अष्टपञ्चाशः सर्गः ५८
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः ।
सङ्कल्पेन रुरोधाशु मनसः स्पन्दनं यथा ॥ १ ॥
इह कालः समाधिस्थलीलादेहविनाशनम् ।
लीलासम्भाषणं राज्ञो जीवनं चेति वर्ण्यते ॥ १ ॥
एवं रामप्रश्नान्समाधाय प्रस्तुतकथाशेषं वर्णयिष्यन्वसिष्ठः
सर्गान्तवक्तव्यार्थे भूमिकां रचयति - एतस्मिन्निति । अमूर्तस्यापि
सङ्कल्पमात्रेण निरोधसम्भावनाय दृष्टान्तमाह - मनस इति ॥ १ ॥
लीलोवाच ।
वद देवि कियान्कालो गतोऽस्यामिह मन्दिरे ।
समाधौ मयि लीनायां महीपाले शवे स्थिते ॥ २ ॥
अस्यां पाद्मसृष्टौ ॥ २ ॥
ज्ञप्तिरुवाच ।
इह मासस्त्वतिक्रान्त इह दास्याविमे तव ।
रक्षार्थं वासगृहके स्वपतोऽवहिते स्थिते ॥ ३ ॥
इहास्यां सृष्टौ इह वासगृहके तव त्वद्देहस्य रक्षार्थं दास्यौ स्थिते इमे
इदानीं स्वपतः । इडभावश्छान्दसः ॥ ३ ॥
शृणु देहस्य किंवृत्तं तवेह वरवर्णिनि ।
शरीरं तव पक्षेण तत्क्लिन्नं बाष्पतां गतम् ॥ ४ ॥
पूर्वं लीलायाः स्वाज्ञानकल्पितस्य स्वानुभवसिद्धस्य देहस्य तत्त्वज्ञानेन
बाधितस्यापि प्रारब्धशेषभोगाय प्रतिभासमानस्यातिवाहिकभावो वर्णितः ।
सम्प्रति परकीयाज्ञानकल्पितस्य परानुभवसिद्धस्य वृत्तान्तं श्रावयति ##-
स्वेदार्द्रं सत् प्राणनिरोधप्रदीप्तजठराग्निना तप्यमानं बाष्पतां
सार्द्रधूमतां गतं प्राप्तम् ॥ ४ ॥
निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम् ।
काष्ठकुद्योपमो जातः शवस्तु हिमशीतलः ॥ ५ ॥
ततः क्रमेण शुष्कं निर्जीवं सत् शवो जातः ॥ ५ ॥
ततो मन्त्रिभिरागत्य मृतैवेयमिति स्वयम् ।
क्लेदालोकाद्विनिर्णीय भूयो निष्कासितं गृहात् ॥ ६ ॥
भूयः क्लेदालोकाद्विशरणोन्मुखतादर्शनान्मृतेति निश्चित्य ॥ ६ ॥
बहुनात्र किमुक्तेन नीत्वा चन्दनदारुभिः ।
चितौ सङ्क्षिप्य सघृतं सहसा भस्मसात्कृतम् ॥ ७ ॥
प्। २७४) १७०
ततो राज्ञी मृतेत्युच्चैः कृत्वा रोदनमाकुलम् ।
परिवारस्तवाशेषं कृतवानौर्ध्वदेहिकम् ॥ ८ ॥
राजशरीरस्य विकारानुदयस्तु ज्ञप्तिसङ्कल्पात्तदीयादृष्टवशाच्च बोध्यः ॥
८ ॥
इदानीं त्वामिहालोक्य सशरीरामुपागताम् ।
परलोकादागतेति महच्चित्रं भविष्यति ॥ ९ ॥
चित्रमाश्चर्य भविष्यति जनानामिति शेषः ॥ ९ ॥
त्वं तु तेन शरीरेण सत्यसङ्कल्पतः सुते ।
दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि ॥ १० ॥
त्वदीयदिव्यशरीरदर्शनादपि परमाश्चर्यं भविष्यतीत्याह - त्वं त्विति ।
तेन आतिवाहिकेन स्ववदातेन स्वच्छतरेण मनुष्यैर्द्रष्टुमशक्येनापि
दृश्यसे इति तदुपरि तव तत्र दर्शनविषये चित्तं भविष्यतीत्यनुषज्यते ॥ १० ॥
यद्वासना त्वमभवो देहं प्रति तदेव ते ।
रूपमभ्युदितं बाले तेन प्राक्सदृशं तव ॥ ११ ॥
ननु दिव्यशरीरस्य पूर्वदेहाकारत्वाभावे तेषां
प्रत्यभिज्ञायोगात्तदाकारमावश्यकं तत्र को हेतुस्तमाह - यदिति ।
यद्वासना यादृशाकारवासना ॥ ११ ॥
स्ववासनानुसारेण सर्वः सर्वं हि पश्यति ।
दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम् ॥ १२ ॥
आतिवाहिकदेहासि सम्पन्ना सिद्धसुन्दरि ।
विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः ॥ १३ ॥
ननु तद्देहवासनत्वे मया स एव देहो राज्ञेव कुतो न प्राप्तस्तत्राह -
आतिवाहिकेति । सिद्धा तत्त्वज्ञानपरिनिष्ठिता सुन्दरी । यदि सर्वथा
विस्मृतस्तर्ह्यातिवाहिकदेहे तदाकारत्वासिद्धिरित्यत उक्तमनपवासन इति ।
नात्यन्तं तद्वासनोच्छिन्नेत्याशयः ॥ १३ ॥
रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः ।
बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे ॥ १४ ॥
तर्ह्यस्याधिभौतिकतापि कुतो नाभूत्तत्राह - रूढेति । परैराधिभौतिक इति
दृश्यमानोऽपि ॥ १४ ॥
रूढातिवाहिकीभावः सर्वो भवति देहकः ।
निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः ॥ १५ ॥
सद्वासनस्य रूढायामातिवाहिकसंविदि ।
देहो विस्मृतिमायाति गर्भसंस्थेव यौवने ॥ १६ ॥
वासनाया अत्यन्तोच्छेदे तु नातिवाहिकदेहकल्पनाप्यस्तीति सूचनाय
सद्वासनस्येत्युक्तम् । देह आधिभौतिकः ॥ १६ ॥
एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे ।
प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना ॥ १७ ॥
तदेहि यावल्लीलायै लीले सङ्कल्पलीलया ।
आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम् ॥ १८ ॥
सङ्कल्पलीलया सत्यसङ्कल्पविलासेन ॥ १८ ॥
श्रीवसिष्ठ उवाच ।
आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते ।
ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः ॥ १९ ॥
इमे आवां विदूरथलीला पश्यतु इति ज्ञप्तया देव्या चिन्तिते सति दीप्ते प्रकाशमाने
ज्ञप्तिलीले दृश्ये बभूवतुः ॥ १९ ॥
सा विदूरथलीलाथ समाकुलविलोचना ।
गृहमालोकयामास तत्तेजःपुञ्जभास्वरम् ॥ २० ॥
चन्द्रबिम्बादिवोत्कीर्णं धौतं हेमद्रवैरिव ।
ज्वालाया द्रवशीतायास्तत्प्रभाद्रवभित्तिमत् ॥ २१ ॥
द्रवशीताया ज्वालाया दीप्तेर्वशाच्चन्द्रबिम्बादुत्कीर्णमिव स्थितम् ।
तदङ्गप्रभाद्रवव्याप्तभित्तिमत्त्वाद्धेतोर्हेमद्रवैर्लिप्तमिव स्थितमित्यर्थः
॥ २१ ॥
गृहमालोक्य पुरतो लीलाज्ञप्ती विलोक्य ते ।
उत्थय सम्भ्रमवती तयोः पादेषु सापतत् ॥ २२ ॥
सम्भ्रमोऽत्र हर्षनिर्भरः ॥ २२ ॥
मज्जयायागते देव्यौ जयतां जीवनप्रदे ।
इह पूर्वमहं प्राप्ता भवत्योर्मार्गशोधिनी ॥ २३ ॥
मम जयाय कल्याणोत्कर्षाय । मार्गशोधिनी परिचारिकेवेति यावत् ॥ २३ ॥
इत्युक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः ।
उपाविशन्विष्टरेषु लतामेरुशिरःस्विव ॥ २४ ॥
ज्ञप्तिरुवाच ।
सुते वद कथं प्राप्ता त्वमिमं देशमादितः ।
किं वृत्तं ते त्वया दृष्टं किमिवाध्वनि कुत्र वा ॥ २५ ॥
आदित आरभ्य वद । ते कुत्र वा अध्वनि किं वा आश्चर्य वृत्तं तत्त्वया कुत्र वा
दृष्टमित्यर्थः ॥ २५ ॥
विदूरथलीलोवाच ।
देवि तस्मिन्प्रदेशे सा जातमूर्च्छा तदाभवम् ।
द्वितीयेन्दोः कलेवाहं कल्पान्तज्वालया हता ॥ २६ ॥
तस्मिन्विदूरथगृहप्रदेशे साहं द्वितीयातिथिस्तत्सम्बन्धिन इन्दोः कला
कल्पान्तज्वालया हतेव मूर्च्छिता अभवम् ॥ २६ ॥
न चेतितं मया किञ्चित्समं विषममेव च ।
ततस्तरलपक्ष्मान्ते विनिमील्य विलोचने ॥ २७ ॥
विलोचने विनिमील्य मूर्च्छायां न चेतितं न किञ्चिज्ज्ञातम् । न
चेतितमित्यननुभूतस्याभिलापायोगात्साक्षिभवेनाज्ञातं [नाज्ञानं
चेतितं इति पाठः] चेतितमेवेति न चिदात्मलोपाशङ्कावसरः ॥ २७ ॥
ततो मरणमूर्छान्ते पश्यामि परमेश्वरि ।
यावदभ्युदितास्म्याशु प्लुता च गगनोदरे ॥ २८ ॥
वासनापरिकल्पितपूर्वदेहसदृशदेहरूपेण यावदभ्युदिता
अध्यासेनाविर्भूतास्मि तावच्चिद्गगनोदरे भूताकाशे प्लुता उत्प्लुता चास्मि ॥ २८ ॥
भूताकाशेऽनिलरथं समारूढास्म्यहं ततः ।
आनीता गन्धलेखेव तेनाहमिममालयम् ॥ २९ ॥
अनिलः प्राणो वातस्कन्धो वा तद्रूपं रथम् । तेनानिलरथेन ॥ २९ ॥
देवि पश्यामि सदनं नायकेनाभ्यलङ्कृतम् ।
दीप्तदीपं विविक्तं च महार्हशयनान्वितम् ॥ ३० ॥
पतिमालोकयामीमं यावदेष विदूरथः ।
शेते कुसुमगुप्ताङ्गो मधु पुष्पवने यथा ॥ ३१ ॥
यावच्छेते तावत्प्रतीक्षमाणा आलोकयामीत्यर्थः । मधुर्वसन्तः ॥ ३१ ॥
प्। २७५) १७०
अथ सङ्ग्रामसंरम्भश्रमार्तोऽयं स्वपित्यलम् ।
इति निद्रा मया सेयं देवेश्वरि न वारिता ॥ ३२ ॥
अयं सङ्ग्रामश्रमार्तः स्वपितीत्यनेनाभिप्रायेण अथ मया अस्य निद्रा न
वारिता ॥ ३२ ॥
अनन्तरमिमं देशं प्राप्ते देव्याविमे त्विति ।
यथानुभूतं कथितं मदनुग्रहकारिणि ॥ ३३ ॥
देव्यौ युवां इमं देशं गृहं प्राप्ते इति मया यथानुभूतं कथितम् ॥ ३३
॥
ज्ञप्तिरुवाच ।
हे हंसहारिगामिन्यौ लीले ललितलोचने ।
उत्थापयामो नृपतिं शवतल्पतलादिमम् ॥ ३४ ॥
इत्युक्त्वा मुमुचे जीवमामोदमिव पद्मिनी ।
ससमीरलताकारस्तन्नासानिकटं ययौ ॥ ३५ ॥
इत्युक्त्वा ज्ञप्तिः प्राक्सङ्कल्पेन निरुद्धं राज्ञो जीवं मुमोच । स जीवः
समीरवददृश्योऽपि रागादिवासनापल्लवितत्वाल्लताकारः ॥ ३५ ॥
घ्राणकोशं विवेशान्तर्वंशरन्ध्रमिवानिलः ।
स्ववासनाशतान्यन्तर्दधदब्धिर्मणीनिव ॥ ३६ ॥
तदेवाह - स्ववासनाशतान्यन्तर्दधदिति ॥ ३६ ॥
अन्तस्थजीवं वदनं तस्य तत्कान्तिमाययौ ।
पद्मस्यावग्रहे पद्मं सुवृष्ट इव वारिणि ॥ ३७ ॥
तस्य पद्मस्य । अवग्रहे वृष्टिप्रतिबन्धे म्लानं पद्मं वारिणि सुवृष्टे
सतीव ॥ ३७ ॥
क्रमादङ्गानि सर्वाणि सरसानि चकाशिरे ।
तस्य पुष्पाकर इव लताजालानि भूभृतः ॥ ३८ ॥
पुष्पाकरे वसन्तकाले ॥ ३८ ॥
अथाबभौ कलापूर्णः स राकायामिवोडुराट् ।
भासयन्भुवनं भूरि वदनेन्दुमरीचिभिः ॥ ३९ ॥
स्फुरयामास सोऽङ्गानि रसवन्ति मृदूनि च ।
कनकोज्ज्वलकान्तीनि पल्लवानीव माधवः ॥ ४० ॥
स्फुरयामास सञ्चालयामास । चिस्फुरोर्णौ इत्यात्वस्य गुणस्य
चाभावश्छान्दसः ॥ ४० ॥
उन्मीलयामास दृशौ विमलालोलतारके ।
हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा ॥ ४१ ॥
हारिण्यौ मनोहरे । सुभगाभोगे सौभग्यलक्षणशालिसंस्थानवत्यौ
दृशौ । भुवनं सरभुवनात्मा विराट्स्वनेत्रभूतौ
चन्द्रार्काविवोन्मीलयामास ॥ ४१ ॥
उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर्वृद्धिमानिव ।
उवाच कः स्थित इति घनगम्भीरनिःस्वनम् ॥ ४२ ॥
लीलाद्वयमथास्याग्रे प्रोवाचादिश्यतामिति ।
स ददर्श पुरो नम्रं लीलाद्वयमवस्थितम् ॥ ४३ ॥
लीलाद्वयं कर्तृ आदिश्यतां आज्ञाप्यतां महाराजेनेत्युवाच ॥ ४३ ॥
समाचारं समाकारं समरूपं समस्थिति ।
समवाक्यं समोद्योगं समानन्दं समोदयम् ॥ ४४ ॥
का त्वं केयं कुतश्चेयमित्याह स विलोकयन् ।
तस्मै लीलाह हे देव श्रूयतां यद्वदाम्यहम् ॥ ४५ ॥
लीला पूर्वलीला आह ॥ ४५ ॥
महिला तव लीलाहं प्राक्तनी सहधर्मिणी ।
वागर्थस्येव सम्पृक्ता स्थिता संश्लेषशालिनी ॥ ४६ ॥
यथा वाक् शब्दोऽर्थस्य वाचकतया सम्पृक्ता तद्वत् ॥ ४६ ॥
इयं लीला द्वितीया ते महिला हेलया मया ।
उपार्जिता त्वदर्थेन प्रतिबिम्बमयी शुभा ॥ ४७ ॥
त्वदर्थेन त्वदुपभोगार्थम् ॥ ४७ ॥
शिरोभागोपविष्टेयं पाहि हैममहासने ।
एषा सरस्वती देव त्रैलोक्यजननी शिवा ॥ ४८ ॥
अस्माकं पुण्यसम्भारैरिह साक्षादुपागता ।
अनयेमे पराल्लोकादिहानीते महीपते ॥ ४९ ॥
इमे आवां पराल्लोकाद्ब्रह्माण्डान्तरात् ॥ ४९ ॥
इत्याकर्ण्य समुत्थाय राजा राजीवलोचनः ।
लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः ॥ ५० ॥
सरस्वति नमस्तुभ्यं देवि सर्वहितप्रदे ।
प्रयच्छ वरदे मेधां दीर्घमायुर्धनानि च ॥ ५१ ॥
मेधां श्रुतपरमार्थधारणावतीं बुद्धिम् ॥ ५१ ॥
इत्युक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता ।
सरस्वत्युवाच ।
त्वं पुत्राभिमतार्थाढ्यो भवेति भवनान्वितः ॥ ५२ ॥
ऐहिकेन दीर्घायुर्धनाद्यभिमतार्थेन आढ्यः सम्पन्नतमः ।
तत्त्वमेधाभिव्यक्तेन भवनेन पारमार्थिकात्मस्वस्वरूपस्थित्या चान्वितो
भव ॥ ५२ ॥
सर्वापदः सकलदुष्कृतदृष्टयश्च
गच्छन्तु वः शममनन्तसुखानि सम्यक् ।
आयान्तु नित्यमुदिता जनता भवन्तु
राष्ट्रे स्थिराश्च विलसन्तु सदैव लक्ष्म्यः ॥ ५३ ॥
दुष्कृतदृष्टयः पापबुद्धयश्च शमं विनाशं गच्छन्तु ।
अनन्तान्यसङ्ख्यान्यभ्युदयसुखानि आयान्तु । तथा वः राष्ट्रे जनता
जनसमूहाः नित्यं मुदिता भवन्तु । लक्ष्म्यः सम्पदः सदैव
विलसन्त्वित्याशिषि लोटः (?) ॥ ५३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
पद्मजीवनं नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे पद्मजीवनं
नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥
प्। २७६) १७१