०५५

पञ्चपञ्चाशः सर्गः ५५

प्रबुद्धलीलोवाच ।

यथैव जन्तुर्म्रियते जायते च यथा पुनः ।
तन्मे कथय देवेशि पुनर्बोधविवृद्धये ॥ १ ॥

इह जीवस्य संसारगतिवैचित्र्यमुच्यते ।
आदिसर्गात्तथेशस्य तत्कर्मानुगुणा स्थितिः ॥ १ ॥

कथितमेव पुनर्विस्तरेण कथयेत्यर्थः । तत्फलं वैराग्यातिशयेन
बोधविवृद्धिः ॥ १ ॥

श्रीदेव्युवाच ।

नाडीप्रवाहे विधुरे यदा वातविसंस्थितिम् ।
जन्तुः प्राप्नोति हि तदा शाम्यतीवास्य चेतना ॥ २ ॥

प्राणवातानां विसंस्थितिं चलनस्वभावविरुद्धां संस्थितिम् । प्रशान्तिमिति
यावत् । व्यञ्जकान्तःकरणोपाधिविलयाच्छाम्यतीव । एतेभ्यो भूतेभ्यः
समुत्थाय तान्येवानु विनश्यति न प्रेत्य सञ्ज्ञास्ति इति श्रुतेरिति भावः ॥ २ ॥

शुद्धं हि चेतनं नित्यं नोदेति न च शाम्यति ।
स्थावरे जङ्गमे व्योम्नि शैलेऽग्नौ पवने स्थितम् ॥ ३ ॥

वस्तुतस्तु न क्वापि शाम्यतीत्याह - शुद्धमिति । अविनाशी वा अरे अयमात्मा
अनुच्छित्तिधर्मा इति श्रुतेरिति भावः ॥ ३ ॥

केवलं वातसंरोधाद्यदा स्पन्दः प्रशाम्यति ।
मृत इत्युच्यते देहस्तदासौ जडनामकः ॥ ४ ॥

एवं च देहधर्म एव मरणं नात्मधर्म इत्याह - केवलमिति ॥ ४ ॥

तस्मिन्देहे शवीभूते वाते चानिलतां गते ।
चेतनं वासनामुक्तं स्वात्मतत्त्वेऽवतिष्ठति ॥ ५ ॥

वाते शरीरवायौ अनिलतां स्वप्रकृतिमहावायुताम् । प्राणस्तु सहतेजसा
प्राज्ञात्मन्येव लीयते । उपाधिविलये जीवोऽपि सह वासनाभिः
परमात्मभावेऽवतिष्ठत इत्याह - चेतनमिति । तथाच श्रुतिः अथास्य प्रयतो
वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति ॥
५ ॥

जीव इत्युच्यते तस्य नामाणोर्वासनावतः ।
तत्रैवास्ते स च शवागारे गगनके तथा ॥ ६ ॥

ननु यदि स्वात्मतत्त्वेऽवतिष्ठते तर्हि मुक्तो ब्रह्मैव स्यादसौ न जीवस्तत्राह ##-
तत्परिच्छिन्नस्य तस्य जीव इति नाम उच्यते नतु वस्तुतो जीवो नाम
ब्रह्मान्योऽस्तीत्यर्थः । अत एव तस्य वासनावशात्स्वस्थान एव
परलोकगमनाद्यध्यासो न वास्तवं गमनाद्यस्तीत्याशयेन
मण्डपाकाशन्यायं स्मारयति - तत्रैवास्त इति ॥ ६ ॥

ततोऽसौ प्रेतशब्देन प्रोच्यते व्यवहारिभिः ।
चेतनं वासनामिश्रमामोदानिलवत्स्थितम् ॥ ७ ॥

ततो देहमरणादेव । नन्वसङ्गे कथं वासनास्थितिस्तत्राह - चेतनमिति ।
यथा सूक्ष्मतरपुष्परेणुनिष्ठ एवामोदः अनिलस्तु
तत्तादात्म्यसंसर्गाध्यासादामोदमिश्रः स्थितस्तद्वदित्यर्थः ॥ ७ ॥

इदं दृश्यं परित्यज्य यदास्ते दर्शनान्तरे ।
स स्वप्न इव सङ्कल्प इव नानकृतिस्तदा ॥ ८ ॥

इदं प्राक्तनं देहादिदृश्यं परित्यज्य देहान्तरादिदर्शनान्तरे यदा आस्ते
तदा स जीवः स्वप्न इव स्वयमेव
स्ववासनामयगमनपरलोकतत्रत्यभोग्यादिनानाकृतिर्भवतीत्यर्थः ॥ ८ ॥

तस्मिन्न्नेव प्रदेशेऽन्तः पूर्ववत्स्मृतिमान्भवेत् ।
तदैव मृतिमूर्च्छान्ते पश्यत्यन्यशरीरकम् ॥ ९ ॥

तमेवाध्यासं क्रमेण वक्तुमुपक्रमते - तस्मिन्नेवेति ।
पूर्ववत्प्राग्जन्मवत् ॥ ९ ॥

आत्मन्यस्ति घटापुष्टमन्यस्य व्योम केवलम् ।
आकाशभूतले साकं साकाशशशिवासरम् [शशिचामरम् इति
पाठः] ॥ १० ॥

ननु तस्मिन्नल्पतरे मरणप्रदेशे देहान्तरकल्पनघटनेऽपि कथं
दूरगमनविस्तृतपरलोकादिसमावेशघटनं तत्राह - आत्मनीति ।
पुष्टं विपुलं केवलं व्योम एकं आकाशभूतले द्वे वा
साकाशशशिवासरं ब्रह्माण्डकोटिलक्षं वा साकं युगपदेवान्तर्निविशतु
तथापि आत्मन्यन्यस्य सर्वस्य प्रपञ्चस्य घटा घटनमस्त्येव ।
आत्मनोऽनन्तत्वान्मायायाश्चाघटितघटनासामर्थ्यसत्त्वादित्यर्थः ।
तथाचात्मस्वरूपपर्यालोचनया अल्पप्रदेशेऽपि जगदन्तरसमावेश उक्तो न
तत्प्रदेशमात्रमपेक्ष्येति भावः । अथवा यदि तस्मिन्प्रदेशे
मार्गपरलोकादिकमस्ति तर्ह्यन्येनापि कुतो नोपलभ्यते तत्राह - आत्मनीति ।
आकाशभूतले द्वे साकाशशशिवासरं सर्व जगच्च मृतपुरुषस्यात्मनि
मेघघटेव पुष्टमस्ति अन्यस्य दृशा तु केवलं व्योम
गृहाकाशमेवास्तीति [आस्तीति न दर्शनप्रसक्तिरिति क्वचित्]
दर्शनप्रसक्तिरित्यर्थः ॥ १० ॥

भवन्ति षड्विधाः प्रेतास्तेषां भेदमिमं शृणु ।
सामान्यपापिनो मध्यपापिनः स्थूलपापिनः ॥ ११ ॥

गतिभेदान्वक्तुं प्रेतान्विभजते - भवन्तीति ॥ ११ ॥

सामान्यधर्मा [छन्दोभङ्गोऽत्र आर्षः] मध्यमधर्मा
चोत्तमधर्मवान् ।
एतेषां कस्यचिद्भेदो द्वौ त्रयोऽप्यथ कस्यचित् ॥ १२ ॥

एतेषां मध्ये कस्यचिद्भेदो विशेषः । स कः । कस्यचिद्द्वौ भेदौ । यथा
कञ्चित्कालं सामान्यपापी तदुत्तरमध्यमपाप्यतिपापी वेति उक्तरीत्या
कस्यचित्त्रयोऽपि क्रमेण व्युत्क्रमेण वा भेदाः ॥ १२ ॥

कश्चिन्महापातकवान्वत्सरं स्मृतिमूर्छनम् ।
विमूढोऽनुभवत्यन्तः पाषाणहृदयोपमः ॥ १३ ॥

तत्र प्रथमं तृतीयस्य गतिमाह - कश्चिदिति । वत्सरं संवत्सरमात्रम् ॥
१३ ॥

ततः कालेन सम्बुद्धो वासनाजठरोदितम् ।
अनुभूय चिरं कालं नारकं दुःखमक्षयम् ॥ १४ ॥

भुक्त्वा योनिशतान्युच्चैर्दुःखाद्दुःखान्तरं गतः ।
कदाचिच्छममायाति संसारस्वप्नसम्भ्रमे ॥ १५ ॥

भुक्त्वेति । तथाच श्रुतिः अथ य इह कपूयचरणा अभ्याशो हयत्ते कपूयां
योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा इति । शमं
महापापफलोपरमम् ॥ १५ ॥

प्। २६४) १६५

अथवा मृतिमोहान्ते जडदुःखशताकुलाम् ।
क्षणाद्वृक्षादितामेव हृत्स्थामनुभवन्ति [तत्स्थाम् इति
पाठः] ते ॥ १६ ॥

क्षणादिति । इदं चान्यदृशा ॥ १६ ॥

स्ववासनानुरूपाणि दुःखानि नरके पुनः ।
अनुभूयाथ योनीषु जायन्ते भूतले चिरात् ॥ १७ ॥

अथ मध्यमपापो यो मृतिमोहादनन्तरम् ।
सशिलाजठरं जाड्यं कञ्चित्कालं प्रपश्यति ॥ १८ ॥

द्वितीयस्य गतिमाह - अथेति । शिला जठरमिव शिलाजठरम् । जाड्यं
मूर्च्छाम् ॥ १८ ॥

ततः प्रबुद्धः कालेन केनचिद्वा तदैव वा ।
तिर्यगादिक्रमैर्भुक्त्वा योनीः संसारमेष्यति ॥ १९ ॥

तदैवेति परदृष्ट्युक्तिः ॥ १९ ॥

मृत एवानुभवति कश्चित्सामान्यपातकी ।
स्ववासनानुसारेण देहं सम्पन्नमक्षतम् ॥ २० ॥

प्रथमस्य गतिमाह - मृत इति । देहं मनुष्यादिशरीरम् । उभाभ्यामेव
मनुष्यलोकमिति श्रुतेः ॥ २० ॥

स स्वप्न इव सङ्कल्प इव चेतति तादृशम् ।
तस्मिन्नेव क्षणे तस्य स्मृतिरित्थमुदेति च ॥ २१ ॥

चेतति अनुभवति । इत्थं प्रागुक्तदिशा ॥ २१ ॥

ये तूत्तममहापुण्या मृतिमोहादनन्तरम् ।
स्वर्गविद्याधरपुरं स्मृत्या स्वनुभवन्ति ते ॥ २२ ॥

षष्ठस्य गतिमाह - ये त्विति । स्मृत्या पुण्यवासनोद्बोधेन ॥ २२ ॥

ततोऽन्यकर्मसदृशं भुक्त्वान्यत्र फलं निजम् ।
जायन्ते मानुषे लोके सश्रीके सज्जनास्पदे ॥ २३ ॥

ततो महापुण्यभोगानन्तरम् । अन्यत्किञ्चिदल्पं पुण्यं पापं वा
सम्भावितं तत्सदृशं तदनुरूपं फलम् । अन्यत्र
इलावृतकिम्पुरुषादिवर्षेषु ॥ २३ ॥

ये च मध्यमधर्माणो मृतिमोहादनन्तरम् ।
ते व्योमवायुवलिताः प्रयान्त्योषधिपल्लवम् ॥ २४ ॥

पञ्चमस्य गतिमाह - ये चेति । ओषधिपल्लवं ओषधिपल्लवप्रधानं
नन्दनचैत्ररथादिवनं किन्नरकिम्पुरुषयक्षादिशरीरेण प्रयान्तीत्यर्थः ॥ २४

तत्र चारुफलं भुक्त्वा प्रविश्य हृदयं नृणाम् ।
रेतसामधितिष्ठन्ति गर्भे जातिक्रमोचिते ॥ २५ ॥

चारु स्वकर्मफलं भुक्त्वान्ते वायुवृष्ट्यादिद्वारा भूमौ व्रीहियवादिषु
प्रविश्यान्नभूता नृणां ब्राह्मणादीनां हृदयं प्रविश्य रेतसां
निषेके तद्द्वारा स्त्रीणां गर्भे अधितिष्ठन्तीत्यर्थः । अथ य इह रमणीयचरणा
अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं
वा वैश्ययोनिं वा इति श्रुतेः ॥ २५ ॥

स्ववासनानुसारेण प्रेता एतां व्यवस्थितिम् ।
मूर्च्छान्तेऽनुभवन्त्यन्तः क्रमेणैवाक्रमेण च ॥ २६ ॥

एतेन चतुर्थस्यापि गतिरुक्तप्रायैवेति मन्यमान उपसंहरति - स्ववासनेति ॥
२६ ॥

आदौ मृता वयमिति बुध्यन्ते तदनुक्रमात् ।
बन्धुपिण्डादिदानेन प्रोत्पन्ना इति वेदिनः ॥ २७ ॥

इदानीं मरणप्रभृति तेषामारोपक्रमं विशिष्य दर्शयति -
आदावित्यादिना । तदनुक्रमाद्दाहदशाहकृत्यक्रमात्प्रोत्पन्ना
निष्पन्नशरीरा इति बुध्यन्त इति सर्वत्रानुषज्यते ॥ २७ ॥

ततो यमभटा एते कालपाशान्विता इति ।
नीयमानः प्रयाम्येभिः क्रमाद्यमपुरं त्विति ॥ २८ ॥

एभिर्यमभटैः क्रमात्पाथेयश्राद्धतर्पितः संवत्सरेण यमपुरं
प्रयामीति ॥ २८ ॥

उद्यानानि विमानानि शोभनानि पुनःपुनः ।
स्वकर्मभिरुपात्तानि दिव्यानीत्येव पुण्यवान् ॥ २९ ॥

पुण्यवानुत्तमपुण्यवान् ॥ २९ ॥

हिमानीकण्टकश्वभ्रशस्त्रपत्रवनानि च ।
स्वकर्मदुष्कृतोत्थानि सम्प्राप्तानीति पापवान् ॥ ३० ॥

इयं मे सौम्यसम्पाता सरणिः शीतशाद्वला ।
स्निग्धच्छाया सवापीका पुरःसंस्थेति मध्यमः ॥ ३१ ॥

सौम्यसम्पाता पद्भ्यां सुखेन गन्तुं योग्येत्यर्थः । सरणिर्मार्गः ।
मध्यमः पुण्यवान् इति बुध्यते ॥ ३१ ॥

अयं प्राप्तो यमपुरमहमेष स भूतपः ।
अयं कर्मविचारोऽत्र कृत इत्यनुभूतिमान् ॥ ३२ ॥

अयमहं यमपुरं प्राप्तः । स सर्वलोकप्रसिद्धो यमः । एष पुरःस्थः । अत्र
यमसभायां चित्रगुप्तादिभिर्मम कर्मविचारः कृतः ॥ ३२ ॥

इति प्रत्येकमभ्येति पृथुः संसारखण्डकः ।
यथासंस्थितनिःशेषपदार्थाचारभासुरः ॥ ३३ ॥

अयं चारोपक्रमः प्रतिपुरुषं स्वप्नवद्भिन्न इत्याह - इतीति । यथा
प्रतीयन्ते तथैव संस्थिताः सत्या इव ये
निःशेषपदार्थास्तदाचारास्तत्तदर्थक्रियाश्च तैर्भासुरः ॥ ३३ ॥

आकाश इव निःशून्ये शून्यात्मैव विबोधवान् ।
देशकालक्रियादैर्घ्यभासुरोऽपि न किञ्चन ॥ ३४ ॥

स्वरूपदृष्ट्यावलोकने तु न किञ्चिदात्मातिरिक्तमस्तीत्याह - आकाश इवेति ।
निःशून्ये निःस्वरूपे स्थितः प्रपञ्चो देशकालादिदैर्घ्येण भासमानोऽपि न
किञ्चन किन्तु सर्वारोपशून्य आत्मैवेत्यर्थः ॥ ३४ ॥

इतिऽयमहमादिष्टः स्वकर्मफलभोजने ।
गच्छाम्याशु शुभं स्वर्गमितो नरकमेव च ॥ ३५ ॥

अहं यमेन स्वकर्मफलभोजने इतोऽस्यां दिशि आदिष्ट आज्ञप्तः । इतो
यमसभातः ॥ ३५ ॥

यः स्वर्गोऽयं मया भुक्तो भुक्तोऽयं नरकोऽथ वा ।
इमास्ता योनयो भुक्ता जायेऽहं संसृतौ पुनः ॥ ३६ ॥

यो यमेन निर्दिष्टः स्वर्गः अयं मया भुक्तः । ता यमनिर्दिष्टाः
पश्वादियोनय इमाः प्रत्यक्षा मया भुक्ताः । अहं संसृतौ
मनुष्यसंसारे पुनर्जाये साम्प्रतं प्रादुर्भवामि ॥ ३६ ॥

अयं शालिरहं जातः क्रमात्फलमहं स्थितः ।
इत्युदर्कप्रबोधेन बुध्यमानो भविष्यति ॥ ३७ ॥

तत्क्रममाह - अयमिति । शालिः शाल्यङ्कुरः ।
काण्डपत्रगर्भमञ्जरीक्रमात्फलं भूत्वा अहं स्थितः । ननु
स्वर्गनरकनानायोनिभोग इव व्रीह्यादिभावोऽपि किमस्याऽनुभवसिद्धो नेत्याह

  • इत्युदर्केति । उदर्के औत्तरकालिके मनुष्यशरीरे
    श्रुतिपुराणादिजन्यप्रबोधेन बुद्ध्यमानोऽयं भविष्यतीत्यर्थः ॥ ३७ ॥

प्। २६५) १६५

संसुप्तकरणस्त्वेवं बीजतां यात्यसौ नरे ।
तद्बीजं योनिगलितं गर्भो भवति मातरि ॥ ३८ ॥

कुतस्तदानीमसौ व्रीह्यादिभावं नानुभवति तत्राह - संसुप्तकरण इति ।
शरीराभावात्सम्मूर्च्छितबाह्यान्तःकरणः । तुशब्द एतद्विशेषसूचनाय ।
एवमेवासौ नरे पितृशरीरे भुक्तान्नद्वारा प्रविष्टो बीजतां रेतोभावं याति ॥
३८ ॥

स गर्भो जायते लोके पूर्वकर्मानुसारतः ।
भव्यो भवत्यभव्यो वा बालको ललिताकृतिः ॥ ३९ ॥

पूर्वकर्मानुसारमेव प्रपञ्चयति - भव्य इति । भव्यः
सुखसौभाग्यरोग्यसाधुवृत्तसम्पन्नस्तद्विपरीतोऽभव्यः ॥ ३९ ॥

ततोऽनुभवतीन्द्वाभं यौवनं मदनोन्मुखम् ।
ततो जरां पद्ममुखे हिमाशनिमिव च्युतम् [च्युताम् इति पाठः] ॥
४० ॥

इन्द्वाभं चन्द्रवदुपचयापच्यधर्मिणं चलं कान्तं च ॥ ४० ॥

ततोऽपि व्याधिमरणं पुनर्मरणमूर्च्छनाम् ।
पुनः स्वप्नवदायातं पिण्डैर्देहपरिग्रहम् ॥ ४१ ॥

बन्धुदत्तैरौर्ध्वदेहिकपिण्डैः ॥ ४१ ॥

याम्यं याति पुनर्लोकं पुनरेव भ्रमक्रमम् ।
भूयो भूयोऽनुभवति नानायोन्यन्तरोदये ॥ ४२ ॥

इत्याजवं जवीभावमामोक्षमतिभासुरम् ।
भूयो भूयोऽनुभवति व्योम्न्येव व्योमरूपवान् ॥ ४३ ॥

इति उक्तप्रकारं आजवं जवीभावं परिवर्तनम् । जु गतौ इति
धातोराङ्पूर्वात्पचाद्यचि च्विः द्वित्वनुकौ तु
बाहुलकात्पृषोदरादित्वाच्छान्दसत्वाद्वा बोध्यौ ॥ ४३ ॥

प्रबुद्धलीलोवाच ।

आदिसर्गे यथा देवि भ्रम एष प्रवर्तते ।
तथा कथय मे भूयः प्रसादाद्बोधवृद्धये ॥ ४४ ॥

नन्वस्तु त्वम्पदार्थे जीवे भ्रान्तिसम्भवादयमध्यारोपक्रमस्तत्पदार्थे
त्वीश्वरे भ्रान्त्ययोगात्कथं जगदध्यारोपक्रम इति तत्परिशुद्धिज्ञानाय लीला
पृच्छति - आदिसर्गे इति ॥ ४४ ॥

श्रीदेव्युवाच ।

परमाथघनं शैलाः परमार्थघनं द्रुमाः ।
परमार्थघनं पृथ्वी परमार्थघनं नभः ॥ ४५ ॥

नेश्वरस्य भ्रान्त्या जगदध्यारोपः किन्तु स्वतः परमार्थघनरूपस्यैव
स्वतो मायाध्यारोपितरूपेण विवर्तः । अनावृतस्वचैतन्येनाध्यस्तभानं न
च भ्रमः किन्तु सत्यत्वेनासत्यप्रतिभासः । ईश्वरस्य सर्वदा
सर्वज्ञत्वात्सर्वार्थप्रतिभासेऽपि स्वरूपाप्रच्युतिबोधबाधितत्वान्न जगति
सत्यताप्रतिभास इति न कश्चिद्दोष इत्यभिप्रेत्य देवी
तत्पदार्थेऽध्यारोपमुपपादयितुमाह - परमार्थघनमित्यादिना ॥ ४५ ॥

सर्वात्मकत्वात्स यतो यथोदेति चिदीश्वरः ।
परमाकाशशुद्धात्मा तत्र तत्र भवेत् तथा ॥ ४६ ॥

उदेति विवर्तते । तथा भवति अस्मद्दृशा न स्वदृशा ॥ ४६ ॥

सर्गादौ स्वप्नपुरुषन्यायेनादिप्रजापतिः ।
यथा स्फुटं प्रकचितस्तथाद्यापि स्थिता स्थितिः ॥ ४७ ॥

स ईश्वर एव स्वप्नकल्पयितृपुरुषन्यायेन जीवसमष्ट्यात्मा
आदिप्रजापतिर्भूत्वा सृज्यसङ्कल्पात्मना यथा भूरादिलोकात्मना विवर्तेन
प्रकचति तथैवाद्यापि तादृशस्थितिसङ्कल्पसत्तया स्थितिर्व्यवस्था स्थिता ॥ ४७ ॥

प्रथमोऽसौ प्रतिस्पन्दः पदार्थानां हि बिम्बकम् ।
प्रतिबिम्बितमेतस्माद्यत्तदद्यापि संस्थितम् ॥ ४८ ॥

साङ्कल्पिकजगत्सत्ताया इयं जगत्सत्ता भिन्नेति पक्षेऽपि
तत्प्रतिबिम्बतुल्यत्वान्मिथ्यैवेत्याह - प्रथममिति । असौ
साङ्कल्पिकप्रकचनरूपः परिस्पन्दो विवर्तः ॥ ४८ ॥

यन्नाम सुषिरं स्थानं देहानां तद्गतोऽनिलः ।
करोत्यङ्गपरिस्पन्दं जीवतीत्युच्यते ततः ॥ ४९ ॥

तत्र स्थावरजङ्गमविभागे निमित्तमाह - यन्नामेति द्वाभ्याम् ॥ ४९ ॥

सर्गादावेवमेवैषा जङ्गमेषु स्थिता स्थितिः ।
चेतना अपि निःस्पन्दास्तेनैते पादपादयः ॥ ५० ॥

निःस्पन्दा निश्चेष्टाः ॥ ५० ॥

चिदाकाशोऽयमेवांशं कुरुते चेतनोदितम् ।
स एव संविद्भवति शेषं भवति नैव तत् ॥ ५१ ॥

एवं चेतनाचेतनविभागकल्पनेऽपि निमित्तमाह - चिदाकाश इति । अयं
चिदाकाश ईश्वर एव चेतनाबुद्ध्युपाधिसूत्रावच्छेदात्प्रतिबिम्बनाद्वा
उदितमाविर्भूतमंशमिवांशमौपाधिकं जीवविभागं कुरुते स एवांशः
संविच्चेतनं भवति शेषं त्वध्यारोपितं तच्चेतनं न भवति
किन्त्वचेतनमेवेत्यर्थः ॥ ५१ ॥

नरोपाधिपुरं प्राप्तं चेतत्यक्षिपुटं नयत् ।
तत्तस्या नाक्षिचिज्जीवं नो जीवत्येव सर्गतः ॥ ५२ ॥

तस्य बुद्धिद्वारैव स्थूलानुप्रवेशं तत्र चक्षुरादिप्राप्त्या
बाह्यव्यवहारयोग्यतां चाह - नरेति । तद्बुद्ध्यनुप्रविष्टचिदाकाशं
तस्याः बुद्धेर्निमित्तान्नरशरीरादिरूपं द्वितीयं सोपाधिभूतं पुरं
नगरं प्राप्तं प्रविष्टं सत्स्वाधिरूढां बुद्धिमक्षिपुटं
चक्षुरादिगोलकस्थानं नयत् प्रापयत्सच्चाक्षुषादिबुद्धिवृत्तिद्वारा
बाह्यार्थांश्चेतति । ननु चक्षुराद्येव साक्षाच्चिदध्यस्तत्वेन चित्त्वाज्जीवभूतं
शरीरमधिष्ठाय व्यवहरतु किं बुद्ध्युपाधिकजीवकल्पनया नेत्याह -
नाक्षीति । अक्षि चक्षुरुपलक्षितमिन्द्रियजातं स्वयमेव चिच्चेतनं जीवभूतं न ।
कुतः । यतः सर्गतः चित्यध्यारोपमात्रत एव किञ्चिदपि न जीवति । तथा सति
घटादीनामपि जीवनप्रसङ्गादिति भावः ॥ ५२ ॥

तथा खं खं तथा भूमिर्भूमित्वेनाप्त्ववज्जलम् ।
यद्यथा चेतति स्वैरं तद्वेत्त्येव तथा वपुः ॥ ५३ ॥

बुद्धेरेव जीवोपाधिता नान्यस्येति नियमे तु
सर्ववस्तुशक्तिव्यवस्थापकचित्सङ्कल्प एव हेतुरित्याशयं स्फुटयन्त्याह ##-
सर्वधारणशक्त्या स्थिता । जलं च अप्त्ववत्
सर्वाप्यायनशक्तिमत्स्थितमित्यर्थः । चेतति सङ्कल्पयति ॥ ५३ ॥

प्। २६६) १६६

इति सर्वशरीरेण जङ्गमत्वेन जङ्गमम् ।
स्थावरं स्थावरत्वेन सर्वात्मा भावयन् स्थितः ॥ ५४ ॥

भावयन्सङ्कल्पयन्संस्तत्कालमेव तथा निवृत्तः [विवृत्तः इति
पाठः] स्थितः ॥ ५४ ॥

तस्माद्यज्जङ्गमं नाम तत्स्वबोधनरूपवत् ।
तेन बुद्धं ततस्तद्वत्तदेवाद्यापि संस्थितम् ॥ ५५ ॥

यथा भावनसिद्धं तदद्याप्यनुवर्तत एवेत्याह - तस्मादिति द्वाभ्याम् ॥
५५ ॥

यद्वृक्षाभिधमाबुद्धं स्थावरत्वेन वै पुनः ।
जडमद्यापि संसिद्धं शिलातरुतृणादि च ॥ ५६ ॥

न तु जाड्यं पृथक्किञ्चिदस्ति नापि च चेतनम् ।
नात्र भेदोऽस्ति सर्गादौ सत्तासामान्यकेन च ॥ ५७ ॥

इत्थं तत्त्वम्पदार्थयोरध्यारोपितभेदजातमपवदन्नाह - न त्वित्यादिना ।
चेतनं चिद्विशिष्टं जडम् । अत्र पदार्थजाते सर्ग उत्पत्तिः । आदिपदात्स्थितिनाशौ
तेषु भेदो नास्ति । असतो भेदाश्रयत्वायोगात् । अस्तु तर्ह्यनुगते सद्वस्तुनि स
नेत्याह - सत्तासामान्यके इति ॥ ५७ ॥

वृक्षाणामुपलानां या नामान्तःस्थाः स्वसंविदः ।
बुद्ध्यादिविहितान्येव तानि तेषामिति स्थितिः ॥ ५८ ॥

ननु यदि चिदेकरसमेव सर्वं तर्हि कथं तत्रैव
तद्विरुधजाड्यरूपनामभेदानुभवः सर्वेषामित्याशङ्क्य
तत्तदान्तरप्रत्यक्संविदि अविद्याध्यस्तबुद्धिकृतकल्पनावशादेवेति रहस्यं
प्रथमं स्थावरेषु दर्शयति - वृक्षाणामिति । उपलानां शैलानाम् ।
तानि जाड्यभेदनामरूपाणि । तेषां वृक्षादीनाम् । बुद्ध्यादिभिरेव विहितानि
कल्पितानि न वस्तुत इति परमार्थस्थितिरित्यर्थः ॥ ५८ ॥

विदोन्तःस्थावरादेर्यास्तस्या बुद्ध्यास्तथा स्थितेः ।
अन्याभिधानास्थानार्थाः सङ्केतैरपरैः स्थिताः ॥ ५९ ॥

उक्तार्थमेव स्पष्टं पुनराह - विद इति । विदः प्रत्यक्संविदः ।
उपाधिकृतभेदाद्बहुवचनम् । तस्याः स्थावरादिबुद्धेस्तथा
स्थावरोऽहमित्यादिव्यवस्थितरूपेणैव स्थितत्वाच्चरेभ्योऽन्ये इत्यभिधानस्य
तथा आस्थानस्य अभिमानस्य च अर्था विषयभूताः सन्तोऽपरैरन्यैर्वृक्षाः
पर्वता इत्यादिशब्दसङ्केतैः स्थिताः ॥ ५९ ॥

कृमिकीटपतङ्गानां या नामान्तःस्वसंविदः ।
तान्येव तेषां बुद्ध्यादीन्यभिधार्थानि कानिचित् ॥ ६० ॥

एवं जङ्गमेष्वप्युक्तं रहस्यं दर्शयति - कृमिकीटेति । याः
स्वसंविदस्तान्येव बुद्ध्यादीन्यभिधार्थानि शब्दार्थभूतानि तत्तदन्यानि
जातानीत्यर्थः ॥ ६० ॥

यथोत्तराब्धिजनता दक्षिणाब्धिजनं स्थितम् ।
न किञ्चिदपि जानाति निजसंवेदनादृते ॥ ६१ ॥

चिति वक्ष्यमाणजाड्यकल्पनस्योक्तार्थस्य चोपपादकं दृष्टान्तमाह -
यथेति । उत्तराब्धितीरस्था जनता जनसमूहः ॥ ६१ ॥

स्वसञ्ज्ञानुभवे लीनास्तथा स्थावरजङ्गमाः ।
परस्परं यदा सर्वे स्वसङ्केतपरायणाः ॥ ६२ ॥

यथायं दृष्टान्तस्तथा सर्वे स्थावरजङ्गमाः स्वप्रत्यक्साक्षिके अनुभवे
लीनाः पर्यवसन्ना नान्यबुद्धिकल्पितं जानन्तीत्यर्थः । अत एव
समुदितव्यवहारे परस्परसङ्केतमपेक्षन्त इत्याह - परस्परमिति ॥ ६२ ॥

यथा शिलान्तःसंस्थानां बहिष्ठानां च वेदनम् ।
असज्जडं च भेकानां मिथोऽन्तस्तस्थुषां तथा ॥ ६३ ॥

अत एव सच्चिद्रूपे
ब्रह्मण्यसत्त्वजाड्यवाय्वाकाशादिकल्पनमप्युपपन्नमित्येतदपि
दृष्टान्तेन दर्शयति - यथेति ॥ ६३ ॥

सर्वं सर्वगतं चित्तं चिद्व्योम्ना यत्प्रचेतितम् ।
सर्गादौ चोपनं वायुः स इहाद्यापि संस्थितः ॥ ६४ ॥

यथायं दृष्टान्तस्तथा प्रलयकाले मायान्तर्लीनं सर्वात्मकं सर्वगतं
च समष्टिचित्तं जगतः सूक्ष्मावस्थारूपं सर्वप्रत्यग्भूतेन चिद्व्योम्ना
सर्गादौ यद्यद्यथा प्रचेतितं तत्तत्तथा अद्यापि स्थितमित्यर्थः । तदेव
प्रपञ्चयति - चोपनं वायुरित्यादिना । चोपनं स्पन्दनम् ॥ ६४ ॥

चेतितं यत्तु सौषिर्यं तन्नभस्तत्र मारुतः ।
स्पन्दात्मेत्यादिसर्गेहाः पदार्थेष्विव चोपनम् ॥ ६५ ॥

सुषिरमेव सौषिर्यं छिद्रम् । तत्र स्पन्दात्मा सर्वक्रियाशक्तिरूपो मारुतः
स्थित इत्यर्थः । इति उक्तलक्षणेन वायुना सर्ववस्तूनां ईहाश्चलनानि । यथा
शुष्कतृणपर्णादिपदार्थेष्वनिलेन चोपनं तद्वत् ॥ ६५ ॥

चित्तं तु परमार्थेन स्थावरे जङ्गमे स्थितम् ।
चोपनान्यनिलैरेव भवन्ति न भवन्ति च ॥ ६६ ॥

अत एव स्थावरजङ्गमयोर्वस्तुतश्चित्तसाम्येऽपि वायुकृतचोपनाचोपनाभ्यां
विशेष इत्याह - चित्तं त्विति । जङ्गमे भवन्ति स्थावरे न भवन्ति च ॥ ६६ ॥

एवं भ्रान्तिमये विश्वे पदार्थाः संविदंशवः ।
सर्गादिषु यथैवासंस्तथैवाद्यापि संस्थिताः ॥ ६७ ॥

अस्मिन्नपि नियमे प्राक्तनी नियतिरेव हेतुरित्याह - एवमिति । सर्गादौ आदिसर्गे ।
एवं सक्रियत्वेनाक्रियत्वेन वा संविदि अंशवः किरणा इव स्फुरिता अद्यापि
तथैव संस्थिताः ॥ ६७ ॥

यथा विश्वपदार्थानां स्वभावस्य विजृम्भितम् ।
असत्यमेव सत्याभं तदेतत्कथितं तव ॥ ६८ ॥

प्रस्तुतं वक्तुं पृष्टप्रसङ्गागतं तत्त्वावबोधनमुपसंहरति -
यथेति ॥ ६८ ॥

अयमस्तं गतः प्रायः पश्य राजा विदूरथः ।
मालाशवस्य पद्मस्य पत्युस्ते याति हृद्गतम् ॥ ६९ ॥

प्राय इति वितर्के । अस्तं गतो मृतः सन् पुष्पमालापिहितय शवभूतस्य
पद्मस्य हृद्गतं पद्मकोशं विविक्षुर्याति गच्छति ॥ ६९ ॥

प्रबुद्धलीलोवाच ।

केन मार्गेण देवेशि यात्येष शवमण्डपम् ।
एनमेवाशु पश्यन्त्यावावां गच्छाव उत्तमे ॥ ७० ॥

एनं पश्यन्त्यावेव आवां आशु गच्छावो गमिष्यावः ॥ ७० ॥

श्रीदेव्युवाच ।

मनुष्यवासनान्तस्थं मार्गमाश्रित्य गच्छति ।
एषोऽहमपरं लोकं दूरं यामीति चिन्मयः ॥ ७१ ॥

मनुष्यवासना पद्मशरीराहंवासना । अन्यथा तत्प्राप्त्ययोगादिति भावः ॥ ७१

मार्गेणैवमनेनैव यावस्तेयेन (?) सम्मतम् ।
परस्परेच्छाविच्छित्तिर्न हि सौहार्दबन्धनी ॥ ७२ ॥

सौहार्द स्नेहस्तेन बन्धनी सम्बन्धहेतुः ॥ ७२ ॥

प्। २६७) १६६

श्रीवसिष्ठ उवाच ।

इति विहितकथागतक्लमायां
परमदृशि प्रसृते विबोधभानौ ।
नृपतिवरसुतामनस्युदारे
विगलितचित्तजडो विदूरथोऽभूत् ॥ ७३ ॥

नृपतिवरसुताया लीलाया उदारे विशुद्धे मनसि परमदृशि
परमार्थदृग्रूपे स्वतत्त्वे इति विहितया कथया गतक्लमायां
निरस्तसर्वसन्तापे सति विबोधलक्षणे भानौ सूर्ये प्रसृते आविर्भूते सति
विदूरथो विगलितेन कारणे प्राज्ञात्मनि विलीनेन चित्तेन जडः
प्रतिसन्धानशून्यो मरणाय मूर्च्छितोऽभूदित्यर्थः ॥ ७३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषुत्पत्तिप्रकरणे
लीलो० संसारमरणावस्थावर्णनं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
संसारमरणावस्थावर्णनं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥