एकोनषष्टितमः सर्गः ५९
श्रीवसिष्ठ उवाच ।
सरस्वती तथेत्युक्त्वा तत्रैवान्तर्धिमाययौ ।
प्रभाते पङ्कजैः सार्धं बुबुधे सकलो जनः ॥ १ ॥
राज्ञः सञ्जीवनोद्धर्षात्तत्पुरान्तःपुरोत्सवः ।
राज्यं च जीवन्मुक्तानां चिरं मुक्तिश्च वर्ण्यते ॥ १ ॥
सरस्वती इति उक्तप्रकारेण प्राग्यद्राज्ञा प्रार्थितं तत्तथास्त्वित्युक्त्वा तत्र
राजगृहे एव अन्तर्धिमन्तर्धानमाययौ ॥ १ ॥
आलिलिङ्ग च तां लीलां लीला च दयितं क्रमात् ।
पुनःपुनर्महानन्दान्मृतं प्रोज्जीवितं पुनः ॥ २ ॥
लीला च प्राङ्मृतं पुनः प्रोज्जिवितं पुनःपुनर्महानन्दादालिलिङ्ग ॥ २ ॥
तदासीद्राजसदनं मदमन्मथमन्थरम् ।
आनन्दमत्तजनतं वाद्यगेयरवाकुअलम् ॥ ३ ॥
तदा राजसदनमानन्देन मत्ता परवशचित्ता जनता यस्मिंस्तथाविधमासीत् ॥ ३
॥
जयमङ्गलपुण्याहघोषघुङ्घुमघर्घरम् ।
तुष्टपुष्टजनापूर्णं राजलोकवृताङ्गणम् ॥ ४ ॥
राज्ञो लोकाः सेवकजनाः राजानं लोकयन्तीति राजलोकाः पौरजानपदाश्च
तैर्वृताङ्गणम् ॥ ४ ॥
सिद्धविद्याधरोन्मुक्तपुष्पवर्षसहस्रभृत् ।
ध्वनन्मृदङ्गमुरजकाहलाशङ्खदुन्दुभि ॥ ५ ॥
काहलाशब्दः कार्णालसञ्ज्ञकवाद्यविशेषार्थः ॥ ५ ॥
ऊर्ध्वीकृतबृहद्धस्तहास्तिकस्तनितोत्कटम् ।
उत्तालताण्डवस्त्रैणपूर्णाङ्गणलसद्धवनि ॥ ६ ॥
उत्तालताण्डवैः स्त्रैणैः स्त्रीसमूहैः पूर्णाङ्गणे
लसंस्तौर्यत्रिकध्वनिर्यस्मिन् ॥ ६ ॥
मिथःसङ्घट्टनिपतज्जनोपायनदन्तुरम् ।
पुष्पशेखरसम्भारमयसंसारसुन्दरम् ॥ ७ ॥
पुष्पशेखराणामौत्सविकसम्भारप्रचुराणां नानाजनानां संसारेण
सञ्चारेण सुन्दरं शोभमानम् ॥ ७ ॥
विकीर्णापादितक्षौमं मन्त्रिसामन्तनागरैः ।
स्थूलपद्ममयं व्योम रक्तैस्ताण्डविनीकरैः ॥ ८ ॥
मन्त्रिभिः सामन्तैर्नागरैश्च विकीर्णैः कुसुमलाजमौक्तिकैः
सर्वतश्छन्नत्वादापादितानि सम्पादितानि क्षौमाम्बराणीव यस्य तत् । व्योम्नि
रक्तैस्ताण्डविनीनां नर्तकीनां करैः स्थूलपद्ममयं दीर्घपद्मप्रचुरं
सर इव स्थितमित्याशयः ॥ ८ ॥
मत्तस्त्रिकन्धरावृत्तलीलान्दोलितकुण्डलम् ।
प्रवृत्तपादसम्पातप्रोल्लसत्पुष्पकर्दमम् ॥ ९ ॥
मत्तानां हृष्टानां स्त्रीणां कन्धराणां ग्रीवाणामावृत्तलीलाभिः
परिवर्तनविलासैरान्दोलितानि कुण्डलानि यत्र ॥ ९ ॥
पट्टवासःशरन्मेघवितानकवितानकम् ।
वराङ्गनामुखैर्नृत्यच्चन्द्रलक्षगृहाजिर ॥ १० ॥
पट्टवाससां शरन्मेघवितानकसदृशानि वितानकानि यत्र । नृत्यन्ति
चन्द्रलक्षाणि यत्र तथाविधानि गृहाजिराणि यत्र ॥ १० ॥
परलोकादुपानीता राज्ञी सा पतिरेव च ।
इति निर्वृत्तगाथाभिर्जगुर्देशान्तरे जनाः ॥ ११ ॥
सा राज्ञी द्वितीयलीला परलोकादुपानीता पूर्वलीलयेत्यर्थाद्गम्यते । पतिरेव च
उपानीत इति प्रबन्धशतात्मना निर्वृत्ताभिर्गाथाभिर्जगुः ॥ ११ ॥
पद्मो भूमिपतिः श्रुत्वा वृत्तान्तं कथितं मनाक् ।
चक्रे स्नानं समानीतैश्चतुःसागरवारिभिः ॥ १२ ॥
वृत्तान्तं स्वमरणादिकथां मनाक् सङ्क्षेपेण कथितं श्रुत्वा ॥ १२ ॥
ततोऽभिषिषिचुर्विप्रा मन्त्रिणो भूभुजश्च तम् ।
लब्धोदयमनन्तेहममरेन्द्रमिवामराः ॥ १३ ॥
चिरप्रवासादागतस्येव परलोकादागतस्य पुनः पदाभिषेको मङ्गलार्थः ।
अमरेन्द्रपक्षे अनन्ता ईहाः स्वराज्यलाभप्रयत्ना यस्य तम् । अत एव
नहुषनिपातेन पुनर्लब्धः स्वराज्योदयो येन तथाविधम् ॥ १३ ॥
लीला लीला च राजा च जीवन्मुक्तमहाधियः ।
रेमिरे पूर्ववृत्तान्तकथनैः सुरतैरिव ॥ १४ ॥
ननु लीला लीला चेत्यत्र सरूपैकशेषः किं न स्यादिति चेद्रामश्च रामश्च रामौ
इत्येकशेषविग्रहवाक्यवदिति गृहाण । न ह्येकशेषवृत्तेर्विग्रह एव नास्ति ।
परस्परनिरपेक्षमेव संस्कारेण परिनिष्ठितयोः पश्चात्सहविवक्षायां तस्य
निराबाधत्वात् । विभक्त्युत्पत्तेः प्रागेव प्रातिपदिकार्थद्वयस्य
सहविवक्षायामेकशेषस्य सावकाशतया परिनिष्ठितपदद्वये
प्रसक्त्यभावादिति ॥ १४ ॥
सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् ।
प्राप्तं लोकत्रयश्रेयः पद्मेनेति महीभुजा ॥ १५ ॥
ननु यदि राज्ञा सरस्वतीप्रसादेन तत्पुनर्जीवनं राज्यं च प्राप्तं तर्हि
दैवेनैव तत्प्राप्तं न स्वपौरुषकृतेनेति रामाशङ्कां
हृदिस्थामुपलक्ष्य तां परिहरन्नुपसंहरति - सरस्वत्या इति ।
स्वपौरुषकृतेनेति । सरस्वत्याराधनादिस्वपौरुषकृत एव तत्प्रसादो
नाकस्मिक इत्यर्थः । पद्मेन इति वर्णितरीत्या लोकत्रये श्रेयः प्रशस्यतमं
पुनर्जीवनं राज्यं ज्ञानं च प्राप्तम् ॥ १५ ॥
स ज्ञप्तिज्ञानसम्बुद्धो राजा लीलाद्वयान्वितः ।
चक्रे वर्षायुतान्यष्टौ तत्र राज्यमनिन्दितः ॥ १६ ॥
ज्ञप्त्युपदिष्टेन ज्ञानेन सम्बुद्धः सम्यग्बुद्धात्मतत्त्वः स राजा अष्टौ
वर्षाणामयुतान्यशीतिसहस्राणि राज्यं चक्रे । कालाध्वनोरत्यन्तसंयोगे इति
द्वितीया ॥ १६ ॥
जीवन्मुक्तास्त इत्येवं राज्यं वर्षायुताष्टकम् ।
कृत्वा विदेहमुक्तत्वमासेदुः सिद्धसंविदः ॥ १७ ॥
सिद्धसंविदः अरिनिष्ठितप्रबोधाः ॥ १७ ॥
प्। २७७) १७१
यदुदयविशदं विदग्धमुग्धं
समुचितमात्महितं च पेशलं च ।
तदखिलजनतोषदं स्वराज्यं
चिरमनुपाल्य सुदम्पती विमुक्तौ ॥ १८ ॥
यद्राज्यं प्रजानामुदयैर्नित्याभ्युदयैर्विशदं निर्दोषम् । विदग्धानां
विदुषां शास्त्रानुसारित्वान्मुग्धं मनोहरम् । कुलपरम्परायाः समुचितम् ।
आत्मनः स्वस्य भोगयशोधर्महेतुत्वाद्धितम् । जनानामनुरञ्जनेन पेशलं
चतुरं च । अत एवाखिलजनतोषदं तत्स्वराज्यं चिरमनुपाल्य सुदम्पती
लीलापद्मौ प्रारब्धफलभोगान्ते विमुक्तौ विदेहकैवल्यं प्राप्तौ । ननु प्राक्
त्रयाणां जीवन्मुक्ततोक्ता कथमत्र द्वयोरेव मुक्तिरुपसंहृतेति
चेद्राजवासनामय्या द्वितीयलीलायाः पूर्वलीलाप्रतिबिम्बप्रायतया
तदन्तर्भावविवक्षणादिति ॥ १८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने
पद्मनिर्वाणं नामैकोनषष्टितमः सर्गः ॥ ५९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे पद्मनिर्वाणं
नामैकोनषष्टितमः सर्गः ॥ ५९ ॥