०६०

षष्टितमः सर्गः ६०

श्रीवसिष्ठ उवाच ।

एतत्ते कथितं राम दृश्यदोषनिवृत्तये ।
लीलोपाख्यानमनघं घनतां जगतस्त्यज ॥ १ ॥

विस्तराद्वर्ण्यतेऽत्रादौ लीलाख्यानप्रयोजनम् ।
कालादिसाम्यवैषम्यहेतुश्चात्र निगद्यते ॥ १ ॥

दृश्यदोषनिवृत्तये । तथाच दृश्यं नास्तीति बोधेन मनसो
दृश्यमार्जनं सम्पन्नं चेत्तदा प्राप्ता परा निर्वाणनिर्वृतिरिति
ग्रन्थोपक्रमे यत्प्रतिज्ञातं तत्सिद्धिरेवास्य प्रयोजनमिति भावः । घनतां
सत्यताम् ॥ १ ॥

शान्तैव दृश्यसत्तस्याः शमनं नोपयुज्यते ।
सतो हि मार्जनक्लेशो नासतस्तु कदाचन ॥ २ ॥

ननु सत्यतात्यागमात्रेण कथं दृश्यनिवृत्तिस्तत्राह - शान्तैवेति ।
यावत्सत्यताबुद्धिस्तावदेव मार्जनेनेति नेत्यपवादे क्लेशो
न्यायैर्मिथ्यात्वनिर्णये तु स नास्तीत्यर्थः ॥ २ ॥

ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयस्वरूपकम् ।
इत्येकीभूतमालोक्य ज्ञस्तिष्ठत्यम्बरोपमः ॥ ३ ॥

इति उक्तप्रकारेणापवादेनैकीभूतमखण्डैकरसतां प्राप्तम् । ज्ञस्तत्त्वज्ञः
॥ ३ ॥

पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयम्भुवा ।
साधितं यदि सिद्धेन ततः स्वात्मनि साधितम् ॥ ४ ॥

ननु जडस्य दृश्यस्य कथं संविदैकरस्यमित्याशङ्क्य आदिसर्गे
चिन्मात्ररूपेणैव स्वयम्भुवा स्वात्मन्येव
दृश्यविवर्त्कल्पनात्करकाकाठिन्यस्य
द्रवैकरस्याविरोधवदुपपत्तेरित्याशयेनाह - पृथ्व्यादिरहितेनेति ॥ ४ ॥

संइद्यथा या यतते तथा सैव व्यवस्थिता ।
विसृष्टा सृष्टिविन्नद्यां यावद्यत्नान्न रोधिता ॥ ५ ॥

तर्हि विनैव प्रयत्नं करकाकाठिन्यवदेव दृश्यविलयः किं न स्यात्तत्राह

  • संविदिति । सृष्टिं वेत्तिति सृष्टिवित्स्वयम्भूचैतन्यं तल्लक्षणायां
    नद्यां तदेकदेशभूता या जीवसंविद्यथा यादृशप्रवृत्तिप्रवाहेण
    यथा यादृशकार्यकरणफलभावाय यतते सा तथा
    तादृशकार्यकरणफलभावेन विसृष्टा सती स्वप्रयत्नानुसारात्तथैव
    व्यवस्थिता सा यावद्विरुद्धनिवृत्तिप्रयत्नान्न रोधिता तावन्न निवर्तत
    इत्यर्थः ॥ ५ ॥

चिदाकाशावभासोऽयं जगदित्यवबुध्यते ।
चिद्व्योम्न्येवात्मनि स्वच्छे परमाणुकणं प्रति ॥ ६ ॥

ननु ब्रह्मसृष्टमिदं जगत्कथं जीवप्रयत्नेन विरुध्येत नहि
महाराजाज्ञासिद्धं पृथग्जनप्रयत्नेन निवर्तयितुं
शक्यमित्याशङ्क्याह - चिदाकाशेति । यद्यपि चिद्व्योम्न्येव स्वच्छे
ब्रह्मात्मनि चिदाकाशस्य मायिकोऽयभासोऽयं जगदित्यवबुध्यते इति
ब्रह्मसृष्टं जगत् तथापि तन्नापरिच्छिन्नब्रह्मभावं प्रति
तथावबुध्यते किन्तु
बुद्ध्यादिपरिच्छिन्नोपाधिवशात्परमाणुकणमत्यन्तपरिच्छिन्नं जीवं प्रति ।
तदीयप्रयत्नजन्यकर्मभोगार्थमेअ ब्रह्मणि तदारोपात् । तथाच
तत्प्रयत्नजन्यबोधेन दृश्यमार्जनं सम्भवत्येवेति भावः ॥ ६ ॥

एवमस्या मुधाभ्रान्तेः का सत्ता केव वासना ।
का वास्था का च नियतिः कावश्यम्भावितोच्यताम् ॥ ७ ॥

एवञ्च सति सत्तनियतिवासनादिभिरपि न दृश्यत्राणप्रसक्तिरित्याशयेनाह ##-

सर्वं चैतद्यथादृष्टं स्थितमित्थमखण्डितम् ।
मायैवेयमनन्तेयं न च मायास्ति काचन ॥ ८ ॥

मायादृष्टौ सर्वमेतद्यथादृष्टं स्थितमपि न परमार्थदृष्टौ
सम्भवति । यतो मायाकार्यभूतेयं सृष्टिर्मायैव । न च माया
वस्तुसतीत्यर्थः ॥ ८ ॥

श्रीराम उवाच ।

अहो नु परमा दृष्टिर्दर्शिता भगवंस्त्वया ।
दावाग्निदग्धकक्षाणां दाहशान्तौ कलैन्दवी ॥ ९ ॥

दावाग्निना दग्धानां कक्षाणां तृणसङ्घानां दाहशान्तौ
पुनर्हरिताङ्कुरप्ररोहाय ऐन्दवी कलेव संसारतापतप्तानां
शान्तिविवेकप्ररोहायेयं दृष्टिरित्यर्थः ॥ ९ ॥

अहो नु सुचिरेणाद्य ज्ञातं ज्ञातव्यमक्षतम् ।
मया यथेदं यच्चेदं यादृग् ज्ञेयं यतो यदा ॥ १० ॥

पञ्चभिर्यद्वृत्तैः
क्रमात्प्रकारस्वरूपदृष्टान्तप्रमाणकालास्तत्त्वबोधोचिताः कीर्त्यन्ते ।
यादृग्भिर्दृष्टान्तैरधिकारिभिर्वा ज्ञेयम् ॥ १० ॥

शाम्यामीव द्विजश्रेष्ठ निर्वामीव विकल्पयन् ।
एतदाख्यानमाश्चर्यं व्याख्यानं शास्त्रदृष्टिषु ॥ ११ ॥

विकल्पयन् जगत्तत्त्वं विचारयन् । उपाधिशान्त्या शाम्यामिव ।
नित्यनिर्वाणस्वरूपावाप्त्या निर्वामीव शास्त्राणि श्रुतयस्तत्प्रदर्शितासु
दृष्टिषु ज्ञानेषु । व्याख्यानमुपबृंहणभूतम् ॥ ११ ॥

प्। २७८) १७२

इमं मे भगवन्ब्रूहि संशयं सर्वकोविद ।
तव पातुं न तृप्तोऽस्मि श्रोत्रपात्रैर्वचोमृतम् ॥ १२ ॥

इमं वक्ष्यमाणम् ॥ १२ ॥

स सर्गत्रितये कालो लीलाभर्तुर्हि योगतः ।
स क्वचित्किमहोरात्रः क्वचित्किं मासमात्रकः ॥ १३ ॥

स प्रागुक्तः सर्गत्रितये वासिष्ठपाद्मवैदूरथसर्गेषु यः कालो गतः स
क्वचिद्गिरिग्रामे अहोरात्राष्टकात्मकः प्रागुक्तः पाद्मसर्गे तु मासमात्रको
वैदूरथे तु बहुवर्षात्मक इति ब्रह्माण्डभेदः ॥ १३ ॥

क्वचित्किं बहुवर्षाणि कस्यचित्किमु पेलवः ।
कस्यचित्किं महादीर्घः कस्यचित्किं क्षणः स्थितः ॥ १४ ॥

एकस्मिन्नपि ब्रह्माण्डे मनुष्याणां संवत्सरो देवानां दिनमिति पेलवः ।
कस्यचित्क्षुद्रजन्तोः स एव महादीर्घः । कस्यचित्स्वयम्भुवः क्षण इति एक एव
कालो देशलोकादिभेदेन विरुद्धरूपः किं स्थितः । अर्थसत्तैकरूप्ये
प्रतीतिवैषम्यं कथमित्याशयः । इति इमं संशयं मे ब्रूहीति सम्बन्धः ॥
१४ ॥

इति मे भगवन्ब्रूहि त्वं यथावदनुग्रहात् ।
सकृच्छ्रुतं न विश्रान्तिमेति लोष्टे यथा जलम् ॥ १५ ॥

ननु देशदैर्घ्यं यथा नास्ति कालदैर्घ्य तथैव हि इति
प्रागेवास्योत्तरमुक्तप्रायं तत् किं पुनः पृच्छसि तत्राह - सकृदिति ।
लोष्टे शुष्कमृत्पिण्डे । जलं जलबिन्दुः ॥ १५ ॥

श्रीवसिष्ठ उवाच ।

येन येन यथा यद्यद्यदा संवेद्यतेऽनघ ।
तेन तेन तथा तत्तत्तदा समनुभूयते ॥ १६ ॥

यद्यर्थसत्तनुसारिणी प्रतीतिः स्यात्तदा स्यादयं विरोधः प्रतीत्यनुसारिण्यां
त्वनिर्वचनीयार्थसत्तायां प्रतिद्रष्ट्रर्थभेदान्न कालवैषम्यं दोष
इत्याशयेनोत्तरमाह - येन येनेति ॥ १६ ॥

अमृतत्वं विषं याति सदैवामृतवेदनात् ।
शत्रुर्मित्रत्वमायाति मित्रसंवित्तिवेदनात् ॥ १७ ॥

तदेवोदाहरति - अमृतत्वमित्यादिना । अमृतत्वं अमृतवज्जिवनहेतुत्वम् ।
अमृतवेदनाज्जीवनसाधनत्ववेदनात् । तथाहि ।
तादृशदृढसंवेदनाविषकृमयो विषेणैव जीवन्ति । कथं तर्हि
प्रमादाद्भोज्यबुद्ध्या विषं भुक्तवता मरणदर्शनमिति चेत्कृमिवत्तेषां
विषे चिराभ्यस्तजीवनहेतुतादृढसंवेदनाभावाद्विषे
मरणहेतुतानिश्चयसंस्कारसत्त्वाच्चेति ॥ १७ ॥

यथा भावितमेतेषां पदार्थानां निजं वपुः ।
तदेव हि चिराभ्यासान्नियतेर्वशमायतम् ॥ १८ ॥

एतदेव स्पष्टयति - तदेव हीति । तथाच
नियतिवशीकारपर्यन्तचिराभ्यस्तसंवेदनानुसारिणी पदार्थेष्वर्थक्रिया
नियतिरिति भावः ॥ १८ ॥

कचनैकात्मिकैषा चिद्यथा कचति यादृशम् ।
तथा तथाशु भवति तत्स्वभावैककारणात् ॥ १९ ॥

किञ्च संविदः स्फुरणं स्वभावः अर्थविशेषाकारता तु तस्या
द्रष्टृसंस्कारानुरोधिनी । तथा चैकस्यामेव संविदि
कस्यचित्संस्कारानुसारेण निमेषारोपः कस्यचित्कल्पाद्यारोपश्च न विरुध्यत
इत्याह - कचनैकेति त्रिभिः ॥ १९ ॥

निमेषे यदि कल्पौघसंविदं परिविन्दति ।
निमेष एव तत्कल्पो भवत्यत्र न संशयः ॥ २० ॥

कल्पे यदि निमेषत्वं वेत्ति कल्पोऽप्यसौ ततः ।
निमेषीभवति क्षिप्रं तादृगूर्पात्मिका हि चित् ॥ २१ ॥

दुःखितस्य निशा कल्पः सुखितस्यैव च क्षणः ।
क्षणः स्वप्ने भवेत्कल्पः कल्पश्च भवति क्षणः ॥ २२ ॥

लोकेऽप्ययं प्रकारः प्रसिद्ध एवेत्याह - दुःखितस्येति ॥ २२ ॥

यथा च मृत्वा जातोऽहं तरुणो यौवनस्थितः ।
यातोऽस्मि योजनशतं स्वप्न इत्यनुभूयते ॥ २३ ॥

इति स्वप्नोऽनुभूयते कैश्चिदिति शेषः ॥ २३ ॥

रात्रिं द्वादशवर्षाणि हरिश्चन्द्रोऽनुभूतवान् ।
लवणो भुक्तवानायुरेकरात्र्या समाः शतम् ॥ २४ ॥

तदेवोदाहरति - हरिश्चन्द्र इति । प्रसिद्धं चेदं मार्कण्डेयपुराणादौ
लवणो राजा । इदं चाग्रे वक्ष्यति ॥ २४ ॥

यन्मुहूर्तः प्रजेशस्य स मनोर्जीवितं मुनेः ।
जीवितं यद्विरिञ्चस्य तद्दिनं किल चक्रिणः ॥ २५ ॥

मनोर्यज्जीवितमायुः स मुनेरात्ममननशीलस्य प्रजेशस्य मुहूर्तः
मुनेरित्युत्तरेऽपि सम्बध्यते ॥ २५ ॥

विष्णोर्यज्जीवितं राम रद्वृषाङ्कस्य वासरः ।
ध्यानप्रक्षीणचित्तस्य न दिनानि न रात्रयः ॥ २६ ॥

निर्विकल्पसमाधौ तु दिनरात्रिभेद एव नास्तीत्याह - ध्यानेति ॥ २६ ॥

न पदार्था न च जगत्सत्यमात्मनि योगिनः ।
मधुरं कटुतामेति कटुभावेन चिन्तितम् ॥ २७ ॥

मधुरं प्रियं विषयजातम् । कटुतां अप्रियताम् । कतुभावेन
वैराग्यवासनया ॥ २७ ॥

कटु चायाति माधुर्यं मधुरत्वेन चिन्तितम् ।
मित्रबुद्ध्या द्विषन्मित्रं रिपुबुद्ध्या रिपुः सुहृत् ॥ २८ ॥

कटु प्रागप्रियं इन्द्रियमनःप्राणनिरोधादिमाधुर्यमात्मसुखप्रसादेन
प्रियतमताम् । विषयलम्पटतां द्विषद्गुरुशास्त्रादिमित्रबुद्ध्या
आप्ततमत्वबुद्ध्या सेवितः सुहृत्परमाप्ततओ भवति । एवं प्राक्तनो
विषयभोगसहायः सुहृन्मूढः स्वजनो रिपुबुद्ध्या पुरुषार्थविघातीति
बुद्ध्या भावितस्तथैव भवतीति ॥ २८ ॥

भातीति महाबाहो यथासंवेदनं जगत् ।
अनभ्यस्ताः पदार्था ये शास्त्रपाठजपादयः ॥ २९ ॥

उक्तं न्यायं जपोपासनश्राणादिष्वपि दर्शयति - अनभ्यस्ता इति ॥ २९ ॥

तेषां संवेदनाभ्यासान्नूनमभ्येति साम्यता ।
नौयायिनां भ्रमार्तानां वेदनाद्भूर्विवर्तते ॥ ३० ॥

सममेव साम्यं तद्भावः साम्यता अवैषम्यं स्वाधीनता अभ्येति प्राप्नोति ।
सम्पद्यत इति यावत् । भूर्विवर्तते चलति ॥ ३० ॥

अवेदनाभ्रमार्तानामपि नैषां विवर्तते ।
शून्यमाकीर्णतामेति वेदनात्स्वप्नदृक्ष्विव [स्वप्नदृष्टिवत् इति
पाठः] ॥ ३१ ॥

वेदनाभ्रमार्तिशून्यानामेषां तीरस्थानां तु दृष्ट्या न विवर्तते ॥ ३१ ॥

प्। २७९) १७२

वेदनात्पीतमानीलं शुक्लं वाप्यनुभूयते ।
आपद्वदुत्सवः खेदं करोति परिमोहतः ॥ ३२ ॥

अनुभूयते नभः परिमोहत इति । तथाहि बालाः स्वोत्सवेष्वपि क्वचिद्रुदन्तो
दृश्यन्ते ॥ ३२ ॥

कुड्येऽपि ख इवाचारो दृष्टो नन्वविचारिणः ।
असद्यक्षो विमूढानां प्राणानप्यपकर्षति ॥ ३३ ॥

मिथ्याभूतार्थानामर्थक्रियासामर्थ्यमपि लोकप्रसिद्धमित्याह -
असद्यक्ष इत्यादिना ॥ ३३ ॥

वेदनात्स्वप्नवनिता जाग्रतीव रतिप्रदा ।
यद्यथाभासमायातं तत्तथा स्थिरतां गतम् ॥ ३४ ॥

असदेव नभश्चैव नभ एव चिदात्मनि ।
शतहस्ताम्बुदच्छायानटनृत्तमिवाततम् ॥ ३५ ॥

असदेवेति । नास्त्येवेत्यर्थः । तर्हि किमलीकं नेत्याह - नभश्चैवेति । कार्यस्य
कारणमात्रत्वादव्याकृताकाशमेवेत्यर्थः । तथाच तन्नभ एव
स्वाधिष्ठानचिदात्मनि शतहस्तस्य अम्बुदच्छायाकल्पितमिथ्यानटस्य
नृत्तमभिनयविशेष इव जगद्वैचित्र्यभावेनाततं विस्तीर्णमिति
कलितमित्यर्थः ॥ ३५ ॥

गगने [मूले गमने इति पाठः टीकायां च गगने इति भूलाननुगुणः
प्रतीको मुद्रितपुस्तके लभ्यते] मानसं स्पन्दं जगद्विद्धि न वस्तु
तत् ।
मिथ्याज्ञानपिशाचस्य स्पन्ददर्शनमाकृति ॥ ३६ ॥

सर्वमनःसमष्टिव्यष्टिकार्यत्वादपि तस्यासत्यतैवेत्याशयेनाह - गगने
इति । बालस्य मिथ्याज्ञानकलिप्तपिशाचस्य यत्स्पन्ददर्शनं तन्मा तदुपमा
मनोमात्राकृतिर्यस्य तत् ॥ ३६ ॥

मायामात्रकमेवेदमरोधकमभित्तिमत् ।
इदं भास्वरमाभातं स्वप्नसन्दर्शनं स्थितम् ॥ ३७ ॥

वास्तवमूर्तत्वाभावात्स्वयमन्यस्यारोधकं
अभित्तिमत्स्वरोधकवस्त्वन्तरशून्यं च भास्वरं स्फुटमाभातमिदं जगत्
असुप्तस्य नरस्यापूर्वमेवोदितं स्वप्नसन्दर्शनं विदुस्तत्त्वविद इति
परेणान्वयः ॥ ३७ ॥

अपूर्वमेवासुप्तस्य नरस्येवोदितं विदुः ।
अचेता चेतति स्तम्भो यादृशं शालभञ्जिकाम् ॥ ३८ ॥

अचेता स्वस्फुरणानुकुल्लस्वव्यापारशून्यश्चेतति स्वात्मनि प्रथयति
शालभञ्जिकां प्रतिमारूपम् । स्वयं यादृशो यादृशं
यादृक्स्वरूपां सृष्टिं चेतति सर्गकाले पश्यति परमार्थमहास्तम्भः
सर्वाधिष्ठानचिदात्मापि तादृशो भूत्वा तादृशीं सृष्टिं सर्गकाले
पश्यतीत्यर्थः ॥ ३८ ॥

परमार्थमहास्तम्भः सृष्टिं चेतति तादृशम् ।
यादृशो मे नरः पार्श्वे स्वप्ने क्षुब्धो महाभटैः ॥ ३९ ॥

स्वप्ने मे मम पार्श्वे महाभटैः क्षुब्धः क्षोभितो नरो बुद्धोऽपि
सुषुप्तवदज्ञानमात्रस्वभावो न वस्तुसन् ब्रह्मणः सर्गोऽपि तादृश एवेति
परेणान्वयः ॥ ३९ ॥

तादृशो ब्रह्मणः स्वर्गो बुद्ध एव सुषुप्तवत् ।
तृणगुल्मलतायुक्तः शिशिरान्ते यथा रसः ॥ ४० ॥

शिशिरस्यान्ते वृक्षादीनां पत्रशातनकाले वासन्तः अग्रे वसन्ते
पल्लवपुष्पाद्यात्मना आविर्भविष्यंस्तृणगुल्पलतायुक्तो रसो भूमौ
उपादाने यथा संस्थितस्तथेत्यर्थः ॥ ४० ॥

वासन्तः संस्थितो भूमौ तथा सर्गः परे पदे ।
यथा द्रवत्वं कनके स्थितमन्तरनुन्मिषत् ॥ ४१ ॥

तथा स्थितः परे सर्ग आत्मवर्गादणावणौ ।
सन्निवेशो यथाङ्गानामङ्गिनोऽनन्य आत्मनः ॥ ४२ ॥

आत्मवर्गाज्जीवसङ्घान्निमित्तादणावणौ तद्भोग्यः सर्गः परे स्थितः अस्ति
भविष्यति चेत्यर्थः । अङ्गानामचयवानां सन्निवेशः संस्थानभेदः
अङ्गिन आत्मनः स्वस्मादनन्यः अव्यतिरेकतः । अपृथक्सत्ताक इति यावत् ॥ ४२ ॥

जगदेवमनङ्गस्य स्वात्मनो ब्रह्मणस्तथा ।
यादृगेकनरः स्वप्ने युद्धमन्यं नरं प्रति ॥ ४३ ॥

तथा जगत्स्वात्माभिन्नब्रह्मणः सकाशात् एवं अव्यतिरेकत इत्यर्थः ।
समसत्ताकत्ववारणायानङ्गस्येत्युक्तिः । एकस्य नरस्य स्वप्ने अन्येन नरेण
सह युद्धं तत्काले तं प्रति सद्रूपमन्यं प्रत्यसद्रूपमपि द्रष्टुः
स्वात्मैव तथेदं मायाव्योमगं जगदपि मायिकदृष्ट्या सदपि
तदन्यशुद्धदृष्ट्या असदेवेत्यर्थः ॥ ४३ ॥

तादृशं सदसद्रूपं स्वात्मेदं व्योमगं जगत् ।
महाकल्पान्तसर्गादौ चित्स्वभावमिदं जगत् [वपुः इति पाठः] ॥
४४ ॥

आद्यन्तकालयोः सद्ब्रह्ममात्राभावेन परिशेषादपि तन्मात्रस्वभावतेत्याह

  • महाकल्पान्तेति ॥ ४४ ॥

कारणत्वं मिथः पश्चादसदेति न वास्तवम् ।
मुक्तेऽस्मिन्ब्रह्मणि यदि ब्रह्मान्यः स्मृतिजो भवेत् ।
तत्स्मृतिज्ञप्तिजे सर्गे स्थितैव ज्ञप्तिमात्रता ॥ ४५ ॥

कारणत्वं कार्यविभागे सति मिथस्तत्सापेक्षकारणत्वकल्पनम् ।
सर्वजगदाकारपरिणतपूर्वपूर्वहिरण्यगर्भाहम्भावकल्पनात्मकोपासनस
ंस्कारजन्यस्मृतिकल्पितत्वादपि जगतोऽधिष्ठानसन्मात्रानतिरिक्ततेत्याह -
मुक्ते इति ॥ ४५ ॥

श्रीराम उवाच ।

पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः ।
सममेव कथं तत्र सर्वेषां प्रतिभासितः ॥ ४६ ॥

ब्रह्माण्डान्तरस्थानामिवैकनगरस्थानामपि प्राणिनां प्रत्येकं
वासनाकर्मादिवैचित्र्यात्स्वप्न इव जागरेऽपि क्रमवैचित्र्याद्यारोपः किं न
स्यादित्याशयेन रामः पृच्छति - पौराणामिति । समं एकरूपमेव यथा
स्यात्तथा कथं प्रतिभासितो भातः । तत्र को हेतुरित्यर्थः ॥ ४६ ॥

श्रीवसिष्ठ उवाच ।

चितः समनुवर्तन्ते मुख्यायाः सर्वसंविदः ।
यथा विपुलवात्यायाः सामान्या वातलेखिकाः ॥ ४७ ॥

स्रष्टृसङ्कल्पकृता इतरजीवसंविदां प्रधानजीवसंविदनुवृत्तिनियतिरेव
तत्र हेतुरित्याशयेन वसिष्ठ उवाच - चित इत्यादिना । सामान्या अल्पाः ॥ ४७ ॥

प्। २८०) १७३

परस्परानुसारेण तथारूपेण संविदः ।
कचितास्ताः प्रजापालप्रजावास्तव्यमन्त्रिणः ॥ ४८ ॥

तदनुरूपफलोन्मुखभोजकादृष्टमेलनं च तत्र हेतुरित्याशयेनाह -
परस्परेति । तथा ऐकरूप्येण रूपयति सम्पादयतीति तथारूपमदृष्टजातं
तेन प्रजापालश्च प्रजाश्च वास्तव्याः पुरवासिनश्च मन्त्रिणश्च
परस्परानुसारेण कचिताः ॥ ४८ ॥

एवंरूपात्कुलाज्जातो राजास्माकमयं त्वसौ ।
कचिता इएव वास्तव्यविदो वैदूरथे पुरे ॥ ४९ ॥

कचने वैचित्र्यं प्रपञ्चयंस्तस्य मिथ्यात्वमाह - एवंरूपादिति ।
वैदूरथे पुरे वास्तुषु वेश्मभूमिषु भवा वास्तव्याः
पदार्थास्तद्विदस्तदुपभोगिनो जना इति कचिता इव ॥ ४९ ॥

कचने चित्स्वभावस्य न च कारणमार्गणम् ।
युक्तं महामणेर्भासामिवान्यत्र स्वभावतः ॥ ५० ॥

ननूदासीनायाः संविदोऽध्यस्तविषयप्रथालक्षणे कचने को हेतुरितिचेन्नात्र
हेतुचिन्ता युक्ता कचनस्यागन्तुकत्वादतोऽन्यत्र आगन्तुकविषयेष्वेव सा युक्ता ।
यथा उदासीनस्य चिन्तामणेर्भासां प्रसरे न हेत्वन्तरापेक्षा किन्तु
विचित्रार्थजनने चिन्तकजनमनोरथवैचित्र्यापेक्षा तद्वदित्याह - कचने इति ॥
५० ॥

अहमेवं कुलाचारे राजा स्यामेवमित्यपि ।
विदूरथविदो रत्नादुदिता प्रतिभा यथा ॥ ५१ ॥

प्राक्तदनुकूलसङ्कल्पवैचित्र्योत्पत्तिरपि यथोक्तरीत्यैवेत्याह - अहमिति ।
विदूरथस्य विदो जीवचैतन्यान्निमित्तात् । तथाच चिन्तामणिरिव । चिन्मणिरपि
यथामनोरथमेवार्थान् प्रसूते इति दर्शयति - रत्नादिति । प्रतिभा
मनोरथः ॥ ५१ ॥

यावन्तो जन्तवो यस्मिन्ये ये सर्गे यदा यदा ।
ते सर्वगत्वाच्चिद्धातोरन्योन्यादर्शतां [सर्गगत्वात् इति पाठः]
गताः ॥ ५२ ॥

अनेकेषु जीवचैतन्येषु तुल्यविषयारोपक्रमेण दर्पणानां
परस्परान्तर्गतप्रतिबिम्बग्राहित्वमिव सम्पन्नमित्याह - यावन्त इति ॥ ५२ ॥

तीव्रवेगवती या स्यात्तत्र संविदकम्पिता ।
सैवायाति परं स्थैर्यमामोक्षं त्वेकरूपिणी ॥ ५३ ॥

नन्वेवं सति सतिबिम्बे प्रतिबिम्बोदयस्यावर्जनीयत्वात्कथं
निर्विषयतालक्षणमोक्षप्राप्तिरित्याशङ्क्याह - तीव्रवेगवतीति । तत्र तासु
जीवसंवित्सु मध्ये यैव जीवसंविद्ब्रह्माकारवृत्तिस्तीव्रवेगवती
विषयदोषैरकम्पिता सती आमोक्षमेकरूपिणी भवति सैव परं सर्वोत्कृष्टं
ब्रह्मभावेन स्थैर्यं मोक्षलक्षणमायाति नान्येत्यर्थः ॥ ५३ ॥

बलवच्चिद्विलासानामनुवृत्त्या परस्परम् ।
स्वभावाः प्रतिबिम्बन्ति चिदादर्शे स्वभावतः ॥ ५४ ॥

तां तथाच जगदाकारस्य ब्रह्माकारस्य वा जीवचितिप्रतिबिम्बने
तीव्रवेगवत्तालक्षणबलवत्तत्तदाकारचिद्विलासा एव नियामकस्तथैव
नियतिस्वभावत इत्याह - बलवदिति ॥ ५४ ॥

तत्रातियत्नाज्जयति सत्याः संविदः आत्मसात् ।
कुर्वन्ति सरिदम्भोधिगामिनी सरितो यथा ॥ ५५ ॥

नन्वेवं सति जगदुन्मुखत्वस्य चिराभ्यस्तत्वात्तत्रैव तीव्रवेगोदये न मोक्षं
प्रत्याशेत्याशङ्क्याह - तत्रेति । अयत्नजवेगाद्यत्नजवेगस्य
प्राबल्यदर्शनादतियत्नात्सम्पादितो ब्रह्माकारवेग एव जयति
जगदाकारचिद्विलासवेगम् । किञ्च सत्यासत्यगोचरसंविदोः सत्यगोचराणां
प्राबल्यदर्शनात्सत्या ब्रह्माकारसंविद एवैनमात्मसात् आत्माधीनं कुर्वन्ति
। यथा अम्भोधिगामिनी महासरित्स्वमिलिताः क्षुद्रसरितः स्वाधीनवृत्तिः करोति
तद्वदित्यर्थः ॥ ५५ ॥

ये समास्तत्र ते तावद्यतन्ते चित्स्वभावतः ।
यावदेको जयत्यत्र द्वितीयः स निमज्जति ॥ ५६ ॥

अस्तु ब्रह्माकारतायास्तीव्रवेगत्वे जयो यदा तु
मन्दमध्यमाधिकाराच्चित्ताप्रतिष्ठितेर्विच्छिद्य विच्छिद्य ब्रह्माकारतोदयो
बाह्याकारतोदयश्च तदा समत्वान्नैकतरजयं प्रत्याशेत्याशङ्क्याह -
ये इति । येऽधिकारिण उक्तोभयाकारे समाः समवेगास्ते न तथैवावतिष्ठन्ते
किन्तु अत्र उक्ताकारद्वयमध्ये यावदेको ब्रह्माकारः प्रतिष्ठितः सन् जयति
उत्कर्षकाष्ठां गच्छति द्वितीयः स बाह्याकारश्च निमज्जति तावद्यतन्ते
श्रवणाद्यावृत्तिलक्षणं यत्नं कुर्वन्ति । तथा च
तेषामप्यभ्यासक्रमात्तीव्रवेगोदयेनेतरजयसिद्धिरित्यर्थः ॥ ५६ ॥

जायमानेषु नश्यत्सु वर्तमानेषु भूरिशः ।
एवं सर्गसहस्रेषु परमाणुकणं प्रति ॥ ५७ ॥

एवं प्रासङ्गिकानिर्मोक्षप्रसङ्गनिरासमुपपाद्य प्रस्तुतं प्रतिजीवं
समविषमसर्ववैचित्र्यमेवावलम्ब्याह - जायमानेष्वित्यादिना ।
औपाधिकपरिच्छेदारोपात्परमाणुकणं जीवजातं प्रति एवं उक्तप्रकारेषु
समविषमेषु सर्गसहस्रेषु भ्रान्त्या जायमानेषु वर्तमानेषु नश्यत्सु च
परमार्थतो न किञ्चित्केनचिज्जिवकणेन धावतापि प्राप्तं केनचिदुदासीनेनापि
स्थितं न प्राप्तम् । अवस्तुनः प्राप्त्यप्राप्त्युभयायोग्यत्वादित्यर्थः ॥ ५७ ॥

न किञ्चित्केनचिद्ध्याप्तं [केनचिद्व्याप्तं इति क्वाचित्कः पाठः] न
किञ्चित्केनचित्स्थितम् ।
चिदाकाशमिदं शान्तमतः सर्वमभित्तिमत् ॥ ५८ ॥

अयमाभासते स्वप्नो निर्निद्रो दृष्टिवर्जितः ।
अवश्यम्भाविबोधस्तु स्वनुभूतोऽप्यसन्मयः ॥ ५९ ॥

दृष्टिवर्जितो विवेकदृष्टिशून्यः । अवश्यम्भावी बोधः
अधिष्ठान्त्मसाक्षात्कारो यस्य तथाविधस्तु सन्
प्रागनुभूतोऽप्यसन्मयोऽलीकसदृशः ॥ ५९ ॥

पत्रपुष्पफलांशात्मा यथैकः स्वास्थितो द्रुमः ।
अनन्तसर्वशक्त्यात्मा ह्येक एव तथा विभुः ॥ ६० ॥

शुद्धदृष्ट्या प्रपञ्चस्यापृथक्सत्त्वमुक्त्वा मायाशबलदृशाप्याह

  • पत्रेति ॥ ६० ॥

मातृमेयप्रमाणादिमायात्मकमजं पदम् ।
बुद्धं विस्मृतिमायाति न कदाचन कस्यचित् ॥ ६१ ॥

जीवदृशापि आबोधं भिन्नरूपमपि बोधे
पुनर्विस्मृतिहेत्वज्ञानाभावादेकमेवावतिष्ठत इत्याह - मात्रिति ॥ ६१ ॥

शून्योदयास्तमयवस्तु तमःप्रकाशं
दिक्कालरूप्यपि सदैकमनादिशुद्धम् ।
आद्यन्तमध्यरहितं स्थितमच्छमम्बु
सौम्यत्ववीचिवलनाढ्यमिवैकमेव ॥ ६२ ॥

मायावभासकत्वप्रयुक्ते नानात्वेऽपि शुद्धस्य न वास्तवैकरूप्यस्थितिविरोध
इत्याशयेनोपसंहरति - शून्येति । तमः प्रकाशयति साक्षिभावेनेति तमः
प्रकाशं तथाविधं सत् । दिक्कालरूप्यपि परमार्थतः सदा शुद्धम् ।
शून्यौ सर्वविकारोदयास्तमयौ यत्र तथाविधमात्मवस्तु
आद्यन्तमध्यरहितं सदेकमेव स्थितम् । यथा अच्छं निर्मलमम्बु
सौम्यत्वाढ्यं वीचिवलनाढ्यं वा अम्बुस्वरूपैकरूप्यादेकमेव
तद्वदित्यर्थः ॥ ६२ ॥

प्। २८१) १७३

अहन्त्वमित्यादिजगत्स्वरूपा
विशुद्धबोधैकविभा विभाति
आकाशकोशे निजशून्यतेव
द्वैतैक्यसङ्कल्पविकल्पनाच्च ॥ ६३ ॥

विशुद्धबोधैकरूपस्य ब्रह्मणः स्वरूपभूता विभा प्रकाश एव
द्वैतैक्यगोचरसङ्कल्पविकल्पनरूपान्मनसो
निमित्ताच्चकारात्तन्मूलभूताविद्याकामकर्मवासनादिवशाच्चाहम्ममेत्याद्य्
अध्यस्तजगत्स्वरूपा विभाति । यथा आकाशलक्षणे कोशे निजा शून्यतैव
तलमालिन्यमौक्तिककेशोण्ड्रककटाहाद्याकारतया भाति तद्वदित्यर्थः ॥ ६३ ॥

इत्यार्षे श्रीवासिस्।ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे
लीलो० प्रयोजनवर्णनं नाम षष्ठितमः सर्गः ॥ ६० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पतीप्रकरणे
प्रयोजनवर्णनं नाम षष्टितमः सर्गः ॥ ६० ॥