ ९ ॥
महासत्तेति कथिता महाचितिरिति स्मृता ।
महाशक्तिरिति ख्याता महादृष्टिरिति स्थिता ॥ १० ॥
सर्वजगतां
स्थितिप्रथासामर्थ्यविवेकनिर्माणजन्मार्थक्रियादिहेतुत्वात्क्रमेण
महासत्तेत्यादिनामभिः ख्याता ॥ १० ॥
महाक्रियेति गदिता महोद्भव इति स्मृता ।
महास्पन्द इति प्रौढा महात्मैकतयोदिता ॥ ११ ॥
तृणानीव जगन्त्येवमिति दैत्याः सुरा इति ।
इति नागा इति नगा इत्याकल्पं कृतास्थितिः ॥ १२ ॥
जगन्ति एवं दृश्यमानविधया तृणानीव परिवर्तयन्तीति शेषः । दैत्या इति
एवं क्रूरादिप्रकाराः सुरा देवा इति सौम्यादिप्रकारा इत्यादिरूपा आकल्पं
कृता आस्थितिर्व्यवस्था यया ॥ १२ ॥
कदाचिद्ब्रह्मसत्ताया व्यभिचारोऽनुमीयते ।
चित्रमाकाशकोशे च नान्यथा नियतेः स्थितिः ॥ १३ ॥
परमार्थदृष्टौ ब्रह्मसत्तेव व्यवहारे साप्यव्यभिचरितेत्याह -
कदाचिदिति । ब्रह्मसत्ताया व्यभिचार आकाशकोशे चित्रलेखनं
चात्यन्तासम्भावितमप्यनुमीयते नतु नियतेः स्थितिरन्यथा जातेत्यनुमातुं
शक्यमित्यतिशयोक्तिः ॥ १३ ॥
विरिञ्चयाद्यात्मभिर्बुद्धैर्बोधायाविदितात्मनाम् ।
ब्रह्मात्मैव सा नियतिः सर्गोऽयमिति कथ्यते ॥ १४ ॥
इदं च व्यावहारिकदृशोक्तं तत्त्वज्ञदृशा तु न
ब्रह्मनियतिसर्गशब्दार्था भिद्यन्त इत्याशयेनाह - विरिञ्च्यादीति ।
बुद्धैस्तत्त्वज्ञैः ॥ १४ ॥
अचलं चलवद्दृष्टं ब्रह्मापूर्य व्यवस्थितः ।
अनादिमध्यपर्यन्तं सर्गो वृक्ष इवाम्बरे ॥ १५ ॥
नन्वलं ब्रह्म चलः सर्गः कथमनयोरैक्यं तत्राह - अचलमिति ।
अनादिमध्यपर्यन्तं ब्रह्म आपूर्य अज्ञदृशा आपूर्येव सर्गो व्यवस्थितः ॥
१५ ॥
पाषाणोदरलेखौघन्यायेनात्मनि तिष्ठता ।
ब्रह्मणा नियतिः सर्गो बुद्धोऽबोधवतेव खम् ॥ १६ ॥
नन्वियं नियतिर्हिरण्यगर्भेण कथं बुद्धा येन तदनुरूपमेव ससर्ज
तत्राह - पाषाणेति ।
स्फटिकपाषाणोदरप्रतिबिम्बितवनलेखौघन्यायेनात्मनि मायाशबले
ब्रह्मणि तिष्ठता ब्रह्मणा हिरण्यगर्भेण अबोधवता प्रसुप्तपुरुषेण आत्मनि
स्वाप्नकल्पनाश्रयं खमिव नियतिरेव भाविसर्गो बुद्धः ॥ १६ ॥
प्। २८५) १७५
देहे यथाङ्गिनोऽङ्गादि दृश्यते चित्स्वभावतः ।
ब्रह्मणा पद्मजत्वेन नियत्याद्यङ्गकं तथा ॥ १७ ॥
तथा नियत्यादिसर्गञ्जातमङ्गकं स्वावयवभूतं दृष्टमिति शेषः ॥ १७ ॥
एषा दैवमिति प्रोक्ता सर्वं सकलकालगम् ।
पदार्थमलमाक्रम्य शुद्धा चिदिति संस्थिता ॥ १८ ॥
शुद्धा मोहानास्कन्दिता चित् ईश्वरसङ्कल्पचैतन्यम् । इति जगद्व्यवस्थारूपेण ॥
१८ ॥
स्पन्दितव्यं पदार्थेन भाव्यं वा भोकृतापदम् ।
अनेनेत्थमनेनेत्थमवश्यमिति दैवधीः ॥ १९ ॥
एषैव पुरुषस्पन्दस्तृणगुल्मादि चाखिलम् ।
एषैव सर्वभूतादि जगत्कालक्रियादि वा ॥ २० ॥
अनया पौरुषी सत्ता सत्तास्याः पौरुषेण च ।
लक्ष्यते भुवनं यावद्द्वे एकात्मतयैव हि ॥ २१ ॥
प्राण्यदृष्टनित्ययोः परस्परसहायतामाह - अनयेति । पौरुषी
पुरुषादृष्टसम्बन्धिनी सत्ता फलावश्यम्भावलक्षणा स्थितिर्लक्ष्यते । सत्ता
नियतिसत्ता । कियत्कालमेवं व्यवस्था तत्राह - भुवनमिति । भुवनं
त्रिभुवनं यावत्कालमस्ति तावदित्यर्थः । प्रलये तर्हि कथं तत्राह - द्वे
इति । द्वे एते सत्ते एकात्मतयैव तदा आसाते इत्यर्थः ॥ २१ ॥
नरेण पौरुषेणैव कार्ये सत्तात्मके उभे ।
ईदृश्येतेन नियतिरेवं नियतिपौरुषे ॥ २२ ॥
द्वयोरपि पुरुषयत्नानुसारिता तथैव नित्यतिस्थितेरित्याह - नरेणेति । कार्ये
निर्वाह्ये नियतिपौरुषे अपि एवं प्राण्यदृष्टनिर्वाह्ये । एतेन क्रमेण ईदृशी
नियतिः स्थितेति शेषः ॥ २२ ॥
प्रष्टव्योऽहं त्वया राम दैवपौरुषनिर्णयः ।
मदुक्तं पौरुषं पाल्यं त्वयेति नियतिः स्थिता ॥ २३ ॥
किं बहुना तव शिष्यभावेन प्रष्टृत्वं मदुपदिष्टार्थानुष्ठातृत्वं च
नियतिकृतमेवेत्याह - प्रष्टव्य इति । ननु गौणे कर्मणि दुह्यादेः प्रधाने
नीहृकृष्वहाम् इति कात्यायनवचनात्प्रच्छेरकथिते गौणे कर्मणि
तव्यप्रत्ययेन मुख्यस्य कर्मणोऽनभिहितत्वाद्दैवपौरुषनिर्णयमिति द्वितीयया
भाव्यं तत्कथं प्रथमाप्रयोग इति चेत् । सत्यम् । त्वया अहं प्रष्टव्यस्तत्रापि
दैवपौरुषनिर्णय एव प्रष्टव्य इत्यावृत्त्या नियतिद्वयबोधनाय तन्त्रेण
कर्मद्वयस्यापि तव्यप्रत्ययेनाभिधानविवक्षोपपत्तेरिति ॥ २३ ॥
भोजयिष्यति मां दैवमिति दैवपरायणः ।
यत्तिष्ठत्यक्रियो मौनं नियतेरेष निश्चयः ॥ २४ ॥
यदपि कश्चिद्दैवमेवावलम्ब्य पौरुषप्रयत्नमकुर्वन्नाजगरं
व्रतमास्थाय तिष्ठति तदपि
तदनुगुणप्राक्तनकर्मोप्द्बोधितनियतिनिश्चयादेवेत्याह - भोजयिष्यतीति ॥ २४
॥
न स्याद्बुद्धिर्न कर्माणि न विकारादि नाकृतिः ।
केवलं त्वित्थमाकल्पं स्थित्या भाव्यमिति स्थिताः ॥ २५ ॥
प्रागपि पुरुषो यदि केवलमक्रिय एव स्यात्तर्हि बुद्धिस्तत्प्रयुक्तकर्म तत्प्रयुक्ता
भूतभौतिकविकारा विकृतीनां च गवादिसंस्थानाकृतिश्चेत्येते न स्युः ।
तथाच श्रुतिः - यर्ह्येतन्न कुर्यात्क्षीयेत ह इति । इत्थं
पुरुषक्रियामूलतयैव तु आकल्पव्यवहारस्थित्या भाव्यमिति नियतिवशादेव
सर्वे भावास्तथा स्थिता इत्यर्थः ॥ २५ ॥
अवश्यम्भवितव्यैषा त्विदमित्थमिति स्थितिः ।
न शक्यते लङ्घयितुमपि रुद्रादिबुद्धिभिः ॥ २६ ॥
इयं च नियतिरीश्वरैरपि दुरतिक्रमेत्याह - अवश्यमिति ॥ २६ ॥
पौरुषं न परित्याज्यमेतामाश्रित्य धीमता ।
पौरुषेणैव रूपेण नियतिर्हि नियामिका ॥ २७ ॥
एतां निश्चितिमिति शेषः ॥ २७ ॥
अपौरुषं हि नियतिः पौरुषं सैव सर्गगा ।
निष्फलाऽपौरुषाकारा सफला पौरुषात्मिका ॥ २८ ॥
इदानीं नियतिपौरुषशब्दार्थैक्यमेव उपाधिभेदादेव व्यवहारभेद इत्याह
- अपौरुषमिति । अपौरुषं पुरुषप्रयत्नात्मना अविवक्षिता
ईश्वरसङ्कल्पनामात्रेण नियतिरित्युच्यते । सैव तदात्मना सर्गगा
सृष्टिफलोपहिता पौरुषमित्युच्यते । यतः अपौरुषा
पुरुषयत्नाकारेणापरिणता नियतिर्निष्फला । पौरुषात्मिका सफलेति पौरुषादेव
पुरुषार्थलाभ इत्यर्थः ॥ २८ ॥
नियत्या मूकतामेत्य निष्पौरुषतयाऽक्रियम् ।
यस्तिष्ठति प्राणमरुत्स्पन्दस्तस्य क्व गच्छति ॥ २९ ॥
ननु तर्हि निष्पौरुषस्याप्यजगरवृत्तेस्तृप्त्यादिफललाभो दृष्टस्तत्राह ##-
नियत्या तृप्तिः सेत्स्यतीति मूकतां वागादिक्रियाप्रयत्नशून्यतामेत्य
निष्पौरुषतया अक्रियं ग्रसनादिक्रियारहितं यथा स्यात्तथा तिष्ठति न स
तृप्यति । यदपि स क्षुधितोऽपि कञ्चित्कालं जीवति तदपि
प्राणचलनानुकूलपुरुषयत्नादेवेत्याअह - प्राणेति ॥ २९ ॥
अथ प्राणक्रियारोधमपि कृत्वा विरामदम् ।
यदि तिष्ठति तत्साधुर्मुक्त एव किमुच्यते ॥ ३० ॥
यदि विरामदं निर्विकल्पसमाधौ चित्तविश्रान्तिदं प्राणनिरोधमधिकृत्वा
स तिष्ठति तत्तस्माद्यत्नात्साधुस्तत्त्वविच्चेन्मुक्तः
सर्वपौरुषफलावस्थालक्षणं मोक्षं प्राप्तो भवति तदपि
प्राणनिरोधादिपौरुषस्यैव फलमित्यपौरुषं फलं किमुच्यते न
किञ्चिदित्यर्थः ॥ ३० ॥
पौरुषैकात्मता श्रेयो मोक्षोऽत्यन्तमकर्तृता ।
आभ्यां तु सबलः पक्षो निर्दुःखैव महात्मनाम् ॥ ३१ ॥
तस्मात्पौरुषैकात्मता शास्त्रीयपौरुषैकपरता श्रेयोहेतुत्वात्साधनतः
श्रेयः । अत्यन्तकर्मतालक्षणो मोक्षस्तु फलतः श्रेयः । आभ्यां
साध्यसाधनश्रेयोभ्यां तु महात्मनां ज्ञानिनां पक्षः सबलः
सकार्याविद्योपघातसमर्थ इति निर्दुःखैव तेषां नियतिरित्यर्थः ॥ ३१ ॥
नियतिर्ब्रह्मसत्ताभा तस्यां चेत्परिणम्यते ।
नूनं परमशुद्धाख्यं तत्प्राप्तैव परागतिः ॥ ३२ ॥
या चेयं निर्दुःखा नियतिः सैव ब्रह्मसत्ताया आभा स्फूर्तिस्तस्यां चेद्यत्नेन
परिणम्यते स्थिरीभूयते तदेव परमशुद्धाख्यं पदं सा काष्ठा सा परा
गतिः इति श्रुतिप्रसिद्धा परमागतिरपि तत्तस्मात्प्राप्तैवेत्यर्थः ॥ ३२ ॥
प्। २८६) १७६
एतैर्नियत्यादिमहाविलासै-
र्ब्रह्मैव विस्फूर्जति सर्वगात्मा ।
तृणादिवल्लीतरुगुल्मजालैः
सत्तेव तोयस्य धरान्तरस्था ॥ ३३ ॥
एतैरुक्तप्रकारैर्महद्भिरप्रतिहतैर्विलासैर्ब्रह्मैव धरान्तरस्था तोयस्य सत्ता
द्रवता तृणकुशकाशादिभेदैर्वल्लीतरुगुल्मजालादिभावैश्च यथा
विस्फूर्जति स्फुरति तथा विस्फूर्जतीत्यर्थः ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
दैवशब्दार्थनिरूपणं नाम द्विषष्टितमः सर्गः ॥ ६२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
दैवशब्दार्थनिरूपणं नाम द्विषष्टितमः सर्गः ॥ ६२ ॥