०६१

एकषष्टितमः सर्गः ६१

श्रीराम उवाच ।

अहं जगदिति भ्रान्तिः परस्मात्कारणं विना ।
यथोदेति तथा ब्रह्मन्भूयः कथय साधु मे ॥ १ ॥

प्रयोजनप्रसिद्ध्यर्थं वैराग्यार्थं च संसृतेः ।
असारत्वमसत्त्वं च युक्तिभेदेन वर्ण्यते ॥ १ ॥

अनहम्भूतदेहादौ अहम्भावकारणं विनाप्यहमिति भ्रान्तिः
परमाणुक्षणोदरे वैपुल्यचिरभावलक्षणजगत्सन्निवेशकारणं विनापि
जगदिति भ्रान्तिर्यथा यादृशकल्पनाक्रमेण यादृशोपपत्त्या चोदेति तथा
कथयेत्यर्थः । ननु महाकल्पान्तसर्गादौ चित्स्वभावमिदं वपुः इत्यादिना
प्राक्कथितमेवेदं कथं पुनः पृच्छ्यते तत्राह - भूय इति । साधु
याभिरुपपत्तिभिरनुभवमारोहति तादृशोपपत्तिपरिष्कृतं यथा स्यात्तथा
कथयेत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

समस्ताः समतैवान्ताः संविदो बुध्यते यतः ।
सर्वथा सर्वदा सर्वं सर्वात्मकमजस्ततः ॥ २ ॥

तत्र सर्वभ्रान्तीनां संविदन्तःप्रथमानत्वमेव मुख्योपपतीरिति प्रथमं
श्रीवसिष्ठ उवाच - समस्ता इति । यतः असौ बोद्धा सर्वथा सर्वप्रकाराः
समस्ताः भ्रान्तीः संविदः स्वरूपचैतन्यस्यैव आन्ता अन्तर्निविष्टाः सर्वदा
बुध्यते न कदाचिदपि काश्चिदपि तद्बहिर्भूताः ततः सर्वं सर्वात्मकं सा च
समतैव । न हि सर्वस्य सर्वात्मकत्वे वैषम्यं परिशिष्यते । न हि तदभावे
जन्मादिविक्रिया उपपद्यन्त इत्यजः परमात्मैव वस्तुतोऽस्तीति जगद्भ्रान्तिः
कारणं विनैवेति यदुक्तं तदुपपन्नमित्यर्थः ॥ २ ॥

सर्वा हि शब्दार्थदृशो ब्रह्मैवैताः पृथङ्ग तत् ।
सर्वार्थशब्दार्थकलारूपमासां न विद्यते ॥ ३ ॥

ननु चैतन्यान्तर्बुध्यमानत्वमात्रेण कथं सर्वस्य सर्वात्मतासिद्धिः ।
एकचित्तादात्म्यस्फुरणादिति चेन्न । विभिन्नविषयतादात्म्याद्घटज्ञानं
पटज्ञानमिति चितोऽपि भेदानुभवेन भिन्नत्वादित्याशङ्क्याह - सर्वा हीति ।
न चितो भेदो यतः सर्वाः शब्दानामर्थानां च दृशो बोधा ब्रह्मैव । नहि
ब्रह्मातिरिक्तचिद्धातुरस्ति । विषयभेदोपरागाद्धि चिति भेदो विभाव्यते
विषयनिष्कर्षे तु तच्चिद्रूपान्न पृथक् । न भिद्यत इत्यर्थः । ननु
विषयाकारतानुभवाद्विषयवद्भेदः किं स्यात्तत्राह - सर्वार्थेति । सर्वे ये
अर्थ्यन्त इत्यर्था विषयभूताः शब्दार्थास्तत्कलास्तदंशभूतं
यत्पृथुबुध्नोदराकाररूपं तदासां दृशां न विद्यते । चिति
जडाकारसत्त्वे उपपत्त्यभावात् । यस्त्वनुभूयते आकारः स वृत्तेरेवेति भावः
॥ ३ ॥

कटकत्वं पृथग्घेम्नस्तरङ्गत्वं पृथग्जलात् ।
यथा न सम्भवत्येवं न जगत्पृथगीश्वरात् ॥ ४ ॥

एवं चिद्भेदे निरस्ते जडभेदोऽपि तदपृथक्सत्तस्फूर्तिकत्वान्निरसितुं शक्य इति
सदृष्टान्तमाह - कटकत्वमिति ॥ ४ ॥

एष एव जगद्रूपं जगद्रूपं तु नेश्वरे ।
हेमैव कटकादित्वं कटकत्वं न हेमनि ॥ ५ ॥

तथापि कथं कारणं विनोत्पन्नमित्युक्तेरुपपत्तिश्चित एव
कनकवत्कारणत्वात्तत्राह - एष एवेति । सति हि जगतस्तस्माद्भेदे तत्प्रति
कारणता स्यादत्यन्ताभेदे तु चितो न कारणत्वमित्यर्थः । तर्हि किं
जगद्रूपमेव ब्रह्म नेत्याह - जगद्रूपं त्विति । नहि विवर्तः पृथक्
सन्नित्याशयः । एवं च कटककुण्डलादयोऽपि हेमात्मकब्रह्मविवर्ता
एवेत्याशयेनाह - हेमैवेति ॥ ५ ॥

यथावयविनो रूपमनेकावयवात्मकम् ।
तथाऽनवयवायास्तु चितः सर्वात्मकं च यत् । ६ ॥

नन्वेकस्यानेकात्मताविरोध इत्याशङ्क्य यत्र
समसत्ताकैरप्यनेकैरवयवैरेकस्यावयविनः समसत्ताकं तादात्म्यं लोके
न विरुद्धं तत्र किं वाच्यं कल्पितैरनेकैर्वास्तवं
ब्रह्मैक्यमविरुद्धमितीत्याशयेनाह - यथेति । किञ्चैकात्म्ये सर्वस्य
सर्वात्मतालाभादनेकत्वापगमादप्यविरोध इत्याशयेनाह - सर्वात्मकं
चेति ॥ ६ ॥

यत्तुल्यकालमखिलं तन्मात्रावेदनं परे ।
अन्तस्थं तदिदं भाति जगदित्यहमित्यपि ॥ ७ ॥

किं तर्हि सर्वानुभवसिद्धं जगदित्यहमिति च नानात्वं तत्राह - यदिति ।
परे ब्रह्मणि सर्वप्राणिनामन्तस्थं तुल्यकालं
यद्ब्रह्ममात्रस्वरूपस्यावेदनमज्ञानं तदेव जगदित्यहमिति नानात्वेन
भातीत्यर्थः ॥ ७ ॥

प्। २८२) १७४

लेखौघानां यथा भेदसन्निवेशः शिलोदरे ।
तथानन्यज्जगदहं चेत्यन्तश्चिद्घने घनम् ॥ ८ ॥

लेखा राजयः यथा स्फटिकशिलोदरे अभेदेऽपि वनलेखौघानां
प्रतिबिम्बानां सन्निवेशोऽविरुद्धस्तद्वदत्रापीत्याह - लेखौघानामिति ॥ ८ ॥

स्थितास्तरङ्गाः सलिले यथान्तरतरङ्गिते ।
सृष्टिशब्दार्थरहितास्तथान्तः सृष्टयः परे ॥ ९ ॥

न सर्गे तिष्ठति परं सर्गस्तिष्ठति नो परे ।
अवयवावयविवत्सत्तानवयवैस्तयोः ॥ १० ॥

ननु लीनास्तरङ्गा यथा महाजले अवयवभावेन तिष्ठन्ति अवयवी वा
समवायेनावयवेषु तिष्ठति किं तद्वद्ब्रह्मणि जगत्स्थितिर्नेत्याह - नेति ।
वस्तुतस्तु अवयवावयविनोरप्यन्योन्याधारता नोपपत्तिमतीत्याह - सत्तेति ।
तथाहि । अवयवेषु तिष्ठन्नवयवी किं प्रत्यवयवं कार्त्स्न्येन
तिष्ठत्युतावयवैः । आद्ये प्रत्यवयवमवयविनानात्वापत्तिः । गोः
कर्णादिप्रदेशेऽपि कृत्स्ना गौरस्तीति दोहनादिकार्यापत्तिः ।
अवयवविश्लेषेऽप्यवयविनो जातिवन्नाशानापत्तिश्च । द्वितीये तु अनवस्थया
अनन्तावयवत्वे मेरुसर्षपयोस्तुल्यपरिमाणापत्तिः । एवमवयवा अप्यवयविनि
किमेकदेशे तिष्ठेयुरुत कृत्स्ने । आद्येऽनवस्था । द्वितीये
अवयवान्तरस्यासमावेशादद्वयस्यावयवत्वायोगात्सर्वद्रव्याणां
निरवयवत्वापत्तिरिति तयोरवयवावयविनोरनवयवैरेव सत्ता
पर्यवस्यतीत्यर्थः ॥ १० ॥

चिद्रूपेण स्वसंवित्त्या स्वचिन्मात्रं विभाव्यते ।
स्वमेव रूपहृदयं वातेन स्पन्दनं यथा ॥ ११ ॥

दृष्टसृष्ट्युपपादनक्रमेणापि जगतश्चिदनन्यत्वमनुभावयिष्यन्
निष्क्रियस्यापि चैतन्यस्याविद्यान्तःप्रतिफलनेनान्यथा स्वविभावनं
प्रथममाह - चिद्रूपेणेति । परमार्थचिद्रूपेण ब्रह्मणा
प्रथममविद्याप्रतिफलितया दर्पणप्रतिहतनयनेन मुखमिव स्वसंवित्त्या
स्वचिन्मात्ररूपात्मकप्रपञ्चस्य हृदयं रहस्यभूतमज्ञानावृतं
स्वमेव विभाव्यते कल्प्यते । एवकारः
प्राक्तनपारमार्थिकस्वरूपविस्मरणद्योतनार्थः ॥ ११ ॥

तत्कालमेष शब्दाणुश्चिच्चमत्काररूपधृक् ।
चेतते स्वमिवैवान्तः सङ्कल्प इव चेतसा ॥ १२ ॥

तदानीमेव कारणे लीनस्य शब्दतन्मात्रस्याकाशात्मना आविर्भाव इत्याह -
तत्कालमिति । शब्दाणुः शब्दतन्मात्रम् । चिच्चमत्कारः
सर्वशक्तिमन्मायासंवलनं तद्रूपधृक् ब्रह्म खं चिद्रूपमिव चेत्यते
सैवाकाशोत्पत्तिरिति भावः ॥ १२ ॥

तदेवानिलतां वेत्ति निजसत्तात्मिकां स्वयम् ।
अन्तर्गतस्पर्शरसां पवनस्पन्दतामिव ॥ १३ ॥

तदेवाकाशभूतं ब्रह्म अन्तर्गतस्पर्शरसां
स्वान्तरुन्मिषितस्पर्शतन्मात्रसंस्कारां स्वयं स्वात्मन्यनिलतां वेत्ति
अनुभवति । यथा स्थिरपवनः काले स्पन्दतामनुभवति तद्वत् ॥ १३ ॥

तदेवाभासतामेति निजसत्तात्मिकां स्वयम् ।
कोशस्थितालोकलवां तेजः प्रगटतामिव ॥ १४ ॥

तद्वाय्वात्मतापन्नं ब्रह्मैव । आभासतां तेजस्ताम् । कोशे गर्भे स्थित
आलोकलवो रूपतन्मात्रं यस्यास्तथाविधाम् ॥ १४ ॥

तदेवं जलतां याति निजसत्तात्मिकां स्वयम् ।
अन्तःस्थितास्वादलवां सलिलं द्रवतामिव ॥ १५ ॥

तत्तेजोभूतं ब्रह्मैव । आस्वादलवो रसतन्मात्रम् ॥ १५ ॥

तदेदावनितां वेत्ति स्वचित्तैकात्मतामयीम् ।
अन्तःस्थगन्धतन्मात्रामुर्वी स्थैर्यकलामिव ॥ १६ ॥

तुल्यकालनिमेषांशलक्षभागप्रतीति यत् ।
निजं विदः प्रकचनं तत्सर्गौघपरम्परा ॥ १७ ॥

ननु चक्षुरुन्मेषक्षणे झटित्येव जगद्भानान्नात्रायमारोपक्रमो विभाव्यत
इति कथं दृष्टसृष्ट्युपपत्तिस्तत्राह - तुल्यकालेति । ईदृशोऽयं
चितश्चमत्कारो यत्तुल्ये तुलया सम्मिते इव दुर्लक्ष्ये इति यावत् । निमेषांशस्य
लक्षतमभागे प्रतीतिर्यस्य तादृशमपि विदो जगदाकारप्रकचनं
तत्कल्पकोटिविस्तृतकालानां सर्गौघानां परम्परा भवति । तथाच चित्कचने
कालापरिच्छेद्यतत्तन्निमेषांशलक्षतमभागारोपः कल्पकोट्यारोपो वा
मायिको न वस्तुतो विरुध्यत इति क्रमकल्पनोपपत्तिरित्यर्थः ॥ १७ ॥

शुद्धं सकृत्प्रभातान्तर्दृश्यमध्यमनामयम् ।
उदयास्तमयोन्मुक्तं ब्रह्म तिष्ठत्यनिष्ठितम् ॥ १८ ॥

यद्धि अशुद्धं जडं देशकालतः परिच्छिन्नं सदोषमाद्यन्तवत् काले
निष्ठितं तत्कालेन परिच्छिद्यते ब्रह्म तु न तथेत्याह - शुद्धमिति ।
सकृत्प्रभातं न पुनःपुनर्विच्छिद्य प्रभातं नित्यस्वप्रकाशमिति यावत् ।
अन्तर्गता दृश्याः सर्गा मध्याः प्रलयाश्च यस्य तत् । अनिष्ठितं अनाधारम्
॥ १८ ॥

बुद्धं सदपवर्गं तत्ससर्गमपि सत्समम् ।
अबुद्धं सर्गरूपात्म विसर्गमपि तत्सदा ॥ १९ ॥

ननु यद्यन्तर्दृश्यमध्यं तत् तर्हि ससर्ग सप्रलयं वा नैकरूपापवर्गो
भवितुमर्हति तत्राह - बुद्धं सदिति । सत् परमार्थसत्यम् । समं
वैषम्यरहितम् । विसर्ग परमार्थतः सर्गशून्यमपि ॥ १९ ॥

चिद्ब्रह्म यद्यथा येन बुध्यते स्वात्मनात्मनि ।
तत्तत्तथा नु भवति सर्वं सर्वाङ्गशक्तिमत् ॥ २० ॥

यथा यथा बोद्धृभिर्बुध्यते तथा तथा तत्तत्प्रकारविशिष्टं तत्तद्ब्रह्म
आत्मनि भवति तत्तदाकारं मायया धत्त इत्यर्थः । नु इति खल्वर्थे । यतः
सर्वाङ्गशक्तिमत् सर्वानुगुणमायाशक्तिमदित्यर्थः ॥ २० ॥

तत्सत्यं चिद्विलासत्वान्नित्यानुभवरूपतः ।
तदसत्यं मनः षष्ठात्सर्वाख्या निगतं यतः ॥ २१ ॥

जगदपि शास्त्रीयचिद्विलासदृष्ट्या दृष्टं परमार्थसत्यं ब्रह्मैव ।
ब्रह्मापि बहिर्मुखचक्षुरादिमनःषष्ठजन्यदृष्ट्या दृष्टमनृतं
जगदेवेत्याह - तत्सत्यमिति । सत्यस्य कुतोऽसत्यता तत्राह - सर्वाख्या इति ।
यतः सर्वाख्याः सर्वाणि नामानि नितरां गतं प्रापतम् । नहि वागगोचरस्य
तद्गोचरं रूपं सत्यं भवितुमर्हतीत्यर्थः । सर्वार्थातिगतम् इति पाठे
सर्वान् अर्थान् अतितरां गतं व्याप्तं तद्रूपापन्नं यत इत्यर्थः ॥ २१ ॥

यथैतत्सरणं वायौ तथा सर्गः स्थितः परे ।
असत्कल्पेऽपि सङ्कल्पः सत्येऽसत्य इवापि च ॥ २२ ॥

यथा वायौ सरणं प्राक्सरणादसत्कल्पेऽपि आविर्भावात्सत्कल्पम् । सरणकाले
वायोः सत्त्वावगमात्सत्ये स्थैर्यमात्रादसत्यमिव । तथा सर्गोऽपि असत्कल्पेऽपि
मूलाज्ञाने अधिष्ठानसत्तया सत्कल्पः । सत्येऽप्यधिष्ठाने
असत्यमायात्मकत्वादसत्य इवेत्यर्थः ॥ २२ ॥

प्। २८३) १७४

अन्यरूपा यथानन्या तेजस्यालोकतोदरे ।
तथा ब्रह्मणि विश्वश्रीः सत्यासत्यात्मिका चिति ॥ २३ ॥

तथाच दृष्टिभेदेन सत्यासत्यात्मत्वं विश्वस्येत्याह - अन्यरूपेति ।
आलोकता भास्वरता । अन्यरूपेण दृष्टा असत्या अनन्यरूपेण दृष्टा सत्या
स्थितेत्यर्थः ॥ २३ ॥

अनुत्कीर्णा यथा पङ्के पुत्रिका चाथ दारुणि ।
यथा वर्णा मषीकल्के तथा सर्गाः स्थिताः परे ॥ २४ ॥

स्वप्नजाग्रदुपादानसौषुप्तात्मदृष्टान्तावाद्यौ
विश्वसर्गोपादानब्रह्मदृष्टान्तस्तृतीयः ॥ २४ ॥

अनन्यान्येव कचति ब्रह्मतत्त्वमरुस्थले ।
असत्यात्मनि सत्येव त्रिजगन्मृगतृष्णिका ॥ २५ ॥

ब्रह्मणा चिन्मयेनात्मा सर्गात्मैव विभाव्यते ।
न भाव्यते चानन्यत्वाद्बीजेनान्तरिव द्रुमः ॥ २६ ॥

चिन्मयेन भ्रान्त्या चिदाभासलक्षणजीवभूतेन । तत्त्वदृशा तु
परब्रह्मानन्यत्वान्न भाव्यते ॥ २६ ॥

यथा क्षीरस्य माधुर्यं तीक्ष्णत्वं मरिचस्य च ।
द्रवत्वं पयसश्चैव स्पन्दनं पवनस्य च ॥ २७ ॥

स्थितोऽनन्यो यथान्यः सन्नास्ति तत्र तथात्मनि ।
सर्गो निर्गलचिद्रूपः परमात्मात्मरूपभृत् ॥ २८ ॥

अनन्यः सन् स्थितः । अन्यः सन्नास्ति असन्नित्यर्थः । निर्गलीति निर्गलः
प्रविलीनमात्रश्चिद्रूपः सन् परमात्ममात्रपरिशिष्टस्वरूपभृदित्यर्थः ॥
२८ ॥

कचनं ब्रह्मरत्नस्य जगदित्येव यत्स्थितम् ।
तदकारणकं यस्मात्तेन न व्यतिरिच्यते ॥ २९ ॥

अकारणोत्पन्नत्वमुपपादितमुपसंहरति - कचनमिति । यस्मात्तेन
ब्रह्मणा न व्यतिरिच्यते तत्तस्मादकारणकमित्यर्थः ॥ २९ ॥

वासना चित्तजीवादिवेदनं वेदनोदितम् ।
नोदेत्यवेदनादेव यतनादेव पौरुषात् ॥ ३० ॥

यद्यकारणकं तर्ह्यजातमेवेति कथं तद्वेदनानुभवस्तत्राह - वासनेति
। वासना चित्तजीवादेर्यद्वेदनमनुभवस्तद्वेद्यतेऽनेनेति वेदनं
मनस्तस्मादुदितम् । कस्तर्हि तदनुदये उपायस्तमाह - नोदेतीति ।
अवेदनान्मनोनाशात् । तच्च कस्मात्तत्राह - यतनादेवेति ।
ज्ञानयोगदृढाभ्यासलक्षणात्पुरुषयत्नादित्यर्थः ॥ ३० ॥

नास्तमेति न चोदेति क्वचित्किञ्चित्कदाचन ।
सर्वं शान्तमजं ब्रह्म चिद्धनं सुशिलाघनम् ॥ ३१ ॥

कीदृशः स ज्ञानयोगस्तमभिनीयमाह - नास्तमेतीति ॥ ३१ ॥

पराणुं प्रति सर्गौघाश्चिताद्भ्रान्तिसहस्रशः ।
तेष्वप्यणावणावन्तः कैवात्रावासना कथम् ॥ ३२ ॥

सति चित्ते परमाणूदरेऽपि सर्गपरम्परा दुर्वारेत्याह - पराणुं प्रतीति । अत्र
अण्वन्तः सर्गौघस्य आवसतिरावासना । ण्यन्ताद्भावे युच् । समावेशेन स्थितिः
कैव कथं वा । न कापि न कथञ्चिदपि युक्तेति मिथ्यैवेत्यर्थः ॥ ३२ ॥

यथा जलान्त ऊर्म्याद्या गुप्तागुप्ताश्च शक्तयः ।
जाग्रत्स्वप्नसुषुप्ताद्यास्तथा जीवेऽन्तरास्थिताः ॥ ३३ ॥

अनिर्वचनीयमायाशक्तिरूपेणावस्थानं तु ऊर्म्यादिदृष्टान्तेऽपि सममित्याह

  • यथेति ॥ ३३ ॥

जाता चेदरतिर्जन्तोर्भोगान्प्रति मनागपि ।
तदसौ तावतैवोच्चैः पदं प्राप्त इति श्रुतिः ॥ ३४ ॥

तादृशपुरुषयत्ने च्द वैराग्यं हेतुरित्याशयेन श्रुतिमुदाहरति - जाता
चेदिति । तथा अन्यापि । कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र
तत्र । पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः इति ॥ ३४ ॥

यतो यतो विरज्यते ततस्ततो विमुच्यते ।
अतोऽहमित्यसंविदन्क एति जन्मसंविदम् ॥ ३५ ॥

स्मृतिमप्युदाहरति - यत इति । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि इति
स्मृतिशेषो बोध्यः । अतो ज्ञानवैराग्यदार्ढ्यादहमिति
देहादिकमसंविदन्न पश्यन् को जन्मसंविदं जननमरणभ्रान्तिमेति
प्राप्नोति । न कश्चिदित्यर्थः ॥ ३५ ॥

चितिं परापरामजामरूपिकामनामिकाम् ।
चराचराऽधरामयीं विदन्ति ये जयन्ति ते ॥ ३६ ॥

तदेव ज्ञानं तत्त्वम्पदार्थाखण्डैक्यगोचरं दर्शयति -चितिमिति ।
परामीश्वरचैतन्यात्मिकामपरां जीवचैतन्यात्मिकां च चितिं
क्रान्त्परामनामिकामरूपिकां
नामरूपात्मकजगत्कल्पनोपाधिशून्यामपरां तु चराचरदेहादिलक्षणां ये
अधरा निकृष्टोपाधयस्तन्मयताशून्याम् । मयडन्तेन नञ्समासे
अचराचराधरमयीमिति वक्तव्ये नञो मयटः प्राङ्निवेशश्छान्दसः ।
तथाच शोधितत्वम्पदलक्ष्यार्थभूतामजां जन्मादिविकारशून्यां
चितिमखण्डां ये गुरुशास्त्रस्वानुभवैर्विदन्ति ते जयन्ति संसारमित्यर्थः ।
चराचरात्मिका अधरा यास्तनवस्तन्मयीं तत्प्रायां
जीवभूतामनामिकामरूपिकां च ये विदुरिति वा ॥ ३६ ॥

परे चितिः स्वप्रकटाद्वितीया-
स्वावर्तलेखेव जले द्रवान्तः ।
साहं तयेमानि जगन्ति धत्ते
न सन्ति नासन्ति परात्मकानि ॥ ३७ ॥

अहम्मयी पद्मजभावना चित्
सङ्कल्पभेदाद्वितनोति विश्वम् ।
अन्तर्मुखैवानुभवत्यनन्त-
निमेषकोट्यंशविधौ युगान्तम् ॥ ३८ ॥

व्यष्टाविव समष्टावप्यहङ्कारसङ्कल्पोभयवशादेव
स्वान्तःसंसारकल्पनेति दर्शयन्नुपसंहरति - अहम्मयीति । समष्टौ
व्यष्ट्यपेक्षया यो विशेषस्तमाह - अन्तर्मुखैवेति ।
नास्मदादिवद्बहिर्मुखेत्यर्थः । अनन्तस्य विष्णोर्निमेषस्य यः
कोट्यंशभूतो विदधातीति विधिः कालस्तस्मिन् युगान्तं
द्विसप्ततिसहस्रसहस्रसङ्ख्याकदिव्ययुगान्तं स्वायुरनुभवति । अहो मायेति
भावः ॥ ३८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे लीलो०
जगत्स्वरूपवर्णनं नामैकषष्टितमः सर्गः ॥ ६१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
जगत्स्वरूपवर्णनं नामैकषष्टितमः सर्गः ॥ ६१ ॥

प्। २८४) १७५