सप्तपञ्चाशः सर्गः ५७
श्रीवसिष्ठ उवाच ।
ततो ददृशतुस्तत्र शवशय्यैकपार्श्वगाम् ।
लीलां विदूरथस्याग्रे मृतां ते प्रथमागताम् ॥ १ ॥
लीलान्तरेक्षा लीलाया देहमिथ्यात्वमुच्यते ।
योगिनां च शरीरस्य आतिवाहिकतोदयः ॥ १ ॥
अग्रे पूर्व मृतां विदूरथस्य लीलां ते ज्ञप्तिलीले ददृशतुः ॥ १ ॥
प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राकसवासनाम् ।
प्राक्तनाकारसदृशीं सर्वरूपाङ्गसुन्दरीम् ॥ २ ॥
प्राग्वेषत्वादौ हेतुः - प्राक्सवासनामिति [स्ववासनां इति पाठः]
॥ २ ॥
प्राग्रूपावयवस्पन्दां प्रागम्बरपरीवृताम् ।
प्रागभूषणभरच्छन्नां केवलं तत्र संस्थिताम् ॥ ३ ॥
केवलं तत्र पद्मगृहे संस्थिताम् । तत्र स्थितिमात्रमपूर्वमन्यत्सर्व
पूर्वतनमेवेत्यर्थः ॥ ३ ॥
गृहीतचामरां चारु वीजयन्तीं महीपतिम् ।
उद्यच्चन्द्रामिव दिवं भूषयन्तीं महीतलम् ॥ ४ ॥
मौनस्थां वामहस्तस्थवदनेन्दुतया नताम् ।
भूषणांशुलतापुष्पैः फुल्लामिव वनस्थलीम् ॥ ५ ॥
भूषणानामंशुभिः किरणैः । पत्रलताभिः पुष्पैश्च फुल्लां
वनस्थलीमिव स्थिताम् ॥ ५ ॥
कुर्वाणां वीक्षितैर्दिक्षु मालत्युत्पलवर्षणम् ।
सृजन्तीमात्मलावण्यादिन्दुमिन्दुं नभोदितम् ॥ ६ ॥
इन्दुमिन्दुमिति वीप्सा । सर्वानिन्दून् आत्मलावण्यात्सृजन्तीमिवेत्युत्प्रेक्षा ।
नभोदितमिति सन्धिरार्षः । नभसि दितं क्षयेण खण्डितं पुनः सृजन्तीमिति
वा ॥ ६ ॥
नरपालात्मनो विष्णोर्लक्ष्मीमिव समागताम् ।
उदितां पुष्पसम्भारादिव पुष्पाकरश्रियम् ॥ ७ ॥
भर्तुर्वदनके न्यस्तदृष्टिमिष्टविचेष्टिताम् ।
किञ्चित्प्रम्लानवदनां म्लानचन्द्रां निशामिव ॥ ८ ॥
ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते ।
यस्मात्ते सत्यसङ्कल्पे सा न तावत्तथोदिता ॥ ९ ॥
तथा सत्यसङ्कल्पतया सा नोदिता नाविर्भूता ॥ ९ ॥
श्रीराम उवाच ।
तस्मिन्प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् ।
ध्यानेन ज्ञप्तिसहिता गताभूदिति वर्णितम् ॥ १० ॥
लीलाया आवश्यकं प्राक् त्यक्तस्वशरीरान्वेषणं विहाय
विदूरथलीलादर्शनमेव प्रथमं कुतो वर्णितमिति सन्देहाद्रामः पृच्छति
- तस्मिन्निति ॥ १० ॥
किमिदानीं स लीलाया देहस्तत्र न वर्णितः ।
किंसम्पन्नः क्व वा यात इति मे कथय प्रभो ॥ ११ ॥
श्रीवसिष्ठ उवाच ।
क्वासील्लीलाशरीरं तत्कुतस्तस्यास्ति सत्यता ।
केवला भ्रान्तिरेवाभूज्जलबुद्धिर्मराविव ॥ १२ ॥
आतिवाहिकताबुद्ध्युदयेन तत्त्वावबोधेन च बाधितत्वादेव लीलायाः
स्वदेहदर्शनं नच वर्णितम् । येषां त्वज्ञानां दृष्ट्या न बाधितं
तद्दृष्ट्योत्तरसर्गे तद्देहमरणदाहादि वक्ष्यते इति वक्ष्यमाणं निगूह्य
तत्त्वावबोधनाय तन्मिथ्यात्वमेव प्रपञ्चयन् वसिष्ठ उवाच -
क्वासीदित्यादिना ॥ १२ ॥
आत्मैवेदं जगत्सर्वं कुतो देहादिकल्पना ।
ब्रह्मैवानन्दरूपं सद्यत्पश्यसि तदेव चित् ॥ १३ ॥
यथैव बोधे लीलासौ परिणाममिता [परिणाममुपागता इति
पाठष्टीकानुगुणः स्यात्] क्रमात् ।
परे तथैव तस्मात्तद्धिमवद्गलितं वपुः ॥ १४ ॥
यथा येन क्रमेणैव परिणामं परिपाकलक्षणं उपागता प्राप्ता तथा तेन
क्रमेणैव । तस्माद्बोधात्परे ब्रह्मणि । गलितं बाधितम् ॥ १४ ॥
(आतिवाहिकदेहस्य [क्वाचित्कमिदं धनुशिह्नान्तर्गतं
पद्यम्] कालेनाभ्युदितो भ्रमः ।
आधिभौतिकदेहोऽहमिति रज्जुभुजङ्गवत् ॥ १ ॥)
आतिवाहिकदेहेन दृश्यं यदवलोकितम् ।
भूम्यादि नाम तस्यैव कृतं तच्चाधिभौतिकम् ॥ १५ ॥
न केवलं स्वदेहस्याधिभौतिकत्वं गलितं किन्तु भूम्यादिसर्ववस्तूनामपि ।
अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव सत्यम् इति श्रुत्या तेषामपि
स्थौल्यबाधेन आतिवाहिकत्वपरिशेषणादित्याशयेनाह - आतिवाहिकेति ।
आतिवाहिकताबुद्ध्या सूक्ष्मतमसमष्टिमनोमात्रत्वबुद्ध्या तत्त्वदृशा तया
यद्दृश्यमवलोकितं तस्यैव प्राग्भ्रान्त्या भूम्यादिनामकृतं स्थितं
तदेव आधिभौतिकम् ॥ १५ ॥
वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः ।
न शब्देन न चार्थेन सत्यात्मा शशशृङ्गवत् ॥ १६ ॥
अतो न वस्तुत आधिभौतिकं नाम किञ्चिदस्तीत्याह - वास्तवेनेति ॥ १६ ॥
पुंसो हरिणकोऽस्मीति स्वप्ने यस्योदिता मतिः ।
स किमन्विष्यति मृगं स्वमृगत्वपरिक्षये ॥ १७ ॥
तथाच बाधितस्यान्वेषणप्रसक्तिरेव नास्तीत्याह - पुम्स इति ॥ १७ ॥
उदेत्यसत्यमेवाशु तथा सत्यं विलीयते ।
भ्रान्तिर्भ्रमवतो रज्ज्वामपि सर्पभ्रमे गते ॥ १८ ॥
यथा भ्रमतः असत्यमेवोदेति लीयते च तथा भ्रमे गतेऽपि उदेति किमिति काक्वा
योज्यम् ॥ १८ ॥
समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् ।
बीजं विना मृषैवेयं मिथ्यारूढिमुपागता ॥ १९ ॥
तथाचाज्ञमनःसमष्टिकल्पित आधिभौतिकप्रपञ्च इति फलितमित्याह -
समस्तस्येति । जातशब्दः समूहवचनः । इयमेतद्ब्रह्माण्डगतस्थूलभ्रान्तिः
प्रतिब्रह्माण्डभिन्नानन्ताज्ञमनोजातानां मध्ये कस्यचिन्मनोजातस्य
मिथ्यारूढिं वृथाप्रसिद्धिमुपागता मृषैवेत्यर्थः ॥ १९ ॥
प्। २७१) १६८
स्वप्नोपलम्भं सर्गाख्यं स सर्वोऽनुभवन्स्थितः ।
चिरमावृत्तदेहात्मा भूचक्रभ्रमणं यथा ॥ २० ॥
स सर्वोऽज्ञश्चिरं आगमापायेन आवृत्तदेह एवात्मा यस्य स तथाविधः सन्
बालो यथा भूचक्रभ्रमणमनुभवति तद्वत् ॥ २० ॥
श्रीराम उवाच ।
ब्रह्मṁल्लोकैः पुरस्थस्य गच्छतो योगिनो निजम् ।
आतिवाहिकतां देहः कीदृशोऽयं विलोक्यते ॥ २१ ॥
ननु योगिदेहस्याधिभौतिकत्वं यदि नास्ति तर्हि तस्य पुरस्थस्य जीवतो निजं
स्वात्मरूपं गच्छतो मृतस्य वा आतिवाहिकतां प्राप्तो देहो
लोकैर्जनैर्विलोक्यते अयं कीदृशः । नहि आतिवाहिको लोकैर्द्रष्टुं शक्यो
मुक्तिकाले परिशिष्यते वेति रामप्रश्नार्थः ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
देहाद्देहान्तरप्राप्तिः पूर्वदेहं विना सदा ।
आतिवाहिकदेहेऽस्मिन्स्वप्नेष्विव विनश्वरी ॥ २२ ॥
योगिनां द्विविधं मरणम् । एकं प्रारब्धभोगायैच्छिकं
नानादेहकल्पनम् । अपरं सर्वप्रारब्धक्षये विदेहकैवल्यम् । तत्राद्ये तावन्न
पूर्वशेषोऽस्तीत्याह - देहादिति । यथा स्वप्नेषु आतिवाहिकदेहे एकं
मृगादिभावं त्यक्त्वा अपरमनुष्यादिभावकल्पना पूर्वदेहपरिशेषं
विनैव विनश्वरी अनित्या तद्वदित्यर्थः ॥ २२ ॥
यथातपे हिमकणः शरद्व्योम्नि सितोऽम्बुदः ।
दृश्यमानोऽप्यदृश्यत्वमित्येवं योगिदेहकः ॥ २३ ॥
द्वितीयेऽपि स नास्तीति सदृष्टान्तमाह - यथेति । तथाच
शरन्मेघादिवन्मन्दं क्षीयमाणे तस्मिन्कञ्चित्कालं परिशेषभ्रम
इत्यर्थः ॥ २३ ॥
द्रागित्येवाथवा कश्चिद्योगिदेहो न लक्ष्यते ।
योगिभिश्च पुरो वेगात्प्रोड्डीन इव खे खगः ॥ २४ ॥
मन्दं क्षीयते अवश्यं परैर्दृश्यते इत्यपि न नियमः केषाञ्चित्सद्यो
विनाशसङ्कल्पेन तथैव नाशसम्भवादित्याह - द्रागिति । अन्यैर्योगिभिश्च
न लक्ष्यते किं पुनह् पृथग्जनैरित्यर्थः । तथाच जीवद्दशायामपि
जनैस्तद्देहदर्शनमेते मामित्थं पश्यन्त्विति तदीयसत्यसङ्कल्पवशादेव न
देहस्याधिभौतिकत्ववशादिति भावः ॥ २४ ॥
स्ववासनाभ्रमेणैव क्वचित्केचित्कदाचन ।
मृतोऽयमिति पश्यन्ति केचिद्योगिनमग्रगाः ॥ २५ ॥
अथवा योगिनां स्वदृष्ट्या स्वदेहस्यातिवाहिकत्वानुभवेऽपि
तदुपभोजकादृष्टसहकृताज्ञजनवासनया तस्य
भौतिकत्वमरणादिकल्पनसम्भवान्न कश्चिद्विरोध इत्याशयेनाह -
स्ववासनेति । केचिदग्रगाः क्वचिन्मृतोऽयमिति पश्यन्ति क्वचित्तु केचिद्योगिनं
जीवन्तं पश्यन्तीत्यर्थः । अत एव हि प्राग्विदेहमुक्तस्यापि शुकस्य
परीक्षित्सभायां पुनर्दर्शनं भागवतोपदेशादिकं च न विरुध्यत इति
बोध्यम् ॥ २५ ॥
भ्रान्तिमात्रं तु देहात्मा तेषां तदुपशाम्यति ।
सत्यबोधेन रज्जूनां सर्पबुद्धिरिवात्मनि ॥ २६ ॥
किञ्च योगिनां ज्ञानोदयकाले एव देहादेर्बाधान्न जीवनदशायामपि
तद्दृष्ट्या देहोऽस्तीत्याह - भ्रान्तिमात्रमिति ॥ २६ ॥
को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः ।
स्थितं तदेव यदभूदबोधः केवलं गतः ॥ २७ ॥
यदेव परमार्थतः स्थितं तदेव ज्ञानेनाभूत् ॥ २७ ॥
श्रीराम उवाच ।
आतिवाहिकतामेति आधिभौतिक एव किम् ।
उतान्य इति मे ब्रूहि येनोह्य इव भोः प्रभो ॥ २८ ॥
ननु यदि योगिनां देहो बाध्यते तर्हि बाधितस्य
परिणामायोगात्प्रारब्धभोगायातिवाहिकशरीरमन्यदेवोत्पद्यत इति स्यात्
तथाच तस्य जन्मान्तरत्वाज्जीवन्मुक्तत्वानुपपत्तिः न स भूयोऽभिजायते
इत्यादिशास्त्रविरोधश्चेति मन्यमानो रामः पृच्छति - आतिवाहिकतामिति ।
किं योगिन आधिभौतिकदेह एवातिवाहिकतामेत्युतान्य एवातिवाहिकदेह उत्पद्यते ।
आद्ये बाधितस्य परिणामान्तरं सर्वप्रमाणविरुद्धम् । द्वितीये तु ज्ञानस्य
मुक्तिफलत्वहानिरित्युभयथाप्यनुपपत्तेः संशयप्रवाहे अहं उह्ये
प्रवाह्यमान इव न स्थैर्य प्राप्नोमीत्यर्थः ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
बहुशो ह्युक्तमेतत्ते न गृह्णासि किमुत्तम ।
आतिवाहिक एवास्ति नास्त्येवेहाधिभौतिकः ॥ २९ ॥
नासौ परिणामः किन्तु स्थूलबाधे प्रक्सिद्धतदधिष्ठानसूक्ष्मपरिशेष एव
त्रिवृत्करणश्रुत्या सूक्ष्मदेहोपहिते ब्रह्मणि स्थूलाध्यासबोधनात्त्रिणि
रूपाणीत्येव सत्यमिति स्थूलबाधेन सूक्ष्मपरिशेषोक्तेश्च नोक्तदोषावकाश इति
प्रागुक्तस्मारणेन समाधत्ते - बहुश इत्यादिना ॥ २९ ॥
तस्यैवाभ्यसतोऽप्येति [वाभ्यासतो इति पाठः] साधिभौतिकतामतिः
।
यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते ॥ ३० ॥
पूर्वा प्राक्तनी । सैव आतिवाहिकता ॥ ३० ॥
तदा गुरुत्वं काठिन्यमिति यश्च मुधा ग्रहः ।
शाम्येत्स्वप्ननरस्येव बोद्धुर्बोधान्निरामयात् ॥ ३१ ॥
ननु परिणामान्तरं विना देहस्य गुरुत्वकाठिन्यादेः कथं निवृत्तिस्तत्राह
- तदेति । स्वप्ननगरगुरुत्वकाठिन्यादय इव तेऽपि बाध्यन्त एवेत्यर्थः ॥ ३१ ॥
लघुतूलसमापत्तिस्ततः समुपजायते ।
स्वप्ने स्वप्नपरिज्ञानादिव देहस्य योगिनः ॥ ३२ ॥
स्वप्ने स्वप्नपरिज्ञानाद्यथा देहो लघुर्भवेत् ।
तथा बोधादयं देहः स्थूलवत्प्लुतिमान्भवेत् ॥ ३३ ॥
प्लुतिमान् आकाशगमनादियोग्यः ॥ ३३ ॥
अनेकदिनसङ्कल्पदेहे परिणतात्मनाम् ।
अस्मिन्देहे शवे दग्धे तत्रैवास्थितिमीयुषाम् ॥ ३४ ॥
यत्र दृढतरस्थूलवासनानामज्ञानां स्थूलदेहस्य शवीभावदाहादिना
कारणे तिरोभावलक्षणे नाशेऽपि प्राक्तनसूक्ष्मदेहप्राप्तिस्तत्र किं वाच्यं
ज्ञानिनां निर्वासनानां मूलोच्छेदनलक्षणे तद्बाधे जाते
स्वाभाविकसौक्ष्म्यप्राप्तिर्भवतीति कैमुतिकन्यायेनाह - अनेकेति द्वाभ्याम् ।
आस्थित्मास्थां दृढाभिमानलक्षणाम् ॥ ३४ ॥
प्। २७२) १६९
लघुदेहानुभवनमवश्यं भावि वै तथा ।
प्रबोधातिशयादेति जीवतामपि योगिनाम् ॥ ३५ ॥
उदितायां स्मृतौ तत्र सङ्कल्पात्माहमित्यलम् ।
यादृशः स भवेद्देहस्तादृशोऽयं प्रबोधतः ॥ ३६ ॥
तत्र स्वप्ने अहं सङ्कल्पात्मैव न स्थूलात्मा इति स्मृतौ उदितायां सत्याम् ।
ईदृशी च स्मृतिः स्वप्ने ध्यायिनामनुभवसिद्धा न पामराणाम् ।
यादृशः स्वेच्छानभोविहारक्षमः ॥ ३६ ॥
भ्रान्तिरेवमियं भाति रज्ज्वामिव भुजङ्गता ।
किं नष्टमस्यां नष्टायां जातायां किं प्रजायते ॥ ३७ ॥
ननु सर्वजनप्रियस्य देहस्य बाधकं ज्ञानमनर्थ एव नेत्याह -
भ्रान्तिरिति । किं नष्टमिति । नहि शुक्तिरजतबाधे कश्चिच्छोचतीति भावः ॥ ३७ ॥
श्रीराम उवाच ।
अनन्तरं ये वास्तव्या लीलां पश्यन्ति ते यदि ।
तत्सत्यसङ्कल्पतया बुध्यन्ते किमतः प्रभो ॥ ३८ ॥
इत्थं प्रासङ्गिके निर्णीते प्रस्तुतकथाविषय एव रामः पृच्छति -
अनन्तरमिति । पूर्वलीलायां अभिनवलीलायाश्च पद्मगृहे समागमानन्तरं
ये पद्मगृहवास्तव्या जनास्तां लीलामातिवाहिकदेहत्वाद्द्रष्टुमशक्यामपि
इमे जना मां पश्यन्त्विति तस्याः सत्यसङ्कल्पतया हेतुना यदि पश्यन्ति तर्हि
किं बुध्यन्ते किं सैवेयमत्रैव स्थितेति किं वा अपूर्वा देवता काचिदियमागतेति
ज्येष्ठशर्मादिवत्सविस्मया इत्यर्थः ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
एवं ज्ञास्यन्ति ते राज्ञी स्थितेयमिह दुःखिता ।
वयस्या काचिदन्येयं कुतोऽप्यस्या उपागता ॥ ३९ ॥
तत्राद्यमेव कल्पमाश्रित्य वसिष्ठ उवाच - एवमिति । द्वितीयलीलां तर्हि किं
बुध्यन्ते तत्राह - वयस्येति ॥ ३९ ॥
सन्देहः क इवात्रैषां पशवो ह्यविवेकिनः ।
यथादृष्टं विचेष्टन्ते कुत एषां विचारणा ॥ ४० ॥
ननु द्वितीयलीलाया अपूर्वत्वात्केयं कुत आयाता किं सुचारित्रोत पुंश्चली सत्या
असत्या वेत्यादिसन्देहस्तेषां कुतो नाभूत्तत्राह - सन्देह इति ।
दृष्टमनतिक्रम्य यथादृष्टं पुरा दृष्टपदार्थानुसारेणैव
विचेष्टन्ते । व्यवहरन्तीत्यर्थः ॥ ४० ॥
यथा लोष्टो लुठद्वृक्षं वञ्चयित्वाशु गच्छति ।
अज्ञानत्वेऽजपशवस्तथा ह्यस्ति पुरादिकम् ॥ ४१ ॥
तेषां विचारानुदये को हेतुरिति
चेत्स्थूलाभिनिविष्टतासारदार्ढ्यसौक्ष्म्यादिशून्यता च हेतुरिति दृष्टान्तेन
सूचयन्नाह - यथेति । यथा बालेन [बलेन इत्यपि क्वचित्]
वृक्षोपघाताय प्रक्षिप्तो लोष्टः शुष्कपांसुपिण्डो लुठन्तं
स्वमुपघ्नन्तं वृक्षं वञ्चयित्वा प्राप्य न शरवदन्तर्निविशते न वा
कर्दमपिण्डवत्संश्लिष्यते न वा अश्मवदीषत्क्षतं कृत्वा स्वयं वा
पुनरुपघातक्षमोऽवतिष्ठते किन्तु आशु शीघ्रमेव गच्छति विशीर्यते तथा ते
जना अपि न विद्यते ज्ञानं येषां ते अज्ञानास्तद्भावे वस्तुतः अजा अपि पशव
इवेत्यजपशवः पेलवत्वादन्तर्निवेशविचाराक्षमा इत्यर्थः । अथ योऽन्यां
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः इति श्रुतेः । तेषां
विचारानुदये न केवलमज्ञानमेव हेतुः किन्तु तथा पुराणि शरीराणि
आदिपदात्कामकर्मवासनादिकं चैषां तदा तदनुरूपमेव पशुवदेव
वास्तीति युक्त एव विचारानुदय इत्यर्थः । अज्ञपशवः इति पाठे स्वयमज्ञा
अज्ञानां देवानां पशवश्चेति व्याख्येयम् ॥ ४१ ॥
यथा स्वप्नवपुर्बोधान्न जाने क्वेव गच्छति ।
असत्यमेव तद्यस्मात्तथैवेहाधिभौतिकम् ॥ ४२ ॥
ये तु विचारयन्ति तेषां क्रमेण तत्त्वबोधोदयेन
बाधितत्वात्तेष्वाधिभौतिकताप्रत्यय एव नास्ति दूरे
सन्देहादिप्रसक्तिरित्याशयेनोपसंहरति - यथेति । बोधाज्जागरणात् ॥ ४२ ॥
श्रीराम उवाच ।
भगवन्स्वप्नशिखरी प्रबोधे क्वेव गच्छति ।
इति मे संशयं छिन्धि शरदभ्रमिवानिलः ॥ ४३ ॥
दृष्टान्तप्रसङ्गाद्रामः स्वाप्नविषयस्य
मूलाज्ञानबाधमन्तरेणात्यन्तिकबाधासम्भवात्क्वचित्तिरोहितस्यावस्थानमस्
ति तत्क्वेति पृच्छति - भगवन्निति ॥ ४३ ॥
श्रीवसिष्ठ उवाच ।
स्वप्नभ्रमेऽथ सङ्कल्पे पदार्थाः पर्वतादयः ।
संविदोऽन्तर्मिलन्त्येते स्पन्दनान्यनिले यथा ॥ ४४ ॥
स्वाप्नस्य मानोरथिकस्य च प्रपञ्चस्य
जाग्रद्वासनासम्भृताविद्योपहितजीवसंवित्कार्यत्वात्तत्रैव तिरोधानमिति
वसिष्ठः समाधत्ते - स्वप्नेति ॥ ४४ ॥
अस्पन्दस्य यथा वायोः सस्पन्दोऽन्तर्विशत्यलम् ।
अनन्यात्मा तथैवायां स्वप्नार्थः संविदो मलम् ॥ ४५ ॥
अनन्यात्मा तत्त्विकस्वरूपान्तरशून्यः । संविदो मलं
मलवदावरकमज्ञानमेव स्वोपादानं विशतीत्यर्थः ॥ ४५ ॥
स्वप्नाद्यर्थावभासेन संविदेव स्फुरत्यलम् ।
अस्फुरन्ती तु तेनैव यात्येकत्वं तदात्मिका ॥ ४६ ॥
इत्थं च संविदेवाज्ञाता कर्मवशात्कदाचित्स्वाप्नार्थात्मना स्फुरतीति
फलितमित्याह - स्वप्नेति ॥ ४६ ॥
संवित्स्वप्नार्थयोर्द्वित्वं न कदाचन लभ्यते ।
यथा द्रवत्वपयसोर्यथा वा स्पन्दवातयोः ॥ ४७ ॥
विवेके तु न स्वाप्नार्थो नाम संविदन्योऽस्तीत्याह - संविदिति ॥ ४७ ॥
यस्तत्र स्यादिवाबोधस्तदज्ञानमनुत्तमम् ।
सैषा संसृतिरित्युक्ता मिथ्याज्ञानात्मिकोदिता ॥ ४८ ॥
तत्रान्यदिव भासमानं तु केवलमविद्यैव सैव संसार इत्याह - य इति ॥ ४८
॥
सहकारिकारणानामभावे किल कीदृशी ।
संवित्स्वप्नपदार्थानां द्विता स्वप्ने निरर्थिका ॥ ४९ ॥
लोकप्रसिद्धदण्डचक्रादिसहकारिकारणाजन्यत्वादपि
स्वाप्नार्थानामसत्त्वमित्याह - सहकारीति ॥ ४९ ॥
प्। २७३) १६९
यथा स्वप्नस्तथा जाग्रदिदं नास्त्यत्र संशयः ।
स्वप्ने पुरमसद्भाति सर्गादौ भात्यसज्जगत् ॥ ५० ॥
ननु तर्हि सहकारिकारणवतो जाग्रत्प्रपञ्चस्य सत्यत्वं प्राप्तं नेत्याह -
यथेति । सर्गादाविति । यद्यपीदानीं सहकार्यादयः सन्ति तथाप्यादिसर्गे
अज्ञानोपहितहैरण्यगर्भसंविदतिरिक्तं नास्तीति स्वप्नसाम्यमेवेत्यर्थः ॥ ५०
॥
न चार्थो भवितुं शक्यः सत्यत्वे स्वप्नतोदितः ।
संविदो नित्यसत्यत्वं स्वप्नार्थानामसत्यता ॥ ५१ ॥
प्रपञ्चस्य सत्यत्वे संविद्वच्चित्त्वापत्त्या चिद्विष्यत्वव्याघातोऽपि स्यादित्याह ##-
संविदेत्यर्थस्तथा भवितुं सम्भावयितुं शक्यः । किञ्च संवित्सत्तां न
व्यभिचरति अर्थास्तु व्यभिचरन्तीति न सत्या इत्याह - संविद इति ॥ ५१ ॥
झटित्येव यथाकाशं भवति स्वप्नपर्वतः ।
क्रमेण वा तथा बोधे खं भवत्याधिभौतिकम् ॥ ५२ ॥
तत्त्वज्ञानबाध्यत्वादपि न सत्यतेत्याह - झटित्येवेति । आकाशं शून्यं
भवति नाणुमात्रमपि परिशिष्यत इत्यर्थः । बोधे जागरणे तत्त्वज्ञाने च ।
बोधाभ्यासक्रमेण ईश्वराद्यनुग्रहात्सहसैव वा । खं
शून्यमसभवतीत्यर्थः ॥ ५२ ॥
उड्डीनोऽयं मृतो वेति पश्यन्ति निकटस्थिताः ।
ज्ञमातिवाहिकीभूतं स्वस्वभावहता यतः ॥ ५३ ॥
कथं तर्हि लोकैः शुकस्योड्डीय सूर्यमण्डलगमनदर्शनं
दधीचिप्रभृतीनां मृतदेहदर्शनं च तत्राह - उड्डीन इति । ज्ञं
तत्त्वज्ञम् । आतिवाहिकीभूतं बाधिताधिभौतिकशरीरम् । स्वेषां स्वभावः
अनागन्तुकमज्ञानं तेन हता हिंसितप्राया जनाः । तथाच
स्वस्वाज्ञानकल्पितदेह एव तैर्दृश्यते न ज्ञानिदेहः स इत्यर्थः ॥ ५३ ॥
मिथ्यादृष्टय एवेमाः सृष्टयो मोहदृष्टयः ।
मायामात्रदृशो भ्रान्तिः शून्याः स्वप्नानुभूतयः ॥ ५४ ॥
उक्तमर्थमनुमानेनापि द्रढयन्नुपसंहरति द्वाभ्याम् । इमा
द्वैतदृष्टयो मिथ्यादृष्टय एव । यतो मोहदृष्टयः । तथाहि
ऐन्द्रजालिकमायामात्रदृशो भ्रान्तिः प्रसिद्धा । अर्थशून्याः
स्वप्नानुभूतयश्च प्रसिद्धा इत्यर्थः ॥ ५४ ॥
स्वप्नानुभूतय इमा मरणान्तबोधे
भ्रान्त्येतरभ्रमदृशःस्फुटसर्गभासः ।
भान्त्यातिवाहिकशरीरगताः समस्ता
मिथ्योदिता मृगनदीसरणक्रमेण ॥ ५५ ॥
इतरभ्रमदृशः पूर्वपूर्वमेदभ्रमदर्शिनः पुरुषस्य
दृढतरभेदसंस्कारोदयान्मरणान्तबोधे
प्राणोत्क्रमणपूर्वक्षणोत्पन्ने भाविभोगानुकूलार्थप्रतिभासे समस्ताः
स्वप्नानुभूतिसदृशा इमाः स्फुटसर्गभास आतिवाहिकशरीरगता
मनोमात्रनिष्ठा अपि भ्रान्त्या मृगनद्याः सरणं प्रवाहस्तत्क्रमेण
तद्रीत्यैव मिथ्योदिता बाह्या इव भान्ति न तु वस्तुतो मनसो बहिः सन्तीत्यर्थः ॥ ५५
॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो०
स्वप्नार्थस्य विचारो नाम सप्तपञ्चाशः सर्गः ॥ ५७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे स्वप्नार्थस्य
विचारो नाम सप्तपञ्चाशः सर्गः ॥ ५७ ॥