०५४

चतुःपञ्चाशः सर्गः ५४

श्रिदेव्युवाच ।

तस्माद्ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः ।
आतिवाहिकलोकांस्ते प्राप्नुवन्तीह नेतरे ॥ १ ॥

नियतिः सर्वभावानां तथात्र मरणक्रमः ।
भोगः कर्मगुणाचारादायुर्मानं च वर्ण्यते ॥ १ ॥

प्रस्तुतप्रश्नोत्तरमुक्तानुवादेनोपसंहरति - तस्मादित्यादिना ।
वेद्यवेत्तारस्तत्त्वज्ञाः । परं योगाभ्यासजम् ॥ १ ॥

आधिभौतिकदेहत्वं मिथ्याभ्रममयात्मकम् ।
कथं सत्ये स्थितिं याति च्छायास्ते कथमातपे ॥ २ ॥

नन्वातिवाहिकब्रह्मादिलोकेष्वप्यत्रेव चिराभ्यासादाधिकदेहत्वोदयः किं न
स्यात्तत्राह - आधिभौतिकेति । अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव सत्यं
प्राणा वै सत्यं तेषामेष सत्यः इत्यादिश्रुतिषु स्थूलस्य सूक्ष्मे
त्रिवृत्करणादिना अध्यस्तत्वोक्तेः स्थूलापेक्षया सत्यं आतिवाहिकभावे
पुण्योत्कर्षात्प्राप्ते सतीत्यर्थः ॥ २ ॥

लीला विदितवेद्या नो परमं धर्ममाश्रिता ।
केवलं तेन सा भर्तुः कल्पितं नगरं गता ॥ ३ ॥

ननु तर्हि लीलायाः कथं पद्मप्राप्त्युत्तरमाधिभौतिकदेहत्वोद्भवस्तत्राह

  • लीलेति । नो इति नञर्थकमव्ययं देहलीदीपकन्यायेनोभयतः सम्बध्यते ।
    परमं योगजम् ॥ ३ ॥

प्। २५९)

प्रबुद्धलीलोवाच ।

एवमेषा प्रयाताऽस्तु भर्ता पश्य ममाम्बिके ।
प्रवृत्तः प्राणसन्त्यागे कर्तव्यं किमिहाधुना ॥ ४ ॥

देव्युक्तमभ्युपगम्य राजमरणदर्शनसूचितां
जीवननियत्यनियतिमनुपपद्यमानां मन्यमाना लीलोवाच - एवमित्यादिना ।
एषा प्रयातेति यदुपवर्णितं तदेवं त्वदुक्तरीत्या अस्तु उपपद्यताम् । भर्ता
प्राणसन्त्यागे प्रवृत्तः प्रत्यक्षं पश्य । इहास्मिन्विषये तु अधुना किं
कर्तव्यम् । कात्रोपपत्तिरिति यावत् । मया इदानीं किं कर्तव्यमिति तु न
प्रश्नाशयः प्रश्नान्तरैरसङ्गतेः उत्तरे कर्तव्यकार्यानुपदेशाच्च ॥ ४ ॥

भावाभावेषु भावानां कथं नियतिरागता ।
कथं भूयोऽप्यनियतिर्मृतिजन्मादिसूचिता ॥ ५ ॥

भावानां देहादीनां जीवनसौख्यादिभावेषु दुःखदौर्भाग्याद्यभावेषु
च पूर्वं कथं नियतिरागता भूयः पुनरनियतिरप्यागता कथम् ॥ ५ ॥

कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा ।
कथमग्न्यादिषूष्णत्वं पृथ्व्यादौ स्थिरता कथम् ॥ ६ ॥

ननु मास्तु नियतिरनियम एवास्तु तत्राह - कथमिति । स्वभावो जलस्य
शैत्यमग्नेरौष्ण्यमेवेत्यादिः । घटादिपदार्थगा सत्ता भावरूपतानियमः ॥
६ ॥

हिमादिषु कथं शैत्यं का सत्ता कालखादिषु ।
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मदृशः कथम् ॥ ७ ॥

भावस्य सत्यरजतादेर्ग्रहः सङ्ग्रहः अभावस्य शुक्तिरजतादेरुत्सर्गः
भूम्यादेः स्थूलता मन इन्द्रियादेः सूक्ष्मतैवेत्यादिनियमस्य दृशो
दर्शनानि कथम् ॥ ७ ॥

कथमत्यन्तमुच्छ्रायं तृणगुल्मनरादिकम् ।
वस्तु नायात्यनिष्टेऽपि स्थिते स्वोच्छ्रायकारणे ॥ ८ ॥

शालतालादिवदत्यन्तमुच्छ्रायमूर्ध्वदैर्घ्यम् । स्वोच्छ्रायकारणे स्थितेऽपि
इष्टे अनिष्टेऽपि सर्वत्रानियमात्सर्ववस्तुष्वनाश्वास एव किं न स्यादिति भावः ॥ ८

श्रीदेव्युवाच ।

महाप्रलयसम्पत्तौ सर्वार्थास्तमये सति ।
अनन्ताकाशमाशान्तं सद्ब्रह्मैवावतिष्ठते ॥ ९ ॥

भवेत्सर्वत्रैवंरूपैव नियतिर्यदि जगत्सत्यैकस्वभावं स्याद्भवेद्वा
अत्यन्तानियतिर्यद्यनृतं मायामात्रप्रकृतिकं
स्यात्सत्यानृतसंवलिताव्यक्तप्रकृतिकत्वात्तु सत्यानृतस्वभावा
भोजकादृष्टानुगुणचिद्विवर्तव्यवस्थयैव व्यवतिष्ठत इति समाधित्सुर्देवी
तदर्थं शुद्धचिद्विवर्तक्रममाह - महाप्रलयेत्यादिना ॥ ९ ॥

तच्चिद्रूपतया तेजःकणोऽहमिति चेतति ।
स्वप्ने संविद्यथा हि त्वमाकाशगमनादि च ॥ १० ॥

तेजःकणशब्देन शुद्धचिद्व्याप्तत्वाद्भास्वराणि सूक्ष्मभूतान्युच्यन्ते ।
चेतत्यनुभवति ॥ १० ॥

तेजःकणोऽसौ स्थूलत्वमात्मनात्मनि विन्दति ।
असत्यमेव सत्याभं ब्रह्माण्डं तदिदं स्मृतम् ॥ ११ ॥

तेजःकणभूतश्चासावात्मा अनात्मनि आत्मभिन्नत्वेन कल्पिते
जलाद्यावरणेऽन्तःस्थूलत्वं विन्दति कल्पनया लभते तद्यत्स्थूलं तदेवेदं
परिदृश्यमानं ब्रह्माण्डमित्यर्थः ॥ ११ ॥

तत्रान्तर्ब्रह्म तद्वेत्ति ब्रह्मायमहमित्यथ ।
मनोराज्यं स कुरुते स्वात्मैवं तदिदं जगत् ॥ १२ ॥

तत्र ब्रह्माण्डेऽन्तःस्थितं हिरण्यगर्भाख्यं तद्ब्रह्म सह सिद्धं
चतुष्टयमिति प्रागुक्तस्मृतेरन्तर्मुखांशेन ब्रह्माहमिति वेत्ति
बाह्यवासनादूषितांशेनैवं प्राणिकर्मानुगुणसृष्टिसङ्कल्परूपेण
मनोराज्यं च कुरुते तदेव सत्यसङ्कल्पं मनोराज्यमिदं जगदित्यर्थः ॥ १२ ॥

तस्मिन्प्रथमतः सर्गे या यथा यत्र संविदः ।
कचितास्तास्तथा तत्र स्थिता अद्यापि निश्चलाः ॥ १३ ॥

संविदः सङ्कल्पवृत्तयो या यथा यादृशनियमानियमरूपाः कचिता
अद्यापि तथैव निश्चला अव्यत्यस्ताः स्थिताः ॥ १३ ॥

यद्यथा स्फुरितं चित्तं तत्तथा ह्यात्मचिद्भवेत् ।
स्वयमेवानियमतस्तत्तत्स्यान्नेह किञ्चन ॥ १४ ॥

ननु मनसो वैचित्र्याकारवासनामयत्वात्तथा सङ्कल्पोदयेऽप्यात्मचैतन्यस्य
तदनुसारी विवर्तः कुतस्तत्राह - यदिति । स्वयमेवेति । आत्मचितः
स्वच्छोपाध्यनुविधायित्वस्वाभाव्यात् । अतो न किञ्चिदनियतस्वभावमुत्पद्यत
इत्यर्थः ॥ १४ ॥

न च नाम नकिञ्चित्त्वं युज्यते विश्वरूपिणः ।
त्यक्त्वा समस्तसंस्थानं हेम तिष्ठति वै कथम् ॥ १५ ॥

मायाशबले ब्रह्मणि अनादिनियतरूपेण स्थितस्यैव विश्वस्य आविर्भावादपि
नियतिसिद्धिरित्याशयेनाह - न चेति । नकिञ्चित्त्वं सर्ववस्तुशून्यत्वं न
युज्यते प्रलयेऽपीति शेषः । तथा सति कारणत्वव्याघात इत्यर्थान्तरन्यासेन
दर्शयति - त्यक्त्वेति । कटकरुचकपिण्डत्वादिसमस्तसंस्थानं त्यक्त्वा
हेम कथं तिष्ठति सर्वसंस्थानानां तत्रान्तर्भावेन कस्यापि
त्यक्तुमशक्यत्वादित्यर्थः ॥ १५ ॥

सर्गादौ स्वयमेवान्तश्चिद्यथा कचितात्मनि ।
हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया ॥ १६ ॥

यथा शैत्यौष्ण्यादिस्वभावेन कचिता आविर्भूता सा चित्तथा तेन स्वभावेन
नियता अद्याप्यास्ते इत्यर्थः ॥ १६ ॥

तस्मात्स्वसत्तासन्त्यागः सतः कर्तुं न युज्यते ।
यदा चिदास्ते तेनेयं नियतिर्न विनश्यति ॥ १७ ॥

किञ्च मायाशबलं ब्रह्म यदि स्वाधिष्ठानसत्तां जह्यात्तदा
मायान्तर्गतनियतीनामसत्त्वं भवेत् । तत्त्वशक्यमेवेति दर्शयन्नुपसंहरति

  • तस्मादिति । सतो मायाशबलब्रह्मणः । न विनश्यति । नापह्नोतुं शक्येति
    यावत् ॥ १७ ॥

यद्यथा कचितं यत्र व्योमरूप्यपि पार्थिवम् ।
सर्गादौ तस्य चलितुमद्ययावन्न युज्यते ॥ १८ ॥

नियत्यविपर्यासे पृथिव्यादिस्थितिरेव निदर्शनमित्याशयेनाह - यदिति ॥ १८ ॥

या यथा चित्प्रकचिता प्रतिपक्षविदं [प्रतिपक्षचितं इत्युभयत्र]
विना ।
न सा ततः प्रचलति वेदनाभ्यासतः स्वयम् ॥ १९ ॥

जीवननियतेर्मरणनियत्या विपर्यासदर्शनादाह - प्रतिपक्षविदं
[१] विनेति ॥ १९ ॥

प्। २६०)

जगदादावनुत्पन्नं यच्चेदमनुभूयते ।
तत्संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा ॥ २० ॥

इदं च सर्वं मायिकदृशोक्तं परमार्थदृशा तु जगदेव नास्तीति क्व
नियत्याक्षेप इत्याशयेनाह - जगदिति ॥ २० ॥

असत्यमेव सत्याभं प्रतिभानमिदं स्थितम् ।
इति स्वभावसम्पत्तिरिति भूतानुभूतयः ॥ २१ ॥

इतिनिश्चया एव स्वभावसम्पत्तिः स्वरूपावाप्तिः । भूतानुभूतयो
यथास्थितबोधा इत्यर्थः । अथवा इति प्राग्वर्णितरीत्या नियतिः
स्वभावसम्पत्तिर्भूतानुभूतयो जीवनमरणादिपदार्थानुभवाश्चेत्यर्थः ॥
२१ ॥

सर्गादौ या यथा रूढा संवित्कचनसन्ततिः ।
साद्याप्यचलितान्येन स्थिता नियतिरुच्यते ॥ २२ ॥

नियतिशब्दार्थपर्यालोचनेऽप्ययमेवार्थः प्रसिद्ध्यतीत्याशयेनाह -
सर्गादाविति । अन्येन विरोधिना । अचलिता अविपर्यस्ता । आवलिता इति पाठे अन्येन
पदार्थान्तरेण आवलिता मिलिता । यथा जन्मजीवने मरणेन मिलिते एव नियते न
स्वातन्त्र्येण । यथा शैत्योष्ण्ये विरोधित्वेनैव मिलिते । क्रियाकारके
साध्यसाधनभावेनेवेत्यर्थः ॥ २२ ॥

गृहीतव्योमसंवित्तिचिद्व्योम व्योमतां गतम् ।
गृहीतकालतासंविच्चिन्नभः कालतां गतम् ॥ २३ ॥

उक्तमर्थमुदाहृत्य दर्शयति - गृहीतेति । गृहीता सर्गादौ स्वीकृता
व्योमसंवित्तिर्व्योमाकारेण कचनं येन चिद्व्योम्ना तत्तथोक्तम् । एवमग्रेऽपि ॥
२३ ॥

गृहीतजलसंवित्तिचिद्व्योम वारिवत्स्थितम् ।
स्वप्ने यथा हि पुरुषः पश्यत्यात्मनि वारिताम् ॥ २४ ॥

द्रष्ट्रात्मनि दृश्यकल्पना स्वात्मन्येव प्रसिद्धेत्याह - स्वप्ने इति ॥ २४ ॥

स्वप्नचित्संविदाभाति भवत्येषा यथास्थिता ।
चिच्चमत्कारचातुर्यादसदेतत्समूहते ॥ २५ ॥

तथाभावेऽपि यथास्थिता स्वरूपादप्रच्युतैव भवति । तत्कुतः । चिच्चमत्कारः
असङ्गस्वभावता तल्लक्षणाच्चातुर्यात् अथवा चिच्चमत्कारो माया
तच्चातुर्यादसदेव यस्मात्समूहते सत्यतया वितर्कयतीत्यर्थः ॥ २५ ॥

खत्वं जलत्वमुर्वीत्वमग्निवायुत्वमप्यसत् ।
वेत्त्यन्तः स्वप्नसङ्कल्पध्यानेष्विव चितिः स्वयम् ॥ २६ ॥

मरणानन्तरं कर्मफलानुभवनक्रमम् ।
सर्वसन्देहशान्त्यर्थं मृतिश्रेयस्करं शृणु ॥ २७ ॥

इत्थमितरनियतीर्व्यवस्थाप्य जीवननियतिरपि कर्मानुसारेण युगभेदेन च
कालविशेषपरिच्छिन्नैवेश्वरसङ्कल्पेन कॢप्तेति न मरणेन तद्भङ्ग इति
वक्तुं कर्मफलानुभवक्रमनिरूपणं प्रतिजानीते - मरणानन्तरमिति ।
यावन्मरणं प्रारब्धफलैः प्रतिबन्धान्न तद्देहसञ्चितकर्माणि
फलारम्भाय क्षमन्ते मरणे तु सति प्रतिबन्धकापगमाद्यथायोगं
फलारम्भायोपक्रमन्त इति सूचनाय मरणानन्तरमित्युक्तिः । एतच्छ्रवणं
तव सर्वसन्देहशान्त्यर्थ त्वन्मुखेन लोके विख्यातं
सदन्येषामप्यास्तिक्यबुद्धिजननान्मृतौ श्रेयस्करम् ॥ २७ ॥

रूढादिसर्गे नियतिर्यैकद्वित्रिचतुःशता ।
पूर्वादिष्वायुषः पुंसां तस्या मे नियतिं शृणु ॥ २८ ॥

पूर्वं कृतयुगं तदादिषु युगेषु कलावेकशतं द्वापरे द्विशतं त्रेतायां
त्रिशतं कृते चतुःशतमिति सङ्ख्याता पुंसामायुषो या नियतिः सा आदिसर्गे
रूढा तस्या न्यूनाधिकभावेऽप्यावान्तरनियतिं शृण्वित्यर्थः ॥ २८ ॥

देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् ।
न्यूनत्वे चाधिकत्वे च नृणां कारणमायुषः ॥ २९ ॥

आयुर्निमित्तभूतानां कर्मणां देशाद्यशुद्ध्या वैगुण्ये फलस्य
न्यूनताशुद्ध्यतिशयेन फलाधिक्यमित्यर्थः ॥ २९ ॥

स्वकर्मधर्मे ह्रसति ह्रसत्यायुर्नृणामिह ।
वृद्धे वृद्धिमुपायाति सममेव भवेत्समे ॥ ३० ॥

एवं विहितकर्माननुष्ठानमप्यायुःक्षयहेतुरित्याह - स्वकर्मेति । समं
तत्तद्युगनियतसङ्ख्यम् ॥ ३० ॥

बालमृत्युप्रदैर्बालो युवा यौवनमृत्युदैः ।
वृद्धमृत्युप्रदैर्वृद्धः कर्मभिर्मृतिमृच्छति ॥ ३१ ॥

विहिताकरणमिव निषिद्धाचरणमप्यायुःक्षयहेतुरित्याहवालेति ॥ ३१ ॥

यो यथाशास्त्रमारब्धं स्वधर्मनुमतिष्ठति ।
भाजनं भवति श्रीमान्स यथाशास्त्रमायुषः ॥ ३२ ॥

एवं कर्मानुसारेण जन्तुरन्त्यां दशामितः ।
भवन्त्यन्तं गतवतो दृङ्मर्मच्छेदवेदनाः ॥ ३३ ॥

अन्तमायुःसमाप्तिं गतवतः प्राप्तवतः पुरुषस्य दृश्यन्ते
प्रत्यक्षमनुभूयन्त इति दृशस्तथाविधा मर्मच्छेदवेदना भवन्ति ।
सर्वशरीरनाडीभ्यः प्राणानां हृद्युपसंहारकाले
सहस्रवृश्चिकदंशवेदनासमं दुःखं भवतीति पुराणेषु प्रसिद्धम् ॥
३३ ॥

प्रबुद्धलीलोवाच ।

मरणं मे समासेन कथयेन्दुसमानने ।
किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत् ॥ ३४ ॥

वर्णितं मरणदुःखं किं सर्वेषां सममुत केषाञ्चित्सुखमप्यस्ति
मरणोत्तरं च किं सर्वेषां तुल्या गतिरुत योगिनां विशिष्टेति प्रश्नाशयः ॥
३४ ॥

श्रीदेव्युवाच ।

त्रिविधाः पुरुषाः सन्ति देहस्यान्ते मुमूर्षवः ।
मूखोऽथ धारणाभ्यासी युक्तिमान्पुरुषस्तथा ॥ ३५ ॥

प्रश्नाशयानुरूपमेवोत्तरं वक्तुं पुरुषान्विभजते - त्रिविधा इति ।
प्राणमनसोर्नाभिहृदयकण्ठभ्रूमध्ये ब्रह्मरन्ध्रान्तेषु नियतकालं
निरोधो धारणा तदभ्यासी । युक्तिमान् स्वेच्छोत्क्रमणे परकायप्रवेशे
स्वाभिमतलोकप्राप्तिमार्गभूतनाडीद्वारा विशेषनिर्गमनप्रवेशादौ
चाभ्यस्तकौशलो योगी ॥ ३५ ॥

अभ्यस्य धारणानिष्ठो देहं त्यक्त्वा यथासुखम् ।
प्रयाति धारणाभ्यासी युक्तियुक्तस्तथैव च ॥ ३६ ॥

तत्र धारणानिष्ठो मध्यमः क्रमेण युक्तिमभ्यस्य सुखं प्रयाति ।
युक्तियुक्तस्तु तथैव स्थितः सुखं प्रयातीति विशेष इत्यर्थः ॥ ३६ ॥

प्। २६१)

धारणा यस्य नाभ्यासं प्राप्ता नैव च युक्तिमान् ।
मूर्खः स्वमृतिकालेऽसौ दुःखमेत्यवशाशयः ॥ ३७ ॥

मूर्खं लक्षयंस्तस्य दुःखमाह - धारणेति ॥ ३७ ॥

वासनावेशवैवश्यं भावयन्विषयाशयः ।
दीनतां परमामेति परिलूनमिवाम्बुजम् ॥ ३८ ॥

वासनावेशेन वैवश्यमस्वाधीनचित्ततां प्राप्तः अत एव विषयाशयो न
परमार्थाशयः ॥ ३८ ॥

अशास्त्रसंस्कृतमतिरसज्जनपरायणः ।
मृतावनुभवत्यन्तर्दाहमग्नाविव च्युतः ॥ ३९ ॥

तत्रापि विहिताकर्तुर्दुःखातिशयमाह - अशास्त्रेति ॥ ३९ ॥

यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् ।
गच्छत्येषोऽविवेकात्मा तदा भवति दीनधीः ॥ ४० ॥

तादृशदुःखकालोपलक्षकलिङ्गान्याह - यदेति ॥ ४० ॥

परमान्ध्यमनालोको दिवाप्युदिततारकः ।
साभ्रदिग्मण्डलाभोगो घनमेचकिताम्बरः ॥ ४१ ॥

परमान्ध्यं प्राप्य दिवाप्युदितास्तारका यस्य तथाविधोऽनालोको निष्प्रकाशोऽत
एव घनं मेचकितं श्यामीभूतमम्बरमाकाशं यस्य तथाविधः । साभ्रो
दिङ्मण्डलाभोगो यस्य तथाविध इव भवतीति सर्वत्र शेषः ॥ ४१ ॥

मर्मव्यथाविच्छुरितः प्रभ्रमद्दृष्टिमण्डलः ।
आकाशीभूतवसुधो वसुधाभूतखान्तरः ॥ ४२ ॥

विच्छुरितो व्याप्तः ॥ ४२ ॥

परिवृत्तककुप्चक्र उह्यमान इवार्णवे ।
नीयमान इवाकाशे घननिद्रोन्मुखाशयः ॥ ४३ ॥

परिवृत्तं भ्रमत्ककुप्चक्रं दिङ्मण्डलं यस्य ॥ ४३ ॥

अन्धकूप इवापन्नः शिलान्तरिव योजितः ।
स्वयं जडीभवद्वर्णो विनिकृत्त इवाशये ॥ ४४ ॥

आपन्नः पतितः । योजितः प्रवेशितः । स्वदुःखं वक्तुकामोऽपि
वाक्स्तम्भाज्जडीभवन्त उच्चरितुमशक्या वर्णा अक्षराणि यस्य । आशये
हृदये विनिकृत्तश्छिन्न इव ॥ ४४ ॥

पततीव नभोमार्गात्तृणावर्त इवार्पितः ।
रथे द्रुत इवारूढो हिमवद्गलनोन्मुखः ॥ ४५ ॥

तृणान्यावर्तयतीति तृणावर्तो वात्या तत्रार्पित इव । हिमं तुषारशिला
तद्वद्गलने विलीनतायामुन्मुखः ॥ ४५ ॥

व्याकुर्वन्निव संसारं वान्धवानस्पृशन्निव ।
भ्रमितक्षेपणेनेव वातयन्त्र इवास्थितः ॥ ४६ ॥

संसारशब्देन तद्दुःखं लक्ष्यते । तद्व्याकुर्वन्
स्वात्मानमुदाहृत्यान्येभ्यः प्रख्यापयन्निव । क्षेपणेन
शिलाप्रक्षेपयन्त्रेण ॥ ४६ ॥

भ्रमितो वा भ्रम इव कृष्टो रसनयेव वा ।
भ्रमन्निव जलावर्ते शस्त्रयन्त्र इवार्पितः ॥ ४७ ॥

भ्रमे भ्रमियन्त्रे । रसनया रज्वा कृष्ट आकृष्ट इव ॥ ४७ ॥

प्रोह्यमानस्तृणमिव वहत्पर्जन्यमारुते ।
आरुह्य वारिपूरेण निपतन्निव चार्णवे ॥ ४८ ॥

वहति पर्जन्यमारुते आरुह्य वारिपूरेण सह अर्णवे निपतन्निव ॥ ४८ ॥

अनन्तगगने श्वभ्रे चक्रावर्ते पतन्निव ।
अब्ध्रुर्वीविपर्यासदशामनुभवन्स्थितः ॥ ४९ ॥

उर्वीविपर्यासदृशामनुभवन्नब्धिरिवानवरतं पतन्नित्यौत्प्रेक्षिकोपमा ॥
४९ ॥

पतन्निवानवरतं प्रोत्पतन्निव चाभितः ।
सूत्काराकर्णनोद्भ्रान्तपूर्णसर्वेन्द्रियव्रणः ॥ ५० ॥

सूत्कारो निःश्वासध्वनिः ॥ ५० ॥

क्रमाच्छ्यामलतां यान्ति तस्य सर्वाक्षसंविदः ।
यथास्तं [यथा ह्यस्तङ्गतरवौ इति पाठः] गच्छति रवौ
मन्दालोकतया दिशः ॥ ५१ ॥

तस्य मूर्च्छोपक्रमे चक्षुराद्युपरममाह - क्रमादिति । तस्य मुमूर्षोः
सर्वा अक्षसंविदः । श्यामलतां मालिन्यम् ॥ ५१ ॥

पूर्वापरं न जानाति स्मृतिस्तानवमागता ।
यथा पाश्चात्यसन्ध्यान्ते नष्टा दृष्टिर्दिगष्टके ॥ ५२ ॥

तानवं कृशताम् ॥ ५२ ॥

मनः कल्पनसामर्थ्यं त्यजत्यस्य विमोहतः ।
अविवेकेन तेनासौ महामोहे निमज्जति ॥ ५३ ॥

यदैवामोहमादत्ते नादत्ते पवनस्तदा ।
नत्वादत्ते यदा प्राणान्मोहमयात्यलं तदा ॥ ५४ ॥

आमोहमीषन्मूर्च्छाम् । पवनः प्राणो नादत्ते न गृह्णाति । अङ्गानि न
विष्टम्भयतीत्यर्थः । यदा प्राणानप्यसौ नत्वादत्ते न चालयितुं शक्नोति तदा
मोहं गाढमूर्च्छाम् ॥ ५४ ॥

अन्योन्यपुष्टतां यातैर्मोहसंवेदनभ्रमैः ।
जन्तुः पाषाणतामेति स्थितमित्यादिसर्गतः ॥ ५५ ॥

मोहः स्वरूपापरिचयः संवेदनानि विषयवासनाः भ्रमा
अन्यथाप्रतिभासास्तैः । पाषाणतां पाषाणवज्जडताम् । आदिसर्गत आरभ्य इति
एवं नियतं सर्वं [सर्वं स्थितं इति क्वचित्कः पाठः]
स्थितमित्यर्थः ॥ ५५ ॥

प्रबुद्धलीलोवाच ।

व्यथां विमोहं मूर्च्छान्तं भ्रमं व्याधिमचेतनम् ।
किमर्थमयमायाति देहो ह्यष्टाङ्गवानपि ॥ ५६ ॥

शिरःपाणिपादगुह्यनाभिहृदयान्यष्टाङ्गानि तद्वानपि ॥ ५६ ॥

श्रीदेव्युवाच ।

एवं संविहितं कर्म सर्गादौ स्पन्दसंविदा ।
यद्यस्मिन्समये दुःखं कालेनैतावतेदृशम् ॥ ५७ ॥

स्पन्दसंविदा क्रियाशक्तिप्रधानेनेश्वरेण एवं वक्ष्यमाणरूपं
सङ्कल्पलक्षणं कर्म संविहितम् । यद्यस्मिन्समये बाल्ये यौवने वृद्धत्वे
वा एतावता कालेन भोग्यमीदृशं दुःखं मे मदभिन्नस्य जीवस्य स्यादिति
परेणान्वयः ॥ ५७ ॥

स्यान्मे इत्येव संविश्य गुल्मवत्तत्स्वभावजम् ।
वेत्ति चित्तविजृम्भोत्थं नान्यदत्रास्ति कारणम् ॥ ५८ ॥

तत्स्वसङ्कल्पस्वभावजमेव चित्तपरिकल्पिततरुगुल्मवच्चित्तविजृम्भोत्थं
दुःखं स्वयमेव जीवभावेनोपाधौ संविश्य वेत्ति भुङ्क्ते इत्यर्थः ॥ ५८ ॥

यदा व्यथावशान्नाड्यः स्वसङ्कोचविकासनैः ।
गृह्णन्ति मारुतो देहे तदोज्झति निजां स्थितिम् ॥ ५९ ॥

पृष्टं समाधाय प्रतुतमेवाह - यदेत्यादिना । नाड्यः
प्रतप्तपित्तादिरसपूरितत्वाद्यथासञ्चलनं
तद्वशात्स्वसङ्कोचविकासनैर्भुक्तान्नपानरसं वैषम्येण गृह्णन्ति तदा
मारुतः समानवायुर्निजां भुक्तान्नपानादिसमीकरणस्थितिमुज्झत्युत्सृजति ॥
५९ ॥

प्। २६२)

प्रविष्टा न विनिर्यान्ति गताः सम्प्रविशन्ति नो ।
यदा वाता विनाडीत्वात्तदा स्पन्दात्स्मृतिर्भवेत् ॥ ६० ॥

यदा नाडीद्वारेषु प्रविष्टा वाता न विनिर्यान्ति निर्गताश्च न प्रविशन्ति तदा
नाडीव्यापारोपरमे विनाडीत्वाच्चक्षुरादेरस्पन्दात्
स्मृतिरेवान्तर्भवेन्नैन्द्रियकं ज्ञानमित्यर्थः ॥ ६० ॥

न विशत्येव वातो न निर्याति पवनो यदा ।
शरीरनाडीवैधुर्यान्मृत इत्युच्यते तदा ॥ ६१ ॥

तच्च नाडीवैधुर्यं प्राणसञ्चाररोधेन मरणे हेतुरित्याह - न
विशत्येवेति । वातः अपानो देहेन विशत्येव । यदा पवनः प्राणश्च
मुखनासिकाभ्यां न निर्याति तदाऽवश्यं लिङ्गस्योत्क्रमणान्मृत इत्युच्यत
इत्यर्थः ॥ ६१ ॥

आगन्तव्यो मया नाशः कालेनैतावतेति या ।
पूर्वसंविदिता संविद्याति तच्चोदिता मृतिम् ॥ ६२ ॥

तत्रापि प्राक्तनचित्सङ्कल्परूपा नियतिरेव हेतुरित्याह - आगन्तव्य इति ।
पूर्वसंविदिता प्राक्तनसङ्कल्पवती । तच्चोदिता । तादृशनियतिप्रेरिता ॥ ६२ ॥

ईदृशेन मयेहेत्थं भाव्यमित्यादि सर्गजा ।
संविद्बीजकला नाशं न कदाचन गच्छन्ति ॥ ६३ ॥

ननु तस्या नियतेर्नाशे जगद्व्यवस्था भज्येत तत्राह - संविदिति ।
सत्यसङ्कल्पसंविदो बीजकला तत्संस्कारवती माया सा कदाचिदपि काले न
नश्यति मुक्तौ कालेन सहैव तन्निवृत्तेरिति भावः ॥ ६३ ॥

संविदो वेदनं नाम स्वभावोऽव्यतिरेकवान् ।
तस्मात्स्वभावसंवित्तेर्नान्ये मरणजन्मनी ॥ ६४ ॥

आविद्यकजीवसंवित्स्वरूपपर्यालोचनेऽपि यावन्मोक्षं
जन्ममरणाद्यनिवृत्तिरेवेत्याशयेनाह - संविद इति । अव्यतिरेकवान्
व्यतिरेको विश्लेषस्तदभाववान् ॥ ६४ ॥

क्वचिदावृतिमत्सौम्यं क्वचिन्नद्यां जलं यथा ।
क्वचित्सौम्यं क्वचिज्जीवधर्मेदं चेतनं तथा ॥ ६५ ॥

सांसारिकजीवसंवित्प्रवाहं वर्णयति - क्वचिदिति । यथा नद्यां जलं
क्वचिदावृतिमत् कालुष्यवत् क्वचित्तु सौम्यं स्थिरनिर्मलं तथा इदं
चेतनमपि क्वचित्सौम्यं क्वचित्तु जीवधर्मरागद्वेषादिकलुषमित्यर्थः ॥ ६५ ॥

यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः ।
तथा चेतनसत्ताया जन्मानि मरणानि च ॥ ६६ ॥

दूर्वादिलतायाः पर्वाणि ग्रन्थयः ॥ ६६ ॥

न जायते न म्रियते चेतनः [चेतनं पुरुषे क्वचित् इति पाठः]
पुरुषः क्वचित् ।
स्वप्नसम्भ्रमवद्भ्रान्तमेतत्पश्यति केवलम् ॥ ६७ ॥

इदं च सर्वमाविद्यकदृशा । परमार्थदृशा त्वाह - न जायत इति । न
जायते म्रियते वा विपश्चित् इत्यादिश्रुतेरित्यर्थः ॥ ६७ ॥

पुरुषश्चेतनामात्रं स [स कदाचिन्न नश्यति इत्यपि पाठः] कदा
क्वेव नश्यति ।
चेतनव्यतिरिक्तत्वे वदान्यत्किं पुमान्भवेत् ॥ ६८ ॥

अमरणधर्मतां तस्य युक्त्याप्युपपादयति - पुरुष इत्यादिना ।
चेतनव्यतिरिक्त एव पुरुष इति पक्षे अन्यत्किं देहः पुरुषो भवेदुत प्राण
उतेन्द्रियाणि किंवा मन उत बुद्धिरुताहङ्कारचित्ते उत तत्तदधिष्ठातृदेवता
उताविद्या । सर्वेष्वपि पक्षेषु जडैः
पुरुषकार्यप्रकाशाधीनसर्वव्यवहारानिर्वाहात्परिशेषाच्चेतनामात्रमेव
पुरुष इति पक्षः स्थित इत्यर्थः ॥ ६८ ॥

कोऽद्ययावन्मृतं ब्रूहि चेतनं कस्य किं कथम् ।
म्रियन्ते देहलक्षाणि चेतनं स्थितमक्षयम् ॥ ६९ ॥

चेतनस्य तु मरणं न सिध्यति निःसाक्षिकमरणासिद्धेरित्याशयेनाह -
कोऽद्येति । अद्ययावदद्यतनावधिके अनादिसंसारे चेतनं मृतं को
दृष्टवानिति शेषः । एवं किं तन्मरणं विनाश उत देहान्तरप्राप्तिः ।
आद्येऽपि कथं चेतनस्य नाशः किं स्वत उत परतः । नाद्यः । स्वात्मनि
विरोधाभावात् । असङ्गस्य परतस्तदप्रसक्तेरित्यर्थः । द्वितीये त्वाह -
म्रियन्त इति ॥ ६९ ॥

अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते ।
अभविष्यत्सर्वभावमृतिरेकमृताविह ॥ ७० ॥

अनिष्टप्रसञ्जनेनापि चेतनमरणं वारयति - अमरिष्यदिति । प्रतिदेहं
चेतनभेदे मानाभावात् एको देवः सर्वभूतेषु गूढः
इत्यादिश्रुतेश्चैकस्मिंस्तत् तस्मिंश्चेतने मृते सति तदधीनसत्तास्फूर्तिकं
समष्टिव्यष्टिचित्तं नामरिष्यद्वै । किमर्थे काक्वावैशब्दः
नामरिष्यत्किमित्यर्थः । तस्मिंश्च मृते सति
निरुपादानजगत्सत्ताऽयोगादेकमृतौ सर्वभावमृतिदोषो
नाभविष्यत्किमित्यर्थह् ॥ ७० ॥

वासनामात्रवैचित्र्यं यज्जीवोऽनुभवेत्स्वयम् ।
तस्यैव जीवमरणे नामनी परिकल्पिते ॥ ७१ ॥

के तर्हि प्रतीयमाने जीवनमरणे तत्राह - वासनेति । जीवो जीवनम् ॥ ७१ ॥

एवं न कश्चिन्म्रियते जायते न च कश्चन ।
वासनावर्तगर्तेषु जीव लुठति केवलम् ॥ ७२ ॥

उपपादितमुपसंहरति - एवमिति ॥ ७२ ॥

अत्यन्तासम्भवादेव दृश्यस्यासौ च वासना ।
नास्त्येवेति विचारेण दृढज्ञातैव नश्यति ॥ ७३ ॥

अभिमानेन दृढतरो ज्ञाता अन्तःकरणात्मा नश्यत्येवेत्यर्थः ॥ ७३ ॥

अनुदितमुदितं जगत्प्रबन्धं
भवभयतोऽभ्यसनैर्विलोक्य सम्यक् ।
अलमनुदितवासनो हि जीवो
भवति विमुक्त इतीह सत्यवस्तु ॥ ७४ ॥

भवभयतो वैराग्यादिसाधनसम्पन्नोऽधिकारिजीवो
गुरुपूर्वकश्रवणाद्यभ्यसनैर्भ्रान्त्या उदितं जगत्प्रबन्धं
परमार्थतोऽनुदितमेवेति सम्यक्तत्त्वदर्शनतो विलोक्य
मूलोच्छेदादलमत्यन्तमनुदितद्वैतवासनः सन् विमुक्तो भवतीति
विमुक्तात्मस्वरूपमेवेह सत्यवस्तु नान्यदित्यर्थः ॥ ७४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो०
मरणविचारो नाम चतुःपञ्चाशः सर्गः ॥ ५४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मरणविचारो
नाम चतुष्पञ्चाशः सर्गः ॥ ५४ ॥

प्। २६३) १६४