षट्पञ्चाशः सर्गः ५६
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे राजा परिवृत्ताक्षितारकः ।
बभूवैकतनुप्राणशेषः शुष्कसिताधरः ॥ १ ॥
इह तन्नृपजीवस्य वाअना यमपूर्गतिः ।
तयोरनुगमः पूर्वपुरप्राप्तिश्च वर्ण्यते ॥ १ ॥
सर्वेषु करणेषु मूर्च्छितेष्वेकतनुः सूक्ष्मः प्राण एव शेषो देहेऽवशिष्टो
यस्य स तथाविधो बभूव ॥ १ ॥
जीर्णपर्णसवर्णाभः क्षीणपाण्डुमुखच्छविः ।
भृङ्गध्वनितसच्छायश्वासकूजाविकूणितः ॥ २ ॥
भृङ्गस्य ध्वनितं ध्वनिस्तत्सच्छायया श्वासकूजया विकूणितो ध्वनितः ॥
२ ॥
महामरणमूर्च्छान्धकूपे निपतिताशयः ।
अन्तर्निलीननिःशेषनेत्रादीन्द्रियवृत्तिमान् ॥ ३ ॥
महति मरणमूर्च्छालक्षणे अन्धकूपे निपतित इव निमग्न आशयो मनो यस्य ॥
३ ॥
चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः ।
निःस्पन्दसर्वावयवः समुत्कीर्ण इवोपले ॥ ४ ॥
तदुत्तरावस्थामाह - चित्रेति । उपले समुत्कीर्णः प्रतिमादिरिव ॥ ४ ॥
बहुनात्र किमुक्तेन तनुदेशेन तं जहौ ।
प्राणः पिपतिषुं वृक्षं स्व्ं पक्षीवान्तरिक्षगः ॥ ५ ॥
तनुदेशेन अल्पेनैव प्रदेशेनोत्क्रान्त्यर्थमाश्रितेन । तं राजदेहं प्राणो
जहौ । स्वं स्वालयभूतं वृक्षम् ॥ ५ ॥
ते तं ददृशतुर्बाले दिव्यदृष्टी नभोगतम् ।
जीवं प्राणमयी संविद्गन्धलेशमिवानिले ॥ ६ ॥
ते बाले नभोगतं तं जीवं ददृशतुः । प्राणमयी घ्राणजवृत्त्युपहिता
संवित् अनिले स्थितं गन्धलेशं सूक्ष्मगन्धमिव ॥ ६ ॥
सा जिवसंविद्गगने वातेन मिलिता सती ।
खे दूरं गन्तुमारेभे वासनानुविधायिनी ॥ ७ ॥
वातेन आतिवाहिकप्राणेन ॥ ७ ॥
तामेवानुससाराथ स्त्रीद्वयं जीवसंविदम् ।
भ्रमरीयुगलं वातलग्नां गन्धकलामिव ॥ ८ ॥
ततो मुहूर्तमात्रेण शान्ते मरणमूर्च्छने ।
अम्बरे बुबुधे संविद्गन्धलेखेन वायुना ॥ ९ ॥
संवित् जीवसंवित् । वासनामयदेहेन स्वप्न इव बुबुधे ॥ ९ ॥
अपश्यत्पुरुषान्याम्यान्नीयमानं च तैर्वपुः ।
बन्ध्पिण्डप्रदानेन शरीरं जातमात्मनः ॥ १० ॥
वपुर्वासनादेहम् । शरीरं स्थूलदेहं और्ध्वदेहिकेन बन्धुपिण्डप्रदानेन
जातमिवापश्यत् ॥ १० ॥
मार्गे कर्मफलोल्लासमतिदूरतरे स्थितम् ।
वैवस्वतपुरं प्राप जन्तुभिः परिवेष्टितम् ॥ ११ ॥
अतिदूरतरे संवत्सरगम्ये दक्षिणमार्गे स्थितं प्राणिकर्मफलान्युल्लासयति
प्रकटयतीति कर्मफलोल्लासं वैवस्वतपुरं यमनगरं प्राप ॥ ११ ॥
प्राप्तं वैवस्वतपुरमादिदेश ततो यमः ।
अस्य कर्माण्यशुभ्राणि नैव सन्ति कदाचन ॥ १२ ॥
आदिदेश आज्ञप्तवान् कर्माणि विमृश्येत्यर्थाद्गम्यते । अशुभ्राणि श्यामानि
। पापानीति यावत् ॥ १२ ॥
नित्यमेवावदातानां कर्तायं शुभकर्मणाम् ।
भावत्याः सरस्वत्या वरेणायं विवर्धितः ॥ १३ ॥
अवदातानां लोभादिदोषाकलुषाणाम् ॥ १३ ॥
प्राक्तनोऽस्य शवीभूतो देहोऽस्ति कुसुमाम्बरे ।
प्रविशत्वेष तं गत्वा त्यज्यतामिति चेतसा ॥ १४ ॥
इति मदुक्तप्रकारानुसारिणा चेतसा चित्तेन भटैरेष त्यज्यताम् । अत्र
लीलासरस्वत्यावन्तर्हिते यमपुरं प्रविष्टे बहिरेव वा तदागमनप्रतीक्षे स्थिते
इत्यर्थाद्गम्यते ॥ १४ ॥
ततस्त्यक्तो नभोमार्गे यन्त्रोपल इव च्युतः ।
अथ जीवकला लीला ज्ञप्तिश्चेति त्रयं नभः ॥ १५ ॥
क्षेपणीयन्त्राच्च्युतो यन्त्रोपल इव नभोमार्गे त्यक्तः ॥ १५ ॥
पुप्लुवे जीवलेखा तु रूपिण्यौ ते न पश्यति ।
तामेवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम् ॥ १६ ॥
राज्ञो जीवलेखारूपिण्यौ रूपवत्यावपि ते ज्ञप्तिलीले न पश्यति । ते तु तां
पश्यत एवेति तुशब्दाल्लभ्यते ॥ १६ ॥
लोअकान्तराण्यतीत्याशु विनिर्गत्य जगद्गृहात् ।
द्वितीयं जगदासाद्य भूमण्डलमुपेत्य च ॥ १७ ॥
जगद्गृहं ब्रह्माण्डं तस्माद्विनिर्गत्य द्वितीयं जगद्ब्रह्माण्डमासाद्य ॥
१७ ॥
ते द्वे सङ्कल्परूपिण्यौ सङ्गते जीवलेखया ।
पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम् ॥ १८ ॥
प्। २६८) १६७
क्षणाद्विविशतुः स्वैरं वातलेखा यथाम्बुजम् ।
सूर्यभासो यथाम्भोजं सुरभिः पवनं यथा ॥ १९ ॥
अम्बुजमम्भोजमिति प्रवेशकर्मणः शब्दमात्रभेदेऽपि
प्रवेशकर्त्रोर्वातलेखासूर्यभासोर्भेदादुपमानभेदेन मालोपमेयम् ॥ १९ ॥
श्रीराम उवाच ।
ब्रह्मन्प्राप्तः कथमसौ शवस्य निकटं गृहम् ।
कथं तेन परिज्ञातो मार्गो मृतशरीरिणा ॥ २० ॥
विदूरथलीलाजीवस्य दुहित्रा मार्गप्रदर्शनं प्रागुक्तं राजजीवस्य तु नोक्तमिति
तस्य मार्गपरिज्ञाने सन्दिहानो रामः पृच्छति - ब्रह्मन्निति ॥ २० ॥
श्रीवसिष्ठ उवाच ।
तस्य स्ववासनान्तःस्थशवस्य किल राघव ।
तत्सर्वं हृद्गतं कस्मान्नासौ प्राप्नोति तद्गृहम् ॥ २१ ॥
पूर्वशरीरवासनायामनपगतायामेव बलवता प्रारब्धेन मध्ये
जन्मान्तरविभावनाद्भोगेन तत्क्षये
पूर्ववासनोद्भवाद्यथागतमार्गास्फुरणोपपत्तिरित्याशयेनाह वसिष्ठः ##-
तथाविधस्य तस्य जीवस्य तन्मार्गादि सर्व हृद्गतं हृदि स्फुरितम् ॥ २१ ॥
भ्रान्तिमात्रसङ्ख्येयं जगज्जीवकणोदरे ।
वटधानातरुमिव स्थितं को वा न पश्यति ॥ २२ ॥
जीवकणस्य जीवोपाधेः सूक्ष्मस्यान्तःकरणस्योदरे आविर्भूतवासनात्मना
स्थितम् । यथा जीववद्वटधानाभूजलाद्यङ्कुरोदयसामग्रीप्राप्तौ स्वतः
अङ्कुरात्मना जायमानं वटतरुं पश्यति स्वान्तरेवानुभवति तद्वत् ॥ २२ ॥
यथा जीवद्वपुर्बीजमङ्कुरं हृदि पश्यति ।
स्वभावभूतं चिदणुस्त्रैलोक्यनिचयं तथा ॥ २३ ॥
उक्तं दृष्टानं विवृण्वंस्तदेव स्फुटमाह - यथेति ।
त्रैलोक्यनिचयमिति । ज्ञानाज्ञानान्यतरव्यवधानेन सर्वस्य जगतः
साक्षिभास्यत्वमितिसिद्धान्तरहस्यमिति भावः ॥ २३ ॥
नरो यथैकदेशस्थो दूरदेशान्तरस्थितम् ।
सम्पश्यति निधानं स्वं मनसानारतं सदा ॥ २४ ॥
स्वं स्वीयं निधानं निखातधनं सदा पश्यति मनसा अनारतं
भावयन्निति शेषः । तथाच
विधुरपरिभावितकामिनीसाक्षात्कारवद्भावनाप्रचयबलादपि
तद्दर्शनसिद्धिरिति भावः ॥ २४ ॥
तथा स्ववासनान्तस्थमभीष्टं परिपश्यति ।
जीवो जातिशताढ्योऽपि भ्रमे परिगतोऽपि सन् ॥ २५ ॥
श्रीराम उवाच ।
भगवन्पिण्डदानादिवासनारहिताकृतिः ।
कीदृक्सम्पद्यते जीवः पिण्डो यस्मै न दीयते ॥ २६ ॥
यत्प्रागुक्तं बन्धुपिण्डप्रदानेन शरीरं जातमात्मनः अपश्यदिति
तस्यासार्वत्रिकत्वं रामः शङ्कते - भगवन्निति । यस्मै पिण्डो न दीयते
तस्य तद्वासनाहेत्वभावात्स वासनारहिताकृतिर्जीवः कीदृक्कथं सशरीरः
सम्पद्यत इत्यर्थः ॥ २६ ॥
श्रीवसिष्ठ उवाच ।
पिण्डोऽथ दीयते मावा पिण्डो दत्तो मयेति चित् ।
वासना हृदि संरूढा तत्पिण्डफलभाङ्गरः ॥ २७ ॥
तत्पिण्डफलं शरीरसिद्धिस्तद्भाक् । पिण्डदानादिविधिस्तु बन्धुकृत्यबोधको
वस्तुतो बन्धुफलहेतुरपि मृतवासनाफलसंवादादुभयगामिफलः
प्रसिद्ध इति भावः ॥ २७ ॥
यच्चित्तं तन्मयो जन्तुर्भवतीत्यनुभूतयः ।
सदेहेषु विदेहेषु न भवत्यन्यथा क्वचित् ॥ २८ ॥
चित्तमेव हि संसारस्तच्च यत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति
गुह्यमेतत्सनातनमित्यादिप्रत्यक्षश्रुतयो विद्वदनुभवाश्चेत्यर्थः । सदेहेषु
च योगिषु प्रसिद्धाः । अथवा सदेहेषु जीवत्सु विदेहेषु मृतेषु च जीवेषु
क्वचिदपि अयं नियमोऽन्यथा न भवतीत्यर्थः ॥ २८ ॥
सपिण्डोस्मीति संवित्त्या निष्पिण्डोपि सपिण्डवान् ।
निष्पिण्डोस्मीति संवित्त्या सपिण्डोपि नपिण्डवान् ॥ २९ ॥
यथाभावनमेतेषां पदार्थानां हि सत्यता ।
भावना च पदार्थेभ्यः कारणेभ्य उदेति हि ॥ ३० ॥
एतावांस्तु शास्त्रकृतो विशेषः । बन्धुभिः पिण्डेषु दत्तेष्ववश्यं
मृतस्य पिण्डदानवासना उद्भवत्येवेत्याशयेनाह - भावना चेति ॥ ३० ॥
यथा वासनया जन्तोर्विषमप्यमृतायते ।
असत्यः सत्यतामेति पदार्थो भावनात्तथा ॥ ३१ ॥
सर्पादिविषमपि गरुडोपासकस्य गरुडाहं भावनया अमृतायते । जीर्यतीति
यावत् । कण्टकादिवेधे सर्पदंशभ्रान्तावसत्योऽपि स तथा सत्यतया भावनात्
सत्यतां मरणाद्यर्थक्रियाकारितां गच्छति ॥ ३१ ॥
कारणेन विनोदेति न कदाचन कस्यचित् ।
भावना काचिदपि नो इति निश्चयवान्भव ॥ ३२ ॥
कारणसत्यत्वे हि कार्यसत्यता स्यात् । भावना तु न वस्तुसतीति सत्यकारणेन विना
जातं कार्य नास्त्येवेति शुद्धं ब्रह्मैव वस्तुतोऽस्तीति निश्चयवान्भवेत्यर्थः ॥
३२ ॥
कारणेन विना कार्यमा महाप्रलयं क्वचित् ।
न दृष्टं न श्रुतं किञ्चित्स्वयं त्वेकोदयादृते ॥ ३३ ॥
कारणासत्त्वेऽपि कार्योद्भवः किं न स्यात्तत्राह - कारणेनेति । सर्वथा
कार्यसत्तायाः कारणसत्ताधीनत्वस्यैव प्रमाणैः सिद्धेरित्यर्थः ।
ब्रह्मसत्तापि तर्हि किं कारणाधीना नेत्याह - स्वयं त्विति । स्वयं स्वतो
यदेकोदयं नित्यस्वप्रकाशं ब्रह्म तस्मादृते । अनित्यसत्तायामेव
कारणसत्तापेक्षणादिति भावः ॥ ३३ ॥
चिदेव वासना सैव धत्ते स्वप्न इवार्थताम् ।
कार्यकारणतां याति सैवागत्येव तिष्ठति ॥ ३४ ॥
एवं च शुद्धचिन्मात्रमेव भ्रान्त्या वासना वासनादिजगद्रूपेण भासते इति
यः सिद्धन्तः स प्रतिष्ठित इत्याह - चिदेवेति ॥ ३४ ॥
श्रीराम उवाच ।
धर्मो नास्ति ममेत्येव यः प्रेतो वासनान्वितः ।
तस्य चेत्सुहृदा भूरिधर्मः कृत्वा समर्पितः ॥ ३५ ॥
सपिण्डोऽस्मीति संवित्त्येति यत्प्रागुक्तं प्रेतवासनानुसार्येव प्रेतस्य
शरीरारम्भादिफलमिति तत्र करिष्य माणाक्षेपोपयोगितया रामः पृच्छति
- धर्म इति ॥ ३५ ॥
प्। २६९) १६७
तत्तदात्र स किं धर्मो नष्टः स्यादुत वा न वा ।
सत्यार्था वाप्यसत्यार्था भावना किं बलाधिका ॥ ३६ ॥
नष्टः प्रेतवासनाविरोधान्निष्फलः स्याद्वा उत सुहृद्वासनाप्राबल्यान्न वा
निष्फल इत्यर्थः । तत्र सुहृद्वासनाधर्मसत्वात्सत्यार्था ।
प्रेतवासनात्वसत्यार्था । तत्र वासनायां प्राबल्ये किं भोक्तृनिष्ठता
प्रयोजिका उत सत्यार्थता । आद्ये कृतहानदोषः । द्वितीये त्वर्थसत्यता स्यादिति
पूर्वोक्तव्याघात इत्युभयतस्पाशा रज्जुरित्याशयः ॥ ३६ ॥
श्रीवसिष्ठ उवाच ।
देशकालक्रियाद्रव्यसम्पत्त्योदेति भावना ।
यत्रैवाभ्युदिता सा स्यात्स द्वयोरधिको जयी ॥ ३७ ॥
शास्त्रोक्ते देशे काले यथोक्तानुष्ठानेन शास्त्रानुसारिणी सुहृद्वासना
शास्त्रप्रामाण्यात्प्रबला । प्रेतवासना तु केवललौकिकत्वाद्दुर्बलेति शास्त्रमेव
प्राबल्यप्रयोजकं नार्थसत्यत्वमिति गूढाभिसन्धिर्वसिष्ठ समाधत्ते -
दशेति । यत्रैव फलरूपे विषये सा अभ्युदिता स विषयो जयी । स एव भवतीत्यर्थः
॥ ३७ ॥
धर्मदातुः प्रवृत्ता चेद्वासना तत्तया क्रमात् ।
आपूर्यते प्रेतमतिर्न चेत्प्रेतधियाशुभा ॥ ३८ ॥
धर्मदानशास्त्रबलात्प्रेतान्तःकरणे वा तत्काले तादृशधर्मवानहमिति
वासनोत्पत्तिः कल्प्यत इत्याह - धर्मदातुरिति । अवश्यं च शास्त्रबलादेव
प्रेतस्य फललाभ इति वाच्यम् । पाषण्डस्य तस्य [तस्य इति पदं क्वचिन्न
पठ्यते] वेदप्रद्वेषनास्तिकत्वाद्यशुभवासनादूषितधियः
सुहृद्भिर्धर्मदानेऽपि तत्फलाप्राप्तेरित्याशयेनाह - न चेदिति ।
प्राबल्यस्यार्थसत्यत्वप्रयुक्तत्वे तस्यापि धर्मफलापत्तिरिति भावः ॥ ३८ ॥
एवं परस्परजयाज्जयत्यत्रातिवीर्यवान् ।
तस्माच्छुभेन यत्नेन शुभाभ्यासमुदाहरेत् ॥ ३९ ॥
अत एव प्रङ्मया पुरुषप्रयत्नप्राबल्यं प्रसाध्य शुभाभ्यास एव सदा
कार्य इत्युक्तमित्याशयेनाह - एवमिति ॥ ३९ ॥
श्रीराम उवाच ।
देशकालादिना ब्रह्मन्वासना समुदेति चेत् ।
तन्महाकल्पसर्गादौ देअशकालादयः कुतः ॥ ४० ॥
यदि देशकालादिकारणसहकारिसम्पत्त्या धर्मतद्वासनोदयोऽभ्युपगम्यते
तर्हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति श्रुतेरादिसर्गे
देशकालादिसहकार्यभावाद्वासनोत्पत्त्ययोगात्तन्मयजगदुत्पत्तिरेव न
स्यात्तथा च तदैक्षत बहु स्यां प्रजायेय इत्याद्युत्तरश्रुतिविरोध इत्याशयेन
रामः शङ्कते - देशेति ॥ ४० ॥
कारणे समुदेतीदं तैस्तदा सहकारिभिः ।
सहकारिकारणानामभावे वासना कुतः ॥ ४१ ॥
तदा वासना कुतः । कारणे सति हि इदं वासनादिकार्यं समुदेति ॥ ४१ ॥
श्रीवसिष्ठ उवाच ।
एवमेतन्महाबाहो सत्यात्मन्न कदाचन ।
महाप्रलयसर्गादौ देशकालौ न कौचन ॥ ४२ ॥
इष्टमेवेदं त्वया मां प्रत्यापादितम् । न निरोधो न चोत्पत्तिः
तदेतद्ब्रह्मापूर्वमनपरमस्थूलमनण्वह्रस्वम् अथार आदेशो नेति नेति
यत्तदद्रेश्यमग्राह्यम् यत्र नान्यत्पश्यति नान्यच्छृणोति इत्यादिश्रुतिशतस्य
तत्रैव तात्पर्यदर्शनान्महता च प्रयत्नेनास्यैवार्थस्य बुबोधयिषितत्वाच्च
सोऽकामयत इत्यादिसृष्टिश्रुतीनामपि
प्रतीयमानद्वैतानृतत्वोपपादनेनोपक्रान्तभुक्तिफलकनिष्प्रपञ्चात्मव्युत्प्
आदन एव तात्पर्येण सृष्ट्यादौ तात्पर्याभावादित्याशयेनानुमोदमानो
वसिष्ठ उवाच - एवमेतदित्यादिना । महाप्रलयरूपे सर्गस्यादौ पूर्वभूते
सत्यात्मन् परमार्थसत्ये आत्मनि । सुपां सुलुक् इति छान्दसे ङिलुकि न
ङिसम्बुद्ध्योः इति नलोपप्रतिषेधः ॥ ४२ ॥
सहकारिकारणानामभावे सति दृश्यधीः ।
नेयमस्ति न चोत्पन्ना न च स्फुरति काचन ॥ ४३ ॥
दृश्यस्यासम्भवादेव किञ्चिद्यद्दृश्यते त्विदम् ।
तद्ब्रह्मैव स्वचिद्रूपं स्थितमित्थमनामयम् ॥ ४४ ॥
एतच्चाग्रे युक्तिशतैः कथयिष्याम एव ते ।
एतदर्थं प्रयत्नोऽयं वर्तमानकथां शृणु ॥ ४५ ॥
एवं ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम् ।
कीर्णं पुष्पोपहारेण वसन्तमिव शीतलम् ॥ ४६ ॥
एवं प्राग्वर्णितरीत्या पद्मनगरं प्राप्ते ज्ञप्तिलीले पद्ममन्दिरं
ददृशतुः ॥ ४६ ॥
प्रशान्ताचारसंरम्भराजधान्या समन्वितम् ।
मन्दारकुन्दमाल्यादिशवं तत्र समं स्थितम् ॥ ४७ ॥
प्रशान्तराजकार्याचरणसंरम्भया राजधान्या लक्षणया
राजधानीस्थजनेन तत्र गृहे तैर्जनैः समं साकं स्थितं
मन्दारकुन्दमाल्यादिपिहितं शवं च ददृशतुरित्यत्रोत्तरत्र चानुकृष्यते ॥
४७ ॥
मन्दारकुन्दस्रग्दामवृताम्बरबृहच्छवम् ।
शवशय्याशिरःस्थाग्र्यपूर्णकुम्भादिमङ्गलम् ॥ ४८ ॥
अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम् ।
प्रशाम्यद्दीपकालोकश्यामलामलभित्तिकम् ।
गृहैकदेशसंसुप्तमुखश्वाससमीकृतम् ॥ ४९ ॥
पुनस्तद्गृहमेव वर्णयति - अनिवृत्तेत्यादिना । अनिवृत्तन्यनुद्घाटितानि
बृहद्द्वारगवाक्षाणां कठिनार्गलानि दृढविष्कम्भा यत्र ।
प्रशाम्यन्मलिनीभवन्यो दीपकानामालोकस्तेन श्यामला मलिना
वस्तुतस्त्वमला भित्तयो यस्य ॥ ४९ ॥
सम्पूर्णचन्द्रसकलोदयकान्तिकान्तं
सौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि ।
वैरिञ्चपद्ममुकुलान्तरचारुशोभं
निःशब्दमन्दमिव निर्मलमिन्दुकान्तम् ॥ ५० ॥
बहिः सम्पूर्णचन्द्रस्य कलासहितेनोदयेन प्रकाशितत्वात्कान्तम् । अन्तस्तु
वैरिञ्चस्य विरिञ्चालयस्य भगवन्नाभिपद्ममुकुलस्य आन्तरं गर्भ इव
चारुशोभा यस्य । निःशब्दतया मन्दं मूकमिव स्थितम् । इन्दुरिव कान्तं
रम्यं गृहं ददृशतुरित्यर्थः ॥ ५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्र० लीलो०
मरणशयनानन्तरप्रेतव्यवस्था नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मरणशयनानन्तरप्रेतव्यवस्था नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥
प्। २७०) १६८